पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ६६

विकिस्रोतः तः
← अध्यायः ६५ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ६६
वेदव्यासः
अध्यायः ६७ →

व्यास उवाच-
भ्रातरं निहतं दृष्ट्वा कालेयो नाम दानवः।
चित्ररथं प्रदुद्राव धृत्वा बाणं सकार्मुकम्१।
दृष्ट्वासुरं विधावंतं कालमृत्युसमप्रभम्।
अरौत्सीत्तं महावीर्यो जयंतः पाकशासनिः२।
अब्रवीच्च महातेजा दैतेयं सुरसत्तमः।
तथ्यं धर्माभिसंयुक्तं लोकद्वयहितं ध्रुवम्३।
शस्त्राभिघातदुःखार्तं कश्मलं चान्यसंयुतम्।
प्रभग्नं च निरस्तं च यो हंति स च बालिशः४।
सुचिरं रौरवं भुक्त्वा तस्य दासो भवेच्चिरम्।
तस्मान्मामुं प्रयुध्यस्व युद्धधर्मस्थितो भव५।
जयंतमब्रवीद्वाक्यं कालेयः क्रोधमूर्च्छितः।
निहत्य भ्रातृहंतारमथ त्वांहन्मि सांप्रतम्६।
ततस्तं चासुरश्रेष्ठं कालानलसमप्रभम्।
जयंतो निशितैर्बाणैर्जघान सुरसत्तमः७।
निचकर्त्त शरान्सोपि त्रिभिर्विव्याध चासुरः।
यथावृष्टिगणं प्राप्य नदी गैरिकवाहिनी८।
तथा तौ च महावीर्यौ न क्षीणौ न च कातरौ।
न शर्म परिलेभाते परस्परजयैषिणौ९।
अथ तस्य च दैत्यस्य धनुश्चिच्छेद चेषुणा।
यंतारं पंचभिर्बाणैः पातयामास भूतले१०।
अष्टाभिर्निशितैर्बाणैश्चतुरोश्वानपातयात्।
शक्तिं संगृह्य भूमिष्ठः कुमारं च जघान ह११।
गदया पीडितं साश्वं सवरूथं सकूबरम्।
पातयित्वा धरण्यां च सिंहनादं ननाद ह१२।
लाघवात्स धरां गत्वा गदापाणिरुपस्थितः।
वज्रपाताद्यथा शब्दो लोकानां दुःसहो भवेत्१३।
तथा तयोर्गदापाते शब्दः स्यात्तु मुहुर्मुहुः।
एवं तयोर्गदायुद्धं यावदब्दचतुष्टयम्१४।
प्रभग्ने ते गदे खस्थौ खड्गचर्मधरावुभौ।
तदा पदातिनोर्युद्धमद्भुतं लोमहर्षणं१५।
दृष्ट्वा च विस्मयं जग्मुर्देवासुरमहोरगाः।
खड्गपातैर्मुहूर्तांते तयोश्छिन्ने तु वर्मणी१६।
अभवत्खड्गयुद्धं च तयोर्युद्धातिशीलिनोः।
दधार चिकुरे तस्य जयंतो भीमविक्रमः१७।
शिरश्छित्वास्य खड्गेन पातयामास भूतले।
ततस्तु जयशब्देन देवाः सर्वे ननंदिरे१८।
प्रभग्ना दैत्यसंघाश्च दिशः सर्वाः प्रदुद्रुवुः१९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालेयवधोनाम षट्षष्टितमोऽध्यायः६६।