पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search

ब्रह्मोवाच
भगवन्पुरुषस्येह स्त्रियाश्च वरदायकम्
शोकव्याधिभयं दुःखं न भवेद्येन तद्वद१
शंकर उवाच
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः
क्षीरार्णवे सपत्नीकः सदा वसति केशवः२
तस्यां संपूज्य गोविंदं सर्वान्कामानवाप्नुयात्
गोभूहिरण्यदानादि सप्तकल्पशतानुगम्३
आवाहनादिकां पूजां पूर्ववत्परिकल्पयेत्
अशून्यशयना नाम द्वितीयासौ प्रकीर्तिता४
तस्यां संपूजयेद्विष्णुमेभिर्मंत्रैर्विधानतः
श्रीवत्सधारिन्श्रीकांत श्रीपते श्रीधराव्यय५
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदं
अग्नयो मा प्रणश्यंतु देवताः पुरुषोत्तम६
पितरो मा प्रणश्यंतु मम दांपत्यभेदतः
लक्ष्म्या वियुज्यते देवो न कदाचिद्यथा हरिः७
तथा कलत्रसंबंधो देव मा मे वियुज्यतां
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा८
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन
गीतवादित्रनिर्घोषान्देवदेवस्य कारयेत्९
घंटा भवेदशक्तस्य सर्ववाद्यमयो यतः
एवं संपूज्य गोविंदमश्नीयात्तैलवर्जितम्१०
नक्तमक्षारलवणं यावत्तु स्याच्चतुष्टयं
ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम्११
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम्
पादुकोपानहच्छत्र चामरासन संयुताम्१२
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पांबरावृताम्
अव्यंगाय च विप्राय वैष्णवाय कुटुंबिने१३
दातव्या वेदविदुषे न वंध्यापतये क्वचित्
तत्रोपवेश्य दांपत्यमलंकृत्य विधानतः१४
पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम्
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम्१५
प्रतिमां देवदेवस्य सोदकुंभां निवेदयेत्
एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः१६
वित्तशाठ्येन रहितो नारायणपरायणः
न तस्य पत्न्या विरहः कदाचिदपि जायते१७
नारी वा विधवा ब्रह्मन्यावच्चंद्रार्कतारकं
न विरूपौ न शोकार्तौ दंपती भवतः क्वचित्१८
न पुत्रपशुरत्नानि क्षयं यांति पितामह
सप्तकल्पसहस्राणि सप्तकल्पशतानि च१९
कुर्वन्नशून्यशयनं विष्णुलोके महीयते
ब्रह्मोवाच
कथमारोग्यमैश्वर्यं मतिर्धर्मस्थितिस्सदा२०
अव्यंगाथ परे भक्तिर्विष्णौ चापि भवेत्कथम्
ईश्वर उवाच
साधु ब्रह्मंस्त्वया पृष्टमिदानीं कथयामि ते२१
विरोचनस्य संवादं भार्गवस्य च धीमतः
प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम्२२
तस्य रूपमिदं ब्रह्मन्सोहसद्भृगुनंदनः
साधुसाधु महाबाहो विरोचन शिवं तव२३
तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः
ब्रह्मन्किमर्थमेतत्ते हास्यं वै मामकं कृतम्२४
साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे
तमेवं वादिनं युक्तमुवाच वदतां वरः२५
विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया
पुरा दक्षविनाशाय कुपितस्य त्रिशूलिनः२६
अपतद्भीमवक्त्रस्य स्वेदबिंदुर्ललाटजः
भित्वा स सप्तपातालानदहत्सप्तसागरान्२७
अनेकवक्त्रनयनोज्वलज्ज्वलन भीषणः
वीरभद्र इति ख्यातः करपादायुतैर्युतः२८
कृत्वा स यज्ञमथनं पुनर्भूतस्य संप्लवः
त्रिजगद्दहनाद्भूयः शिवेन विनिवारितः२९
कृतं त्वया वीरभद्र दक्षयज्ञविनाशनं
इदानीमलमेतेन लोकदाहेन कर्मणा३०
शांतिप्रदानात्सर्वेषां ग्रहणां प्रथमो भव
प्रहृष्टाभिजनाः पूजां करिष्यंति कृतात्मनः३१
