सामग्री पर जाएँ

पराशरस्मृतिः/प्रथमोध्यायः

विकिस्रोतः तः
← अनुक्रमणिका पराशरस्मृतिः
प्रथमोध्यायः
पराशरः
द्वितीयोध्यायः →

अथातो हिमशैलाग्रे देवदारुवनालये ।
व्यासं एकाग्रं आसीनं अपृच्छन्नृषयः पुरा ।। १.१ ।।

मानुषाणां हितं धर्मं वर्तमाने कलौ युगे ।
शौचाचारं यथावच्च वद सत्यवतीसुत ।। १.२ ।।

तच्छ्रुत्वा ऋषिवाक्यं तु सशिष्योऽग्न्यर्कसंनिभः ।
प्रत्युवाच महातेजाः श्रुतिस्मृतिविशारदः ।। १.३ ।।

न चाहं सर्वतत्त्वज्ञः कथं धर्मं वदाम्यहम् ।
अस्मत्पितैव प्रष्टव्य इति व्यासः सुतोऽब्रवीत् ।। १.४ ।।

ततस्त ऋषयः सर्वे धर्मतत्त्वार्थकाङ्क्षिणः ।
ऋषिं व्यासं पुरस्कृत्य गता बदरिकाश्रमं ।। १.५ ।।

नानापुष्पलताकीर्णं फलवृष्कैरलंकृतम् ।
नदीप्रस्रवणोपेतं पुण्यतीर्थोपशोभितं ।। १.६ ।।

मृगपक्षिनिनादाढ्यं देवतायतनावृतम् ।
यक्षगन्धर्वसिद्धैश्च नृत्यगीतैरलंकृतम् ।। १.७ ।।

तस्मिन्नृषिसभामध्ये शक्तिपुत्रं पराशरम् ।
सुखासीनं महातेजा मुनिमुख्यगणावृतं ।। १.८ ।।

कृताञ्जलिपुटो भूत्वा व्यासस्तु ऋषिभिः सह ।
प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ।। १.९ ।।

ततः संतुष्टहृदयः पराशरमहामुनिः ।
आह सुस्वागतं ब्रूहीत्यासीनो मुनिपुङ्गवः ।। १.१० ।।

कुशलं सम्यगित्युक्त्वा व्यासः पृच्छत्यनन्तरम् ।
यदि जानासि भक्तिं मे स्नेहाद्वा भक्तवत्सल ।। १.११ ।।

धर्मं कथय मे तात अनुग्राह्यो ह्यहं तव ।
श्रुता मे मानवा धर्मा वासिष्ठा काश्यपास्तथा ।। १.१२ ।।

गर्गेया गौतमीयाश्च तथा चोशनसा स्मृताः ।
अत्रेर्विष्णोश्च संवर्ताद्दक्षादङ्गिरसस्तथा ।। १.१३ ।।

शातातपाच्च हारीताद्याज्ञवल्क्यात्तथैव च ।
आपस्तम्बकृता धर्मा शङ्खस्य लिखितस्य च ।। १.१४ ।।

कात्यायनकृताश्चैव तथा प्राचेतसान्मुनेः ।
श्रुता ह्येते भवत्प्रोक्ताः श्रुत्यर्था मे न विस्मृताः ।। १.१५ ।।

अस्मिन्मन्वन्तरे धर्माः कृतत्रेतादिके युगे ।
सर्वे धर्माः कृते जाताः सर्वे नष्टाः कलौ युगे ।। १.१६ ।।

चातुर्वर्ण्यसमाचारं किंचित्साधारणं वद ।
चतुर्णां अपि वर्णानां कर्तव्यं धर्मकोविदैः ।। १.१७ ।।

ब्रूहि धर्मस्वरूपज्ञ सूक्ष्मं स्थूलं च विस्तरात् ।
व्यासवाक्यावसाने तु मुनिमुख्यः पराशरः ।। १.१८ ।।

धर्मस्य निर्णयं प्राह सूक्ष्मं स्थूलं च विस्तरात् ।
शृणु पुत्र प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा ।। १.१९ ।।

