पराशरस्मृतिः/चतुर्थोध्यायः

विकिस्रोतः तः
← तृतीयोध्यायः पराशरस्मृतिः
चतुर्थोध्यायः
पराशरः
पञ्चमोध्यायः →

अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् ।
उद्बध्नीयात्स्त्री पुमान्वा गतिरेषा विधीयते ।। ४.१ ।।

पूयशोणितसंपूर्णे त्वन्धे तमसि मज्जति ।
षष्ठीर्वर्षसहस्राणि नरकं प्रतिपद्यते ।। ४.२ ।।

नाशौचं नोदकं नाग्निं नाश्रुपातं च कारयेत् ।
वोढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा ।। ४.३ ।।

तप्तकृच्छ्रेण शुध्यन्तीत्येवं आह प्रजापतिः ।
गोभिर्हतं तथोद्बद्धं ब्राह्मणेन तु घातितं ।। ४.४ ।।

संस्पृशन्ति तु ये विप्रा वोढारश्चाग्निदाश्च ये ।
अन्ये ये वानुगन्तारः पाशच्छेदकराश्च ये ।। ४.५ ।।

तप्तकृच्छ्रेण शुद्धास्ते कुर्युर्ब्राह्मणभोजनम् ।
अनडुत्सहितां गां च दद्युर्विप्राय दक्षिणाम् ।। ४.६ ।।

त्र्यहं उष्णं पिबेद्वारि त्र्यहं उष्णं पयः पिबेत् ।
त्र्यहं उष्णं पिबेत्सर्पिर्वायुभक्षो दिनत्रयं ।। ४.७ ।।

षट्पलं तु पिबेदम्भस्त्रिपलं तु पयः पिबेत् ।
पलं एकं पिबेत्सर्पिस्तप्तकृच्छ्रं विधीयते ।। ४.८ ।।

यो वै समाचरेद्विप्रः पतितादिष्वकामतः ।
पञ्चाहं वा दशाहं वा द्वादशाहं अथापि वा ।। ४.९ ।।

मासार्धं मासं एकं वा मासद्वयं अथापि वा ।
अब्दार्धं अब्दं एकं वा तदूर्ध्वं चैव तत्समः ।। ४.१० ।।

त्रिरात्रं प्रथमे पक्षे द्वितीये कृच्छ्रं आचरेत् ।
तृतीये चैव पक्षे तु कृच्छ्रं सांतपनं चरेत् ।। ४.११ ।।

चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे मतः ।
कुर्याच्चान्द्रायणं षष्ठे सप्तमे त्वैन्दवद्वयम् ।। ४.१२ ।।

शुद्ध्यर्थं अष्टमे चैव षण् मासान्कृच्छ्रं आचरेत् ।
पक्षसंख्याप्रमाणेन सुवर्णान्यपि दक्षिणा ।। ४.१३ ।।

ऋतुस्नाता तु या नारी भर्तारं नोपसर्पति ।
सा मृता नरकं याति विधवा च पुनः पुनः ।। ४.१४ ।।

ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ।। ४.१५ ।।

दरिद्रं व्याधितं मूर्खं भर्तारं यावमन्यते ।
सा शुनी जायते मृत्वा सूकरी च पुनः पुनः ।। ४.१६ ।।

पत्यौ जीवति या नारी उपोष्य व्रतं आचरेत् ।
आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ।। ४.१७ ।।

अपृष्ट्वा चैव भर्तारं या नारी कुरुते व्रतम् ।
सर्वं तद्राक्षसान्गच्छेदित्येवं मनुरब्रवीत् ।। ४.१८ ।।

बान्धवानां सजातीनां दुर्वृत्तं कुरुते तु या ।
गर्भपातं च या कुर्यान्न तां संभाषयेत्क्वचित् ।। ४.१९ ।।

यत्पापं ब्रह्महत्यायां द्विगुणं गर्भपातने ।
प्रायश्चित्तं न तस्याः स्यात्तस्यास्त्यागो विधीयते ।। ४.२० ।।

न कार्यं आवसथ्येन नाग्निहोत्रेण वा पुनः ।
स भवेत्कर्मचाण्डालो यस्तु धर्मपराङ्मुखः ।। ४.२१ ।।

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
स क्षेत्री लभते बीजं न बीजी भागं अर्हति ।। ४.२२ ।।

तद्वत्परस्त्रियाः पुत्रौ द्वौ स्मृतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यात्मृते भर्तरि गोलकः ।। ४.२३ ।।

औरसः क्षेत्रजश्चैव दत्तः कृत्रिमकः सुतः ।
दद्यान्माता पिता वापि स पुत्रो दत्तको भवेत् ।। ४.२४ ।।

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ।। ४.२५ ।।

द्वौ कृच्छ्रौ परिवित्तेस्तु कन्यायाः कृच्छ्र एव च ।
कृच्छ्रातिकृच्छ्रौ दातुस्तु होता चान्द्रायणं चरेत् ।। ४.२६ ।।

कुब्जवामनषण्ढेषु गद्गदेषु जडेषु च ।
जात्यन्धे बधिरे मूके न दोषः परिवेदने ।। ४.२७ ।।

पितृव्यपुत्रः सापत्नः परनारीसुतस्तथा ।
दाराग्निहोत्रसम्योगे न दोषः परिवेदने ।। ४.२८ ।।

ज्येष्ठो भ्राता यदा तिष्ठेदाधानं नैव कारयेत् ।
अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ।। ४.२९ ।।

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।। ४.३० ।।

मृते भर्तरि या नारी ब्रह्मचर्यव्रते स्थिता ।
सा मृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ।। ४.३१ ।।

तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे ।
तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति ।। ४.३२ ।।

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ।
एवं स्त्री पतिं उद्धृत्य तेनैव सह मोदते ।। ४.३३ ।।