पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १६
← अध्यायः १५ | पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः) अध्यायः १६ [[लेखकः :|]] |
अध्यायः १७ → |
शौनक उवाच ।
कर्मणा केन भोः सूत चैनसां संक्षयो भवेत् ।
श्रीहरेश्च कृपा भूयात्तद्वदस्वानुकंपया १।
सूत उवाच ।
शृणु शौनक वक्ष्यामि शृण्वतां पापनाशनम् ।
येन विष्णोः कृपा स्याद्वै वृजिनक्षयकारिणी २।
पौर्णमास्यां तु यो विप्र भक्तिभावसमन्वितः ।
कुर्य्यान्नानाविधानेन सपर्य्यां श्रीजगद्विभोः ३।
कलुषं तस्य नश्येत कोटिजन्मार्जितं मुने ।
तस्मिन्श्रीरमणस्यास्य कृपा जाता भवेद्ध्रुवम् ४।
द्वादश्यामन्नदानं यो भक्त्या कुर्याद्द्विजातये ।
तस्य नश्यंति पापानि तमांसी वारुणोदये ५।
यो नरः श्रीहरिं कुर्यात्स्नपनं पयसा द्विज ।
तत्प्रीतिः श्रीहरेः सद्यो द्वादश्यां शर्करादिभिः ६।
मंत्रं विना तु यो विप्र दद्याच्छ्रीहरये किल ।
पाषाणसदृशं पुष्पं दाता याति अधोगतिम् ७।
क्ष्मासुराय च मूर्खाय पाषाणसदृशं तु यत् ।
दद्याद्दानं नरो यो वै तस्य पुण्यं न विद्यते ८।
विद्याहीनो द्विजो मोहाद्दानं गृह्णाति मूढधीः ।
कालानलं यथा जीर्णं तेन स निरयं व्रजेत् ९।
यथा दारुमयो हस्ती मृगश्चित्रमयो यथा ।
विद्याहीनो द्विजो विप्र त्रयस्ते नामधारकाः १०।
यथाध्वनिस्थितं वारि पवनार्केण शुद्ध्यति ।
भक्त्या तु पार्षदं दृष्ट्वा तस्य नश्यति कल्मषम् ११।
यो नरश्चाश्विने मासि सघृतान्पूर्णिमा दिने ।
दद्याच्छ्रीहरये लाजान्क्रीडार्थं तु वराटिकाम् १२।
भक्त्या याति हरेः स्थानं पुनरावृत्तिवर्जितः ।
न दद्याद्यो नरो मोहात्तस्मिन्न तुष्टिदो हरिः १३।
वराटिकां यावतीं यो हरये पौर्णिमादिने ।
तावद्दिनं हरेः स्थानं चाश्विने संवसेद्ध्रुवम् १४।
करवीरपुरे ह्यासीत्पुरा शूद्रोऽपि निर्द्दयः ।
कालद्विजो द्विजश्रेष्ठ नाम्ना पापी भयंकरः १५।
स्वकार्यनिरतः सोऽपि स्वामिकार्यप्रणाशकः ।
एकदा पंचतां यातो यमदूता भयंकराः १६।
आगतास्तं समानेतुं यमस्यतु निकेतनम् ।
बद्ध्वा निन्युश्च तं दृष्ट्वा पृष्टवान्सचिवं यमः १७।
यम उवाच ।
अस्य किं विद्यतेऽमात्य कर्मापि च शुभाशुभम् ।
कथयस्व समूलं तु चित्रगुप्त विचक्षण १८।
चित्रगुप्त उवाच।
असौ पापी दुराचारः स्वामिकार्यप्रणाशकः ।
नास्ति पुण्यं चाणुमात्रं नरके परिपच्यताम् १९।
शतमन्वन्तरं राजन्नागयोनौ च निष्ठुरः ।
पाषाणे जन्म चासाद्य गृहे स्थातुं निरंतरम् २०।
सूत उवाच ।
तावत्कालं ततो विप्र निरये स पपात ह ।
ततोऽप्यश्मगृहे नागयोनौ जातः सुदुःखितः २१।
एकदा चाश्विने मासि पौर्णमासीदिने द्विज ।
लाजान्वराटिका नागो बिलात्प्राक्षेपयद्बहिः २२।
पतिता सा हरेरग्रे पापमस्य स्वयं हरिः ।
तूर्णं तु नाशयामास दयालुर्दुःखनाशकः २३।
कदाचित्प्राप्तकालस्तु पंचत्वं स जगाम ह ।
यमदूतास्तमानेतुं चागता बहुशो द्विज २४।
बद्ध्वा नेतुं यदा चक्रुर्यमस्य सदनं प्रति ।
तदागता विष्णुदूताः शंखचक्रगदाधराः २५।
पाशं छित्त्वा रथे दिव्ये तमाशुगतकिल्बिषम् ।
तत्र चारोपयामासुः यमदूताः पलायिताः २६।
ततो निकेतनं विष्णोर्नागस्तैर्वेष्टितो ययौ ।
तत्र तस्थौ हरेरग्रे पुनरावर्त्तिवर्जितः २७।
भक्त्या यो हरये दद्याल्लाजांश्च सघृतान्द्विज ।
वराटिकां तस्य पुण्यं न जाने किं भवेद्ध्रुवम् २८।
य इमं शृणुयाद्विप्र चाध्यायं पापनाशनम् ।
तस्य नश्यंति पापानि श्रीहरेः कृपयापि च २९।
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे सूतशौनकसंवादे षोडशोऽध्यायः १६।