पृष्ठम्:अग्निपुराणम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदशाधिकदिशततमोऽध्यायः । सध्याविधिः। अग्निवाच । ओङ्कारं यो विजानाति स योगी स हरिः पुमान । ओङ्कारमभ्यसेत्तस्मान्मन्बसारन्तु सर्वदं ॥ १ ॥ सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः सातः । तेन सम्परिपूर्ण यत्तत् पूर्ण कम्म नेतरत् ॥ २ ॥ ओङ्कारपूर्विकास्तिस्री महाव्याहतयोऽव्ययाः । त्रिपदा चैव सावित्री विजयं ब्रह्मणो मुखं ॥ ३॥ योऽधीतेऽहन्यहन्येतास्त्रोणि वर्षाण्यतन्वितः । स अनपरमभ्येति वायुभूतः खमूर्तिमान् ॥ ४ ॥ एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः। साविधास्त परमास्ति मौनात् सत्यं विशिष्यते ॥ ५॥ सप्तावर्मा पापहरा दशभिः प्रापयेहिवं । विशावर्ता त सा देवो नयते होश्वरालयं ॥ ६ ॥ अष्टोत्तरशतं जघा तौणः संसारसागरात् । रुद्रकुष्माण्ड जायेभ्यो गायत्रो सु विशिष्यते ॥ ७॥ म गायत्राः परजम्य न व्याकृतिसमं हुतं । गायत्रयाः पादमयईमृगईमृचमेव वा ॥८॥ ब्रह्महत्या सुरापानं सुवर्णस्तयमेव च । गुरुदारागमवैव जप्येनैव पुनाति सा