पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

शौनक उवाच
कर्मणा केन भोः सूत चैनसां संक्षयो भवेत्
श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकंपया १
सूत उवाच
शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम्
येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी २
पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितः
कुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः ३
कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने
तस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम् ४
द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातये
तस्य नश्यंति पापानि तमांसी वारुणोदये ५
यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विज
तत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः ६
मंत्रं विना तु यो विप्र दद्याच्छ्रीहरये किल
पाषाणसदृशं पुष्पं दाता याति अधोगतिम् ७
क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत्
दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते ८
विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीः
कालानलं यथा जीर्णं तेन स निरयं व्रजेत् ९
यथा दारुमयो हस्ती मृगश्चित्रमयो यथा
विद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः १०
यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यति
भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम् ११
यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिने
दद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम् १२
भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः
न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः १३
वराटिकां यावतीं यो हरये पौर्णिमादिने
तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम् १४
करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः
कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः १५
स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः
एकदा पंचतां यातो यमदूता भयंकराः १६
आगतास्तं समानेतुं यमस्यतु निकेतनम्
बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः १७
यम उवाच
अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम्
कथयस्व समूलं तु चित्रगुप्त विचक्षण १८
चित्रगुप्त उवाच
असौ पापी दुराचारः स्वामिकार्यप्रणाशकः
नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् १९
शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः
पाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम् २०
सूत उवाच
तावत्कालं ततो विप्र निरये स पपात ह
ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः २१
एकदा चाश्विने मासि पौर्णमासीदिने द्विज
लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः २२
पतिता सा हरेरग्रे पापमस्य स्वयं हरिः
तूर्णं तु नाशयामास दयालुर्दुःखनाशकः २३
कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम ह
यमदूतास्तमानेतुं चागता बहुशो द्विज २४
बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति
तदागता विष्णुदूताः शंखचक्रगदाधराः २५
पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम्
तत्र चारोपयामासुः यमदूताः पलायिताः २६
ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ
तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः २७
भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज
वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम् २८
य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम्
तस्य नश्यंति पापानि श्रीहरेः कृपयापि च २९
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे षोडशोऽध्यायः १६