पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५१ पद्मपुराणम्
अध्यायः ५२
वेदव्यासः
अध्यायः ५३ →

द्विज उवाच-
मांडव्यस्य मुनेर्विष्णोश्शूलाघातः कथं तनौ
पत्यौ पतिव्रतायाश्च कथं कुष्ठं कलेवरे१
हरिरुवाच-
शिशुभावाच्च मांडव्यो झिल्लिकायामभानतः
वस्तिदेशे तृणं दत्वा मोहात्स च मुमोच ताम्२
तेनापवाददोषेण धर्मस्याज्ञातुरेव च
अहोरात्रं व्यथा कृच्छ्रा भुक्ता तेन द्विजन्मना३
किंतु समाधिना तेन न ज्ञातं शूलसंभवम्
कृच्छ्रं च मुनिना कृत्स्नं योगाभ्यासाद्भृशादपि४
कुष्ठिनो ब्रह्मणो घातादजितेंद्रियकारणात्
पूतिगंधं तनौ कुष्ठं संजातं द्विजसत्तम५
पुरा विप्राय तेनैव दत्तं गौरीचतुष्टयम्
कन्यकात्रितयं विप्र तेन तस्य पतिव्रता६
अस्यास्तु कारणादेव स च मत्समतां व्रजेत्
अत्र ते विस्मयः कुत्र वेदकर्मपुरातनम्७
द्विज उवाच-
कृत्या नारी न यस्यैव तस्य स्वर्गो भवेद्ध्रुवम्
यथैतच्चरितं नाथ सर्वेषां शिवमिष्यते८
हरिरुवाच-
संति कृत्याः स्त्रियः काश्चित्पुंसः सर्वस्वदस्य च
तत्राप्यरक्षणीयां च मनसापि न धारयेत्९
न स्त्रीणामप्रियः कश्चित्प्रियो वापि न विद्यते
गावस्तृणमिवारण्ये प्रार्थयंति नवंनवम्१०
पुमांसं वित्तहीनं च विरूपं गुणवर्जितम्
अकुलीनं च भृत्यं च कामिनी भजते ध्रुवम्११
भर्तारं च गुणोपेतं कुलीनं च महाधनम्
सुंदरं रतिदक्षं च त्यक्त्वा नीचं भजेद्वधूः१२
उमानारदसंवादमाख्यानं विद्धि भूसुर
येन विद्यास्त्रियाश्चेष्टा विविधाः कृत्स्नशो द्विज१३
स्वभावान्नारदो विप्र विश्वजिज्ञासको मुनिः
स्वांते विमृश्याथ गतः कैलासं गिरिमुत्तमम्१४
वृषकेतुसदाख्यान सप्रतिष्ठे हिमे गिरौ
प्रणिपत्य महात्मा वै पप्रच्छ पार्वतीं मुनिः१५
देवि सीमंतिनीनांतु दुश्चेष्टां ज्ञातुमुत्सहे
कौतुकेन त्वया चर्या वधूनां संप्रयुज्यते१६
सर्वासामपि नारीणां स्वान्तं जानासि तत्त्वतः
तन्मां कथय सर्वेषु विनीतमज्ञमत्र च१७
देव्युवाच-
युवतीनां सदा चित्तं पुंसु तिष्ठत्यसंशयम्
अस्मिन्योनौ सुसंयोग्ये संगते वाप्यसंगते१८
सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम्
योनिः क्लिद्यति नारीणां सत्यं सत्यं हि नारद१९
स्थानं नास्ति क्षणं नास्ति नास्ति प्रार्थयिता नरः
तेन नारद नारीणां सतीत्वमुपजायते२०
घृतकुंभसमा नारी तप्तांगारसमः पुमान्
तस्माद्घृतं च वह्निं च नैकस्थाने च धारयेत्२१
यथैवमत्तमातंगं सृणिमुद्गरयोगतः
स्ववशं कुरुते यंता तथा स्त्रीणां प्ररक्षकः२२
पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुत्राश्च स्थाविरे भावे न स्त्री स्वातंत्र्यमर्हति२३
ततः स्वातंत्र्यभावाच्च स्वेच्छया च वरांगना
पुरुषेणार्थिता धीरा प्रेरणादिचरी भवेत्२४
अरक्षणाद्यथा पाकः श्वकाकवशगो भवेत्
