सामग्री पर जाएँ

पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ८१

विकिस्रोतः तः
← अध्यायः ८० पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ८१
वेदव्यासः
अध्यायः ८२ →

वैशंपायन उवाच-।
उद्भवं लोहितांगस्य संतोषं तु जनेषु च।
प्रभावं वैभवं तेजः श्रोतुमिच्छामि तत्त्वतः१।
व्यास उवाच-।
हरांशसंभवो देवः कुजातः पृथिवीसुतः।
सत्त्वस्थस्सत्वसंपूर्णश्शूरः शक्तिधरो भुवि२।
तीक्ष्णः क्रूरग्रहो देवो लोहितांगः प्रतापवान्।
कुमारो रूपसंपन्नो विद्युत्पातमयः प्रभुः३।
अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः।
दशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः४।
वैशंपायन उवाच-।
शंभोरेष कथं जातः कथं जातो महीसुतः।
ग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुम्५।
कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदा।
गुरो मय्याप्तभावे तु वद निस्संशयं मुखात्६।
व्यास उवाच-।
हिरण्याक्षकुले धीमानसुराणां च पार्थिवः।
अंधकेति समाख्यातो दैत्यः सर्वसुरांतकृत्७।
जातो विष्णुवरादेव जातो विष्णुपराक्रमः।
तेनैव निर्जिता देवास्सेन्द्राः क्रतुभुजः क्रमात्८।
ततो देवा विधिं गत्वा वचनं चेदमब्रुवन्।
अन्धकेनैव चास्माकं हृतं राज्यं सुखं मखः९।
तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम्।
अथ धाताऽब्रवीद्वाक्यं देवानस्य च नैधनम्१०।
नास्ति विष्णुवरादेव पीयूषस्य च भक्षणात्।
किंतु तस्यासुरत्वस्य यथा परिभवो ध्रुवम्११।
कुर्वे लोकहितार्थाय श्रद्धां कामसमन्विताम्।
विचिकित्सा तु तत्रैव सर्वास्त्रीरतिगच्छति१२।
त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरम्।
ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यतां नयेत्१३।
ततोऽसुरत्वं संत्यज्य गणस्तस्य भविष्यति।
एवमुक्त्वा प्रजाध्यक्षः श्रद्धां कामसमन्विताम्१४।
विचिकित्सां स्वमायां च प्रेषयामास तं प्रति।
ततो विचेष्टितः कामाद्योषान्वेषणतत्परः१५।
स्वदारान्परयोषां च नापश्यद्विचिकित्सया।
ततो मायाप्रयुक्तोसौ त्रैलोक्यं विचचार ह१६।
दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चातिशोभनं।
दृष्ट्वा च पार्वतीं दैत्यः कामस्य वशगोऽभवत्१७।
ज्ञानलोपात्ततो दुर्गां ग्रहीतुं तां स चेच्छति।
उमा च कोटवीरूपं कृत्वा देहस्य चात्मनः१८।
ईश्वरस्यांतिकस्था च ग्रहीतुं तां ससार सः।
ततः कामविचेताश्च उन्मत्तीकृतचेतनः१९।
न जहाति शिवां धात्रीं पार्वतीं दैत्यपुंगवः।
ततो ध्यानात्समागम्य मिलितः पार्वतीं धवः२०।
दृष्ट्वा तं च स दैत्येन्द्रः प्रगतस्तु स्वमालयम्।
सज्जीकृत्य स्वयोधांश्च शंभुं जेतुं समुत्सुकः२१।
गौरीमेव समानेतुं काममोहादचेतनः।
एतच्छ्रुत्वा तु त्रिदशा गत्वा तं नंदिनेरिताः२२।
अकुर्वंश्च महद्युद्धं घोरं लोकभयंकरम्।
दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयत्२३।
