पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५३

विकिस्रोतः तः

द्विज उवाच-
तुलाधारस्य चरितं प्रभावमतुलं प्रभो।
वक्तुमर्हस्यशेषेण यदि मय्यस्त्यनुग्रहः१।
श्रीभगवानुवाच -
सत्यभावादलोभाच्च दद्याद्यो वै त्वमत्सरात्।
नित्यं यज्ञशतं तस्य सुनिष्पन्नं सुदक्षिणम्२।
सत्येनोदयते सूरो वाति वातस्तथैव च।
न लंघयेत्समुद्रस्तु वेलां कूर्मो धरां तथा३।
सत्येन लोकास्तिष्ठंति सर्वे च वसुधाधराः।
सत्याद्भ्रष्टोथ यः सत्वोप्यधोवासी भवेद्ध्रुवम्४।
सत्यवाचिरतोथस्तु सत्यकार्यरतः सदा।
सशरीरेण स्वर्लोकमागत्याच्युततां व्रजेत्५।
सत्येन मुनयः सर्वे मां च गत्वा स्थिरं गताः।
सत्याद्युधिष्ठिरो राजा सशरीरो दिवं गतः६।
सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः।
अकरोच्च मखं शुद्धं राजसूयं सुदुर्लभम्७।
चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः।
भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च८।
भोजयित्वोपकरणांस्तेभ्यो दत्वा विसर्जयेत्।
यदभीष्टं द्विजातीनामतोन्यद्दापयेद्धनम्९।
अदरिद्रं ततो ज्ञात्वा द्विजव्यूहं परित्यजेत्।
तथैव स्नातकानां तु सहस्राणि तु षोडश।
नित्यं संभोजयेद्राजा सत्येनैव विमत्सरः१०।
अतिष्ठंत गृहे पूर्वं चिरं तस्य जिगीषया।
जितं तेन जगत्सर्वं प्राणानुग्रहकारणात्११।
सत्येन चासुरो राजा बलिरिंद्रो भविष्यति।
पातालस्थस्य तस्यैव भूयस्तिष्ठामि वेश्मनि१२।
निरंतरं च तिष्ठामि स्वांते पुण्यैककर्मणः।
यद्वा पुरा मया बद्धो दैत्ययोनेर्विमोक्षणात्१३।
तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहम्।
हरिश्चंद्रो नृपस्सत्यात्सवाहनपरिच्छदः१४।
स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः।
राजानो बहवश्चान्ये ये च सिद्धा महर्षयः१५।
ज्ञानिनो यतयश्चैव सर्वे सत्येऽच्युताऽभवन्।
तस्मात्सत्यरतो लोके संसारोद्धरणक्षमः१६।
तुलाधारो महात्मा वै सत्यवाक्ये प्रतिष्ठितः।
लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात्१७।
अश्वमेधसहस्रेण सत्यं तु तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते१८।
सर्वं सत्याद्भवेत्साध्यं सत्यो हि दुरतिक्रमः।
सत्यवाक्येन सा धेनुर्बहुला स्वर्गगामिनी१९।
सर्वं राष्ट्रं समाधाय पुनरावृत्तिदुर्लभा।
तथायं सर्वदा साक्षी मृषा नास्ति कदाचन२०।
बह्वर्घमल्पमर्घं च क्रयविक्रयणे सुधीः।
सत्यवाक्यं प्रशस्तं च विशेषात्साक्षिणो भवेत्२१।
साक्षिणः सत्यमुक्त्वा च अक्षयं स्वर्गमाययुः।
वावदूकः सभां प्राप्य सत्यं वदति वाक्पतिः२२।
स याति ब्रह्मणो गेहं यज्ञैरन्यैश्च दुर्लभम्।
सभायां यो वदेत्सत्यमश्वमेधफलं लभेत्२३।
लोभाद्द्वेषान्मृषोक्त्वा च रौरवं नरकं व्रजेत्।
सर्वसाक्षी तुलाधारो जनानां शूर एव च२४।
विशेषाल्लोभसंत्यागान्नाके निर्जरतां व्रजेत्।
