पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः १०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०१ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः १०२
अज्ञातलेखकः
अध्यायः १०३ →

कुंजल उवाच-
सर्वं वत्स प्रवक्ष्यामि यत्त्वयोक्तं ममाधुना
उभयोर्देवनं यत्तु यस्माज्जातं द्विजोत्तम १
एकदा तु महादेवी पार्वती प्रमदोत्तमा
क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत् २
ममोरसि महादेव जातं महत्सु दोहदम्
दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम् ३
श्रीमहादेव उवाच-
एवमस्तु महादेवि नंदनं देवसंकुलम्
दर्शयिष्यामि ते पुण्यं द्विजसिद्धनिषेवितम् ४
एवमाभाष्य तां देवीं तया सह गणैस्ततः
स गंतुमुत्सुको देवो नंदनं वनमेव तु ५
सर्वगं सुंदरं दिव्यपृष्ठमाभरणैर्युतम्
घंटामालाभिसंयुक्तं किंकिणीजालमालिनम् ६
चामरैः पट्टसूत्रैश्च मुक्तामालासुशोभितम्
हंसचंद्रप्रतीकाशं वृषभं चारुलक्षणम् ७
समारूढो महादेवो गणकोटिसमावृतः
नंदिभृंगिमहाकालस्कंदचंडमनोहराः ८
वीरभद्रो गणेशश्च पुष्पदंतो मणीश्वरः
अतिबलःसुबलो नाम मेघनादो घटावहः ९
घंटाकर्णश्च कालिंदः पुलिंदो वीरबाहुकः
केशरी किंकरो नाम चंडहासः प्रजापतिः १०
एते चान्ये च बहवः सनकाद्यास्तपोबलाः
गणैश्च कोटिसंख्यातैः सशिवः परिवारितः ११
नंदनं वनमेवापि सेवितं देवकिन्नरैः
प्रविवेश महादेवो गणैर्देव्यासमन्वितः १२
दर्शयामास देवेशो गिरिजायै सुशोभनम्
नानापादपसंपन्नं बहुपुष्पसमाकुलम् १३
दिव्यं रंभावनाकीर्णं पुष्पवद्भिस्तु चंपकैः
मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम् १४
नित्यं पुष्पितशाखाभिः पाटलानां वनोत्तमैः
राजमानं महावृक्षैश्चंदनैश्चारुगंधिभिः १५
देवदारुवनैर्जुष्टं तुंगवृक्षैः समाकुलम्
सरलैर्नालिकेरैश्च तद्वत्पूगीफलद्रुमैः १६
खर्जूरपनसैर्दिव्यैः फलभारावनामितैः
परिमलोद्गारसंयुक्तैर्गुरुवृक्षसमाकुलम् १७
अग्नितेजः समाभासैः सप्तपर्णैः सुशोभितम्
राजवृक्षैः कदंबैश्च पुष्पशोभान्वितं सदा १८
जंबूनिंबमहावृक्षैर्मातुलिगैः समाकुलम्
नारंगैः सिंधुवारैश्च प्रियालैः शालतिंदुकैः १९
उदुंबरैः कपित्थैश्च जंबूपादपशोभितम्
लकुचैः पुष्पसौगंधैः स्फुटनागैः समाकुलम् २०
चूतैश्च फलराजाद्यैर्नीलैश्चैव घनोपमैः
नीलैः शालवनैर्दिव्यैर्जालानां तु वनैस्ततः २१
तमालैस्तु विशालैश्च सेवितं तपनोपमैः
शोभितं नंदनं पुण्यं शिवेन परिदर्शितम् २२
शोभितं च द्रुमैश्चान्यैः सर्वैर्नीलवनोपमैः
सर्वकामफलोपेतैः कल्याणफलदायकैः २३
कल्पद्रुमैर्महापुण्यैः शोभितं नंदनं वनम्
नानापक्षिनिनादैश्च संकुलं मधुरस्वरैः २४
कोकिलानां रुतैः पुण्यैरुद्घुष्टं मधुकारिभिः
मकरंदविलुब्धानां पक्षिणां रुतनादितम् २५
नानवृक्षैः समाकीर्णं नानामृगगणायुतम्
वृक्षेभ्यो विविधैः पुष्पैस्सौगंधैः पतितैर्भुवि २६
सा च भू राजते पुत्र पूजिते वसुगंधिभिः
