पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४२

विकिस्रोतः तः
← अध्यायः ०४१ पद्मपुराणम्
अध्यायः ०४२
वेदव्यासः
अध्यायः ०४३ →

युधिष्ठिर उवाच-
साधु कृष्ण जगन्नाथ आदिदेव जगत्पते ।
कथयस्व प्रसादेन कृपां कुरु ममोपरि १।
माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत् ।
किं नाम को विधिस्तस्या एतद्विस्तरतो वद २।
श्रीभगवानुवाच-
शृणु त्वं नृपशार्दूल कृष्णमाघस्य या भवेत् ।
षट्तिला नाम विख्याता सर्वपापप्रणाशिनी १।
षट्तिलायाः शृणुष्व त्वं कथां पापहरां शुभाम् ।
यां पुलस्त्यो मुनिश्रेष्ठो दालभ्यं प्रति चोक्तवान् २।
दालभ्य उवाच-
मर्त्यलोकमनुप्राप्ताः पापं कुर्वंति जंतवः ।
ब्रह्महत्यादिपापैश्च युक्ता ये विविधादिभिः ३।
परद्रव्यापहाराश्च परव्यसनमोहिताः ।
कथं न यांति नरकं ब्रह्मंस्तद्ब्रूहि तत्त्वतः ४।
अनायासेन भगवन्दानेनाल्पेन केनचित् ।
पापं प्रशमनं याति एतन्मे वक्तुमर्हसि ५।
पुलस्त्य उवाच-
साधुसाधु महाभाग गुह्यमेतत्सुदुर्ल्लभम् ।
यन्न कस्यचिदाख्यातं विष्णुब्रह्मेंद्रदैवतैः ६।
तदहं कथयिष्यामि त्वया पृष्टो द्विजोत्तम ।
माघमासे तु संप्राप्ते शुचिस्नातो जितेंद्रियः ७।
कामक्रोधाभिमानेर्ष्यालोभ पैशुन्य वर्जितः ।
देवदेवं च संस्मृत्य पादौ प्रक्षाल्य वारिभिः ८।
भूमावपतितं गृह्य गोमयं तत्र मानवः ।
तिलान्प्रक्षिप्य कार्पांसं पिंडिकाश्चैव कारयेत् ९।
अष्टोत्तरशतं चैव नात्र कार्या विचारणा ।
ततो माघे च संप्राप्ते ह्याषाढर्क्षं भवेद्यदि १०।
मूलं वा कृष्णपक्षस्यैकादशी नियमांस्ततः ।
गृह्णीयात्पुण्यकाले च विधानं तत्र मे शृणु ११।
देवदेवं समभ्यर्च्य सुस्नातः प्रयतः शुचिः ।
कृष्णनामानि संकीर्त्य पुनः प्रस्खलितादिषु १२।
रात्रौ जागरणं कुर्यादादौ होमं च कारयेत् ।
अर्चयेद्देवदेवेशं द्वितीयेऽह्नि पुनर्हरिम् १३।
चंदनागुरुकर्पूरैर्नैवेद्यं कृसरं तथा ।
संस्मृत्य नाम्ना च ततः कृष्णाख्येन पुनः पुनः १४।
कूष्मांडैर्नारिकेरैश्च ह्यथवा बीजपूरकैः ।
सर्वाभावेऽपि विप्रेंद्र शस्तपूगफलैर्वृतम् ।
अर्घं दद्याद्विधानेन पूजयित्वा जनार्दनम् १५।
कृष्णकृष्ण कृपालुस्त्वमगतीनां गतिर्भव ।
संसारार्णव मग्नानां प्रसीद पुरुषोत्तम १६।
नमस्ते पुंडरीकाक्ष नमस्ते विश्वभावन ।
सुब्रह्मण्य नमस्तेऽस्तु महापुरुषपूर्वज ।
गृहाणार्घ्यं मया दत्तं लक्ष्म्या सह जगत्पते १७।
इत्यर्घमंत्रः ।
ततस्तु पूजयेद्विप्रमुदकुंभं प्रदापयेत् ।
छत्रोपानहवस्त्रैश्च कृष्णो मे प्रीयतामिति १८।
कृष्णा धेनुः प्रदातव्या यथाशक्ति द्विजोत्तमे ।
तिलपात्रं द्विजश्रेष्ठ दद्यात्पात्रविचक्षणः १९।
स्नाने प्राशनके शस्तास्तथा कृष्णतिला मुने ।
तान्प्रदद्यात्प्रयत्नेन यथाशक्ति द्विजोत्तमे ।
तिलप्ररोहजाः क्षत्रे यावत्संख्यास्तिला द्विज २०।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी २१।
तिलदाता च भोक्ता च षट्तिलाः पापनाशनाः ।
नारद उवाच-
कृष्णकृष्ण महाबाहो नमस्ते विश्वभावन २२।
षट्तिलैकादशीभूतं कीदृशं फलमस्ति वै ।
सोपाख्यानं मम ब्रूहि यदि तुष्टोऽसि यादव ।
श्रीकृष्ण उवाच
शृणु राजन्यथावृत्तं दृष्टं तत्कथयामि ते ।
मर्त्यलोके पुरा ह्यासीद्ब्राह्मण्येका च नारद ।
व्रतचर्यारता नित्यं देवपूजारता सदा २३।
मासोपवासनिरता मम भक्ता च सर्वदा ।