एतद्वृत्तं तु कैलासे सर्वे चैव न्यवेदयन्।
क्रोधाच्छंभुस्तदा वाक्यं नंदिनं निजगाद ह२४।
गच्छ दैत्यालयं वीर द्रुतमेव ममाज्ञया।
पश्यतां सर्वदैत्यानां दैत्येंद्रस्य च संसदि२५।
गृहीत्वा चिकुरेऽत्यर्थं भार्गवं तं दुरात्मकम्।
लब्ध्वा चास्मत्सकाशं वै विह्वलं चानय क्षणात्२६।
ततो नंदीश्वरः श्रीमान्पार्वतीपतिनेरितः।
काव्यं तं कुंतले धृत्वा दैत्यानां पुरतो बलात्२७।
आनयंतं च तं दैत्या जघ्नुः प्रहरणैः शरैः।
न शेकुस्ते रुजां कर्तुं नंदिनो बलशालिनः२८।
देवानामग्रतो नंदी गृहीत्वा तं च कुंतले।
हरस्य पुरतो हृष्टः सह तेन समाययौ२९।
गृहीत्वा भार्गवं शंभुरसुराणां गुरुं रुषा।
अगिलद्रौद्रमूर्तोऽसौ कालांतकसमः प्रभुः३०।
ततो दैत्यपतिः क्रुद्धः सर्वसैन्यवृतो बली।
दुद्राव शंकरं तत्र घोरैः प्रहरणादिभिः३१।
त्रिदशाश्च तथा क्रुद्धास्ततो विद्याधरादयः।
प्रययुः समरं तत्र दैत्यानां च भृशं रुषा३२।
एतस्मिन्नंतरे घोरं युद्धं भीष्मं समुत्थितम्।
देवदानवयोरेवं सर्वलोकभयंकरम्३३।
ततः प्रत्ययितास्त्रैश्च देवा निघ्नंति दानवान्।
दनुजा निर्जरांस्तत्र विनिघ्नंति महाहवे३४।
शातकुंभमयाङ्गैस्ते शरैर्वज्रसमानकैः।
बिभिदू रत्नपुंखैश्च परस्परजयैषिणः३५।
दीपयंति भृशं कांतैस्तद्गात्राणि नभांसि च।
वीर्यवंतो महादैत्या न मोघैरस्त्रसंचयैः३६।
हत्वा च पातयामासुः काश्यपाः सुरसत्तमाः।
जगद्व्याप्तं महासैन्यं बलायुधसुसंवृतम्३७।
नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययितैः क्षणात्।
स्वयं च युध्यमानेन महादेवेन यत्नतः३८।
शूलोद्धृतोपि सुचिरमविनष्टोऽथ नम्रधीः।
अन्धको गणतां नीत्वा कृतो भृंगीरिटिर्द्विज३९।
ततो देवान्समाभाष्य शुक्रमुद्गीर्णवान्शिवः।
भूमौ निपतितो गर्भस्ततो भौम इति स्मृतः४०।
शुक्रश्शिवं समाभाष्य गतो दैत्यान्मुदान्वितः।
एवं भौमस्समुत्पन्नो हरांशो भूसमुद्भवः४१।
तस्य पूजा चतुर्थ्यां तु भौमवारे च सुव्रतैः।
दशाद्यरिष्टे च तथा गोचरेऽनिष्टराशिगे४२।
त्रिकोणे मंडले चैव रक्तपुष्पानुलेपनैः।
एवं वै पूजितो भौमः प्रयच्छति मतिं धनम्४३।
पुत्रान्सुखंयशश्चैवकिंभूयःश्रोतुमिच्छसि।
व्यास उवाच-।
एतद्वः कथितं शिष्या धर्माख्यानं शुभावहम्४४।
यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेपि वा।
द्विजातीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः४५।
यथासुखं च गच्छध्वं कृतकृत्या ममाज्ञया।
ब्रह्मोवाच-।
एवं विश्राव्य भगवान्व्यासः सत्यवतीसुतः४६।
निर्णीय धर्मं विविधं शम्याप्रासमगात्सुत।
त्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथासुखम्४७।
विहरस्व यथाकालं गायमानो हरिं मुदा।
लोकान्धर्मं चोपदिशन्प्रीणयन्जगतां गुरुम्४८।
पुलस्त्य उवाच-।
इत्युक्तः प्रययौ भूप नारदो गंधमादनम्।
नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे४९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः८१।