पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ६५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ६४ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ६५
वेदव्यासः
अध्यायः ६६ →

व्यास उवाच-।
नांदीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम्।
तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्१।
गणानां त्वेति मंत्रेण सर्वयज्ञघटेषु च।
सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः२।
मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये।
द्वारदारुणि पात्रे च हेरंबं लेखयेद्बुधः३।
अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे।
स्थापयित्वा तु हेरंबं शक्त्या यः पूजयेद्बुधः४।
तस्य कार्याणि सिद्ध्यंति दयितानि समंततः।
न विघ्नं जायते किंचित्त्रैलोक्यं वशमानयेत्५।
विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम्।
अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्६।
धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम्।
ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्७।
न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः।
शृंगिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः८।
न राजा कुप्यति गृहे न च मारी प्रवर्तते।
न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्९।
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नछिदे तस्मै गणाधिपतये नमः१०।
मंत्रश्चायं ॐ नमो गणपतये।
नारायणप्रियैः पुष्पैरन्यैश्चापि सुगंधिभिः।
मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा११।
दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगंधिभिः।
पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्१२।
विशेषात्तस्य लिंगे तु यो ददाति वसुप्रियम्।
पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्१३।
देशे च भारते वर्षे वनिता पूर्वसन्निधौ।
लौहित्यदक्षिणे तीरे लिंगरूपो विनायकः१४।
हरगौरीसमादेशाद्देवानां संमतेन च।
स्थितो लोकप्रशांत्यर्थं सर्वविघ्नविनाशनात्१५।
पूजयित्वा तु तं देवं शक्तितो द्रव्यसंचयैः।
विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः१६।
सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः।
अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते१७।
संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम्।
पुत्रार्थं सर्वलोकानां तत्र शंभुर्विनायकः१८।
कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम्।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः१९।
न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम्।
विनायकं समासाद्य जन्मजन्मनि संलभेत्२०।
पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम्।
पूजयित्वा तु गणपं नरस्य नात्र संशयः२१।
अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति।
तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः२२।
मघोनो गणपस्याथ पूजाविरहितस्य च।
अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे२३।
मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा।
ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा२४।
दैवासुरे महायुद्धे सुराणां च पराजयः।
ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्२५।
भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः।
एतस्मिन्नंतरे शंभुर्देवान्वचनमब्रवीत्२६।
हेरंबाय वरो दत्त उमया प्रीतया मया।
पूजया ते परा सिद्धिर्देवादीनां भवत्विति२७।
अवजानाति यो मोहात्पुरुषस्तु महोत्सवे।
न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः२८।
महामखेन युष्माभिः पूजा गणपतेः कृता।
हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः२९।
शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः।
पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति३०।
ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्।
प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः३१।
देवा ऊचुः-।
गणाधिप नमस्तुभ्यं सर्वदेवैकपालक।
स्वर्गभोगप्रद प्रीत्या हेरंब त्वां नताः स्म ह३२।
जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु।
महामायं महाकायं हेरंब त्वां नताः स्म ह३३।
एकदंतं महाप्राज्ञं लंबतुंडं विनायकम्।
देवं महर्षिदेवानांमिंद्रस्य च नताः स्म ह३४।
यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः।
सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्३५।
युष्माभिर्व्रियतां देवा वरो मत्तो हि वांच्छितः।
ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः३६।
ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति।
देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्३७।
बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम्।
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः३८।
गणेशं पूजयामासुर्गंधसारैस्तु मण्डनैः।
दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः३९।
पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः।
पूजितो गणपो देवैरुवाच सुरसत्तमान्४०।
गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम्।
स विधास्यति वः कामं वांच्छितं च ततः सुराः४१।
स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम्।
पीतांबरं नमस्कृत्य ऊचुर्देवगणा मुदा४२।
हरात्मजं तु संप्राप्य पूजयित्वा गणाधिपम्।
आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव४३।
एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः।
यथातथ्यमुवाचेदं हनिष्ये दैत्यपुंगवान्४४।
श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम्।
हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्४५।
पुनर्विष्णुरुवाचेदं देवानिंद्रपुरोगमान्।
स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः४६।
हरिष्ये तान्दुराचारान्बलं चैव समंततः।
अस्त्रवृंदं तु संगृह्य यूयं तिष्ठत निर्भयाः४७।
माधवस्य वचः श्रुत्वा प्रगताः सुरपुंगवाः।
विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः४८।
देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै।
राजानं कथयामासुर्हिरण्याक्षं महाबलम्४९।
श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः।
सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.50।
अधुनेंद्रादिदेवाश्च निखिलाः क्रूरबुद्धयः।
माधवं च परीप्सन्तः शंभौ सर्वं न्यवेदयन्५१।
कथं जयं च लप्स्यामो दैत्यवृंदेतिदारुणे।
त्रिपुरारिरुवाचेदं गणेशं यजतामराः५२।
पूजयित्वा तु तं देवं जेष्यथासुरदानवान्।
ततो देवगणैर्हृष्टैः पूजितो गणनायकः५३।
गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्।
जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः५४।
हरिं निवेदयामासुरस्मद्वधपरीप्सवः।
हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः५५।
युद्धार्थमधितिष्ठंति निर्जरास्त्वभयामयि।
यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्५६।
ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्।
जेष्यामि च हरिं राजन्सहायं मे नियोजय५७।
जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम्।
तस्मान्नारायणोऽस्माकं भागः सर्वपुरंजयः५८।
ततो धुंधुश्च सुंदश्च कालकेयो महाबलः।
सहायश्च मधोस्तस्य जेष्यामो माधवं नृप५९।
सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः।
कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः६०।
बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः।
तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप६१।
नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ।
ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ६२।
जम्भश्चैवाब्रवीद्वाक्यमिंद्रमिंद्रपुरोगमान्।
जेष्यामि नात्र संदेहो दैत्या भवत विज्वराः६३।
त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम्।
तावदूचेऽथ सेनानीर्मयो देवांतको बली६४।
कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान्।
एतस्मिन्नंतरे तत्र नारदो मुनिसत्तमः६५।
गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः।
राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्६६।
न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम्।
ततः कोपादुवाचेदं नारदं मुनिसत्तमम्६७।
अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः।
देवानां च विपत्तिं च कदनं निधनं पुरः६८।
पश्य विप्र क्षणेनांतं प्राप्तं हरिहरादिकम्।
एवमुक्त्वा स दैत्येंद्रो बलाध्यक्षमुवाच ह६९।
सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्।
दैत्यराजवचः श्रुत्वा बलाध्यक्षः समंततः७०।
बलान्याहूय सहसा संत्रस्तास्तूर्णमागताः।
कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च७१।
एकैकस्य च वीरस्य वाहनानि महांति च।
स्यंदनानि विचित्राणि गजोष्ट्राश्वखरानपि७२।
सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा।
वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः७३।
दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः।
सर्वलोकाश्च वित्रेसुः समुद्राश्च चकंपिरे७४।
देवदुंदुभयो नेदुः सर्वदेवैः समीरिताः।
वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः७५।
सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः।
भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्७६।
परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः।
शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे७७।
शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरंतरम्।
विगृहेषु धरण्यां च पर्वतेषु जलेषु च७८।
देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु।
गह्वरेषु महारण्ये तयोर्युद्धमवर्तत७९।
पुष्कलादि घनानां च वर्षधारा जलं यथा।
पतंत्यस्त्राणि सैन्येषु शतशोथ सहस्रशः८०।
केचित्पेतुः पृथिव्यां तु शरैः संभिन्नविग्रहाः।
शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः८१।
पतिताः संमुखे शूरा युद्धेषु न्यायवर्तिनः।
