पराशरस्मृतिः/षष्ठोध्यायः
← पञ्चमोध्यायः | पराशरस्मृतिः षष्ठोध्यायः पराशरः |
सप्तमोध्यायः → |
अतः परं प्रवक्ष्यामि प्राणिहत्यासु निष्कृतिम् । |
क्रौञ्चसारसहंसांश्च चक्रवाकं च कुक्कुटम् । |
बलाकाटिट्टिभौ वापि शुकपारावतावपि । |
वृककाककपोतानां शारितित्तिरिघातकः । |
गृध्रश्येनशशादानां उलूकस्य च घातकः । |
वल्गुणीटिट्टिभानां च कोकिलाखञ्जरीटके । |
कारण्डवचकोराणां पिङ्गलाकुररस्य च । |
भेरुण्डचाषभासांश्च पारावतकपिञ्जलौ । |
हत्वा मूषकमार्जार सर्पाजगरडुण्डुभान् । |
शिशुमारं तथा गोधां हत्वा कूर्मं च शल्यकम् । |
वृकजम्बूकऋक्षाणां तरक्षुश्वानघातकः । |
गजस्य च तुरङ्गस्य महिषोष्ट्रनिपातने । |
कुरङ्गं वानरं सिंहं चित्रं व्याघ्रं तु घातयन् । |
मृगरोहिद्वराहाणां अवेर्बस्तस्य घातकः । |
एवं चतुष्पदानां च सर्वेषां वनचारिणाम् । |
शिल्पिनं कारुकं शूद्रं स्त्रियं वा यस्तु घातयेत् । |
वैश्यं वा क्षत्रियं वापि निर्दोषं योऽभिघातयेत् । |
वैश्यं शूद्रं क्रियासक्तं विकर्मस्थं द्विजोत्तमम् । |
चण्डालं हतवान्कश्चिद्ब्राह्मणे यदि कंचन । |
क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । |
चोरौ श्वपाकचण्डालौ विप्रेणाभिहतौ यदि । |
श्वपाकं वापि चण्डालं विप्रः संभाषते यदि । |
चण्डालैः सह सुप्तं तु त्रिरात्रं उपवासयेत् । |
चण्डालदर्शने सद्य आदित्यं अवलोकयेत् । |
चण्डालखातवापीषु पीत्वा सलिलं अग्रजः । |
चण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् । |
चण्डालघटसंस्थं तु यत्तोयं पिबति द्विजः । |
यदि न क्षिपते तोयं शरीरे यस्य जीर्यति । |
चरेत्सांतपनं विप्रः प्राजापत्यं अनन्तरः । |
भाण्डस्थं अन्त्यजानां तु जलं दधि पयः पिबेत् । |
ब्रह्मकूर्चोपवासेन द्विजातीनां तु निष्कृतिः । |
भुङ्क्तेऽज्ञानाद्द्विजश्रेष्ठश्चण्डालान्नं कथंचन । |
एकैकं ग्रासं अश्नीयाद्गोमूत्रयावकस्य च । |
अविज्ञातस्तु चण्डालो यत्र वेश्मनि तिष्ठति । |
मुनिवक्त्रोद्गतान्धर्मान्गायन्तो वेदपारगाः । |
दध्ना च सर्पिषा चैव क्षीरगोमूत्रयावकम् । |
त्र्यहं भुञ्जीत दध्ना च त्र्यहं भुञ्जीत सर्पिषा । |
भावदुष्टं न भुञ्जीत नोच्छिष्टं कृमिदूषितम् । |
भस्मना तु भवेच्छुद्धिरुभयोस्ताम्रकांस्ययोः । |
कुसुम्भगुडकार्पास लवणं तैलसर्पिषी । |
एवं शुद्धस्ततः पश्चात्कुर्याद्ब्राह्मणतर्पणम् । |
पुनर्लेपनखातेन होमजप्येन शुध्यति । |
चण्डालैः सह संपर्कं मासं मासार्धं एव वा । |
रजकी चर्मकारी च लुब्धकी वेणुजीविनी । |
ज्ञात्वा तु निष्कृतिं कुर्यात्पूर्वोक्तस्यार्धं एव च । |
गृहस्याभ्यन्तरं गच्छेच्चण्डालो यदि कस्यचित् । |
रसपूर्णं तु यद्भाण्डं न त्यजेत्तु कदाचन । |
ब्राह्मणस्य व्रणद्वारे पूयशोणितसंभवे । |
गवां मूत्रपुरीषेण दध्ना क्षीरेण सर्पिषा । |
क्षत्रियोऽपि सुवर्णस्य पञ्चमाषान्प्रदाय तु । |
शूद्राणां नोपवासः स्याच्छूद्रो दानेन शुध्यति । |
प्रणम्य शिरसा ग्राह्यं अग्निष्टोमफलं हि तत् । |
सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् । |
उपवासो व्रतं होमो द्विजसंपादितानि वै । |
सर्वान्कामानवाप्नोति द्विजसंपादितैरिह । |
अतोऽन्यथा भवेद्दोषस्तस्मान्नानुग्रहः स्मृतः । |
कुर्वन्त्यनुग्रहं ये तु तत्पापं तेषु गच्छति । |
महत्कार्योपरोधेन न स्वस्थस्य कदाचन । |
ते तस्य विघ्नकर्तारः पतन्ति नरकेऽशुचौ । |
वृथा तस्योपवासः स्यान्न स पुण्येन युज्यते । |
कुर्याद्वाक्यं द्विजानां तु अन्यथा भ्रूणहा भवेत् । |
तेदां वाक्योदकेनैव शुध्यन्ति मलिना जनाः । |
सर्वदेवमयो विप्रो न तद्वचनं अन्यथा । |
विप्रसंपादितं यस्य संपूर्णं तस्य तत्फलम् । |
तदन्तरा स्पृशेच्चापस्तदन्नं भस्मना स्पृशेत् । |
स्वं उच्छिष्टं असौ भुङ्क्ते पाणिना मुक्तभाजने । |
श्वानचण्डालदृष्टौ च भोजनं परिवर्जयेत् । |
यथा पराशरेणोक्तं तथैवाहं वदामि वः । |
केनेदं शुध्यते चेति ब्राह्मणेभ्यो निवेदयेत् । |
वेदवेदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः । |
ततो द्रोणाढकस्यान्नं श्रुतिस्मृतिविदो विदुः । |
स्वल्पं अन्नं त्यजेद्विप्रः शुद्धिर्द्रोणाढके भवेत् । |
सुवर्णोदकं अभ्युक्ष्य हुताशेनैव तापयेत् । |
विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् । |
अल्पं परित्यजेत्तत्र स्नेहस्योत्पवनेन च । |