कृष्णोपवाससंयुक्ता मम पूजापरायणा २४।
शरीरं क्लेशितं चैव उपवासैर्द्विजोत्तम ।
देवानां ब्राह्मणानां च कुमारीणां च भक्तितः २५।
गृहादिकं प्रयच्छंती सर्वकालं महासती ।
अतिकृच्छ्ररता सा तु सर्वकालं तु वै द्विज २६।
न दत्ता भिक्षुके भिक्षा ब्राह्मणा न च तर्पिताः २७।
ततः कालेन महता मया वै चिंतितं द्विज ।
शुद्धमस्याः शरीरं हि व्रतैः कृच्छ्रैर्न संशयः २८।
अर्चितो वैष्णवो लोकः कायक्लेशेन वै तया ।
न दत्तमन्नदानं हि येन तृप्तिः परा भवेत् २९।
एवं ज्ञात्वा अहं ब्रह्मन्मर्त्यलोकमुपागतः ।
कापालं रूपमास्थाय भिक्षापात्रे च याचिता ३०।
कस्मात्त्वमागतो ब्रह्मन्क्व यासि वद मेऽग्रतः ।
पुनरेव मया प्रोक्तं देहि भिक्षां च सुंदरि ३१।
तया कोपेन महता मृत्पिंडस्ताम्रभाजने ।
क्षिप्तो यावदहं ब्रह्मन्पुनः स्वर्गं गतो द्विज ३२।
ततः कालेन महता तापसी सुमहाव्रता ।
सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः ३३।
मृत्पिंडिकाप्रदानेन गृहं प्राप्तं मनोरमम् ।
संजातं चैव विप्रर्षे धान्यराशि विवर्जितम् ३४।
गृहं यावन्निरीक्षेत न किंचित्तत्र पश्यति ।
तावद्गृहाद्विनिष्क्रांता ममांते चागता द्विज ३५।
क्रोधेन महताविष्टमिदं वचनमब्रवीत् ।
मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः ३६।
पूजयाराधितो देवः सर्वलोकस्य पालकः ।
न तत्र दृश्यते किंचिद्गृहे मम जनार्दन ३७।
ततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते ।
आगमिष्यंति सुतरां कौतूहल समन्विताः ३८।
देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः ।
द्वारं नोद्घाटय विना षट्तिलापुण्यवाचनात् ३९।
एवमुक्ता मया सा तु गता वै मानुषी तदा ।
अत्रांतरे समायाता देवपत्न्यश्च वाडव ४०।
ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः ।
द्वारमुद्घाटयस्वाद्य त्वां प्रपश्याम शोभने ४१।
मानुष्युवाच-
यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः ।
षट्तिलाया व्रतं पुण्यं द्वारोद्घाटनकारणात् ४२।
श्रीकृष्ण उवाच-।
एकापिनावदत्तत्र षट्तिलैकादशीव्रतम् ।
अन्यया कथितं तत्र द्रष्टव्या मानुषी मया ४३।
ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी ।
न देवी न च गंधर्वी नासुरी न च पन्नगी ४४।
दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ ।
देवीनामुपदेशेन षट्तिलाया व्रतं कृतम् ४५।
मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम् ।
रूपकांतिसमायुक्ता क्षणेन समवाप सा ४६।
धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च ।
भवनं सर्वसंपन्नं षट्तिलायाः प्रभावतः ४७।
रूपकांतिसमायुक्ता क्षणेन समपद्यत ४८।
अतितृष्णा न कर्त्तव्या वित्तशाठ्यं विवर्जयेत् ।
आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत् ४९।
लभते चैवमारोग्यं नरो जन्मनि जन्मनि ।
न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च 6.42.५०।
संभवेद्वै द्विजश्रेष्ठ षट्तिलासमुपोषणात् ।
अनेन विधिना भूप तिलदाता न संशयः ५१।
मुच्यते पातकैः सर्वैरनायासेन मानवः ।
दानं च विधिवत्पात्रे सर्वपातकनाशनम् ।
नानर्थः कश्चिन्नायासः शरीरे नृपसत्तम ५२।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे माघकृष्णाषट्तिलैकादशी नाम द्विचत्वारिंशोऽध्यायः४२।