पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २४७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४६ पद्मपुराणम्
अध्यायः २४७
वेदव्यासः
अध्यायः २४८ →

रुद्र उवाच-
हत्वाथ यवनं तत्र मुचुकुंदेन धीमता
दत्त्वा तस्मै वरं मुक्तिं निष्क्रांतो यदुनंदनः १
हतं च यवनं श्रुत्वा जरासंधः सुदुर्मतिः
ययुधे रामकृष्णाभ्यां स्वबलेन समावृतः २
कृष्णेन निहतं सैन्यं सर्वं तस्य दुरात्मनः
स पपात महीपृष्ठे मूर्च्छितो मगधाधिपः ३
चिरेण लब्ध्वा संज्ञां तु विह्वलांगो भयातुरः
न शशाक रणे योद्धुं रामेण मगधेश्वरः ४
विमुखः प्राद्रवत्तूर्णं हतशेषबलानुगः
अजेयाविति तौ मत्वा रामकृष्णौ महाबलौ ५
तयोर्विरोधं त्यक्त्वाथ नगरीं स्वां विवेश ह
अथ तौ वसुदेवस्य तनयौ सह सेनया ६
मथुरां त्यज्य नगरीं प्रविष्टौ द्वारिकां पुरीम्
इंद्रेण प्रेषितो वायुः सभां तत्र दिवौकसाम् ७
कृष्णाय प्रददौ प्रीत्या निर्मितां विश्वकर्मणा
वज्रवैडूर्यरचितां बह्वासनविचित्रिताम् ८
नानारत्नमयैर्दिव्यैः स्वर्णच्छत्रैर्विराजिताम्
तां प्राप्य रम्यां तु सभामुग्रसेनादयो नृपाः ९
मोदंते नैगमैः सार्द्धं दिवि देवगणा इव
इक्ष्वाकुवंशसंभूतो रैवतो नाम पार्थिवः १०
कन्यां दुहितरं स्वस्य सर्वलक्षणसंयुताम्
रामाय प्रददौ प्रीत्या रेवती नाम नामतः ११
उपयेमे विधानेन स रामस्तां च रेवतीम्
रमयामास च तया शच्या इव सुरेश्वरः १२
विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः
बभूवुस्तस्य पुत्रास्तु रुक्मप्रभृतयः शुभाः १३
तेषामवरजा कन्या रुक्मिणी वरवर्णिनी
कमलांशेन संभूता सर्वलक्षणसंयुता १४
राघवत्वेभवत्सीता रुक्मिणी कृष्णजन्मनि
अन्येष्वेवावतारेषु विष्णोरेषा सहायिनी १५
हिरण्यक हिरण्याक्षौ संभूतौ द्वापरे पुनः
शिशुपालो दंतवक्त्र इति नाम समन्वितौ १६
चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ
रुक्मिणी शिशुपालाय दातुमैच्छत्तदात्मजः १७
तं नेच्छती पतिं सा तु शिशुपालं शुभानना
बाल्यात्प्रभृति वै विष्णुमनुरक्ता दृढव्रता १८
उद्दिश्य कृष्णं भर्त्तारं सुराणामर्चनं सदा
चकार रुक्मिणी कन्या दानानि विविधानि च १९
व्रतचर्यापराभूत्वा ध्यायंती पुरुषोत्तमम्
आत्मेशं स्वस्य भर्तारमुवास पितृमंदिरे २०
कर्त्तुं तां शिशुपालाय विवाहं पार्थिवोत्तमः
चकार यत्नं पुत्रेण रुक्मिणा सविधीमता २१
पुरोहितसुतं विप्रं प्रेषयामास रुक्मिणी
उद्दिश्य कृष्णं भर्त्तारं स तूर्णं द्वारकां ययौ २२
समेत्य कृष्णं रामं च ताभ्यां विधिवदर्चितः
एकांते सर्वमाचष्ट रुक्मिणीभाषितं तयोः २३
तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता
सर्वशस्त्रास्त्रसंपूर्णं रथमाकाशगं प्रभुः २४
आरुह्य सूतमुख्येन दारुकेण महात्मना
विदर्भनगरीं तूर्णं जग्मतुः पुरुषोत्तमौ २५
राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः
जरासंधमुखाः सर्वे शिशुपालस्य धीमतः २६
तस्मिन्नुद्वाहसमये रुक्मिणी रुक्मभूषणा
दुर्गां निःसृतार्चयितुं सखीभिर्नगराद्बहिः २७
एतस्मिन्नेव काले तु संप्राप्तो देवकीसुतः
रथस्थां तां च जग्राह बलवान्मधुसूदनः २८
सहसा रथमारोप्य ययौ तूर्णं स्वमालयम्
ततः क्रोधसमाविष्टा जरासंधमुखा नृपाः २९
रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः
अनुयाता हरिं क्रुद्धाश्चतुरंगबलान्विताः ३०
बलभद्रो महाबाहुरवरुह्य रथोत्तमात्
लांगलं मुशलं गृह्य निजघान क्षणादरीन् ३१
रथानश्वान्महानागांस्तथा पादचरानपि
लांगलमुशलाम्यां वै निजघान बलाद्रणे ३२
तस्य लांगलपातेन चूर्णिता रथपंक्तयः
नागाश्च पतिता भूमौ वज्रेणेव महीधराः ३३
निर्भिन्नमस्तकाः सर्वे वमंतो रुधिरं बहु
क्षणेनैव हतं सैन्यं बलरामेण वै तदा ३४
साश्वं सनागं सरथं सपदातिं महारणे
समंतात्समरे तत्र सुस्रुवुः शोणितापगाः ३५
प्रभग्नाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः
कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाद्बली ३६
धनुरुद्यम्य बाणौघैस्ताडयामास शार्ङ्गिणम्
ततः प्रहस्य गोविंदः शार्ङ्गमादाय लीलया ३७
जघानैकेनबाणेन रथाश्वांस्तस्य सारथिम्
रथंध्वजं पताकां च चिच्छेद धरणीधरः ३८
विरथः खङ्गमादाय धरण्यां स उपस्थितः
कृष्णस्तु खङ्गं चिच्छेद बाणेनैकेन वीर्यवान् ३९
ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत्
तं जग्राह रणे वीरं निबध्य निबिडं हरिः ४०
तीक्ष्णं क्षुरप्रमादाय प्रहसन्मधुसूदनः
शिरसो मुंडनं कृत्वा मुमोच च जनार्दनः ४१
स तु शोकसमाविष्टो निःश्वसन्नुरगो यथा
आविवेश पुरं स्वीयं स तु तत्रैव चावसत् ४२
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीकृष्णचरिते विदर्भसेनाविध्वंसनंनाम सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः २४७