कश्चिच्छूद्रो महाभागो न लोभे वर्तते क्वचित्२५।
वृत्तिश्शाकेन दुःखेन तथा शिलोंछतो भृशम्।
जर्जरं वस्त्रयुग्मं च करौ पात्रे च सर्वदा२६।
सदापि लाभविरहो न परस्वं गृहीतवान्।
तस्य जिज्ञासयैवाहं गृहीत्वा वस्त्रयुग्मकम्२७।
अवकोटे नदीतीरे स्थितस्संस्थाप्य सादरम्।
स दृष्ट्वा वस्त्रयुग्मं तन्न लोभे कुरते मनः२८।
इतरस्य परिज्ञाय तत्क्षांत्या स्वगृहं ययौ।
ततो विचिंतयित्वा तु हृदा स्वल्पमिति द्विज२९।
उदुंबरं हेमगर्भं मया तत्रैव पातितम्।
किंकरे च नदीतीरे विकोणे जनवर्जिते३०।
तस्य यातस्य देशे तु दृष्टं तेन तदद्भुतम्।
अलं विधानमेतत्तु कृत्रिमं चोपलक्ष्यते३१।
ग्रहणे वाधुना चास्य अलोभं नष्टमेव मे।
अस्यैव रक्षणे कष्टमहंकारपदं त्विदम्३२।
यतो लोभस्ततो लाभो लाभाल्लोभः प्रवर्तते।
लोभग्रस्तस्य पुंसश्च शाश्वतो निरयो भवेत्३३।
यदि नो विगुणं वित्तं यदा वेश्मनि तिष्ठति।
तदा मे दारपुत्राणामुन्मादो ह्युपपद्यते३४।
उन्मादात्कामसंजात विकारान्मतिविभ्रमः।
भ्रमान्मोहोप्यहंकारः क्रोधलोभावतः परं३५।
एषां प्रचुरभावाच्च तपः क्षयं गमिष्यति।
क्षीणे तपसि वर्तंते पंकाश्चित्तप्रमोहकाः३६।
तैश्च शृंखलयोगैश्च बद्धो नैवोद्धृतिं व्रजेत्।
एतद्विमृश्य शूद्रोऽसौ परित्यज्य गृहं गतः३७।
स्वस्था देवा मुदा तत्र साधुसाध्विति चाब्रुवन्।
निर्ग्रंथिरूपमादाय तस्यांतिक गृहं तथा३८।
गत्वाहं दैवसंवादमवदं भूतवर्तनम्।
ततोभ्यासप्रसंगाच्च जनानां च परिप्लवात्३९।
तस्य योषा तदागत्य पप्रच्छ दैवकारणम्।
ततोहमवदं तस्य यद्वा चेतोगतं द्रुतम्४०।
निभृतोथ निनादस्य कारणं कथितं मया।
हृद्गतं पतिना तेद्य विधिना दत्तमज्ञवत्४१।
परित्यक्तं महाभागे पुनर्नास्तीह ते वसु।
यावज्जीवति दौर्विध्यं तस्य भोक्ता न संशयः४२।
गच्छ मातर्गृहं शून्यमलब्धं तत्प्रपृच्छतम्।
श्रुत्वा तद्वै शिवं सा च वचनं पत्युरंतिके४३।
गत्वा प्रोवाच दुर्वृत्तं तच्छ्रुत्वा विस्मयं गतः।
स विचिंत्य तया सार्धमागतोसौ ममांतिकम्४४।
निभृतं मामुवाचेदं क्षपणत्वं च कीर्तय।
क्षपणक उवाच-
चाक्षुषं चिरसंशुद्धं हेलया तृणवत्कथम्४५।
त्वया त्यक्तं यतस्तात नास्ति भाग्यमकंटकम्।
ऐश्वर्यमतुलं शौर्यं शीर्यते भावुकं पुनः४६।
स्वबंधूनां महद्दुःखमाजन्ममरणांतिकम्।
द्रक्ष्यसे चात्मना नित्यं मृतानां या गतिर्ध्रुवम्४७।
तस्मात्तद्गृह्यतां तूर्णं भुंक्ष्व भोग्यमकंटकम्।
ऐश्वर्यमतुलं शौर्यं लोकानां विस्मयं वरम्४८।
शूद्र उवाच-
न मे वित्ते स्पृहा चास्ति धनं संसार वागुरा।
तद्विधौ पतितो मर्त्यो न पुनर्मोक्षकं व्रजेत्४९।
शृणु वित्तस्य यद्दोषमिहलोके परत्र च।
भयं चोराच्च ज्ञातिभ्यो राजभ्यस्तत्करादपि५० 1.53.50।
सर्वे जिघांसवो मर्त्याः पशुमत्स्यविविष्किराः।
तथा धनवतां नित्यं कथमर्थास्सुखावहाः५१।
प्राणस्यांतकरो ह्यर्थस्साधको दुरितस्य च।
