सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →

शौनक उवाच।
सुकृतं किं तथा प्राह कृत्वा संसारसागरात् ।
तरिष्यंति कलौ सूत तमोन्धकूपमंडुकाः १।
सूत उवाच।
राधाकृष्णप्रिये चौर्जे प्रातःस्नानं समाचरेत् ।
राधादामोदरं भक्त्या कुर्यात्पूजां समाहिता २।
त्यक्त्वामिषादिकं ब्रह्मन्पतिसेवापरायणा ।
सा याति श्रीहरेः स्थानं गोलोकाख्यं सुदुर्ल्लभम् ३।
राधादामोदराभ्यां या धूपदीपं तु कार्तिके ।
दद्यात्सा भवनं विष्णोर्याति वै त्यक्तपातकाः ४।
योषिद्या कार्त्तिके विप्र दद्याद्वस्त्रं निकेतने ।
राधादामोदराभ्यां तु वसेत्सा श्रीहरेश्चिरम् ५।
राधादामोदराभ्यां सा पुष्पं माल्यं सुवासितम् ।
कार्तिके मासि सा दद्याद्याति वैकुंठमंदिरम् ६।
गंधं या चापि नैवेद्यं दद्याद्वै शर्करादिकम् ।
राधादामोदराभ्यां सा गच्छेद्वै विष्णुमंदिरम् ७।
यत्किंचिद्यच्छति ब्रह्मन्कार्तिके च द्विजातये ।
राधादामोदरप्रीत्यै तस्याः पुण्याक्षयं भवेत् ८।
या नारी कार्तिके भक्त्या राधादामोदरं द्विज ।
प्रातः सपर्यां सा याति न कुर्य्यान्निरयं चिरम् ९।
कदाचिज्जन्मभूमौ सा विधवा प्रति जन्मनि ।
भवेच्चासाद्य पूर्व्वं वै चाप्रिया स्वामिनोऽपि च १०।
पुरा त्रेतायुगे विप्र वृषलो नाम शंकरः ।
सौराष्ट्रदेशवासी च तस्य जाया कलिप्रिया ११।
जाराकांक्षी सदा नाम्ना तृणवन्मन्यते पतिम् ।
असौ पतिर्न मे योग्यो मे स्वामी परपूरुषः १२।
इति मत्वा सदा तस्मै चोच्छिष्टं तु ददाति वै ।
नीचसंगान्महामूढा मद्यमांसं चखाद ह १३।
स्वामिनो भर्त्सनां नित्यं कुर्यात्कामं तु निष्ठुरा ।
पादरज्जुर्भवेच्चासौ कस्माद्वै न मृतोऽपि च १४।
मृते तस्मिन्नहं भोगं करिष्यामि यदृच्छया ।
विचार्येति हृदा मूढा जारेणैकेन सा तदा १५।
अन्यदेशं गमिष्यावः संकेतमकरोद्द्विज ।
सुप्तस्य स्वामिनो रात्रौ चासिना तद्गलं द्विज १६।
छित्त्वा जारकृते सापि संकेतस्य स्थलं गता ।
आगतं जारपुरुषं द्वीपिना भक्षितं द्विज १७।
दृष्ट्वा सा रोदनं कृत्वा मूर्च्छिता निपपात ह ।
चिरादाश्वस्य सा मूढा करुणं विललाप ह १८।
कलिप्रियोवाच।
स्वकीयं स्वामिनं हत्वा चागता परपूरुषम् ।
तं जारं स्वामिनं दैवात्शार्दूलो भक्षयन्मम ।
किं करोमि क्व गच्छामि विधात्रा वंचितास्म्यहम् १९।
सूत उवाच।
ततः कलिप्रिया ब्रह्मनागता स्वगृहं प्रति ।
लपने स्वामिनो दत्वा मुखं च विललाप सा २०।
कलिप्रियोवाच।
हा नाथ किं कृतं कर्म्म मया हंतातिदारुणम् ।
कं लोकं वा गमिष्यामि वद स्वामिन्मनाग्गिरम् २१।
भर्त्सनां तु यथाकामं कुर्य्याच्चाहं सुनिंदिता ।
किंचिन्न वदसि स्वामिन्नेनो यन्मे न विद्यते २२।
सूत उवाच।
ननाम चरणे तस्य गतान्यनगरं प्रति ।
तत्र प्रविष्टा सा योषिद्दृष्ट्वा पुण्यजनान्बहून् २३।
ऊर्जे स्नानपरान्प्रातर्नर्मदायां च वैष्णवान् ।
तत्र नद्यां स्त्रियश्चापि राधादामोदरं द्विज २४।
सपर्यां च कृतां चैव शंखनादैर्महोत्सवैः ।
गंधपुष्पैर्धूपदीपैर्वस्त्रैर्नानाविधैः फलैः २५।
मुखवासैर्भक्तियुक्ता दृष्ट्वा सा विनयान्विता ।
पप्रच्छ ब्रूत यूयं मे किमेतत्क्रियते स्त्रियः २६।
स्त्रिय ऊचुः -
सर्वमासोत्तमे चोर्जे राधादामोदरौ शुभौ ।
पूजां कृत्वा वयं मातः सर्वपापहरां शुभाम् २७।
कोटिजन्मार्जितं पापं नष्टं प्राप्तं निकेतनम् ।
सपर्य्यामामिषं त्यक्त्वा कृत्वा सा च हरेर्द्दिने २८।
निधनत्वं पौर्णमास्यां गता सा निर्मला द्विज ।
किंकराश्चागतास्तूर्णं यमस्य निलयं प्रति २९।
नेतुं तां क्रोधसंयुक्ता बबंधुश्चर्मरज्जुभिः ।
तदागता विष्णुदूता विमानं स्वर्णनिर्मितम् ३०।
शंखचक्रगदापद्मधारिणो वनमालिनः ।
निजघ्नुश्चक्रधाराभिर्यमदूताः पलायिताः ३१।
राजहंसयुते विप्र विमाने स्वर्णनिर्मिते ।
आरूढा सा गता तैस्तु वेष्टिता विष्णुमंदिरम् ३२।
तत्र तस्थौ चिरं भोगं कृत्वा सा वै यथेप्सितम् ।
या कुर्यात्कार्त्तिके विप्र राधादामोदरार्चनम् ३३।
याति पूजा त्यक्तपापाद्गोलोकाख्यं मनोहरम् ।
य इदं शृणुयाद्भक्त्या या च नारी समाहिता ।
कोटिजन्मार्जितं पापं तस्य तस्या विनश्यति ३४।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे राधादामोदरपूजामाहात्म्यकथनंनाम विंशतितमोऽध्यायः २०।