तथैव युवती नारी स्वच्छंदाद्दुष्टतां व्रजेत्२५
पुनरेव कुलं दुष्टं तस्यास्संसर्गतो भवेत्
परबीजेन यो जातः स च स्याद्वर्णसंकरः२६
जारजः संकरः पापो नरके नियतं वसेत्
कीटजातौ गता जाताः पुनः सर्वे महीतले२७
ततो म्लेच्छमुपानीतं कुलं स्याद्द्विजनंदन
कुलक्षयो भवेद्यस्मात्तस्माद्दुष्टां न धारयेत्२८
ज्ञात्वैव योषितां दोषं क्षमते यो नराधमः
स तिष्ठेन्निरये घोरे रौरवे पितृभिः सह२९
काचित्पातयते नारी काचिदुद्धरते कुलम्
तस्मात्सर्वप्रयत्नेन कुलजामुद्वहेद्बुधः३०
कुलद्वयं समा नारी समयित्वा तु तिष्ठति
साध्वी तारयते वंशान्दुष्टा पातयति ध्रुवम्३१
दारेष्वधीनं स्वर्गं च कुलं पंकं यशोऽयशः
पुत्रं दुहितरं मित्रं संसारे कथयंति च३२
तस्मादेकां द्वितीयां वा वामामुद्वाहयेद्बुधः
संतानार्थात्तु कामाच्च बहुदोषाश्रिता च सा३३
रजस्वलां च वनितां नावगच्छति यः पतिः
ब्रह्महा भ्रूणहा सोपि दुर्गतिं चाधिगच्छति३४
यो मोहाद्दुर्भगां कृत्वा साध्वीं त्यजति पापकृत्
तस्या वधेन यत्पापं तद्भुक्त्वा नरकं व्रजेत्३५
वनिताहरणं कृत्वा चांडलकुलतां व्रजेत्
तथैव वनिताहानात्पतितो जायते नरः३६
रामां विन्यस्य स्कंधे च चिरं यमपुरे वसेत्
मलमूत्रं शिरोदेशे नित्यं तस्य च संपतेत्३७
एवं वर्षसहस्राणि भारं वहति दुर्मतिः
पुनर्यावन्ति लोमानि तावत्स रौरवं व्रजेत्३८
पुनः कीटेषु संतीर्णस्तदा मानुषतां व्रजेत्
ततश्च कलहं शोकं प्राप्नोति पूर्वकल्मषात्३९
एवं जन्मत्रयं प्राप्य मुच्यते पातकान्नरः
तत्कालं नरकं भुक्त्वा सा तु काकी तु वञ्चकी४०
उच्छिष्टनरकं भुक्त्वा मानुषे विधवा भवेत्
यः पुनश्चांत्यजां गच्छेन्म्लेछां वा पुल्कसां नरः४१
द्वित्रिचतुर्गुणं भुक्त्वा तत्र संचीर्णवंचकः
मातरं गुरुभार्यां च ब्राह्मणीं महिषीं तथा४२
अन्यां वा प्रभुपत्नीं च गत्वा यात्यपुनर्भवं
भगिनीं तत्पुत्रभार्यां तथा दुहितरं स्नुषाम्४३
पितृव्यां मातुलानीं तु तथैव च पितृष्वसाम्
मातृष्वस्रादिकामन्यां गत्वा नास्ति च निष्कृतिः४४
ब्रह्महा स भवेदंधो वचसा जडतां व्रजेत्
कर्णयोर्बधिरो जातश्च्यवते नास्ति निष्कृतिः४५
उक्त्वा अश्लीलमत्यर्थमखिलं स्त्रीकृतेन हि
द्विज उवाच-
एवं दुष्कृतमासाद्य कथं मोक्षो भवेत्पुनः४६
तत्समाचक्ष्व भगवन्श्रोतुमिच्छामि तत्त्वतः
श्रीभगवानुवाच
तासां च गमनं कृत्वा तप्तां लोहस्य पुत्तलद्यं४७
समालिंग्य त्यजेत्प्राणं शुचिर्लोकांतरं व्रजेत्
यो वै गृहाश्रमं त्यक्त्वा मच्चित्तो जायते नरः४८
नित्यं स्मरति गोविंदं सर्वपापक्षयो भवेत्
ब्रह्महत्यायुतं तेन कृतं गुर्वंगनागमात्४९
शतं शतसहस्रं च पैष्टीमद्यस्य भक्षणात्
स्वर्णादेर्हरणं कृत्वा तेषां संसर्गकं चिरं५० 1.52.50
एतान्यन्यानि पापानि महान्ति पातकानि च
अग्निं प्राप्य यथा तूलं तृणं शुष्कं प्रणश्यति५१