गच्छंति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः८२।
ये चान्ये कातराः पापा हंतारो विमुखान्रणे।
अन्यायैर्ये च योद्धारस्ते यान्ति यममंदिरं८३।
त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान्।
रथस्थांश्च रथारोहाः पदगांश्च पदातयः८४।
परस्परं विनिघ्नंति शूरा युद्धाभिकांक्षिणः।
मुदिताः सत्वसंपन्ना धर्मिष्ठा बलसंवृताः८५।
केषांचिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः।
केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले८६।
मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः।
खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः८७।
गामेव पतिता धीरा दिव्यालंकारभूषिताः।
प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः८८।
विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः।
ततो वसुंधरा सर्वा सशैलवनकानना८९।
रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि।
क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसंचयः९०।
लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः।
अन्यैर्महागणैरेव क्षतजं पवनान्वितम्९१।
खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा।
एतस्मिन्नंतरे सूरिः सुरपूज्यो बृहस्पतिः९२।
मृतसंजीवनीविद्यां सुराणां संजजाप ह।
विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां९३।
ततो धन्वंतरिर्विद्वान्सुरवैद्यो मनोजवः।
औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा९४।
तत्र देवाश्च जीवंति ये मृताश्च महाहवे।
अव्रणा बलसंपन्नाः प्रयुध्यंति भृशं पुनः९५।
एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्।
पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकंधरम्९६।
ततस्तु जयशब्देन नंदंति सिद्धचारणाः।
ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः९७।
गीतिं गायंति गंधर्वाः शशंसुः परमर्षयः।
अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः९८।
कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च।
स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च९९।
जघान सुरसंघांस्तान्नर्तयामास भूतले।
निरंतरशरौघेण च्छादितं गगनं तदा१०० 1.65.100।
निपतंति शराः सैन्ये कोटिकोटि सहस्रशः।
निपतंति ततो देवाः संयुगेष्वनिवर्तिनः१०१।
रुधिरोद्गारिणस्सर्वे सिद्धगंधर्वकिन्नराः।
विशिखैः पीडिता देवा निपेतुर्धरणीतले१०२।
केचिच्छरशतैर्भिन्नास्सहस्रैरयुतैस्तथा।
पेतुरुर्व्यां महावीर्या ये रणे सुरपुंगवाः१०३।
व्यथिताश्चाभवन्सर्वे स्यंदनस्था दिवौकसः।
शरैः प्रव्यथितास्ते तु स्थातुं शक्ता न संमुखे१०४।
तेनावगाहितं सैन्यं गजेनेव सरोवनम्।
शरैस्तस्यार्दिता देवा वज्रानलसमप्रभैः१०५।
न शेकुः समरे स्थातुं मघवंतं ययुस्तदा।
चित्ररथ इति ख्यातो देवश्शस्त्रभृतां वरः१०६।
ययौ स्यंदनमारुह्य युद्धं प्रति धनुर्धरः।
अब्रवीद्वचनं सोपि सेनान्यं तु महासुरम्१०७।
यथा हंसि महाशूर सुरसेनां मुदान्वितः।
स त्वं प्रशंसनीयश्च शूरोसि सुरसंमतः१०८।
हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना।
इदानीं मम बाणैश्च गच्छस्व यममंदिरम्१०९।
ततश्च कालकेयस्तु स्मितो वचनमब्रवीत्।
पुरैव विजितो देव गणः सर्वः प्रलीलया११०।
इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया।
यदि ते निधने प्रीतिरस्तीह सुरपुंगव१११।
एभिस्त्वां निशितैर्बाणैर्नयामि यममंदिरम्।
इत्युक्त्वा परमक्रुद्धो बाणमंतकसन्निभम्११२।
जघान समरे वीरस्त्रिभिश्चिच्छेद सोंबरे।
पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा११३।
जघान प्रचुरान्दैत्यांस्तांश्चकर्त्त स लाघवात्।
ततोन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः११४।
युद्धे धनुष्मतां श्रेष्ठश्चिच्छेद भुवि वेगतः।
तद्युद्धमभवद्देवदैत्ययोर्धर्मतो भृशम्११५।
द्रष्टुकामागताः पार्श्वमृषि देवाः सुरोरगाः।
एवं शतसहस्राणि बाणानां विधृतानि च११६।
अन्योन्यं समरे वीरौ विजयाय विरेजतुः।
अथ क्रुद्धो महातेजा गंधर्वाणां पतिस्तदा११७।
त्रिभिर्बिभेद बाणैश्च ललाटे हृदि पंचभिः।
सप्तभिर्जठरे नाभौ बस्तौ तस्य स पंचभिः११८।
शरैः संपातितो दैत्यो मुग्धः कश्मलतां गतः।
शिथिलीकृतचापश्च लेभे संज्ञां चिराद्बली११९।
मधुसंज्ञं त्रिभिर्बाणैस्स बिभेद सुरोत्तमम्।
चकर्त्त धनुरस्त्रैश्च दैत्यराजस्य पश्यतः१२०।
ततो बाणसहस्रैस्तु कालांतकसमप्रभैः।
बिभेद दैत्यसिंहं तु सुराणामुत्तमो बली१२१।
हतचेताः स दैत्येंद्रो बहुशोणितसंस्रवः।
विह्वलो बहुबाणार्तः शूलं जग्राह दानवः१२२।
शूलहस्तस्य तस्यैव चतुर्भिस्तुरगान्शरैः।
हत्वा च पातयामास त्रिभिर्यंतारमेव च१२३।
जघान शूलमुर्वीष्ठस्ततो गंधर्वसत्तमम्।
विचकर्त्त त्रिभिर्बाणैः शूलं चित्ररथो बली१२४।
शूलं च नष्टकं दृष्ट्वा हतभोगमिवोरगम्।
गृहीत्वा मुद्गरं घोरं प्रदुद्राव सुरं बली१२५।
स मुद्गरं समायातं दैत्यसेनाधिपं तदा।
विचकर्त्त शिरो देहादर्धचंद्रेण संभ्रमात्१२६।
स पपात महीपृष्ठे संचचाल वसुंधरा।
ततो दैत्यगणाः सर्वे विमुखा विप्रदुद्रुवुः१२७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे कालकेयवधोनाम पंचषष्टितमोऽध्यायः६५।