पराशरस्मृतिः/द्वितीयोध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← प्रथमॊध्यायः पराशरस्मृतिः
द्वितीयोध्यायः
पराशरः
तृतीयोध्यायः →

अतः परं गृहस्थस्य कर्माचारं कलौ युगे ।
धर्मं साधारणं शक्त्या चातुर्वर्ण्याश्रमागतं ।। २.१ ।।

तं प्रवक्ष्याम्यहं पूर्वं पराशरवचो यथा ।
षट्कर्मसहितो विप्रः कृषिकर्म च कारयेत् ।। २.२ ।।

क्षुधितं तृषितं श्रान्तं बलीवर्दं न योजयेत् ।
हीनाङ्गं व्याधितं क्लीबं वृषं विप्रो न वाहयेत् ।। २.३ ।।

स्थिराङ्गं नीरुजं तृप्तं सुनर्दं षण्ढवर्जितम् ।
वाहयेद्दिवसस्यार्धं पश्चात्स्नानं समाचरेत् ।। २.४ ।।

जप्यं देवार्चनं होमं स्वाध्यायं चैवं अभ्यसेत् ।
एकद्वित्रिचतुर्विप्रान्भोजयेत्स्नातकान्द्विजः ।। २.५ ।।

स्वयंकृष्टे तथा क्षेत्रे धान्यैश्च स्वयमर्जितैः ।
निर्वपेत्पञ्च यज्ञांश्च क्रतुदीक्षां च कारयेत् ।। २.६ ।।

तिला रसा न विक्रेया विक्रेया धान्यतत्समाः ।
विप्रस्यैवंविधा वृत्तिस्तृणकाष्ठादिविक्रयः ।। २.७ ।।

ब्राह्मणश्चेत्कृषिं कुर्यात्तन्महादोषं आप्नुयात् ।
संवत्सरेण यत्पापं मत्स्यघाती समाप्नुयात् ।। २.८ ।।

अयोमुखेन काष्ठेन तदेकाहेन लाङ्गली ।
पाशको मत्स्यघाती च व्याधः शाकुनिकस्तथा ।। २.९ ।।

अदाता कर्षकश्चैव सर्वे ते समभागिनः ।
वृक्षं छित्त्वा महीं भित्त्वा हत्वा च कृमिकीटकान् ।। २.१० ।।

कर्षकः खलयज्ञेन सर्वपापैः प्रमुच्यते ।
यो न दद्याद्द्विजातिभ्यो राशिमूलं उपागतः ।। २.११ ।।

स चौरः स च पापिष्ठो ब्रह्मघ्नं तं विनिर्दिशेत् ।
राज्ञे दत्त्वा तु षड्भागं देवानां चैकविंशकं ।। २.१२ ।।

विप्राणां त्रिंशकं भागं सर्वपापैः प्रमुच्यते ।
क्षत्रियोऽपि कृषिं कृत्वा देवान्विप्रांश्च पूजयेत् ।। २.१३ ।।

वैश्यः शूद्रस्तथा कुर्यात्कृषिवाणिज्यशिल्पकम् ।
विकर्म कुर्वते शूद्रा द्विजशुश्रूषयोज्झिताः ।। २.१४ ।।

भवन्त्यल्पायुषस्ते वै निरयं यान्त्यसंशयम् ।
चतुर्णां अपि वर्णानां एष धर्मः सनातनः ।। २.१५ ।।