पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ पद्मपुराणम्/खण्डः ४ (ब्रह्मखण्डः)
अध्यायः ०४
[[लेखकः :|]]
अध्यायः ०५ →

शौनक उवाच-
जयंत्याः सूत माहात्म्यं कदा सा क्रियते जनैः ।
कथयस्व मयि त्वं वै पोतः संसारसागरे १।
सूत उवाच-
शृणु विप्र प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम ।
पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये २।
नारद उवाच-
जयंत्याश्चैव माहात्म्यं कथयस्व पितामह ।
यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम् ३।
ब्रह्मोवाच-
शृणुष्वावहितो विप्र तवाग्रे कथयाम्यहम् ।
जयंत्या उपवासेन विष्णुलोकं स गच्छति ४।
स्मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने ।
जयंती दहते तच्च किं पुनः सोपवासकृत् ५।
जन्माष्टमी च नवमी चैत्रे मासि सिता शुभा ।
कृष्णा चतुर्दशी कुंभे मेषे शुक्ला चतुर्दशी ६।
दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विता ।
महापुण्याश्च शुभदा जयंत्यः षट्प्रकीर्तिताः ७।
कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी ।
क्रतुकोटिसमा ह्येषा तीर्थानामयुतैः समा ८।
कर्ता गवां सहस्रं तु यो ददाति दिनेदिने ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ९।
हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे १०।
कृष्णाजिनसहस्राणि तिलधेनुशतानि च ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ११।
कन्याकोटिसहस्राणां दाने भवति यत्फलम् ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे १२।
ससागरामिमां पृथ्वीं दत्वा यल्लभते फलम् ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे १३।
वापीकूपतडागदि कर्तव्यं देवतालये ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे १४।
मातापित्रोर्गुरूणां च भक्तिं युक्तः करोति यः ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे १५।
आपदाहरणार्थाय तीर्थसेवाकृतात्मनाम् ।
सत्यव्रतानां यत्पुण्यं जयंत्यां समुपोषणे १६।
गंगायां नर्मदायां यत्पुण्यं सारस्वते जले ।
स्नात्वा पुण्यमवाप्नोति जयंत्यां समुपोषणे १७।
यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिंदुसंक्षये ।
तत्फलं समवाप्नोति जयंत्यां समुपोषणे १८।
नारद उवाच-
केनकेन कृता पूर्वं कथयस्व पितामह ।
ब्रह्मोवाच-
कार्तवीर्येण कर्णेन कुमारेण च धीमता १९।
सगरेण दिलीपेन काकुस्थेन कृता पुरा ।
गौतमेन च गार्ग्येण जामदग्न्येन धीमता २०।
वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना ।
ददाति वांछितान्कामान्भाद्रपस्य सिताष्टमी २१।
प्राजापत्यर्क्षसंयुक्ता विशेषेण मताष्टमी ।
वर्षेवर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः २२।
कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते ।
रात्रौ जागरणं कृत्वा निष्ठापूर्वं जितेंद्रियः २३।
गंधपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक् ।
एवं यः कुरुते विप्र जयंतीसमुपोषणम् २४।
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् २५।
प्रसादाद्देवकीसूनोर्यामार्द्धेन विलीयते ।
जयंतीतिथिसंप्राप्तौ भुंजते ये नराधमाः २६।
त्रैलोक्यसंभवं पापं भुंजते ते न संशयः ।
सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः २७।
गृहे तिष्ठंति सर्वांगे जयंतीव्रतकारिणः ।
तस्य सर्वाणि तीर्थानि देहे तिष्ठंति देवताः २८।
करोति यो नरो भक्त्या जयंतीं कृष्णवल्लभाम् ।
न वेदेन पुराणेन मया दृष्टं महामुने २९।
तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतम् ।
न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः ३०।
यो नरोऽश्नाति मूढात्मा जयंतीवासरे द्विज ।
महानरकमश्नाति यथा च हरिवासरे ३१।
अतीतमागतं यस्तु कुलमेकोत्तरं शतम् ।
पतेत्तु नरके घोरे जयंत्यां भोजनेन वै ३२।
जयंती बुधवारे च रोहिण्या सहिता यदा ।
भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः ३३।
कृते त्रेतायुगे चैव द्वापरे च कलौ युगे ।
कृता सम्यग्विधानेन जयंती पापनाशिनी ३४।
जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः ।
आजन्मोपार्जितं पापं दहते तूलराशिवत् ३५।
यः शृणोति नरो भक्त्या पुराणं हरिवासरे ।
कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् ३६।
वासरे पद्मनाभस्य पूजयेद्वाचकं मुने ।
कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते ३७।
जयंत्यामुपवासेन यो नरोऽत्र पराङ्मुखः ।
सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम् ३८।
गंधपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः ।
पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम् ३९।
विधिनानेन यो विप्र जयंतीं प्रकरोति च ।
नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम् ४०।
न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे ।
संततेर्न विरोधं च न पश्यति धनक्षयम् ४१।
यान्यांश्चिकीर्षते कामान्जयंती समुपोषकः ।
तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति ४२।
विष्णुभक्तिपरा नित्यं जयंतीव्रत मानसाः ।
ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पंडिताः ४३।
यानि कानि च तीर्थानि व्रतानि नियमानि च ।
जयंतीवासरस्यैव कलां नार्हंति षोडशीम् ४४।
भाद्रे वै चोभये पक्षे यः करोति सभार्यकः ।
राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम् ४५।
व्रतं च पुण्यकारं च यः करोति सदा हरेः ।
स याति विष्णोर्वैकुंठं जयंतीसमुपोषकः ४६।
आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम् ।
नाशयत्याशु पापं च जयंती हरिवल्लभा ४७।
मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च ।
स निर्दहति सर्वाणि जयंत्यां समुपोषकः ४८।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
मोक्षार्थी लभते मोक्षं जयंत्यां समुपोषकः ४९।
जयंतीकरणे चित्तं येषां भवति तत्परम् ।
यमोऽपि शंकते नित्यं ते यांति परमां गतिम् ५०।
सूत उवाच-
कथयित्वा नारदं तु ययौ स च यथागतः ।
मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने ५१।
माहात्म्यं च जयंत्या ये शृण्वंति भक्तिभावतः ।
तेपि यांति परं धाम विमुक्ताः सर्वपातकैः ५२।
पुराणवाचकं ब्रह्मन्जयंतीव्रतिनं तथा ।
ये पश्यंति नराः पापास्ते यांति परमं पदम् ५३।
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे जयंतीव्रतमाहात्म्यंनाम चतुर्थोऽध्यायः ४।