सामग्री पर जाएँ

पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०३

विकिस्रोतः तः
← अध्यायः १०२ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०३
अज्ञातलेखकः
अध्यायः १०४ →



       'कुञ्जल उवाच-
अशोकसुन्दरी जाता सर्वयोषिद्वरा तदा।
रेमे सुनन्दने पुण्ये सर्वकामगुणान्विते।१।

सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी ।
सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा।२।

विप्रचित्तेः सुतो हुण्डो रौद्रस्तीव्रश्च सर्वदा ।
स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह।३।

अशोकसुन्दरीं दृष्ट्वा सर्वालङ्कारसंयुताम् ।
तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः ।४।

तामुवाच महाकायः का त्वं कस्यासि वा शुभे ।
कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम् ।५।

       'अशोकसुन्दर्युवाच-
शिवस्यापि सुपुण्यस्य सुताहं शृणु साम्प्रतम् ।
स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे ।६।

बालभावेन सम्प्राप्ता लीलया नन्दनं वनम् ।
भवान्कोहि किमर्थं तु मामेवं परिपृच्छति।७।

         हुण्ड उवाच-
विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः।
हुण्डेति नाम्ना विख्यातो बलवीर्यमदोद्धतः।८।

दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः ।
देवेषु मर्त्यलोकेषु तपसा यशसा कुले।९।

अन्येषु नागलोकेषु धनभोगैर्वरानने ।
दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः ।१०।

शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव ।
भव स्ववल्लभा भार्या मम प्राणसमा प्रिया।११।

      अशोकसुन्दर्युवाच-
श्रूयतामभिधास्यामि सर्वसंबंधकारणम्।
भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि।१२।

भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः ।
संसारे लोकमार्गोयं शृणु हुण्ड यथाविधि।१३।

अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् ।
सुभार्या दैत्यराजेन्द्र शृणुष्व यतमानसः।१४।

वृक्षराजादहं जाता यदा काले महामते ।
शम्भोर्भावं सुसङ्गृह्य पार्वत्या कल्पिता ह्यहम्।१५।

देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि ।
सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति।१६।

जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः।
सर्वज्ञः सत्यसन्धश्च त्यागे वैश्रवणोपमः।१७।

यज्वा दानपतिः सोपि रूपेण मन्मथोपमः ।
नहुषोनाम धर्मात्मा गुणशील महानिधिः।१८।

देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति ।
तस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम्।१९।

इन्द्रोपेन्द्र समं लोके ययातिं जनवल्लभम्।
लप्स्याम्यहं रणे धीरं तस्माच्छम्भोः प्रसादतः।२०।

अहं पतिव्रता वीर परभार्या विशेषतः।
अतस्त्वं सर्वथा हुण्ड त्यज भ्रान्तिमितोव्रज।२१।

प्रहस्यैव वचो ब्रूते अशोकसुन्दरीं प्रति।
        'हुण्ड उवाच-
नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि।२२।

नहुषोनाम धर्मात्मा सोमवंशे भविष्यति।
भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते।२३।

कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते ।
कदा स पुरुषो भद्रे तव भर्ता भविष्यति।२४।

तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति।
यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः।२५।

पुरुषाणां वल्लभत्वं प्रयान्ति वरवर्णिनि ।
तारुण्यं हि महामूलं युवतीनां वरानने ।२६।

तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान् ।
कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे २७।

यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति।
गर्भत्वं च शिशुत्वं च कौमारं च निशामय।२८।

कदासौ यौवनोपेतस्तव योग्यो भविष्यति ।
यौवनस्य प्रभावेन पिबस्व मधुमाधवीम्।२९।

मया सह विशालाक्षि रमस्व त्वं सुखेन वै।
हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः।३०।

उवाच दानवेन्द्रं तं साध्वसेन समन्विता।
अष्टाविञ्शतिके प्राप्ते द्वापराख्ये युगे तदा।३१।

शेषावतारो धर्मात्मा वसुदेवसुतो बलः।
रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति।३२।

सापि जाता महाभाग कृताख्ये हि युगोत्तमे ।
युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि।३३।

