पराशरस्मृतिः/नवमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← अष्टमोध्यायः पराशरस्मृतिः
नवमोध्यायः
पराशरः
दशमोध्यायः →

गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः ।
तद्वधं तु न तं विद्यात्कामाकामकृतं तथा ।। ९.१ ।।

दण्डादूर्ध्वं यदन्येन प्रहाराद्यदि पातयेत् ।
प्रायश्चित्तं तदा प्रोक्तं द्विगुणं गोवधे चरेत् ।। ९.२ ।।

रोधबन्धनयोक्त्राणि घातश्चेति चतुर्विधम् ।
एकपादं चरेद्रोधे द्वौ पादौ बन्धने चरेत् ।। ९.३ ।।

योक्त्रेषु पादहीनं स्याच्चरेत्सर्वं निपातने ।
गोवाटे वा गृहे वापि दुर्गे वाप्यसमस्थले ।। ९.४ ।।

नदीष्वथ समुद्रेषु त्वन्येषु न नदीमुखे ।
दग्धदेशे मृता गावः स्तम्भनाद्रोध उच्यते ।। ९.५ ।।

योक्त्रदामकदोरैश्च कण्ठाभरणभूषणैः ।
गृहे वापि वने वापि बद्धा स्याद्गौर्मृता यदि ।। ९.६ ।।

तदेव बन्धनं विद्यात्कामाकामकृतं च यत् ।
हले वा शकटे पङ्क्तौ पृष्ठे वा पीडितो नरैः ।। ९.७ ।।

गोपतिर्मृत्युं आप्नोति योक्त्रो भवति तद्वधः ।
मत्तः प्रमत्त उन्मत्तश्चेतनो वाप्यचेतनः ।। ९.८ ।।

कामाकामकृतक्रोधो दण्डैर्हन्यादथोपलैः ।
प्रहृता वा मृता वापि तद्धि हेतुर्निपातने ।। ९.९ ।।

अङ्गुष्ठमात्रस्थूलस्तु बाहुमात्रः प्रमाणतः ।
आद्रस्तु सपलाशश्च दण्ड इत्यभिधीयते ।। ९.१० ।।

मूर्छितः पतितो वापि दण्डेनाभिहितः स तु ।
उत्थितस्तु यदा गच्छेत्पञ्च सप्त दशैव वा ।। ९.११ ।।

ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ।
पूर्वं व्याध्युपसृष्टश्चेत्प्रायश्चित्तं न विद्यते ।। ९.१२ ।।

पिण्डस्थे पादं एकं तु द्वौ पादौ गर्भसंमिते ।
पादोनं व्रतं उद्दिष्टं हत्वा गर्भं अचेतनम् ।। ९.१३ ।।

पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च ।
त्रिपादे तु शिखा वर्जं सशिखं तु निपातने ।। ९.१४ ।।

पादे वस्त्रयुगं चैव द्विपादे कांस्यभाजनम् ।
त्रिपादे गोवृषं दद्याच्चतुर्थे गोद्वयं स्मृतम् ।। ९.१५ ।।

निष्पन्नसर्वगात्रस्तु दृश्यते वा सचेतनः ।
अङ्गप्रत्यङ्गसंपूर्णो द्विगुणं गोव्रतं चरेत् ।। ९.१६ ।।

पाषाणेनाथ दण्डेन गावो येनाभिघातिताः ।
शृङ्गभङ्गे चरेत्पादं द्वौ पादौ नेत्रघातने ।। ९.१७ ।।

लाङ्गूले पादकृच्छ्रं तु द्वौ पादावस्थिभञ्जने ।
त्रिपादं चैव कर्णे तु चरेत्सर्वं निपातने ।। ९.१८ ।।

शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव च ।
यदि जीवति षण्मासान्प्रायश्चित्त्तं न विद्यते ।। ९.१९ ।।

व्रणभङ्गे च कर्तव्यः स्नेहाभ्यङ्गस्तु पाणिना ।
यवसश्चोपहर्तव्यो यावद्दृढबलो भवेत् ।। ९.२० ।।

यावत्संपूर्णसर्वाङ्गस्तावत्तं पोषयेन्नरः ।
गोरूपं ब्राह्मणस्याग्रे नमस्कृत्वा विसर्जयेत् ।। ९.२१ ।।

यद्यसंपूर्णसर्गाङ्गो हीनदेहो भवेत्तदा ।
गोघातकस्य तस्यार्थं प्रायश्चित्तं विनिर्दिशेत् ।। ९.२२ ।।

काष्ठलोष्टकपाषाणैः शस्त्रेणैवोद्धतो बलात् ।
व्यापादयति यो गां तु तस्य शुद्धिं विनिर्दिशेत् ।। ९.२३ ।।

चरेत्सांतपनं काष्ठे प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे सस्त्रे चैवातिकृच्छ्रकम् ।। ९.२४ ।।

पञ्च संतपने गावः प्राजापत्ये तथा त्रयः ।
तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश ।। ९.२५ ।।

प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् ।
तस्यानुरूपं मूल्यं वा दद्यादित्यब्रवीन्मनुः ।। ९.२६ ।।

अन्यत्राङ्कनलक्ष्मभ्यां वाहने मोचने तथा ।
सायं संगोपनार्थं च न दुष्येद्रोधबन्धयोः ।। ९.२७ ।।

अतिदाहेऽतिवाहे च नासिकाभेदने तथा ।
नदीपर्वतसंचारे प्रायश्चित्तं विनिर्दिशेत् ।। ९.२८ ।।

अतिदाहे चरेत्पादं द्वौ पादौ वाहने चरेत् ।
नासिक्ये पदहीनं तु चरेत्सर्वं निपातने ।। ९.२९ ।।