तस्मान्मन्नामगोविंदं स्मृत्वा पूतो भवेन्नरः
यो वा गृहाश्रमे तिष्ठेन्नित्यं गोविंदघोषणम्५२
कृत्वा च पूजयित्वा च स पापात्सन्तरो भवेत्
भागीरथी तटे रम्ये खगस्य ग्रहणे शिवे५३
गवां कोटिप्रदानेन यत्फलं लभते नरः
तत्फलं समवाप्नोति सहस्रं चाधिकं च यत्५४
गोविंदकीर्तने तात मत्पुरे चाक्षयं वसेत्
कामात्स भवने स्थित्वा सार्वभौमो भवेन्नृपः५५
पुराणेमत्कथां श्रुत्वा मत्सादृश्यं लभेन्नरः
कथयित्वा पुराणं च विष्णुसायुज्यतां व्रजेत्५६
तस्मान्नित्यं च श्रोतव्यं पुराणं धर्मसंचयं
श्रावितव्यं प्रयत्नेन लोके विष्णुतनुं व्रजेत्५७
अन्यद्वा स्त्रीकृते दोषे यथायोगं भवेद्ध्रुवं
निशामय प्रवक्ष्यामि तत्वतो द्विजनंदन५८
सर्वबीजस्य दानेन सांबुकुंभं महाफलम्
दद्याद्विप्राय पुण्याहे सद्यःपूतो भवेत्क्षणात्५९
सर्वं धान्यादिकं बीजं काले दद्याद्द्विजातये
सर्वपापक्षयं कृत्वा अक्षयं स्वर्गमश्नुते६०
गुणं वक्ष्यामि विप्रर्षे सतीनां यादृशं दृढम्
शुद्धवंशो भवेत्तस्या नित्यं लक्ष्मीः प्रवर्तते६१
उभयोर्वंशयोः स्वर्गो भर्तुरात्मन एव च
पतिव्रतागुणो विप्र विस्मृतः पृच्छतस्तव६२
पुनर्वक्ष्यामि योषाणां सर्वलोकहितं शुभम्
उषित्वा पूर्वकालं च पुण्यापुण्येन योषितः६३
पश्चात्पतिव्रतायाश्च ताश्च गच्छंति मद्गतिम्
षण्मासं वाथ वर्षं वा अधिकं च प्रशस्यते६४
पतिव्रता भवेद्या च यावत्पूता व्रजेद्दिवम्
सुरापं विप्रहंतारं सर्वपापयुतं पतिम्६५
पंकात्पूतं नयेत्स्वर्गं भर्त्तांरं यानुगच्छति
कंदर्पसदृशो भर्ता सा रतीव मनोरमा६६
जिष्णोरेवचिरं लोके भुंक्तेऽनंतमयं सुखम्
पतिव्रता बलाद्या च विदूरे स्वामिपातने६७
चिह्नं लब्ध्वामृता वह्नौ पापादुद्धरते पतिं
पतिव्रता च या नारी देशांतरमृते पतौ६८
सा भर्तुश्चिह्नमादाय वह्नौ सुप्त्वा दिवं व्रजेत्
या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत्६९
सा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्
न म्रियेत समं गत्वा ब्राह्मणी ब्रह्मशासनात्७०
प्रव्रज्यागतिमाप्नोति मरणादात्मघातिनी
नरोत्तम उवाच-
सर्वासामपि जातीनां ब्राह्मणः शस्य इष्यते७१
पुण्यं च द्विजमुख्येन अत्र किंवा विपर्ययः
श्रीभगवानुवाच-
ब्राह्मण्यास्साहसं कर्म नैव युक्तं कदाचन७२
निःशेषेस्या वधं कृत्वा स नरो ब्रह्महा भवेत्
तस्माद्ब्राह्मणजातीया विप्रया च व्रतं चरेत्७३
प्रवक्ष्यामि यथातथ्यं शृणु विप्र यथार्थतः
आपणांतरमामिष्यं भक्षयेन्न कदाचन७४
अश्वमेधसहस्राणां हायने फलमाप्नुयात्
अर्हणं चेष्टदेवस्य हरेर्व्रतमनुत्तमम्७५
स्वामिनोपि जलं पिंडं संप्रदद्यादमत्सरात्
युगकोटिसहस्राणि युगकोटिशतानि च७६
पतिना सह सा साध्वी विष्णुलोके युता भवेत्
