पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९५ पद्मपुराणम्
अध्यायः ०९६
वेदव्यासः
अध्यायः ०९७ →

पृथुरुवाच-
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात्
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता १
तेनाहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम्
कथं सातिप्रिया विष्णोर्देवदेवस्य शार्ङ्गिणः २
कथमेषा समुत्पन्ना कस्मिंस्थाने च नारद
एतद्ब्रूहि समासेन सर्वज्ञोऽसि मतो हि मे ३
नारदउवाच-
पुरा रुद्रेण दैत्येंद्रे सिंधुसूनौ निपातिते
प्रणम्य शिरसा रुद्रं देवा ब्रह्मादयोऽब्रुवन्
शृणु राजन्प्रवक्ष्यामि माहात्म्यं तुलसीभवम् ४
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम्
सर्वदेवैः परिवृतस्त्वप्सरोगणसेवितः ५
यावद्गतः शिवगृहं तावत्तत्राशु दृष्टवान्
पुरुषं भीमकर्माणं दंष्ट्रानयनभीषणम् ६
स पृष्टस्तेन कस्त्वं भो क्व गतो जगदीश्वरः
एवं पुनः पुनः पृष्टः स यदा नोचिवान्नृप ७
ततः क्रुद्धो वज्रपाणिस्तन्निर्भर्त्स्य वचोऽब्रवीत्
रे मया पृच्छमानोऽपि नोत्तरं दत्तवानसि ८
अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते
इत्युदीर्य ततो वज्री वज्रेण चाहनद्दृढम् ९
तेनास्य कंठे नीलत्वमगाद्वज्रं च भस्मतां
ततो रुद्र प्रजज्वाल तेजसा प्रदहन्निव १०
दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत्
इंद्रश्चदंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे ११
बृहस्पतिरुवाच-
नमो देवाधिदेवाय त्र्यंबकाय कपर्दिने
त्रिपुरघ्नाय शर्वाय नमोंधकनिषूदिने १२
विरूपायातिरूपाय बहुरूपाय शंभवे
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने १३
कालांतकाय कालाय कालभोगधराय च
नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः १४
नारद उवाच-
एवं स्तुतस्तदा शंभुः द्विजर्षभं जगाद ह
संहरन्नयनज्वालं त्रिलोकीदहनक्षमाम् १५
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्यानया तव
इंद्रस्यजीवदानेन जीवति त्वं प्रथां व्रज १६
बृहस्पतिरुवाच-
यदि तुष्टोऽसि देव त्वं याहींद्रं शरणागतम्
अग्निरेष शमं यातु भालनेत्रसमुद्भवः १७
ईश्वर उवाच-
पुनः प्रवेशमायाति भालनेत्रे कथं त्वयम्
एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत् १८
नारद उवाच-
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणांभसि
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे १९
तदा स बालरूपत्वमगात्तत्र रुरोद च
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः २०
स्वर्गश्च सत्यलोकश्च तत्स्वनाद्बधिरीकृतौ
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः २१
तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह
दृष्ट्वा ब्राह्मणमायांतं समुद्रोऽपि कृतांजलि २२
प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयेत्
ततो ब्रह्माब्रवीद्वाक्यं कस्यायं शिशुरद्भुतः २३
निशम्येति वचो धातुर्वाक्यं तु सागरोऽब्रवीत्
ब्रह्मा उवाच-
सरित्पते कुतो लब्धो बालो ह्येष महाबलः २४
यस्य नादेन संत्रस्ता देवासुरमहोरगाः
समुद्र उवाच-
भो ब्रह्मन्सिधुगंगायां जातोऽयं मम पुत्रकः २५
जातकर्मादि संस्कारान्कुरुष्वास्य जगद्गुरो
नारद उवाच-
इत्थं वदति पाथोधौ स बालः सागरात्मजः २६
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंतं मुहुर्मुहुः
धुन्वतस्तस्य कूर्चं तु नेत्राभ्यामागमज्जलम्
कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम् २७
ब्रह्मोवाच-
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम
तस्माज्जलंधर इति ख्यातो नाम्ना भवत्यसौ २८
अधुनैवैष तरुणः सर्वशस्त्रास्त्रपारगः
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति २९
याति यत्र समुद्भूतस्तत्रेदानीं गमिष्यति ३०
नारद उवाच-
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत्
आमंत्र्य सरितां नाथं ब्रह्मांतर्द्धानमन्वगात् ३१
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा
कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत ३२
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः
स चापि तान्प्राप्यसुहृद्वरान्वशी शशास गां शुक्रसहायवान्बली ३३
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जालंधरोत्पत्तिवर्णनंनाम षण्णवतितमोऽध्यायः ९६