कल्पे कल्पे क्षयोत्पत्त्या ब्रह्मविष्णुमहेश्वराः ।
श्रुतिस्मृतिसदाचार निर्णेतारश्च सर्वदा ।। १.२० ।।

न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः ।
तथैव धर्मान्स्मरति मनुः कल्पान्तरेऽन्तरे ।। १.२१ ।।

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे युगे ।
अन्ये कलियुगे नॄणां युगरूपानुसारतः ।। १.२२ ।।

तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते ।
द्वापरे यज्ञं एवाहुः दानं एव कलौ युगे ।। १.२३ ।।

कृते तु मानवा धर्मास्त्रेतायां गौतमाः स्मृताः ।
द्वापरे शाङ्खलिखिताः कलौ पाराशराः स्मृताः ।। १.२४ ।।

त्यजेद्देशं कृतयुगे त्रेतायां ग्रामं उत्सृजेत् ।
द्वापरे कुलं एकं तु कर्तारं तु कलौ युगे ।। १.२५ ।।

कृते संभाषणादेव त्रेतायां स्पर्शनेन च ।
द्वापरे त्वन्नं आदाय कलौ पतति कर्मणा ।। १.२६ ।।

कृते तात्कालिकः शापस्त्रेतायां दशभिर्दिनैः ।
द्वापरे चैकमासेन कलौ संवत्सरेण तु ।। १.२७ ।।

अभिगम्य कृते दानं त्रेतास्वाहूय दीयते ।
द्वापरे याचमानाय सेवया दीयते कलौ ।। १.२८ ।।

अभिगम्योत्तमं दानं आहूयैव तु मध्यमम् ।
अधमं याचमानाय सेवादानं तु निष्फलं ।। १.२९ ।।

जितो धर्मो ह्यधर्मेण सत्यं चैवानृतेन च ।
जिताश्चोरैश्च राजानः स्त्रीभिश्च पुरुषाः कलौ ।। १.३० ।।

सीदन्ति चाग्निहोत्राणि गुरुपूजा प्रणश्यति ।
कुमार्यश्च प्रसूयन्ते अस्मिन्कलियुगे सदा ।। १.३१ ।।

कृते त्वस्थिगताः प्राणास्त्रेतायां मांसं आश्रिताः ।
द्वापरे रुधिरं चैव कलौ त्वन्नादिषु स्थिताः ।। १.३२ ।।

युगे युगे च ये धर्मास्तत्र तत्र च ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ।। १.३३ ।।

युगे युगे तु सामर्थ्यं शेषं मुनिविभाषितम् ।
पराशरेण चाप्युक्तं प्रायश्चित्तं विधीयते ।। १.३४ ।।

अहं अद्यैव तत्सर्वं अनुस्मृत्य ब्रवीमि वः ।
चातुर्वर्ण्यसमाचारं शृण्वन्तु ऋषिपुङ्गवाः ।। १.३५ ।।

पराशरमतं पुण्यं पवित्रं पापनाशनम् ।
चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ।। १.३६ ।।

चतुर्णां अपि वर्णानां आचारो धर्मपालकः ।
आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ।। १.३७ ।।

षट्कर्माभिरतो नित्यं देवतातिथिपूजकः ।
हुतशेषं तु भुञ्जानो ब्राह्मणो नावसीदति ।। १.३८ ।।

संध्यास्नानं जपो होमो देवतातिथिपूजनम् ।
आतिथ्यं वैश्वदेवं च षट्कर्माणि दिने दिने ।। १.३९ ।।

इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा ।
संप्राप्तो वैश्वदेवान्ते सोऽतिथिः स्वर्गसंग्रमः ।। १.४० ।।

दूराध्वोपगतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथिं तं विजानीयान्नातिथिः पूर्वं आगतः ।। १.४१ ।।

नैकग्रामीणं अतिथिं संगृह्णीत कदाचन ।
अनित्यं आगतो यस्मात्तस्मादतिथिरुच्यते ।। १.४२ ।।

अतिथिं तत्र संप्राप्तं पूजयेत्स्वागतादिना ।
अर्घ्यासनप्रदानेन पादप्रक्षालनेन च ।। १.४३ ।।

