पराशरस्मृतिः/पञ्चमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← चतुर्थोध्यायः पराशरस्मृतिः
पञ्चमोध्यायः
पराशरः
षष्ठोध्यायः →

वृकश्वानसृगालाद्यैर्दष्टो यस्तु द्विजोत्तमः ।
स्नात्वा जपेत्स गायत्रीं पवित्रां वेदमातरं ।। ५.१ ।।

गवां शृङ्गोदकैः स्नानं महानद्योस्तु संगमे ।
समुद्रदर्शनाद्वापि शुना दष्टः शुचिर्भवेत् ।। ५.२ ।।

वेदविद्याव्रतस्नातः शुना दष्टो द्विजो यदि ।
स हिरण्योदकैः स्नात्वा घृतं प्राश्य विशुध्यति ।। ५.३ ।।

सव्रतस्तु शुना दष्टो यस्त्रिरात्रं उपावसेत् ।
घृतं कुशोदकं पीत्वा व्रतशेषं समापयेत् ।। ५.४ ।।

अव्रतः सव्रतो वापि शुना दष्टो भवेद्द्विजः ।
प्रणिपत्य भवेत्पूतो विप्रैश्चक्षुर्निरीक्षितः ।। ५.५ ।।

शुना घ्रातावलीढस्य नखैर्विलिखितस्य च ।
अद्भिः प्रक्षालनं प्रोक्तं अग्निना चोपचूलनम् ।। ५.६ ।।

शुना तु ब्राह्मणी दष्टा जम्बुकेन वृकेण वा ।
उदितं ग्रहनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ।। ५.७ ।।

कृष्णपक्षे यदा सोमो न दृश्येत कदाचन ।
यां दिशं व्रजते सोमस्तां दिशं वावलोकयेत् ।। ५.८ ।।

असद्ब्राह्मणके ग्रामे शुना दष्टो द्विजोत्तमः ।
वृषं प्रदक्षिणीकृत्य सद्यः स्नात्वा शुचिर्भवेत् ।। ५.९ ।।

चण्डालेन श्वपाकेन गोभिर्विप्रैर्हतो यदि ।
आहिताग्निर्मृतो विप्रो विषेणात्महतो यदि ।। ५.१० ।।

दहेत्तं ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् ।
स्पृष्ट्वा वोढ्वा च दग्ध्वा च सपिण्डेषु च सर्वथा ।। ५.११ ।।

प्राजापत्यं चरेत्पश्चाद्विप्राणां अनुशासनात् ।
दग्धास्थीनि पुनर्गृह्य क्षीरैः प्रक्षालयेद्द्विजः ।। ५.१२ ।।

पुनर्दहेत्स्वाग्निना तु स्वतन्त्रेण पृथक्पृथक् ।
आहिताग्निर्द्विजः कश्चित्प्रवसन्कालचोदितः ।। ५.१३ ।।

देहनाशं अनुप्राप्तस्तस्याग्निर्वसते गृहे ।
प्रेताग्निहोत्रसंस्कारः श्रूयतां ऋषिपुङ्गवाः ।। ५.१४ ।।

कृष्णाजिनं समास्तीर्य कुशैस्तु पुरुषाकृतिम् ।
षट्शतानि शतं चैव पलाशानां च वृन्ततः ।। ५.१५ ।।

चत्वारिंशच्छिरे दद्याच्छतं कण्ठे तु विन्यसेत् ।
बाहुभ्यां शतकं दद्यादङ्गुलीषु दशैव तु ।। ५.१६ ।।

शतं तु जघने दद्याद्द्विशतं तूदरे तथा ।
दद्यादष्टौ वृषणयोः पञ्च मेध्रे तु विन्यसेत् ।। ५.१७ ।।

एकविंशतिं ऊरुभ्यां द्विशतं जानुजङ्घयोः ।
पादाङ्गुलीषु षड्दद्याद्यज्ञपात्रं ततो न्यसेत् ।। ५.१८ ।।

शम्यं शिश्ने विनिःक्षिप्य अरणीं मुष्कयोरपि ।
जुहूं च दक्षिणे हस्ते वामे तूपभृतं न्यसेत् ।। ५.१९ ।।

कर्णे चोलूखलं दद्यात्पृष्ठे च मुसलं न्यसेत् ।
उरसि क्षिप्य दृषदं तण्डुलाज्यतिलान्मुखे ।। ५.२० ।।

श्रोत्रे च प्रोक्षणीं दद्यादाज्यस्थलीं तु चक्षुषोः ।
कर्णे नेत्रे मुखे घ्राणे हिरण्यशकलं न्यसेत् ।। ५.२१ ।।

अग्निहोत्रोपकरणं अशेषं तत्र निक्षिपेत् ।
असौ स्वर्गाय लोकाय स्वाहेत्येकाहुतिं सकृत् ।। ५.२२ ।।

दद्यात्पुत्रोऽथवा भ्राताप्यन्यो वापि च बान्धवः ।
यथा दहनसंस्कारस्तथा कार्यं विचक्षणैः ।। ५.२३ ।।

ईदृशं तु विधिं कुर्याद्ब्रह्मलोकगतिः स्मृता ।
दहन्ति ये द्विजास्तं तु ते यान्ति परमां गतिं ।। ५.२४ ।।

अन्यथा कुर्वते कर्म त्वात्मबुद्ध्या प्रचोदिताः ।
भवन्त्यल्पायुषस्ते वै पतन्ति नरकेऽशुचौ ।। ५.२५ ।।