पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | यत्वेन वस्त्राग्रभीषत्सुत्रं छित्सा पिण्डेषु निदध्यात् । यस्मादपहरणमेव पितरो भजन्ते तस्मा- त्पितॄन्निःशेषभागदानेन विसर्जयति ॥ तत्रैव कंचिद्विशेषं विधत्ते- उत्तर आयुषि लोम च्छिन्दीत | पितॄणा ह्येतर्हि नेयः । (७) इति ॥ सा० भाष्यम् – पञ्चाशत्संवत्सरपरिमितं पूर्वमायुरवशिष्टं तूत्तरम् । तस्मिन्त्रयसि वस्त्रदशा न च्छेत्तव्या । किंतु स्वकीयं लोम च्छित्त्वा तत्र निदध्यात् । यस्मादयमास- नमरण चापितॄणामपि समीपवर्ती तस्मात्तस्मिन्वयस्येतदुचितम् ॥ विधत्ते- 2 नमस्करोति । नमस्कारो हि पितॄणाम् । इति || सा० भाष्यम् – अत्यन्तं प्रिय इति शेषः || तन्त्र मन्त्रे विनियु- नमो वः पितरो रसाय | नमो वः पितरः शुष्माय | नमो वः पितरो जीवाय | नमो वः पितरः स्वधायें | नमो वः पितरो मन्यवे | नमो वः पितरो घोराय | पितरो नमो वः । य एतस्मिँल्लोके स्थ ( ८ ) | युष्मास्तेऽनु । येऽस्मिँल्लोके । मां तेऽनु । एतस्मिल्लीके स्थ | यूयं तेषां वसिष्ठा भूयास्त | येऽ स्मिँल्लोके । अहं तेषां वसिष्ठो भूयासमित्याह । वसिष्टः समानानां भवति । य एवं विद्वान्पितृभ्यः करोति । इति ॥ सा० भाष्यम् – हे पितरो वो युष्माकं यो रसो युष्माभिर्भुज्यमानः क्षीरादिस्तस्मै नमोऽस्तु । एवं सर्वत्र योज्यम् । शुष्मशब्दो बलवाची । जीवो देहाध्यक्षः । स्वधा तदीया स्त्री । पितरो हि स्ववायां प्रीतिं कुर्वन्ति । मन्युः कोपः । घोरो मारणादिव्यापारः । हे पितरो यूयमेतस्मिँलोके स्थितास्तेभ्यो युष्मभ्यं नमः । ये तु युष्मत्तोऽन्ये परकीयपितरोऽ स्मिल्लकै वर्तन्ते ते सर्वे मामनुवर्तन्ताम् | ये यूयं परकीयैः पितृभिः सहास्मिँल्लोके स्थितास्ते यूयं तेषां परकीयपितॄणां वसिष्ठा अतिशयेन निवासहेतवो भूयास्त | ये तु मनुष्या अस्मिल्ले के बर्तन्ते तेषां सर्वेषामहं युष्मत्प्रसादादतिशयेन निवासहेतुर्भूयासम् । इत्येतं मन्त्रं नमस्कुर्थन्पठेत् । यः पुमानेवं नमस्कारमन्त्रं विद्वान्पित्रर्थं पिण्डदानं करोति स एव समानानां मनुष्याणामतिशयेन निवासहेतुर्भवति ॥ पिण्डपितृयज्ञं प्रशंसति --- एष वै मनुष्याणां यज्ञः ( ८ ) | देवानां वा इतरे यज्ञाः । तेन वा एच- पितृलोके चरति । इति ॥ .