बलस्य सा प्रिया जाता रेवती प्राणसम्मिता।
भविष्यद्वापरे प्राप्त इह सा तु भविष्यति।३४।

मायावती पुरा जाता गन्धर्वतनया वरा ।
अपहृत्य नियम्यैव शम्बरो दानवोत्तमः।३५।

तस्या भर्ता समाख्यातो माधवस्य सुतो बली।
प्रद्युम्नो नाम वीरेशो यादवेश्वरनन्दनः।३६।

तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः।
व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः।३७।

एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम्।
मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा।३८।

त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ।
किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम्।३९।

यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् ।
पूर्वकर्मानुसारेण तत्तस्य परिजायते।४०।

देवानां ब्राह्मणानां च वदने यत्सुभाषितम्।
निःसरेद्यदि सत्यं तदन्यथा नैव जायते।४१।

मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च।
समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च।४२।

एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्तिं मनःस्थिताम्।
नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम्।४३।

पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः।
महाशापेन धक्ष्यामि इतो गच्छ महासुर।४४।

एवमाकर्ण्य तद्वाक्यं हुण्डो वै दानवो बली ।
मनसा चिन्तयामास कथं भार्या भवेदियम्।४५।

विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः ।
ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम्।
अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् ४६।

दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः ।
मायया कन्यका रूपो बभूव मम नन्दन।४७।

सा कन्यापि वरारोहा मायारूपागमत्ततः।
हास्यलीला समायुक्ता यत्रास्ते भवनन्दिनी४८।

उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति ।
कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने।४९।

किमर्थं क्रियते बाले कामशोषणकं तपः।
तन्ममाचक्ष्व सुभगे किन्निमित्तं सुदुष्करम्।५०।

तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् ।
मायारूपेण छन्नेन साभिलाषेण सत्वरम्।५१।

आत्मसृष्टि सुवृत्तान्तं प्रवृत्तं तु यथा पुरा ।
तपसः कारणं सर्वं समाचष्ट सुदुःखिता।५२।

उपप्लवं तु तस्यापि दानवस्य दुरात्मनः।
मायारूपं न जानाति सौहृदात्कथितं तया।५३।

         "हुण्ड उवाच-
पतिव्रतासि हे देवि साधुव्रतपरायणा।
साधुशीलसमाचारा साधुचारा महासती।५४।

अहं पतिव्रता भद्रे पतिव्रतपरायणा।
तपश्चरामि सुभगे भर्तुरर्थे महासती।५५।

मम भर्ता हतस्तेन हुंडेनापि दुरात्मना।
तस्य नाशाय वै घोरं तपस्यामि महत्तपः।५६।

एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम्।
अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः।५७।

हुंडेन सखिभावेन मोहिता शिवनंदिनी।
समाकृष्टा सुवेगेन महामोहेन मोहिता।५८।

आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम्।
मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम्।५९।

अस्ति सर्वगुणोपेतं कांचनाख्यं महाशिवम्।
तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः।६०।

नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः।
वापीकूपतडागैश्च नदीभिस्तु जलाशयैः।६१।

शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः।
सर्वकामसमृद्धार्थं सम्पूर्णं दानवस्य हि।६२।

ददृशे सा पुरं रम्यमशोकसुन्दरी तदा।
कस्य देवस्य संस्थानं कथयस्व सखे मम।६३।

सोवाच दानवेन्द्रस्य दृष्टपूर्वस्य वै त्वया।
तस्य स्थानं महाभागे सोऽहं दानवपुङ्गवः।६४।

मया त्वं तु समानीता मायया वरवर्णिनि ।
तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम्।६५।

नानावेश्मैः समाजुष्टं कैलासशिखरोपमम्।
निवेश्य सुंदरीं तत्र दोलायां कामपीडितः।६६।

पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः।
करसम्पुटमाबध्य उवाच वचनं तदा।६७।

यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः।
भज मां त्वं विशालाक्षिभजन्तं कामपीडितम्।६८।

        'श्रीदेव्युवाच-
नैव चालयितुं शक्तो भवान्मां दानवेश्वरः।
मनसापि न वै धार्यं मम मोहं समागतम्।६९।

