पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७५
← अध्यायः ०७४ | पद्मपुराणम्/खण्डः २ (भूमिखण्डः) अध्यायः ७५ अज्ञातलेखकः |
अध्यायः ०७६ → |
सुकर्मोवाच-
विष्णुं कृष्णं हरिं रामं मुकुंदं मधुसूदनम् ।
नारायणं विष्णुरूपं नारसिंहं तमच्युतम् १।
केशवं पद्मनाभं च वासुदेवं च वामनम् ।
वाराहं कमठं मत्स्यं हृषीकेशं सुराधिपम् २।
विश्वेशं विश्वरूपं च अनंतमनघं शुचिम् ।
पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम् ३।
श्रीनिवासं पीतवासं माधवं मोक्षदं प्रभुम् ।
इत्येवं हि समुच्चारं नामभिर्मानवाः सदा ४।
प्रकुर्वंति नराः सर्वे बालवृद्धाः कुमारिकाः ।
स्त्रियो हरिं सुगायंति गृहकर्मरताः सदा ५।
आसने शयने याने ध्याने वचसि माधवम् ।
क्रीडमानास्तथा बाला गोविंदं प्रणमंति ते ६।
दिवारात्रौ सुमधुरं ब्रुवंति हरिनाम च ।
विष्णूच्चारो हि सर्वत्र श्रूयते द्विजसत्तम ७।
वैष्णवेन प्रभावेण मर्त्या वर्तंति भूतले ।
प्रासादकलशाग्रेषु देवतायतनेषु च ८।
यथा सूर्यस्य बिंबानि तथा चक्राणि भांति च ।
वैकुंठे दृश्यते भावस्तद्भावं जगतीतले ९।
तेन राज्ञा कृतं विप्र पुण्यं चापि महात्मना ।
विष्णुलोकस्य समतां तथानीतं महीतलम् १०।
नहुषस्यापि पुत्रेण वैष्णवेन ययातिना ।
उभयोर्लोकयोर्भावमेकीभूतं महीतलम् ११।
भूतलस्यापि विष्णोश्च अंतरं नैव दृश्यते ।
विष्णूच्चारं तु वैकुंठे यथा कुर्वंति वैष्णवाः १२।
भूतले तादृशोच्चारं प्रकुर्वंति च मानवाः ।
उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते १३।
जरारोगभयं नास्ति मृत्युहीना नरा बभुः ।
दानभोगप्रभावश्च अधिको दृश्यते भुवि १४।
पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः ।
प्रभुंजंति सुखेनापि मानवा भुवि सत्तम १५।
विष्णोः प्रसाददानेन उपदेशेन तस्य च ।
सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा १६।
स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले ।
पंचविंशप्रमाणेन वर्षाणि नृपसत्तम १७।
गदैर्हीना नराः सर्वे ज्ञानध्यानपरायणाः ।
यज्ञदानपराः सर्वे दयाभावाश्च मानवाः १८।
उपकाररताः पुण्या धन्यास्ते कीर्तिभाजनाः ।
सर्वे धर्मपरा विप्र विष्णुध्यानपरायणाः १९।
राज्ञा तेनोपदिष्टास्ते संजाता वैष्णवा भुवि ।
विष्णुरुवाच-
श्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः २०।
सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः ।
अब्दानां तत्र लक्षं हि तस्याप्येवं गतं भुवि २१।
नूतनो दृश्यते कायः पंचविंशाब्दिको यथा ।
पंचविंशाब्दिको भाति रूपेण वयसा तदा २२।
प्रबलः प्रौढिसंपन्नः प्रसादात्तस्य चक्रिणः ।
मानुषा भुवमास्थाय यमं नैव प्रयांति ते २३।
रागद्वेषविनिर्मुक्ताः क्लेशपाशविवर्जिताः ।
सुखिनो दानपुण्यैश्च सर्वधर्मपरायणाः २४।
विस्तारं तेजनाः सर्वे संतत्यापि गता नृप ।
यथा दूर्वावटाश्चैव विस्तारं यांति भूतले २५।
यथा ते मानवाः सर्वे पुत्रपौत्रैः प्रविस्तृताः ।
मृत्युदोषविहीनास्ते चिरं जीवंति वै जनाः २६।
स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः ।
पंचविंशाब्दिकाः सर्वे नरा दृश्यंति भूतले २७।
सत्याचारपराः सर्वे विष्णुध्यानपरायणाः ।
एवं सर्वे च मर्त्यास्ते प्रसादात्तस्य चक्रिणः २८।
संजाता मानवाः सर्वे दानभोगपरायणाः ।
मृतो न श्रूयते लोके मर्त्यः कोपि नरोत्तम २९।
शोकं नैव प्रपश्यंति दोषं नैव प्रयांति ते ।
यद्रूपं स्वर्गलोकस्य तद्रूपं भूतलस्य च ३०।
संजातं मानवश्रेष्ठ प्रसादात्तस्य चक्रिणः ।
विभ्रष्टा यमदूतास्ते विष्णुदूतैश्च ताडिताः ३१।
रुदमाना गताः सर्वे धर्मराजं परस्परम् ।
तत्सर्वं कथितं दूतैश्चेष्टितं भूपतेस्तु तैः ३२।
अमृत्युभूतलं जातं दानभोगेन भास्करे ।
नहुषस्यात्मजेनापि कृतं देवययातिना ३३।
विष्णुभक्तेन पुण्येन स्वर्गरूपं प्रदर्शितम् ।
एवमाकर्णितं सर्वं धर्मराजेन वै तदा ३४।
धर्मराजस्तदा तत्र दूतेभ्यः श्रुतविस्तरः ।
चिंतयामास सर्वार्थं श्रुत्वैवंनृपचेष्टितम् ३५।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे पंचसप्ततितमोऽध्यायः ७५।