कालादीनां प्रियं गेहं निदानं दुर्गतेः परम्५२।
क्षपणक उवाच-
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बांधवाः।
कुलं शीलं च पांडित्यं रूपं भोग्यं यशः सुखम्५३।
धनेन तु विहीनस्य पुत्रदारोज्झितस्य च।
कथं मित्रं कथं धर्मं दीनानां जन्मनः कथं५४।
सत्वादिक्रतुकार्यं च पुष्करिण्युपकारकं।
दानं नाकस्य सोपानं निःस्वस्य च न सिद्ध्यति५५।
व्रतकार्यस्य रक्षा च धर्मादिश्रवणं भृशम्।
पितृयज्ञादितीर्थं च निर्वित्तस्य न सिद्ध्यति५६।
तथा रोगप्रतीकारः पथ्यमौषधसंचयं।
रक्षणं विग्रहश्चैव शत्रूणां विजयो ध्रुवम्५७।
स्त्रीणां च जन्मना वार्ता वसुयोगेन लभ्यते।
भूतभव्यप्रवृत्तानां सुकृतं दुष्कृतं च यत्५८।
तस्माद्बहुधनं यस्य तस्य भोग्यं यदृच्छया।
स्वर्गं वितरणादेव लप्स्यसे ह्यचिरादितः५९।
शूद्र उवाच-
अकामाच्च व्रतं सर्वमक्रोधात्तीर्थसेवनम्।
दया जप्यसमा शुद्धं संतोषो धनमेव च६०।
अहिंसा परमा सिद्धिः शिलोंछवृत्तिरुत्तमा।
शाकाहारः सुधातुल्य उपवासः परंतप६१।
संतोषो मे महाभोग्यं महादानं वराटकम्।
मातृवत्परदाराश्च परद्रव्याणि लोष्ठवत्६२।
परदारा भुजंगाभाः सर्वयज्ञ इदं मम।
तस्मादेनं न गृह्णामि सत्यं सत्यं गुणाकर६३।
प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरं।
इत्युक्ते तु नरश्रेष्ठ पुष्पवर्षं पपात ह६४।
मूर्ध्रिदेशे तनौ तस्य सर्वदेवेरितं द्विज।
देवदुंदुभयो नेदुर्नृत्यंत्यप्सरसां गणाः६५।
जगुर्गंधर्वपतयो विमानं चापतद्दिवः।
ऊचुर्देवगणास्तत्र विमानमिदमारुह६६।
सत्यलोकं समासाद्य भुंक्ष्व भोग्यं महेंद्रवत्।
संख्या तेनापि वर्तेत भोग्यकालस्य धार्मिक६७।
इत्युक्तेषु च देवेषु शूद्रो वचनमब्रवीत्।
कथं निर्ग्रंथकस्यास्य ज्ञानं चेष्टास्य भाषणम्६८।
किं वा हरिहरौ ब्रह्मा किं वा शक्रो बृहस्पतिः।
किं वा मच्छलनादेव साक्षाद्धर्म इहागतः६९।
इत्युक्ते क्षपणश्चासौ स्मितो वचनमब्रवीत्।
विज्ञातुं चैव वो धर्ममहं विष्णुरिहागतः७०।
विमानेन दिवं गच्छ सकुटुंबो महामुने।
मत्प्रसादाच्च युष्माकं सदैव नवयौवनम्७१।
भविष्यति महाप्राज्ञ भाग्यानंत्यं प्रलप्स्यथ।
दिव्याभरणसंयुक्ता दिव्यवस्त्रोपशोभिताः७२।
गतास्ते सहसा नाकं सर्वैर्बंधुजनैर्वृताः।
एवं द्विजवरश्रेष्ठ लोभत्यागाद्ययुर्दिवम्७३।
तुलाधारस्तथाधीमान्सत्यधर्म प्रतिष्ठितः।
ये न जानाति तद्वृत्तं देशांतरसमुद्भवम्७४।
तुलाधारसमो नास्ति सुरलोके प्रतिष्ठितः।
तस्मात्त्वमपि भूदेव समं गत्वा दिवं व्रज७५।
य इदं शृणुयान्मर्त्यः सर्वधर्मप्रतिष्ठितः।
जन्मजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति७६।
सकृत्पठनमात्रेण सर्वयज्ञफलं लभेत्।
लोकानां पुरतो विप्र देवानामर्च्यतां व्रजेत्७७।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे शूद्रस्यालोभाख्यानं नाम त्रिपंचाशत्तमो-ऽध्यायः५३।