तत्र वाप्यो महापुण्याः पद्मसौगंधनिर्मलाः २७
तोयैस्ताः पूरिताः पुत्र हंसकारंडसेविताः
तडागैः सागरप्रख्यैस्तोयसौगंधपूजितैः २८
नंदनं भाति सर्वत्र गणैरप्सरसां महत्
विमानैः कलशैः शुभ्रैर्हेमदंडैः सुशोभनैः २९
नंदनो वनराजस्तु प्रासादैस्तु सुधान्वितैः
यत्र तत्र प्रभात्येव किन्नराणां महागणैः ३०
गंधर्वैरप्सरोभिश्च सुरूपाभिर्द्विजोत्तम
देवतानां विनोदैश्च मुनिवृंदैः सुयोगिभिः ३१
सर्वत्र शुशुभे पुण्यसंस्थानं नंदनस्य च ३२
एवं समालोक्य महानुभावो भवः सुदेव्यासहितो महात्मा
श्रीनंदनं पुण्यवतां निवासं सुखाकरं शांतिगुणोपपन्नम् ३३
आदित्यतेजः समतेजसां गणैः प्रभाति वै रश्मिभिर्जातरूपः
पुष्पैः फलैः कामगुणोपपन्नः कल्पद्रुमो नंदनकाननेपि ३४
एवंविधं पादपराजमेव संवीक्ष्य देवी च शिवं बभाषे
अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम् ३५
तेजस्विनां सूर्यवरः समंतात्स देव देवीं च शिवो बभाषे
शिव उवाच-
अस्य प्रतिष्ठा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च ३६
नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्त्तापि यथैव धाता
सुखावहानां च यथा सुचंद्रो भूतेषु मुख्या च यथैव पृथ्वी ३७
नगेंद्रराजो हि यथा नगानां जलाशयेष्वेव यथा समुद्रः
महौषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव ३८
विद्यासु मध्ये च यथात्मविद्या लोकेषु सर्वेषु यथा नरेंद्रः
तथैव मुख्यस्तरुराज एष सर्वातिथिर्देवपतेः प्रियोयम् ३९
श्रीपार्वत्युवाच-
गुणान्नु शंभो मम कीर्त्तयस्व वृक्षाधिपस्यास्य शुभान्सुपुण्यान्
आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोर्हि तस्य ४०
यं यं कल्पयंति सुपुण्यदेवा देवोपमा देववराश्च कांते
तं तं हि तेभ्यः प्रददाति वृक्षः कल्पद्रुमो नाम वरिष्ठ एषः ४१
अस्माच्च सर्वे प्रभवंति पुण्या दुःप्राप्यमत्रैव तपोधिकास्ते
जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुंजंति महाप्रधानाः ४२
शुश्राव देवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिंत्य
तस्यानुमत्या परिकल्पितं च स्त्रीरत्नमेकं सुगुणं सुरूपम् ४३
सर्वांगरूपां सगुणां सुरूपां तस्मात्सुवृक्षाद्गिरिजा प्रलेभे
विश्वस्य मोहाय यथोपविष्टा साहाय्यरूपा मकरध्वजस्य ४४
क्रीडानिधानं सुखसिद्धिरूपं सर्वोपपन्ना कमलायताक्षी
पद्मानना पद्मकरा सुपद्मा चामीकरस्यापि यथा सुमूर्तिः ४५
प्रभासु तद्वद्विमला सुतेजा लीला सुतेजाश्च सुकुंचितास्ते
प्रलंबकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगंधैः परिलेपिताश्च ४६
प्रबद्धकुंता दृढकेशबंधैर्विभाति सा रूपवरेण बाला
सीमंतमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम् ४७
सीमंतमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सतेजाः
भालेषु पद्मे मृगनाभिपद्म समुत्थतेजः प्रकरैर्विभाति ४८
सीमंतमूले तिलकस्य तेजः प्रकाशयेद्रूपश्रियं सुलोके
