पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →

शौनक उवाच।
अज्ञानात्प्राश्य विण्मूत्रं सुरां संस्पृश्य वा पुनः ।
यथा शुद्धिर्भवेत्तेषां कथयामि शृणु द्विज १।
प्राजापत्यद्वयं कुर्य्यात्तीर्थाभिगमनं मुने ।
वृषैकादशगोदानं सशिखं वपनं ततः २।
गत्वा चतुष्पथं सर्वं प्राजापत्यव्रतं तथा ।
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेत्ततः ३।
ब्राह्मणान्भोजयित्वा तु शुद्ध्यत्यत्र न संशयः ।
चांडालान्नं जलं चैव ज्ञानतोऽपि विपत्तिषु ४।
यदि भुङ्क्ते नरः कश्चित्कृच्छ्रं चांद्रायणं चरेत् ।
सशिखं वपनं कृत्वा पंचगव्यं ततः पिबेत् ५।
एकद्वित्रिचतुर्गावो देयाद्विप्रेष्वनुक्रमात् ।
वृषलान्नं सूतकान्नं अभोज्यान्नं जलं च वै ६।
शूद्रोच्छिष्टं यदा भुंक्ते ज्ञानतो वा विपत्तिषु ।
प्राजापत्यद्वयं कुर्याच्चांद्रायणत्रयं तथा ७।
गोद्वयं तु ततो दद्यात्पंचगव्यं पिबेद्द्विज ।
हुत्वा ह्यग्नौ बहून्विप्रान्भोज्यशुद्धो भवेद्ध्रुवम् ८।
आखुनकुलमार्ज्जारैरन्नं चेद्भक्षितं द्विज ।
तिलदर्भोदकैः प्रोक्ष्य शुद्ध्यत्येव न संशयः ९।
पलांडुं लशुनं शिग्रुमलाबुं गृंजनं पलम् ।
भुंक्ते यो वै नरो ब्रह्मन्व्रतं चांद्रायणं चरेत् १०।
मद्यमांसप्रियं शूद्रं नीचकर्म्मानुवर्त्तनैः ।
तं शूद्रं वर्जयेद्विप्र श्वपाकमिव दूरतः ११।
द्विजसेवानुरक्ता ये मद्यमांसविवर्जिताः ।
दान स्वकर्म्मनिरतास्ते ज्ञेया वृषलोत्तमाः १२।
अज्ञानाद्भुंजते विप्र सूतके मृतके यदि ।
गायत्रीदशभिर्विप्रः सहस्रैश्च शुचिर्भवेत् १३।
सहस्रैः क्षत्रियश्चैव वैश्यः पंचसहस्रकैः ।
पंचगव्यैर्भवेच्छुद्धो वृषलोऽपि तपोधन १४।
आज्यं तु तोयं नीचस्य भांडस्थं दधि यः पिबेत् ।
अज्ञानतोऽपि यो वर्णः प्राजापत्यव्रतं चरेत् १५।
दानं बहुतरं दद्याच्छुद्धो ह्यग्नौ यथाविधि ।
शूद्राणां नोपवासोऽपि दानेनैव विशुद्ध्यति १६।
सशिखं वपनं कुर्यादहोरात्रोपवासतः ।
नीचैर्दंडादिभिश्चैव ताडितो यो नरो द्विज १७।
प्राज्ञापत्यव्रतं कुर्य्याच्चांद्रायणव्रतं तु वा ।
सशिखं वपनं चैव पंचगव्यं पिबेत्ततः १८।
गोद्वयं तु ततो दद्यादग्नौ चान्नादिकं हुतम् ।
मद्यपानं गृहे विप्र ज्ञानतोऽपि यदृच्छया १९।
यदि भुंक्ते नरः कश्चित्पात्यः सोऽपि कुलान्नरः ।
गोबीजहंता यो विप्रच्छेदकश्च दलस्य च २०।
स्वर्णस्तेयी भवेत्कृच्छ्रं प्राजापत्यत्रयं चरेत् ।
सशिखं वपनं कृत्वा पंचगव्यं तथा पिबेत् २१।
यथाविधिहुतं चाग्नौ दद्याद्धेनुत्रयं तथा ।
तस्य भुक्तं जलं चैव ग्राह्यं स्याद्वै तपोधन २२।
प्रातस्त्र्यहं तु चाश्नीयात्र्यहं सायमयाचितम् ।
त्र्यहं चैव तु नाश्नीयात्प्राजापत्यमिदं व्रतम् २३।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
दिनद्वयं पिबेद्विप्र चैकरात्रमुपोषितः ।
सर्वपापहरं कृच्छ्रं मुने सांतपनं स्मृतम् २४।
ग्रासं त्र्यहं तु चैकैकं प्रातःसायमयाचितम् ।
अद्यात्त्र्यहं चोपवसेदतिकृच्छ्रमिदं व्रतम् २५।
प्रतित्र्यहं पिबेदुष्णं जलं क्षीरं घृतं द्विज ।
सकृत्स्नायी तप्तकृच्छ्रं स्मृतं पापहरं मुने २६।
अभोजनं द्वादशाहं कृच्छ्रोऽयं पापनाशनः ।
पराको नाम विज्ञेयः प्रसिद्धश्च तपोधन २७।
एकैकं वर्द्धयेत्पिंडं शुक्ले कृष्णे च ह्रासयेत् ।
इंदुक्षये न भुंजीत चांद्रायणव्रतं स्मृतम् २८।
अश्नीयाच्चतुरः प्रातः पिंडान्विप्र समाहितः ।
चतुरोऽस्तमिते चार्के शिशुचांद्रायणं स्मृतम् २९।
कूष्मांडघाती या नारी पंचगव्यं पिबेत्त्र्यहम् ।
कूष्मांडपंचकं दद्यात्ससुवर्णं सवस्त्रकम् ।
तस्या वारि तथा भक्तं ग्राह्यं स्याद्वै तपोधन ३०।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे एकोनविंशोऽध्यायः १९।