श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छन्तं चानुयानेन प्रीतिं उत्पादयेद्गृही ।। १.४४ ।।

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दश वर्षाणि पञ्च च ।। १.४५ ।।

काष्ठभारसहस्रेण घृतकुम्भशतेन च ।
अतिथिर्यस्य भग्नाशस्तस्य होमो निरर्थकः ।। १.४६ ।।

सुक्षेत्रे वापयेद्बीजं सुपात्रे निक्षिपेद्धनम् ।
सुक्षेत्रे च सुपात्रे च ह्युप्तं दत्तं न नश्यति ।। १.४७ ।।

न पृच्छेद्गोत्रचरणे न स्वाध्यायं श्रुतं तथा ।
हृदये कल्पयेद्देवं सर्वदेवमयो हि सः ।। १.४८ ।।

अपूर्वः सुव्रती विप्रो ह्यपूर्वश्चातितिहिर्यथा ।
वेदाभ्यासरतो नित्यं तावपूर्वौ दिने दिने ।। १.४९ ।।

वैश्वदेवे तु संप्राप्ते भिक्षुके गृहं आगते ।
उद्धृत्य वैश्वदेवार्थं भिक्षुकं तु विसर्जयेत् ।। १.५० ।।

यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नं अदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ।। १.५१ ।।

दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारिणाम् ।
इच्छया च ततो दद्याद्विभवे सत्यवारितं ।। १.५२ ।।

यतिहस्ते जलं दद्याद्भैक्षं दद्यात्पुनर्जलम् ।
तद्भैक्ष्यं मेरुणा तुल्यं तज्जलं सागरोपमम् ।। १.५३ ।।

यस्य छत्रं हयश्चैव कुञ्जरारोहं ऋद्धिमत् ।
ऐन्द्रं स्थानं उपासीत तस्मात्तं न विचारयेत् ।। १.५४ ।।

वैश्वदेवकृतं पापं शक्तो भिक्षुर्व्यपोहितुम् ।
न हि भिक्षुकृतान्दोषान्वैश्वदेवो व्यपोहति ।। १.५५ ।।

अकृत्वा वैश्वदेवं तु भुञ्जते ये द्विजाधमाः ।
सर्वे ते निष्फला ज्ञेयाः पतन्ति नरकेऽशुचौ ।। १.५६ ।।

वैश्वदेवविहीना ये आतिथ्येन बहिष्कृताः ।
सर्वे ते नरकं यान्ति काकयोनिं व्रजन्ति च ।। १.५७ ।।

पापो वा यदि चण्डालो विप्रघ्नः पितृघातकः ।
वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः ।। १.५८ ।।

यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः ।
वामपादे करं न्यस्य तद्वै रक्षांसि भुञ्जते ।। १.५९ ।।

अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ।। १.६० ।।

क्षत्रियो हि प्रजा रक्षञ् शस्त्रपाणिः प्रदण्डवान् ।
निर्जित्य परसैन्यानि क्षितिं धर्मेण पालयेत् ।। १.६१ ।।

पुष्पं पुष्पं विचिनुयान्मूलच्छेदं न कारयेत् ।
मालाकार इवारामे न यथाङ्गारकारकः ।। १.६२ ।।

लाभकर्म तथा रत्नं गवां च परिपालनम् ।
कृषिकर्म च वाणिज्यं वैश्यवृत्तिरुदाहृता ।। १.६३ ।।

शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते ।
अन्यथा कुरुते किंचित्तद्भवेत्तस्य निष्फलं ।। १.६४ ।।

लवणं मधुतैलं च दधितक्रं घृतं पयः ।
न दुष्येच्छूद्रजातीनां कुर्यात्सर्वेषु विक्रयं ।। १.६५ ।।

विक्रीणन्मध्यमांसानि ह्यभक्षस्य च भक्षणम् ।
कुर्वन्नगम्या गमनं शूद्रः पतति तत्क्षणात् ।। १.६६ ।।

कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
वेदाक्षरविचारेण शूद्रश्चाण्डालतां व्रजेत् ।। १.६७ ।।