पराशरस्मृतिः/अष्टमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमोध्यायः पराशरस्मृतिः
अष्टमोध्यायः
पराशरः
नवमोध्यायः →

गवां बन्धनयोक्त्रेषु भवेन्मृत्युरकामतः ।
अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ।। ८.१ ।।

वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् ।
स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ।। ८.२ ।।

सावित्र्याश्चापि गायत्र्याः संध्योपास्त्यग्निकार्ययोः ।
अज्ञानात्कृषिकर्तारो ब्राह्मणा नामधारकाः ।। ८.३ ।।

अव्रतानां अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ।। ८.४ ।।

यद्वदन्ति तमोमूढा मूर्खा धर्मं अतद्विदः ।
तत्पापं शतधा भूत्वा तद्वक्तॄनधिगच्छति ।। ८.५ ।।

अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः ।
प्रायश्चित्ती भवेत्पूतः किल्बिषं पर्षदि व्रजेत् ।। ८.६ ।।

चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः ।
स धर्मेति विज्ञेयो नेतरैस्तु सहस्रशः ।। ८.७ ।।

प्रमाणमार्गं मार्गन्तो ये धर्मं प्रवदन्ति वै ।
तेषां उद्विजते पापं सद्भूतगुणवादिनाम् ।। ८.८ ।।

यथाश्मनि स्थितं तोयं मारुतार्केण शुध्यति ।
एवं परिषदादेशान्नाशयेत्तस्य दुष्कृतं ।। ८.९ ।।

नैव गच्छति कर्तारं नैव गच्छति पर्षदम् ।
मारुतार्कादिसम्योगात्पापं नश्यति तोयवत् ।। ८.१० ।।

चत्वारो वा त्रयो वापि वेदवन्तोऽग्निहोत्रिणः ।
ब्राह्मणानां समर्था ये परिषत्साभिधीयते ।। ८.११ ।।

अनाहिताग्नयो येऽन्ये वेदवेदाङ्गपारगाः ।
पञ्च त्रयो वा धर्मज्ञाः परिषत्सा प्रकीर्तिता ।। ८.१२ ।।

मुनीनां आत्मविद्यानां द्विजानां यज्ञयाजिनाम् ।
वेदव्रतेषु स्नातानां एकोऽपि परिषद्भवेत् ।। ८.१३ ।।

पञ्च पूर्वं मया प्रोक्तास्तेषां चासंभवे त्रयः ।
स्ववृत्तिपरितुष्टो ये परिषत्सा प्रकीर्तिता ।। ८.१४ ।।

अत ऊर्ध्वं तु ये विप्राः केवलं नामधारकाः ।
परिषत्त्वं न तेष्वस्ति सहस्रगुणितेष्वपि ।। ८.१५ ।।

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणस्त्वनधीयानस्त्रयस्ते नामधारकाः ।। ८.१६ ।।

ग्रामस्थानं यथा शून्यं यथा कूपस्तु निर्जलः ।
यथा हुतं अनग्नौ च अमन्त्रो ब्राह्मणस्तथा ।। ८.१७ ।।

यथा षण्ढोऽफलः स्त्रीषु यथा गौरूषराफला ।
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ।। ८.१८ ।।

चित्रकर्म यथानेकैरङ्गैरुन्मील्यते शनैः ।
ब्राह्मण्यं अपि तद्वद्धि संस्कारैर्मन्त्रपुर्वकैः ।। ८.१९ ।।

प्रायश्चित्तं प्रयच्छन्ति ये द्विजा नामधारकाः ।
ते द्विजा पापकर्माणः समेता नरकं ययुः ।। ८.२० ।।

ये पठन्ति द्विजा वेदं पञ्चयज्ञरताश्च ये ।
त्रैलोक्यं तारयन्त्येते पञ्चेन्द्रियरता अपि ।। ८.२१ ।।

