पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२१ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १२२
अज्ञातलेखकः
अध्यायः १२३ →

विष्णुरुवाच-
कुंजलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्प्रति
विरराम महाप्राज्ञः किंचिन्नोवाच तान्प्रति १
वटाधःस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम्
को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते २
किं वा देवोऽथ गंधर्वः किं वा विद्याधरो भवान्
कस्य शापादिमां प्राप्तो योनिं कीरस्य पातकीम् ३
कस्मात्ते ईदृशं ज्ञानं वर्ततेऽतीद्रियं शुक
सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम् ४
किं वा च्छन्नेन रूपेण अनेनापि महामते
कस्त्वं सिद्धोऽसि देवो वा तन्मे कथय कारणम् ५
कुंजल उवाच-
भोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम्
विद्यां तपःप्रभावं च यस्माद्भ्रमसि मेदिनीम् ६
सर्वं विप्र प्रवक्ष्यामि स्वागतं तव सुव्रत
उपविश्यासने पुण्ये छायामाश्रयशीतलाम् ७
अव्यक्तप्रभवो ब्रह्मा तस्माज्जज्ञे प्रजापतिः
ब्राह्मणस्तु गुणैर्युक्तो भृगुर्ब्रह्मसमो द्विजः ८
भार्गवो नाम तस्यासीत्सर्वधर्मार्थतत्ववित्
तस्यान्वये भवान्विप्र च्यवनः ख्यातिमान्भुवि ९
नाहं देवो न गंधर्वो नाहं विद्याधरः पुनः
योहं विप्र प्रवक्ष्यामि तन्मे निगदतः शृणु १०
कश्यपस्य कुले जातः कश्चिद्ब्राह्मणसत्तमः
वेदवेदांगतत्त्वज्ञः सर्वकर्मप्रकाशकः ११
विद्याधरेति विख्यातः कुलशीलगुणैर्युतः
राजमानः श्रिया विप्र आचारैस्तपसा तदा १२
संबभूवुः सुतास्तस्य विद्याधरस्य ते त्रयः
वसुशर्मा नामशर्मा धर्मशर्मा च ते त्रयः १३
तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः
वसुशर्मा मम भ्राता वेदशास्त्रार्थकोविदः १४
आचारेण सुसंपन्नो विद्यादिसुगुणैः पुनः
नामशर्मा महाप्राज्ञस्तद्वच्चासीद्गुणाधिकः १५
अहमेको महामूर्खः संजातः शृणु सत्तम
विद्यानामुत्तमं विप्र भावमर्थं शुभं कदा १६
न शृणोमि न वै यामि गुरुगेहमनुत्तमम्
ततस्तु जनको मे तु मामेवं परिचिंतयेत् १७
धर्मशर्मेति पुत्रस्य नामास्य तु निरर्थकम्
संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः १८
इति संचिंत्य धर्मात्मा मामुवाच सुदुःखितः
व्रज पुत्र गुरोर्गेहं विद्यार्थं परिसाधय १९
एवमाकर्ण्य तत्तस्य पितुर्वाक्यं मयाशुभम्
नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम् २०
यत्र वै ताडनं नित्यं भ्रूभंगादि च क्रोशनम्
अन्नं न दृश्यते तत्र कर्मणा शृणुसत्तम २१
दिवारात्रौ न निद्रास्ति नास्ति सुखस्य साधनम्
तस्माद्दुःखमयं तात न यास्ये गुरुमंदिरम् २२
विद्याकार्यं करिष्ये न क्रीडार्थमहमुत्सुकः
भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पितः २३
डिंभैः सार्द्धं सुखेनापि दिवारात्रमतंद्रितः
मामुवाच स धर्मात्मा मूढं ज्ञात्वा सुदुःखितः २४
विद्याधर उवाच-
मा पुत्र साहसं कार्षीर्विद्यार्थमुद्यमं कुरु
विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथातुला २५
ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय
पूर्वं सुदुःखमूला तु पश्चाद्विद्या सुखप्रदा २६
तस्मात्साधय पुत्र त्वं विद्यां गुरुगृहं व्रज
पितुर्वाक्यमकुर्वाणो अहमेवं दिनदिने २७
यत्रयत्र स्थितो नित्यमर्थहानिं करोम्यहम्
उपहासः कृतो लोकैर्ममविप्र प्रकुत्सनम् २८
मम लज्जा समुत्पन्ना जीवनाशकरी तदा
विद्यार्थमुद्यतो विप्र कं गुरुं प्रार्थयाम्यहम् २९
इति चिंतापरो जातो दुःखशोकसमाकुलः
कथं विद्यामहं जाने कथं विंदाम्यहं गुणान् ३०
कथं मे जायते स्वर्गः कथं मोक्षं व्रजाम्यहम्
इत्येवं चिंतयन्विप्र वार्द्धक्यमगमं पुनः ३१
देवतायतने दुःखी उपविष्टस्त्वहं कदा
मद्भाग्यैः प्रेरितः कश्चित्सिद्ध एकः समागतः ३२
निराश्रयो जिताहारः सदानंदस्तु निःस्पृहः
एकांतमास्थितो विप्र योगयुक्तो जितेंद्रियः ३३
परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान्
तमहं संश्रितो विप्र ज्ञानरूपं महामतिम् ३४
अहं शुद्धेन भावेन भक्त्या नमितकंधरः
नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ३५
दीनरूपो ह्यहं जातो मंदभाग्यस्तथा पुनः
तेनाहं पृच्छितो विप्र कस्माद्भवान्प्रशोचति ३६
केनाभिप्रायभावेन दुःखमेव भुनक्ति वै
तेनेत्युक्तोस्मि विप्रेंद्र ज्ञानिना योगिना तदा ३७
सुमूढेन मया तस्य पूर्ववृत्तांतमेव हि
तमेवं श्रावितं सर्वं सर्वज्ञत्वं कथं व्रजेत् ३८
एतदर्थं महादुःखी भवान्मम गतिः सदा
स चोवाच महात्मा मे सर्वं ज्ञानस्य कारणम् ३९

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्वाविंशत्यधिकशततमोऽध्यायः १२२