पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०९२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९१ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ९२
अज्ञातलेखकः
अध्यायः ०९३ →

कुंजल उवाच-
कालंजरं समासाद्य निवसंति सुदुःखिताः
महापापैस्तु संदग्धा हाहाभूता विचेतनाः १
तत्र कश्चित्समायातःसिद्धश्चैव महायशाः
तेन पृष्टाः सुदुःखार्ता भवंतः केन दुःखिताः २
स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः
तेषां ज्ञात्वा महापापं कृपां चक्रे सुपुण्यभाक् ३
सिद्ध उवाच-
अमासोमसमायोगे प्रयागः पुष्करश्च यः
अर्घतीर्थं तृतीयं तु वाराणसी चतुर्थका ४
गच्छंतु तत्र वै यूयं चत्वारः पातकाविलाः
गंगांभसि यदा स्नातास्तदा मुक्ता भविष्यथ ५
पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथ
आदिष्टास्तेन वै सर्वे प्रणेमुस्तं प्रयत्नतः ६
कालंजरात्ततो जग्मुः सत्वरं पापपीडिताः
वाराणसीं समासाद्य स्नात्वा चै वद्विजोत्तमाः ७
प्रयागं पुष्करं चैव अर्घतीर्थं तु सत्तम
अमासोमं सुसंप्राप्य जग्मुस्ते च महापुरीम् ८
विदुरश्चंद्रशर्मा च वेदशर्मा तृतीयकः
वैश्यो वंजुलकश्चैव सुरापः पापचेतनः ९
तस्मिन्पर्वणि संप्राप्ते स्नाता गंगांभसि द्विज
स्नानमात्रेण मुक्तास्तु गोवधाद्यैश्च किल्बिषैः १०
ब्रह्महत्या गुरुहत्या सुरापानादि पातकैः
लिप्तानि तानि तीर्थानि परिभ्रमंति मेदिनीम् ११
पुष्करो अर्धतीर्थस्तु प्रयागः पापनाशनः
वाराणसी चतुर्थी तु लिप्ता पापैर्द्विजोत्तम १२
कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः
सर्वेष्वेव सुतीर्थेषु स्नानं चक्रुर्द्विजोत्तमाः १३
कृष्णत्वं नैव गच्छेत तेषां पापेन चागतम्
सुतीर्थेषु महाराज स्नाताः सर्वेषु वै पुनः १४
यं यं तीर्थं प्रयांत्येते सर्वे तीर्था द्विजोत्तम
हंसरूपेण वै यांति तैः सार्द्धं तु सुदुःखिताः १५
भार्याः पातकरूपाश्च भ्रमंति परितस्तथा
अष्टषष्टिसु तीर्थानि हंसरूपेण बभ्रमुः १६
तैः सार्द्धं सु महाराज महातीर्थैः समं पुनः
मानसं चागतास्ते च पातकाकुलमानसाः १७
तत्र स्नाता महाराज न जहाति च पातकः
लज्जयाविष्टमनसा मानसो हंसरूपधृक् १८
संजातः कृष्णकायस्तु यं त्वं वै दृष्टवान्पुरा
रेवातीरं ततो जग्मुरुत्तरं पापनाशनम् १९
कुब्जायाः संगमे ते तु सुरसिद्धनिषेविते
स्नानमात्रेण मुक्तास्ते पापेभ्यो द्विजसत्तम २०
विहाय वर्णमेवैतं सुकृतं प्रतिजग्मिरे
यं यं तीर्थं प्रयांत्येते हंसाः स्नानं प्रचक्रमुः २१
जहसुस्ताः स्त्रियो दृष्ट्वा पातकं नैव गच्छति
तोयानलेन कुब्जायाः पातकं वरमेव च २२
भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियः
ब्रह्महत्या गुरोर्हत्या सुरापानागमागमाः २३
भस्मीभूतास्तु संजाता रेवायाः कुब्जया हताः
तास्तु हता महाभाग या मृतास्तु सरित्तटे २४
अष्टषष्टि सुतीर्थानां हंसरूपेण तानि तु
सार्द्धं हंसः समायातो विद्धि तं त्वं तु मानसम् २५
चत्वारः कृष्णहंसाश्च तेषां नामानि मे शृणु
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम् २६
वाराणसी चतुर्थी च चत्वारः पापनाशनाः
ब्रह्महत्याभिभूतानि चत्वारि परिबभ्रमुः २७
तीर्थान्येतानि दुःखेन तीर्थेषु च महामते
न गतं पातकं घोरं तेषां तु भ्रमतां सुत २८
कुब्जायाः संगमे शुद्धा विमुक्ताः किल्बिषात्किल
तीर्थानामेव सर्वेषां पुण्यानामिह संमतः २९
राजा प्रयागः संजात इंद्रस्य पुरतः किल
तावद्गर्जंतु तीर्थानि यावद्रेवा न दृश्यते ३०
ब्रह्महत्यादि पापानां विनाशाय प्रतिष्ठिता
कपिलासंगमे पुण्ये रेवायाः संगमे तथा ३१
मेघनादसमायोगे तथा चैवोरुसंगमे
महापुण्या महाधन्या रेवा सर्वत्रदुर्लभा ३२
सा च ॐकारे भृगुक्षेत्रे नर्मदाकुब्जसंगमे
दुःप्राप्या मानवै रेवा माहिष्मत्यां सुरोत्तमैः ३३
विटंकासंगमे पुण्या श्रीकंठे मंगलेश्वरे
सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ३४
तीर्थमाता महादेवी अघराशिविनाशिनी
उभयोः कूलयोर्मध्ये यत्र तत्र सुखी नरः ३५
अश्वमेधफलं भुंक्ते स्नानेनैकेन मानवः
एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ३६
सर्वपापापहं पुण्यं गतिदं चापिशृण्वताम्
एवमुक्त्वा महाप्राज्ञ तृतीयं पुत्रमब्रवीत् ३७
 इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थे च्यवनचरित्रे द्विनवतितमोऽध्यायः ९२