(मन्वादिप्रमाणम् )
चतुर्दश स्युर्मनवो विधेर्दिने युगानि चैषां पृथगेकसप्ततिः । |
अथ मन्वन्तरादीनां प्रमाणमाह-चतुर्दश स्युरिति। विधेर्दिने कल्पे चतुर्दश मनव: स्युः। तेषां मनूनां पृथक् प्रत्येकं एकसप्ततिर्युगानि च स्युः। मनुसृष्टितः स्वायंभुवाख्यस्य मनोः सृष्टेः प्राग युगत्रयं गतम् । एषां मनूनां प्रलयात् संहारात् परं तथा युगत्रयं भविष्यत् । विधेर्दिने इत्यनेन सृष्ट्यब्दकल्पनमनुचितमिति द्योतितम् । यत: सुरपितृमनुजानां सूर्यदर्शनकालो दिनं, तददर्शनकालो रात्रिः । ततो विधेरपि सूर्यस्य सृष्टयनन्तरं तदर्शनकालो दिनं, सूर्यसंहारात् परं तददर्शनकालो रात्रिः। स्वायंभुवमनोः' सृष्टि: कल्पे कञ्चित्कालमतीत्यैवेति हि पुराणप्रसिद्धिः । तथा च भागवते दर्शनं विदुरमैत्रेयसंवादे---
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् । |
इति। युगावसाने सर्वेषां भगणपरिपूर्तिरपि भागवतोक्ता---
यदा० चन्द्रश्च सूर्यश्च॥ तथा तिष्यबृहस्पती। |
मूलम् :- 1. E. युगत्रिक
व्याख्या :-1. A. सूर्यसृष्टयनन्तरं 2. A. भुवाख्यस्य मनोः ; C. भुवस्य मनोः
3-9. B.C D.E.F. Gap for a few letters, but not uniformly. in all the five mss. In B, the reviser has filled these gaps.
10. A.B. यथा, 11.Gap in all mss. for सूर्यश्च ।