अंगारक इति ख्यातिं गमिष्यसि धरात्मज
देवलोके द्वितीयं च तव रूपं भविष्यति३२
ये च त्वां पूजयिष्यंति चतुर्थ्यां तु दिने नराः
रूपमारोग्यमैश्वर्यं तेष्वनंतं भविष्यति३३
एवमुक्तस्ततः शांतिमगमत्कामरूपधृत्
स जातस्तत्क्षणाद्राजन्ग्रहत्वमगमत्पुनः३४
स कदाचिद्भवांस्तस्य पूजार्घादिकमुत्तमं
दृष्टवान्क्रियमाणं च शूद्रेण त्वं व्यवस्थितः३५
तेन त्वं रूपवान्जातो सुरः शत्रुकुलाशनिः
विविधा च रुचिर्जाता यस्मात्तव विदूरगा३६
विरोचन इति प्राहुस्तस्मात् त्वां देवदानवाः
शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात्३७
ईदृशी रूपसंपत्तिरिति विस्मितवानहम्
साधुसाध्विति तेनोक्तमहो माहात्म्यमुत्तमं३८
पश्यतोपि भवेद्रूपमैश्वर्यं किमु कुर्वतः
यस्माच्च भक्त्या धरणीसुतस्य विनिंद्यमानेन गवादिदानम्३९
आलोकितं तेन सुरारिगर्भे संभूतिरेषा तव दैत्य जाता
अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः४०
प्रह्लादनंदनो वीरः पुनः पप्रच्छ भार्गवम्
विरोचन उवाच
भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्वतः४१
दीयमानं तु यद्दानं मया दृष्टं भवांतरे
माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि४२
इति तद्वचनं श्रुत्वा विप्रः प्रोवाच सादरं
चतुर्थ्यंगारकदिने यदा भवति दानव४३
मृदास्नानं तदा कुर्यात्पद्मरागविभूषितः
अग्निर्मूर्द्धादिवो मंत्रं जपेत्स्नात उदङ्मुखः४४
शूद्रस्तूष्णीं स्मरन्भौममास्तां भोगविवर्जितः
अथास्तमित आदित्ये गोमयेनानुलेपयेत्४५
प्रांगणं पुष्पमालाभिरक्षताद्भिः समंततः
तदभ्यर्च्यालिखेत्पद्मं कुंकुमेनाष्टपत्रकम्४६
कुंकुमस्याप्यभावेन रक्तचंदनमिष्यते
चत्वारः करकाः कार्याः भक्ष्यभोज्यसमन्विताः४७
तंडुलै रक्तशालेयैः पद्मरागैश्च संयुताः
चतुःकोणेषु तान्कृत्वा फलानि विविधानि च ४८
गंधमाल्यादिकं सर्वं तथैव विनिवेशयेत्
सुवर्णशृंगां कपिलामथार्च्य रौप्यैः खुरैः कांस्यदोहां सवस्त्राम्४९
धुरंधरं रक्तखुरं च सौम्यं धान्यानि सप्तांबरसंयुतानि
अंगुष्ठमात्रं पुरुषं तथैव सौवर्णमप्यायतबाहुदंडम् 1.24.५०
चतुर्भुजं हेममयं च ताम्रपात्रे गुडस्योपरि सर्पियुक्तम्
सामस्वरज्ञाय जितेंद्रियाय वाग्रूपशीलान्वयसंयुताय५१
दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दंभयुक्ते
भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः५२
रूपार्थी त्वां प्रपन्नोहं गृहाणार्घ्यं नमोऽस्तु ते
मंत्रेणानेन दत्वार्घ्यं रक्तचंदनवारिणा५३
ततोर्चयेद्विप्रवरं रक्तमाल्यांबरादिभिः
दद्यात्तेनैव मंत्रेण भौमं गोमिथुनान्वितम्५४
शय्यां च शक्तिमान्दद्यात्सर्वोपस्करसंयुताम्
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे५५
तत्तद्गुणवते देयं दत्तस्याक्षयमिच्छता
ततः प्रदक्षिणं कृत्वा विसृज्य द्विजसत्तमम्५६
नक्तं क्षीराशनं कुर्यादेवं चांगारकाष्टकम्
चतुरो वाथ वातस्य यत्पुण्यं तद्वदामि ते५७
रूपसौभाग्यसंपन्नः पुमान्जन्मनि जन्मनि
विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत्५८
सप्तकल्पसहस्राणि रुद्रलोके महीयते
तस्मात्वमपि दैत्येंद्र व्रतमेतत्समाचर५९
इत्येवमुक्तो भुगुनंदनेन चकार सर्वं व्रतमेव दैत्यः
त्वं चापि राजन्कुरु सर्वमेतद्यतोक्षयं वेदविदो वदंति६०
शृणोति यश्चैनमनन्यचेतास्तस्यापि सर्वं भगवान्विधत्ते६१

इति श्रीपद्मपुराणे प्रथमे सृष्टिखंडे अंगारकचतुर्थीव्रतं नाम चतुर्विंशोऽध्यायः२४