ततो महाव्रतं प्राप्य निरये ब्राह्मणी वधूः७७
उद्धरेदुभयोर्वंशाञ्छतशोथ सहस्रशः
अतो बंधुजनैरेव पुत्रैर्भ्रात्रादिभिर्बुधैः७८
विनियम्य सदा तस्या व्रतलोपं न कारयेत्
हरेश्चेद्वासरं प्राप्य विधवा न व्रतं चरेत्७९
पुनर्वैधव्यतामेति जन्मजन्मनि दुर्भगा
भोजनात्मत्स्यमांसस्य व्रतानां विप्रयोगतः८०
चिरं निरयमासाद्य शुनी भवति निश्चितम्
दुष्टाया मैथुनं गच्छेद्विधवाकुलनाशिनी८१
नरकाननुभूयाथ गृध्रिणी दशजन्मसु
द्विजन्मफेरवा भूत्वा ततो मानुषतां व्रजेत्८२
तथैव बालवैधव्या दासीत्वमुपगच्छति
द्विज उवाच-
कन्यादानफलं ब्रूहि वद दास्याः फलं च यत्८३
विधानं च यथोक्तं च यदि मेनुग्रहः प्रभो
श्रीभगवानुवाच-
रूपाढ्ये गुणसंपन्ने कुलीने यौवनान्विते८४
समृद्धे वित्तसंपूर्णे कन्यादानफलं शृणु
सर्वाभरणसंयुक्तां कन्यकां यो ददाति च८५
तेन दत्ता धरा सर्वा सशैलवनकानना
अर्द्धाभरणदानेन फलं दातुर्भवेद्ध्रुवम्८६
अनाभरणकन्यायाः पादैकस्य फलं भवेत्
यः पुनः शुल्कमश्नाति स याति नरके नरः८७
विक्रीय चात्मजां मूढो नरकान्न निवर्त्तते
लोभादसदृशे पुंसि कन्यां यस्तु प्रयच्छति८८
रौरवं नरकं प्राप्य चांडालत्वं च गच्छति
अतएव हि शुल्कं च जामातुर्न कदाचन८९
गृह्णाति मनसा प्राज्ञो यद्दत्तं तस्य चाक्षयम्
भूमिं गां च हिरण्यं च धनं वस्त्रं च धान्यकम्९०
जामातुर्यौतकं दत्वा सर्वं भवति चाक्षयम्
विवाहसमये वत्स सगोत्र परगोत्रजैः९१
यौतकं दीयते किंचित्तत्सर्वं चाक्षयं भवेत्
दाता न स्मरते दानं प्रतिग्राही न याचते९२
उभौ तौ नरकं यातश्छिन्नरज्जुर्घटो यथा
अवश्यं यौतकं दानं दातव्यं सात्विकेन हि९३
अदत्वा नरकं प्राप्य दासीत्वमुपगच्छति
अत्यासन्नेतिदूरस्थे चात्याढ्ये चाति दुर्गते९४
कुलहीने च मूर्खे च षट्सु कन्या न दीयते
अतिवृद्धे चातिदीने रोगिष्ठे देशवासिनि९५
अतिक्रुद्धेप्यसन्तुष्टे षट्सु कन्या न दीयते
एतेभ्यः कन्यकां दत्वा नरकं चाधिगच्छति९६
लोभात्संमानलाभाच्च कन्यका परिवर्तनात्
मुनीनां प्रेयसीं नारीं युवतीं रूपशालिनीम्९७
सालंकारां सशय्यां च दत्वाऽनंतफलं लभेत्
अनयोश्च फलं तुभ्यं युवती कन्ययोरपि ९८
एका वराय दातव्या अपरा ब्राह्मणाय तु
क्रीता देवा यदातव्या धीरेणाकष्टकर्मणा९९
कल्पकालं भवेत्स्वर्गं नृपो वा कौ महाधनी
प्रतिजन्म लभेतैष सुपत्नीं वरवर्णिनीम्१०० 1.52.100
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
सर्वपापक्षयस्तस्य सर्वशास्त्रार्थपारगः१०१
लभेत सोऽक्षयं स्वर्गं नारीणां वल्लभो भवेत्
क्षत्रियो विजयी चाथ लोकनाथो भवेद्ध्रुवम्१०२
श्रुतं हरति पापानि जन्मजन्मकृतानि च
सौभाग्यं लभते लोके तथैव च वरांगना१०३
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्याने स्त्रीणामाख्यानंनाम
द्विपंचाशत्तमोऽध्यायः५२