पराशरस्मृतिः/तृतीयोध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← द्वितीयोध्यायः पराशरस्मृतिः
तृतीयोध्यायः
पराशरः
चतुर्थोध्यायः →

अतः शुद्धिं प्रवक्ष्यामि जनने मरणे तथा ।
दिनत्रयेण शुध्यन्ति ब्राह्मणाः प्रेतसूतके ।। ३.१ ।।

क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहकैः ।
शूद्रः शुध्यति मासेन पराशरवचो यथा ।। ३.२ ।।

उपासने तु विप्राणां अङ्गशुद्धिश्च जायते ।
ब्राह्मणानां प्रसूतौ तु देहस्पर्शो विधीयते ।। ३.३ ।।

जातौ विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ।। ३.४ ।।

एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः ।
त्र्यहात्केवलवेदस्तु द्विहीनो दशभिर्दिनैः ।। ३.५ ।।

जन्मकर्मपरिभ्रष्टः संध्योपासनवर्जितः ।
नामधारकविप्रस्तु दशाहं सूतकी भवेत् ।। ३.६ ।।

एकपिण्डास्तु दायादाः पृथग्दारनिकेतनाः ।
जन्मन्यपि विपत्तौ च तेषां तत्सूतकं भवेत् ।। ३.७ ।।

तावत्तत्सूतकं गोत्रे चतुर्थपुरुषेण तु ।
दायाद्विच्छेदं आप्नोति पञ्चमो वात्मवंशजः ।। ३.८ ।।

चतुर्थे दशरात्रं स्यात्षण्णिशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच्छुद्धिः सप्तमे तु दिनत्रयात् ।। ३.९ ।।

भृग्वग्निमरणे चैव देशान्तरमृते तथा ।
बाले प्रेते च संन्यस्ते सद्यः शौचं विधीयते ।। ३.१० ।।

देशान्तरमृतः कश्चित्सगोत्रः श्रूयते यदि ।
न त्रिरात्रं अहोरात्रं सद्यः स्नात्वा शुचिर्भवेत् ।। ३.११ ।।

देशान्तरगतो विप्रः प्रयासात्कालकारितात् ।
देहनाशं अनुप्राप्तस्तिथिर्न ज्ञायते यदि ।। ३.१२ ।।

कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या ।
उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ।। ३.१३ ।।

अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः ।
न तेषां अग्निसंस्कारो नाशौचं नोदकक्रिया ।। ३.१४ ।।

यदि गर्भो विपद्येत स्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भो दिनं तावत्तु सूतकम् ।। ३.१५ ।।

आ चतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः ।
अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ।। ३.१६ ।।

दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
अग्निसंस्करणे तेषां त्रिरात्रं अशुचिर्भवेत् ।। ३.१६ ।१ ।।

आ दन्तजन्मनः सद्य आ चूडान्नैषिकी स्मृता ।
त्रिरात्रं आ व्रतादेशाद्दशरात्रं अतः परं ।। ३.१७ ।।

ब्रह्मचारी गृहे येषां हूयते च हुताशनः ।
संपर्कं न च कुर्वन्ति न तेषां सूतकं भवेत् ।। ३.१८ ।।

संपर्काद्दुष्यते विप्रो जनने मरणे तथा ।
संपर्काच्च निवृत्तस्य न प्रेतं नैव सूतकं ।। ३.१९ ।।

शिल्पिनः कारुका वैद्या दासीदासाश्च नापिताः ।
राजानः श्रोत्रियाश्चैव सद्यः शौचाः प्रकीर्तिताः ।। ३.२० ।।

सव्रतः सत्रपूतश्च आहिताग्निश्च यो द्विजः ।
राज्ञश्च सूतकं नास्ति यस्य चेच्छति पार्थिवः ।। ३.२१ ।।

उद्यतो निधने दाने आर्तो विप्रो निमन्त्रितः ।
तदैव ऋषिभिर्दृष्टं यथा कालेन शुध्यति ।। ३.२२ ।।

प्रसवे गृहमेधी तु न कुर्यात्संकरं यदि ।
दशाहाच्छुध्यते माता त्ववगाह्य पिता शुचिः ।। ३.२३ ।।

