पराशरस्मृतिः/दशमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमोध्यायः पराशरस्मृतिः
दशमोध्यायः
पराशरः
एकादशोध्यायः →

चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम् ।
अगम्या गमने चैव शुद्ध्यै चान्द्रायणं चरेत् ।। १०.१ ।।

एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत् ।
अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः ।। १०.२ ।।

कुक्कुटाण्डप्रमाणं तु ग्रासं वै परिकल्पयेत् ।
अन्याथा भावदोषेण न धर्मो न च शुध्यति ।। १०.३ ।।

प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्रह्मणभोजनम् ।
गोद्वयं वस्त्रयुग्मं च दद्याद्विप्रेषु दक्षिणां ।। १०.४ ।।

चण्डालीं वा श्वपाकीं वा ह्यभिगच्छति यो द्विजः ।
त्रिरात्रं उपवासित्वा विप्राणां अनुशासनम् ।। १०.५ ।।

सशिखं पवनं कृत्वा प्राजापत्यद्वयं चरेत् ।
गोद्वयं दक्षिणां दद्याच्छुद्धिं पाराशरोऽब्रवीत् ।। १०.६ ।।

क्षत्रियो वाथ वैश्यो वा चण्डालीं गच्छतो यदि ।
प्राजापत्यद्वयं कुर्याद्दद्याद्गोमिथुनद्वयं ।। १०.७ ।।

श्वपाकीं वाथ चण्डालीं शूद्रो वा यदि गच्छति ।
प्राजापत्यं चरेत्कृच्छ्रं चतुर्गोमिथुनं ददेत् ।। १०.८ ।।

मातरं यदि गच्छेत्तु भगिनीं स्वसुतां तथा ।
एतास्तु मोहितो गत्वा त्रीणि कृच्छ्राणि संचरेत् ।। १०.९ ।।

चान्द्रायणत्रयं कुर्याच्छिश्नच्छेदेन शुध्यति ।
मातृष्वसृगमे चैवं आत्ममेढ्रनिकर्तनं ।। १०.१० ।।

अज्ञानेन तु यो गच्छेत्कुर्याच्चान्द्रायणद्वयम् ।
दश गोमिथुनं दद्याच्छुद्धिं पारशरोऽब्रवीत् ।। १०.११ ।।

पितृदारान्समारुह्य मातुराप्तां तु भ्रातृजाम् ।
गुरुपात्नीं स्नुषां चैव भ्रातृभार्यां तथैव च ।। १०.१२ ।।

मातुलानीं सगोत्रां च प्राजापत्यत्रयं चरेत् ।
गोद्वयं दक्षिणां दद्याच्छुध्यते नात्र संशयः ।। १०.१३ ।।

पशुवेष्यादिगमने महिष्युष्ट्रीकपीस्तथा ।
खरीं च सूकरीं गत्वा प्राजापत्यव्रतं चरेत् ।। १०.१४ ।।

गोगामी च त्रिरात्रेण गां एकां ब्राह्मणे ददन् ।
महिष्युष्ट्रीखरीगामी त्वहोरात्रेण शुध्यति ।। १०.१५ ।।

डामरे समरे वापि दुर्भिक्षे वा जनक्षये ।
बन्दिग्राहे भयार्ता वा सदा स्वस्त्रीं निरीक्षयेत् ।। १०.१६ ।।

चण्डालैः सह संपर्कं या नारी कुरुते ततः ।
विप्रान्दश वरान्कृत्वा स्वकं दोषं प्रकाशयेत् ।। १०.१७ ।।

आकण्ठसंमिते कूपे गोमयोदककर्दमे ।
तत्र स्थित्वा निराहारा त्वहोरात्रेण निष्क्रमेत् ।। १०.१८ ।।

सशिखं वपनं कृत्वा भुञ्जीयाद्यावकौदनम् ।
त्रिरात्रं उपवासित्वा त्वेकरात्रं जले वसेत् ।। १०.१९ ।।