दहानात्तु विपद्यते अनड्वान्योक्त्रयन्त्रितः ।
उक्तं पराशरेणैव ह्येकपादं यथाविधि ।। ९.३० ।।

रोधनं बन्धनं चैव भारः प्रहरणं तथा ।
दुर्गप्रेरणयोक्त्रं च निमित्तानि वधस्य षट् ।। ९.३१ ।।

बन्धपाशसुगुप्ताङ्गो म्रियते यदि गोपशुः ।
भवने तस्य पापी स्यात्प्रायश्चित्तार्धं अर्हति ।। ९.३२ ।।

न नारिकेलैर्न च शाणवालैः न वापि मौञ्जैर्न च वल्कशृङ्खलैः ।
एतैस्तु गावो न निबन्धनीया बद्ध्वापि तिष्ठेत्परशुं गृहीत्वा ।। ९.३३ ।।

कुशैः काशैश्च बध्नीयाद्गोपशुं दक्षिणामुखम् ।
पाशलग्नाग्निदग्धासु प्रायश्चित्तं न विद्यते ।। ९.३४ ।।

यदि तत्र भवेत्काष्ठं प्रायश्चित्तं कथं भवेत् ।
जपित्वा पावनीं देवीं मुच्यते तत्र किल्बिषात् ।। ९.३५ ।।

प्रेरयन्कूपवापीषु वृक्षच्छेदेषु पातयन् ।
गवाशनेषु विक्रीणंस्ततः प्राप्नोति गोवधं ।। ९.३६ ।।

आराधितस्तु यः कश्चिद्भिन्नकक्षो यदा भवेत् ।
श्रवणं हृदयं भिन्नं मग्नो वा कूपसंकटे ।। ९.३७ ।।

कूपादुत्क्रमणे चैव भग्नो वा ग्रीवपादयोः ।
स एव म्रियते तत्र त्रीन्पादांस्तु समाचरेत् ।। ९.३८ ।।

कूपखाटे तटाबन्धे नदीबन्धे प्रपासु च ।
पानीयेषु विपन्नानां प्रायश्चित्तं न विद्यते ।। ९.३९ ।।

कूपखाते तटाखाते दीर्घखाते तथैव च ।
अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते ।। ९.४० ।।

वेश्मद्वारे निवासेषु यो नरः खातं इच्छति ।
स्वकार्यगृहखतेषु प्रायश्चित्तं विनिर्दिशेत् ।। ९.४१ ।।

निशि बन्धनिरुद्धेषु सर्पव्याघ्रहतेषु च ।
अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ।। ९.४२ ।।

ग्रामघाते शरौघेण वेश्मभङ्गान्निपातने ।
अतिवृष्टिहतानां च प्रायश्चित्तं न विद्यते ।। ९.४३ ।।

संग्रामे प्रहतानां च ये दग्धा वेश्मकेषु च ।
दावाग्निग्रामघातेषु प्रायश्चित्तं न विद्याते ।। ९.४४ ।।

यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने ।
यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते ।। ९.४५ ।।

व्यापन्नानां बहूनां च बन्धने रोधनेऽपि वा ।
भिषङ्मिथ्योपचारे च प्रायश्चित्तं विनिर्दिशेत् ।। ९.४६ ।।

गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः ।
अनिवारयतां तेषां सर्वेषां पातकं भवेत् ।। ९.४७ ।।

एको हतो यैर्बहुभिः समेतैर्न ज्ञायते यस्य हतोऽभिघातात् ।
दिव्येन तेषां उपलभ्य हन्ता निवर्तनीयो नृपसंनियुक्तैः ।। ९.४८ ।।

एका चेद्बहुभिः काचिद्दैवाद्व्यापादिता यदि ।
पादं पादं तु हत्यायाश्चरेयुस्ते पृथक्पृथक् ।। ९.४९ ।।

हते तु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत् ।
लाला भवति दष्टेषु एवं अन्वेषणं भवेत् ।। ९.५० ।।

ग्रासार्थं चोदितो वापि अध्वानं नैव गच्छति ।
मनुना चैवं एकेन सर्वशास्त्राणि जानता ।। ९.५१ ।।

प्रायश्चित्तं तु तेनोक्तं गोघ्नश्चान्द्रायणं चरेत् ।
केशानां रक्षणार्थाय द्विगुणं व्रतं आचरेत् ।। ९.५२ ।।

द्विगुणे व्रत आदिष्टे द्विगुणा दक्षिणा भवेत् ।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।। ९.५३ ।।

अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् ।
सर्वान्केशान्समुद्धृत्य च्छेदयेदङ्गुलद्वयं ।। ९.५४ ।।

एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् ।
न स्त्रियाः केशवपनं न दूरे शयनाशनं ।। ९.५५ ।।

न च गोष्ठे वसेद्रात्रौ न दिवा गा अनुव्रजेत् ।
नदीषु संगमे चैव अरण्येषु विशेषतः ।। ९.५६ ।।

न स्त्रीणां अजिनं वासो व्रतं एव समाचरेत् ।
त्रिसंध्यं स्नानं इत्युक्तं सुराणां अर्चनं तथा ।। ९.५७ ।।

बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् ।
गृहेषु सततं तिष्ठेच्छुचिर्नियमं आचरेत् ।। ९.५८ ।।

इह यो गोवधं कृत्वा प्रच्छादयितुं इच्छति ।
स याति नरकं घोरं कालसूत्रं असंशयं ।। ९.५९ ।।

विमुक्तो नरकात्तस्मान्मर्त्यलोके प्रजायते ।
क्लीबो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः ।। ९.६० ।।

तस्मात्प्रकाशयेत्पापं स्वधर्मं सततं चरेत् ।
स्त्रीबालभृत्यगोविप्रेष्वतिकोपं विवर्जयेत् ।। ९.६१ ।।