संप्रणीतः श्मशानेषु दीप्तोऽग्निः सर्वभक्षकः ।
एवं च वेदविद्विप्रः सर्वभक्षोऽपि दैवतं ।। ८.२२ ।।

अमेध्यानि तु सर्वाणि प्रक्षिप्यन्ते यथोदके ।
तथैव किल्बिषं सर्वं प्रक्षिपेच्च द्विजानले ।। ८.२३ ।।

गायत्रीरहितो विप्रः शूद्रादप्यशुचिर्भवेत् ।
गायत्रीब्रह्मतत्त्वज्ञाः संपूज्यन्ते जनैर्द्विजाः ।। ८.२४ ।।

दुःशीलोऽपि द्विजः पूज्यो न तु शूद्रो जितेन्द्रियः ।
कः परित्यज्य गां दुष्टां दुहेच्छीलवतीं खरीं ।। ८.२५ ।।

धर्मशास्त्ररथारूढा वेदखड्गधरा द्विजाः ।
क्रीडार्थं अपि यद्ब्रूयुः स धर्मः परमः स्मृतः ।। ८.२६ ।।

चातुर्वेद्यो विकल्पी च अङ्गविद्धर्मपाठकः ।
त्रयश्च आश्रमो मुख्याः पर्षदेषा दशावरा ।। ८.२७ ।।

राज्ञश्चानुमते स्थित्वा प्रायश्चित्तं विनिर्दिशेत् ।
स्वयं एव न कर्तव्यं कर्तव्या स्वल्पनिष्कृतिः ।। ८.२८ ।।

ब्राह्मणांस्तानतिक्रम्य राजा कर्तुं यदिच्छति ।
तत्पापं शतधा भूत्वा राजानं अनुगच्छति ।। ८.२९ ।।

प्रायश्चित्तं सदा दद्याद्देवतायतनाग्रतः ।
आत्मकृच्छ्रं ततः कृत्वा जपेद्वै वेदमातरम् ।। ८.३० ।।

सशिखं वपनं कृत्वा त्रिसंध्यं अवगाहनम् ।
गवां मध्ये वसेद्रात्रौ दिवा गाश्चाप्यनुव्रजेत् ।। ८.३१ ।।

उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ।। ८.३२ ।।

आत्मनो यदि वान्येषां गृहे क्षेत्रे खलेऽथ वा ।
भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् ।। ८.३३ ।।

पिबन्तीषु पिबेत्तोयं संविशन्तीषु संविशेत् ।
पतितां पङ्कमग्नां वा सर्वप्राणैः समुद्धरेत् ।। ८.३४ ।।

ब्राह्मणार्थे गवार्थे वा यस्तु प्राणान्परित्यजेत् ।
मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ।। ८.३५ ।।

गोवधस्यानुरूपेण प्राजापत्यं विनिर्दिशेत् ।
प्राजापत्यं ततः कृच्छ्रं विभजेत्तच्चतुर्विधं ।। ८.३६ ।।

एकाहं एकभक्ताशी एकाहं नक्तभोजनः ।
अयाचिताश्येकं अहरेकाहं मारुताशनः ।। ८.३७ ।।

दिनद्वयं चैकभक्तो द्विदिनं चैकभोजनः ।
दिनद्वयं अयाची स्याद्द्विदिनं मारुताशनः ।। ८.३८ ।।

त्रिदिनं चैकभक्ताशी त्रिदिनं नक्तभोजनः ।
दिनत्रयं अयाची स्यात्त्रिदिनं मारुताशनः ।। ८.३९ ।।

चतुरहं चैकभक्ताशी चतुरहं नक्तभोजनः ।
चतुर्दिनं अयाची स्याच्चतुरहं मारुताशनः ।। ८.४० ।।

प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ।
विप्राणां दक्षिणां दद्यात्पवित्राणि जपेद्द्विजः ।। ८.४१ ।।

ब्राह्मणान्भोजयित्वा तु गोघ्नः शुद्धो न संशयः ।। ८.४१ ।१ ।।