केशेषु मुक्ताफलके च भाले तस्याः सुशोभां विकरोति नित्यम् ४९
यथा सुचंद्रः परिभाति भासा सा रम्यचेष्टेव विभाति तद्वत्
संपूर्णचंद्रोपि यथा विभाति ज्योत्स्नावितानेन हिमांशुजालः ५०
तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च
हिमांशुरेवापि कलंकयुक्तः संक्षीयते नित्यकलाविहीनः ५१
संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलंकम्
गंधं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे ५२
पद्मानना सर्वगुणोपपन्ना मदीयभावैः परिनिर्मितेयम्
गंधं स्वकीयं तु विपश्य पद्मं तस्या मुखाद्वाति जगत्समीरः ५३
लज्जाभियुक्तः सहसा बभूव जलं समाश्रित्य सदैव तिष्ठति
कतिमतिनियतबुद्ध्यासौ धियो वदंति सुमदननृपतेः कोशं समुद्र कलाभिः ५४
सुवरदशनरत्नैर्हास्यलीलाभियुक्ता अरुणअधरबिंबंशोभमानस्तु आस्यः ५५
सुभ्रूः सुनासिका तस्याः सुकर्णौ रत्नभूषितौ
हेमकांतिसमोपेतौ कपोलौ दीप्तिसंयुतौ ५६
रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम्
सौभाग्यशीलशृंगारैस्तिस्रो रेखा इहैव हि ५७
सुस्तनौ कठिनौ पीनौ वर्तुलाकारसन्निभौ
तस्याः कंदर्पकलशावभिषेकाय कल्पितौ ५८
अंसावतीव शोभेते सुसमौ मानसान्वितौ
सुभुजौ वर्तुलौ श्लक्ष्णौ सुवर्णौ लक्षणान्वितौ ५९
सुसमौ करपद्मौ तु पद्मवर्णौ सुशीतलौ
दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतौ ६०
सरलाः पद्मसंयुक्ता अंगुल्यस्तु नखान्विताः
नखानि च सुतीक्ष्णानि जलबिंदुनिभानि च ६१
पद्मगर्भप्रतीकाशो वर्णस्तदंगसंभवः
पद्मगंधा च सर्वांगे पद्मेव भाति भामिनी ६२
सर्वलक्षणसंपन्ना नगकन्या सुशोभना
रक्तोत्पलनिभौ पादौ सुश्लक्ष्णौ चातिशोभनौ ६३
रत्नज्योतिः समाकारा नखाः पादाग्रसंभवाः
यथोद्दिष्टं च शास्त्रेषु तथा चांगेषु दृश्यते ६४
सर्वाभरणशोभांगी हारकंकणनूपुरा
मेखलाकटिसूत्रेण कांचीनादेन राजते ६५
नीलेन पट्टवस्त्रेण परां शोभां गता शुभा
कंचुकेनापि दिव्येन सुरक्तेन गुणान्विता ६६
पार्वती कल्पिताद्भावाद्गुणं प्राप्ता महोदयम्
कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत् ६७
यथोक्तं तु त्वया देव तथा दृष्टो मया द्रुमः
यादृशं कल्प्यते भावस्तादृशं परिदृश्यते ६८
सूत उवाच-
अथ सा चारुसर्वांगी तयोः पार्श्वं समेत्य च
पादांबुजं ननामाथ सा भक्त्या भवयोस्तदा ६९
उवाच वचनं स्निग्धं हृद्यं हारि च सा तदा
कस्मात्सृष्टा त्वया नाथ मातर्वद स्वकारणम् ७०
श्रीदेव्युवाच-
वृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः
सद्यः प्राप्तं फलं भद्रे भवती रूपसंपदा ७१
अशोकसुंदरी नाम्ना लोके ख्यातिं प्रयास्यसि
सर्वसौभाग्यसंपन्ना मम पुत्री न संशयः ७२
सोमवंशेषु विख्यातो यथा देवः पुरंदरः
नहुषोनाम राजेंद्रस्तव नाथो भविष्यति ७३
एवं दत्वा वरं तस्यै जगाम गिरिजा गिरिम्
कैलासं शंकरेणापि मुदा परमया युता ७४
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्व्यधिकशततमोऽध्यायः १०२