भवादृशैर्महापापैर्देवैर्वा दानवाधमैः।
दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः।७०।

स्कन्दानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च।
संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरन्ती।७१।

पुनरुवाच सा देवी तमेवं दानवाधमम् ।
उग्रं कर्म कृतं पाप चात्मनाशनहेतवे।७२।

आत्मवञ्शस्य नाशाय स्वजनस्यास्य वै त्वया।
दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः।७३।

यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः।
गृहं तु विशते यस्य तस्य नाशं प्रयच्छति।७४।

स्वजनस्य च सर्वस्य सधनस्य कुलस्य च।
स द्विजो नाशमिच्छेत विशत्येव यदा गृहम्।७५।

तथा तेहं गृहं प्राप्ता तव नाशं समीहती ।
पुत्राणां धनधान्यस्य तव वंशस्य साम्प्रतम्।७६।

जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव।
सर्वं ते नाशयित्वाहं यास्यामि च न संशयः।७७।

यथा त्वयाहमानीता चरन्ती परमं तपः ।
पतिकामा प्रवाञ्च्छन्ती नहुषं चायुनन्दनम्।७८।

तथा त्वां मम भर्ता च नाशयिष्यति दानव ।
मन्निमित्तउपायोऽयं दृष्टो देवेन वै पुरा।७९।

सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः।
प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः।८०।

येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम्।
स एव भुंजते तत्र तस्मादेव न संशयः।८१।

कर्मणोस्य फलं भुङ्क्ष्व स्वकीयस्य महीतले।
यास्यसे निरयस्थानं परदाराभिमर्शनात्।८२।

सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति।
अङ्गुल्यग्रेण कोपाय तथा मां विद्धि साम्प्रतम्। ८३।

सिंहस्य सम्मुखं गत्वा क्रुद्धस्य गर्जितस्य च।
को लुनाति मुखात्केशान्साहसाकारसंयुतः।८४

सत्याचारां दमोपेतां नियतां तपसि स्थिताम्।
निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति। ८५।

समणिं कृष्णसर्पस्य जीवमानस्य साम्प्रतम् ।
गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः।८६।

भवांस्तु प्रेषितो मूढ कालेन कालमोहितः ।
तदा ते ईदृशी जाता कुमतिः किं नपश्यसि।८७।

ऋते तु आयुपुत्रेण समालोकयते हि कः।
अन्यो हि निधनं याति ममरूपावलोकनात्।८८।

एवमाभाषयित्वा तं गङ्गातीरं गता सती ।
सशोका दुःखसंविग्ना नियतानि यमान्विता।८९।

पूर्वमाचरितं घोरं पतिकामनया तपः।
तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः।९०।

यदा त्वां निहतं दुष्टं नहुषेण महात्मना।
निििििशितैर्वज्रसङ्काशैर्बाणैराशीविषोपमैः।९१

रणे निपतितं पाप मुक्तकेशं सलोहितम् ।
गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम्।९२।

एवं सुनियमं कृत्वा गंगातीरमनुत्तमम्।
संस्थिता हुंडनाशाय निश्चला शिवनंदिनी।९३।

वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान्।
क्रोधेन दीप्ता विबुधेशपुत्री गङ्गातटे दुश्चरमाचरत्तपः।९४।

       "कुञ्जल उवाच-
एवमुक्ता महाभाग शिवस्य तनया गता ।
गङ्गांभसि ततः स्नात्वा स्वपुरे काञ्चनाह्वये।९५।

तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे ।
अशोकसुन्दरी बाला सत्येन च समन्विता।९६।

हुण्डोपि दुःखितोभूतः शापदग्धेन चेतसा।
चिंतयामास सन्तप्त अतीव वचनानलैः।९७।

समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् ।
समाचष्ट स वृत्तान्तं तस्याः शापोद्भवं महत्।९८।

शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्यया।
नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि।९९।

नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी।
यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु। १००।
         कम्पन उवाच-
अपहृत्य प्रियां तस्य आयोश्चापि समानय ।
अनेनापि प्रकारेण तव शत्रुर्न जायते।१०१।

नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः ।
अनेनापि प्रकारेण तव शत्रुर्न जायते।१०२।

जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः ।
अपहृत्य समानीय जहि त्वं पापचेतनम्।१०३।

एवं समंत्र्य तेनापि कंपनेन स दानवः ।
अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने।१०४।

       'विष्णुरुवाच-
एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः।
सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः।१०५।

इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः।
दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च।१०६।

एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः।
पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम्।१०७।

पुत्रं न विंदते राजा तेन दुःखी व्यजायत।
चिंतयामास धर्मात्मा कथं मे जायते सुतः।१०८।

इति चिन्तां समापेदे आयुश्च पृथिवीपतिः।
पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः।१०९।

अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः।
क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः।११०।

वारुण्या मत्त धर्मात्मा स्त्रीवृन्दैश्च समावृतः।
अङ्के युवतिमाधाय सर्वयोषिद्वरां शुभाम्।१११।

गायते नृत्यते विप्रः सुरां च पिबते भृशम्।
विना यज्ञोपवीतेन महायोगीश्वरोत्तमः।११२।

पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः ।
चंदनागुरुदिग्धांगो राजमानो मुनीश्वरः।११३।

तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् ।
प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः ।११४।

अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम्।
आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः।११५।
एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम।
निश्चलं शान्तिमापन्नं मानसं भक्तितत्परम्।११६।

समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप।
ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा।११७।

सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि ।
वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम्।११८।

        "आयुरुवाच-
भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः।
सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः।११९।

अत्रिवंशे महाभाग गोविंदः परमेश्वरः।
ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः।१२०।

नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर।
त्वामहं शरणं प्राप्तः शरणागतवत्सल।१२१।

उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि ।
विश्वस्थानां प्रजानां तु विद्वांसंविश्वनायकम्।१२२।

जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम्।
मामेव रक्ष गोविन्द विश्वरूप नमोस्तु ते।१२३।

       "कुञ्जल उवाच-
गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम्।
उवाच मत्तरूपेण कुरुष्व वचनं मम।१२४।

कपाले मे सुरां देहि पाचितं मांसभोजनम्।
एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः।१२५।

उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान्।
पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम् १२६।

नृपेन्द्रः प्रददौ चापि दत्तात्रेयाय सत्तम।
अथ प्रसन्नचेताः स संजातो मुनिपुङ्गवः।१२७।

दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम्।
समुवाच नृपेन्द्रं तमायुं प्रणतमानसम्।१२८।

वरं वरय भद्रं ते दुर्लभं भुवि भूपते।
सर्वमेव प्रदास्यामि यंयमिच्छसि साम्प्रतम्।१२९।

         "राजोवाच-
भवान्दाता वरं सत्यं कृपया मुनिसत्तम।
पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम्।१३०।

देववीर्यं सुतेजं च अजेयं देवदानवैः।
क्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा।१३१।

देवब्राह्मणसम्भक्तः प्रजापालो विशेषतः।
यज्वा दानपतिः शूरः शरणागतवत्सलः।१३२।

दाता भोक्ता महात्मा च वेदशास्त्रेषु पण्डितः।
धनुर्वेदेषु निपुणः शास्त्रेषु च परायणः।१३३।

अनाहतमतिर्धीरः संग्रामेष्वपराजितः।
एवं गुणः सुरूपश्च यस्माद्वञ्शः प्रसूयते।१३४।

देहि पुत्रं महाभाग ममवंशप्रधारकम्।
यदि चापि वरो देयस्त्वया मे कृपया विभो।१३५।

      "दत्तात्रेय उवाच-
एवमस्तु महाभाग तव पुत्रो भविष्यति।
गृहे वंशकरः पुण्यः सर्वजीवदयाकरः।१३६।

एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः ।
राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः।१३७।

एवं खलु वरं दत्वा ददौ फलमनुत्तमम्।
भूपमाह महायोगी सुभार्यायै प्रदीयताम्।१३८।

एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरः।
आशीर्भिरभिनन्द्यैव अन्तर्द्धानमधीयत।१३९।

इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे त्र्यधिकशततमोऽध्यायः।१०३।