पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ०७४

विकिस्रोतः तः
← अध्यायः ०७३ पद्मपुराणम्/खण्डः २ (भूमिखण्डः)
अध्यायः ७४
अज्ञातलेखकः
अध्यायः ०७५ →

सुकर्मोवाच-
दूतास्तु ग्रामेषु वदंति सर्वे द्वीपेषु देशेष्वथ पत्तनेषु ।
लोकाः शृणुध्वं नृपतेस्तदाज्ञां सर्वप्रभावैर्हरिमर्चयंतु १।
दानैश्च यज्ञैर्बहुभिस्तपोभिर्धर्माभिलाषैर्यजनैर्मनोभिः ।
ध्यायंतु लोका मधुसूदनं तु आदेशमेवं नृपतेस्तु तस्य २।
एवं सुघुष्टं सकलं तु पुण्यमाकर्ण्य तं भूमितलेषु लोकैः ।
तदाप्रभृत्येव यजंति विष्णुं ध्यायंति गायंति जपंति मर्त्याः ३।
वेदप्रणीतैश्च सुसूक्तमंत्रैः स्तोत्रैः सुपुण्यैरमृतोपमानैः ।
श्रीकेशवं तद्गतमानसास्ते व्रतोपवासैर्नियमैश्च दानैः ४।
विहाय दोषान्निजकायचित्तवागुद्भवान्प्रेमरताः समस्ताः ।
लक्ष्मीनिवासं जगतां निवासं श्रीवासुदेवं परिपूजयंति ५।
इत्याज्ञातस्य भूपस्य वर्तते क्षितिमंडले ।
वैष्णवेनापि भावेन जनाः सर्वे जयंति ते ६।
नामभिः कर्मभिर्विष्णुं यजंते ज्ञानकोविदाः ।
तद्ध्यानास्तद्व्यवसिता विष्णुपूजापरायणाः ७।
यावद्भूमंडलं सर्वं यावत्तपति भास्करः ।
तावद्धि मानवा लोकाः सर्वे भागवता बभुः ८।
विष्णोर्ध्यानप्रभावेण पूजास्तोत्रेण नामतः ।
आधिव्याधिविहीनास्ते संजाता मानवास्तदा ९।
वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः ।
संजाता वैष्णवा विप्र प्रसादात्तस्य चक्रिणः १०।
आमयैश्च विहीनास्ते दोषैरोषैश्च वर्जिताः ।
सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ११।
प्रसादात्तस्य देवस्य संजाता मानवास्तदा ।
अमराः निर्जराः सर्वे धनधान्यसमन्विताः १२।
मर्त्या विष्णुप्रसादेन पुत्रपौत्रैरलंकृताः ।
तेषामेव महाभाग गृहद्वारेषु नित्यदा १३।
कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः ।
सर्वकामदुघा गावः सचिंतामणयस्तथा १४।
संति तेषां गृहे पुण्याः सर्वकामप्रदायकाः ।
अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः १५।
सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः ।
सर्वसौभाग्यसंपन्नाः पुण्यमंगलसंयुताः १६।
सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः ।
न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् १७।
तस्मिञ्शासति धर्मज्ञे ययातौ नृपतौ तदा ।
वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः १८।
तद्ध्यानास्तद्गताः सर्वे संजाता भावतत्पराः ।
तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम १९।
पताकाभिः सुशुक्लाभिः शंखयुक्तानि तानि वै ।
गदांकितध्वजाभिश्च नित्यं चक्रांकितानि च २०।
पद्मांकितानि भासंते विमानप्रतिमानि च ।
गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः २१।
सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सत्तमाः ।
वनानि संति दिव्यानि शाद्वलानि शुभानि च २२।
तुलस्या च द्विजश्रेष्ठ तेषु केशवमंदिरैः ।
भासंते पुण्यदिव्यानि गृहाणि प्राणिनां सदा २३।
सर्वत्र वैष्णवो भावो मंगलो बहु दृश्यते ।
शंखशब्दाश्च भूलोके मिथः स्फोटरवैः सखे २४।
श्रूयंते तत्र विप्रेंद्र दोषपापविनाशकाः ।
शंखस्वस्तिकपद्मानि गृहद्वारेषु भित्तिषु २५।
विष्णुभक्त्या च नारीभिर्लिखितानि द्विजोत्तम ।
गीतरागसुवर्णैश्च मूर्च्छना तानसुस्वरैः २६।
गायंति केशवं लोका विष्णुध्यानपरायणाः २७।
हरिं मुरारिं प्रवदंति केशवं प्रीत्या जितं माधवमेव चान्ये ।
श्रीनारसिंहं कमलेक्षणं तं गोविंदमेकं कमलापतिं च २८।
कृष्णं शरण्यं शरणं जपंति रामं च जप्यैः परिपूजयंति ।
दंडप्रणामैः प्रणमंति विष्णुं तद्ध्यानयुक्ताः परवैष्णवास्ते २९।
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे चतुःसप्ततितमोऽध्यायः ७४।