शंखपुष्पीलतामूलं पत्रं वा कुसुमं फलम् ।
सुवर्णं पञ्चगव्यं च क्वाथयित्वा पिबेज्जलम् ।। १०.२० ।।

एकभक्तं चरेत्पश्चाद्यावत्पुष्पवती भवेत् ।
व्रतं चरति तद्यावत्तावत्संवसते बहिः ।। १०.२१ ।।

प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ।
गोद्वयं दक्षिणां दद्यच्छुद्धिं पाराशरोऽब्रवीत् ।। १०.२२ ।।

चातुर्वर्ण्यस्य नारीणां कृच्छ्रं चान्द्रायणं व्रतम् ।
यथा भूमिस्तथा नारी तस्मात्तां न तु दूषयेत् ।। १०.२३ ।।

बन्दिग्राहेण या भुक्ता हत्वा बद्ध्वा बलाद्भयात् ।
कृत्वा सांतपनं कृच्छ्रं शुध्येत्पाराशरोऽब्रवीत् ।। १०.२४ ।।

सकृद्भुक्ता तु या नारी नेच्छन्ती पापकर्मभिः ।
प्राजापत्येन शुध्येत ऋतुप्रस्रवणेन च ।। १०.२५ ।।

पतत्यर्धं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृतिर्न विधीयते ।। १०.२६ ।।

गायत्रीं जपमानस्तु कृच्छ्रं सांतपनं चरेत् ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ।। १०.२७ ।।

एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ।
जारेण जनयेद्गर्भं मृतेऽव्यक्ते गते पतौ ।। १०.२८ ।।

तां त्यजेदपरे राष्ट्रे पतितां पापकारिणीम् ।
ब्राह्मणी तु यदा गच्छेत्परपुंसा समन्विता ।। १०.२९ ।।

सा तु नष्टा विनिर्दिष्टा न तस्यागमनं पुनः ।
कामान्मोहात्तु या गच्छेत्त्यक्त्वा बन्धून्सुतान्पतिं ।। १०.३० ।।

सा तु नष्टा परे लोके मानुषेषु विशेषतः ।
मदमोहगता नारी क्रोधाद्दण्डादिताडिता ।। १०.३१ ।।

अद्वितीया गता चैव पुनरागमनं भवेत् ।
दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते ।। १०.३२ ।।

दशाहं न त्यजेन्नारीं त्यजेन्नष्टश्रुतां तथा ।
भर्ता चैव चरेत्कृच्छ्रं कृच्छार्धं चैव बान्धवाः ।। १०.३३ ।।

तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुध्यति ।
ब्राह्मणी तु यदा गच्छेत्परपुंसा विवर्जिता ।। १०.३४ ।।

गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोत्रिणः ।
पुंसो यदि गृहे गच्छेत्तदशुद्धं गृहं भवेत् ।। १०.३५ ।।

पतिमातृगृहं यच्च जारस्यैव तु तद्गृहम् ।
उल्लिख्य तद्गृहं पश्चात्पञ्चगव्येन सेचयेत् ।। १०.३६ ।।

त्यजेच्च मृण्मयं पात्रं वस्त्रं काष्ठं च शोधयेत् ।
संभारान्शोधयेत्सर्वान्गोबालैश्च फलोद्भवान् ।। १०.३७ ।।

ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः ।
प्रायश्चित्तं चरेद्विप्रो ब्राह्मणैरुपपादितम् ।। १०.३८ ।।

गोद्वयं दक्षिणां दद्यात्प्राजापत्यद्वयं चरेत् ।
इतरेषां अहोरात्रं पञ्चगव्यं च शोधनम् ।। १०.३९ ।।

उपवासैर्व्रतैः पुण्यैः स्नानसंध्यार्चनादिभिः ।
जपहोमदयादानैः शुध्यन्ते ब्राह्मणादयः ।। १०.४० ।।

आकाशं वायुरग्निश्च मेध्यं भूमिगतं जलम् ।
न प्रदुष्यन्ति दर्भाश्च यज्ञेषु चमसा यथा ।। १०.४१ ।।