सर्वेषां शावं आशौचं माता पित्रोस्तु सूतकम् ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ।। ३.२४ ।।

यदि पत्न्यां प्रसूतायां संपर्कं कुरुते द्विजः ।
सूतकं तु भवेत्तस्य यदि विप्रः षडङ्गवित् ।। ३.२५ ।।

संपर्काज्जायते दोषो नान्यो दोषोऽस्ति वै द्विजे ।
तस्मात्सर्वप्रयत्नेन संपर्कं वर्जयेद्बुधः ।। ३.२६ ।।

विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके ।
पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ।। ३.२७ ।।

अन्तरा दशाहस्य पुनर्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्रो यावत्तत्स्यादनिर्दशं ।। ३.२८ ।।

ब्राह्मणार्थे विपन्नानां बन्दिगोग्रहणे तथा ।
आहवेषु विपन्नानां एकरात्रं अशौचकं ।। ३.२९ ।।

द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ।। ३.३० ।।

यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः ।
अक्षयांल्लभते लोकान्यदि क्लीबं न भाषते ।। ३.३१ ।।

संन्यस्तं ब्राह्मणं दृष्ट्वा स्थानाच्चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं स्थानं प्रयास्यति ।। ३.३२ ।।

यस्तु भग्नेषु सैन्येषु विद्रवत्सु समन्ततः ।
परित्राता यदा गच्छेत्स च क्रतुफलं लभेत् ।। ३.३३ ।।

यस्य च्छेदक्षतं गात्रं शरमुद्गरयष्टिभिः ।
देवकन्यास्तु तं वीरं हरन्ति रमयन्ति च ।। ३.३४ ।।

देवाङ्गनासहस्राणि शूरं आयोधने हतम् ।
त्वरमाणाः प्रधावन्ति मम भर्ता ममेति च ।। ३.३५ ।।

यं यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणो वात्र यथा यान्ति ।
क्षणेन यान्त्येव हि तत्र वीराः प्राणान्सुयुद्धेन परित्यजन्तः ।। ३.३६ ।।

जितेन लभ्यते लक्ष्मीर्मृतेनापि सुराङ्गनाः ।
क्षणध्वंसिनि कायेऽस्मिन्का चिन्ता मरणे रणे ।। ३.३७ ।।

ललाटदेशे रुधिरं स्रवच्च यस्याहवे तु प्रविशेच्च वक्त्रम् ।
तत्सोमपानेन किलास्य तुल्यं संग्रामयज्ञे विधिवच्च दृष्टम् ।। ३.३८ ।।

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलं आनुपूर्व्यांल्लभन्ति ते ।। ३.३९ ।।

न तेषां अशुभं किंचित्पापं वा शुभकर्मणाम् ।
जलावगाहनात्तेषां सद्यःशौचं विधीयते ।। ३.४० ।।

असगोत्रं अबन्धुं च प्रेतीभूतं द्विजोत्तमम् ।
वहित्वा च दहित्वा च प्राणायामेन शुध्यति ।। ३.४१ ।।

अनुगम्येच्छया प्रेतं ज्ञातिं अज्ञातिं एव वा ।
स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ।। ३.४२ ।।

क्षत्रियं मृतं अज्ञानाद्ब्राह्मणो योऽनुगच्छति ।
एकाहं अशुचिर्भूत्वा पञ्चगव्येन शुध्यति ।। ३.४३ ।।

शवं च वैश्यं अज्ञानाद्ब्राह्मणो योऽनुगच्छति ।
कृत्वाशौचं द्विरात्रं च प्राणायामान्षडाचरेत् ।। ३.४४ ।।

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन्नीयमानं त्रिरात्रं अशुचिर्भवेत् ।। ३.४५ ।।

त्रिरात्रे तु ततः पूर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ।। ३.४६ ।।

विनिर्वर्त्य यदा शूद्रा उदकान्तं उपस्थिताः ।
द्विजैस्तदानुगन्तव्या एष धर्मः सनातनः ।। ३.४७ ।।