पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →

शौनक उवाच।
विष्णुपादोदकस्यापि माहात्म्यं पापनाशनम् ।
कथयस्व महाप्राज्ञ समूलं मे कृपार्णव १।
सूत उवाच।
समस्तपातकध्वंसि विष्णुपादोदकं शुभम् ।
कणमात्रं वहेद्यस्तु सर्वतीर्थफलं लभेत् २।
विष्णुपादोदकं ब्रह्मन्स्पर्शतः पापनाशनम् ।
अकालमरणं नास्ति गंगास्नानफलं लभेत् ३।
विष्णुपादोदकं पापी यः पिबेत्तस्य किल्बिषम् ।
शरीरस्थं क्षयं याति कृतं ब्रह्मन्न संशयः ४।
तुलसीपर्णसंयुक्तं विष्णुपादोदकं द्विज ।
यो वहेच्छिरसा भक्त्या चांते याति हरेर्गृहम् ५।
मेरुतुल्यसुवर्णानि दत्त्वा यत्फलमाप्यते ।
हरिपादोदकं स्पृष्ट्वा प्राप्यते तत्फलं नरैः ६।
धेनुकोटिसहस्राणि यत्फलं लभते नरैः ।
दत्वा पादोदकं स्पृष्ट्वा तत्फलं प्राप्यते ध्रुवम् ७।
यज्ञकोटिसहस्राणि कृत्वा यत्फलमाप्यते ।
हरिपादोदकं स्पृष्ट्वा तस्मात्कोटिगुणं नरैः ८।
कोटिकन्याप्रदानेन यत्फलं लभ्यते जनैः ।
विष्णुपादोदकं स्पृष्ट्वा फलं तस्माद्द्विजाधिकम् ९।
दंतिकोटिप्रदानेन सप्तिकोटिप्रदानतः ।
यत्फलं लभते मर्त्यः स्पृष्ट्वा पादोदकं हरेः १०।
दत्वा मर्त्यः सप्तद्वीपां ससस्यां यत्फलं लभेत् ।
विष्णुपादोदकं स्पृष्ट्वा तस्माद्विप्राधिकं लभेत् ११।
शृणु विप्र प्रवक्ष्यामि संक्षेपेणाधिकं किमु ।
विष्णुपादोदकं स्पृष्ट्वा पापी याति हरेर्गृहम् १२।
शौनक उवाच।
स्पृष्ट्वा पीत्वा पुरा केन प्राणिना प्रापि वै गृहम् ।
कथयस्व हरेः सूत मम त्वं चानुकंपया १३।
सूत उवाच।
पुरा त्रेतायुगे पापी नाम्ना विप्रः सुदर्शनः ।
जनार्द्दनदिने नित्यमश्नीयात्स द्विजोत्तम १४।
शास्त्रनिंदाकरो नित्यं व्रतनिंदाकरः सदा ।
असावन्यं न जानाति केवलं स्वोदरं विना १५।
एकदा प्राप्तकालस्तु निधनं प्राप्तवान्द्विज ।
यमदूताः समायाता बद्ध्वा नीतो यमालयम् १६।
तं दृष्ट्वा यमुनाभ्राता पप्रच्छ सचिवं रुषा ।
भोऽमात्य चास्य यत्पुण्यं पापं वद समूलतः १७।
असौ विप्रो महापापी क्रूरकर्म्मेव दृश्यते १८।
चित्रगुप्त उवाच।
आकर्णय चास्य पापं पुण्यं नास्त्यणुमात्रकम् ।
वासरेऽपि हरेर्नित्यमकरोद्भोजनं विभो १९।
वासरे कमलाभर्तुश्चाश्नीयाद्यो नराधमः ।
पुरीषं सोऽश्नीयाद्राजन्निरयं याति दारुणम् २०।
मन्वंतरशतं देहि स्थानं तु निरयेऽप्यमुम् ।
ग्रामक्रोडस्य योनौ हि ततो जन्म भविष्यति २१।
सूत उवाच।
यमाज्ञया ततो विप्र तस्य दूतैर्भयंकरैः ।
पातितस्तु पुरीषे वै मन्वंतरशताधिकम् २२।
ततो मुक्तोऽभवच्चासौ पृथिव्यां ग्रामसूकरः ।
चिरं नरकमश्नीयाद्धरिवासरभोजनात् २३।
ततो विप्र प्राप्तकालः पंचत्वं स जगाम ह ।
काकयोनौ पुनर्जन्म लेभेऽसौ विड्भुजः सदा २४।
एकस्मिन्दिवसे विप्र श्रीहरेश्चरणोदकम् ।
द्वारदेशेस्थितं पीत्वा सर्वपापविवर्जितः २५।
तस्मिन्नेव दिने काकः पतितः शबरस्य च ।
काले मृत्युदशां प्राप्तो व्याधेन वायसोपि च २६।
आगते स्यंदने दिव्ये राजहंसयुते शुभे ।
आरुह्य बलिभुग्विप्र ययौ स हरिमंदिरम् २७।
पादोदकस्य माहात्म्यं कथितं पापनाशनम् ।
यः शृणोति नरः पापी तस्य पापं विनश्यति २८।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे चरणोदकमाहात्म्ये सप्तदशोऽध्यायः १७।