पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२६ पद्मपुराणम्
अध्यायः २२७
वेदव्यासः
अध्यायः २२८ →

पार्वत्युवाच-
विस्तरेण मयाचक्ष्व मंत्रार्थपदगौरवम्
ईश्वरस्य स्वरूपं च तद्विभूतिगुणांस्तथा १
तद्विष्णोः परमं धामव्यूहभेदांस्तथा हरेः
सर्वमाख्याहि तत्त्वेन मम सर्वसुरेश्वर २
ईश्वर उवाच-
शृणु देवि प्रवक्ष्यामि स्वरूपं परमात्मनः
विभूतिगुणसंघातं तदवस्थात्मकं हरेः ३
यः परः पुरुषो विष्णुर्नारायण उदाहृतः
स ईश्वरश्च जगतां परमात्मा सनातनः ४
विश्वतः पाणिपादश्च चक्षुष्मान्विश्वतः प्रभुः
विश्वानि भुवनान्यस्मिन्धामानि परमाणि वै ५
धारयन्सोऽप्यत्यतिष्ठेन्मनांसि च मनीषिणाम्
एवं बहुस्वरूपः सञ्छ्रीपतिः पुरुषोत्तमः
ईश्वरर्य्या सहभोगार्थं दिव्यमंगलरूपवान् ६
बृहच्छरीरोऽग्निसमानरूपो युवा कुमारत्वमुपेयिवान्हरिः
रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चंद्रइवामृतांशुः ७
अयं च जगदीश्वर्य्या कुमारो नित्ययौवनः
कंदर्प्पकोटिलावण्यः स तस्थे परमे पदे ८
भोगार्थं परमं व्योम लीलार्थमखिलं जगत्
भोगेन क्रीडया विष्णोर्विभूतिद्वयसंस्थितिः ९
भोगे नित्यस्थितिस्तस्य लीलां संहरते कदा
भोगो लीला उभौस्तस्य धार्य्येते शक्तिमत्तया १०
त्रिपाद्व्याप्तिः परे धाम्नि पादोस्येहाभवत्पुनः
त्रिपाद्विभूतिर्नित्या स्यादनित्यं पादमैश्वरम् ११
नित्यं तद्रूपमीशस्य परे धाम्नि स्थितं शुभम्
अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितम् १२
नित्यं संभोगमीश्वर्या श्रिया भूम्या च संवृतम्
नित्यैवेषा जगन्माता विष्णोः श्रीरनपायिनी १३
यथा सर्वगतो विष्णुस्तथा लक्ष्मीश्शुभानने
ईशाना सर्वजगतो विष्णुपत्नी सदा शिवा १४
सर्वतः पाणिपादांता सर्वतोऽक्षिशिरोमुखी
नारायणी जगन्माता समस्तजगदाश्रया १५
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजङ्गमम्
जगत्स्थितिलयौ यस्या उन्मीलननिमीलनात् १६
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता १७
शून्यं तदखिलं विश्वं विलोक्य परमेश्वरी
शून्यं तदखिलं स्वेन पूरयामास तेजसा १८
सा लक्ष्मीर्धरणी चैव नीलादेवीति विश्रुता
आधारभूता जगतः पृथिवीरूपमाश्रिता १९
तोयादिरसरूपेण सैव नीलावपुर्भवेत्
लक्ष्मीरूपत्वमापन्ना धनवाग्रूपिणी हि सा २०
एवं देवीस्वरूपा सा जगतः श्रीः श्रीताहरिम्
समस्तविद्याभेदा स्युर्लक्ष्मीरूपा वरानने २१
श्रीरूपमखिलं सर्वं तस्या हि वपुरुच्यते
सौंदर्यं शीलवृत्तं च सौभाग्यं स्त्रीषु संस्थितम्
तस्या रूपं च गिरिजे सर्वासां मूर्ध्नि योषिताम् २२
यस्याः कटाक्षाय तमोग्रदृष्ट्या ब्रह्माशिवस्स्वर्गपतिर्महेंद्रः
चंद्रश्च सूर्यो धनदोपमोग्निः प्रभूतमैश्वर्यमवाप्नुवंति २३
लक्ष्मीः श्रीः कमला विद्या माता विष्णुप्रिया सती
पद्मालया पद्महस्ता पद्माक्षी लोकसुंदरी २४
भूतानामीश्वरी नित्या सह्या सर्वगता शुभा
विष्णुपत्नी महादेवी क्षीरोदतनया रमा २५
अनंता लोकमाता भूर्नीला सर्वसुखप्रदा
रुक्मिणी च तथा सीता सर्ववेदवती शुभा २६
सती सरस्वती गौरी शांतिः स्वाहा स्वधा रतिः
नारायणी वरारोहा विष्णोर्नित्यानपायिनी २७
एतानि पुण्यनामानि प्रातरुत्थाय यः पठेत्
स महाश्रियमाप्नोति धनधान्यमकल्मषम् २८
हिरण्यवर्णां हरिणीं सुवर्णरजतः स्रजाम्
चंद्रां हिरण्मयीं लक्ष्मीं विष्णोरनपगामिनीम् २९
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ३०
एवं ऋक्संहितायां तु स्तूयमाना महेश्वरी
सर्वैश्वर्यसुखं प्रादाच्छिवादीनां दिवौकसाम् ३१
अस्येशाना हि जगतो विष्णुपत्नी सनातनी
यदपाङ्गाश्रितं सर्वं जगत्स्थावरजंगमम् ३२
यस्य वक्षसि सा देवी प्रभाग्नाविव तिष्ठति
स वै सर्वेश्वरः साक्षादक्षरः पुरुषोऽव्ययः ३३
स वै नारायणः श्रीमान्वात्सल्यगुणसागरः
स्वामी सुशीलः सुभगः सर्वज्ञः सर्वशक्तिमान् ३४
नित्यं संपूर्णकामश्च नैसर्गिकसुहृत्सखा
कृपापीयूषजलधिः शरणं सर्वदेहिनाम् ३५
स्वर्गापवर्गसुखदो भक्तानां करुणाकरः
श्रीमते विष्णवे तस्मै दास्यं सर्वं करोम्यहम् ३६
देशकालाद्यवस्था तु सर्वासु कमलापतेः
इति स्वरूपं संसिद्धं सुखं दास्यमवाप्नुयात् ३७
एवं विदित्वा मंत्रार्थं तद्भक्तिं सम्यगाचरेत्
दासभूतमिदं तस्य जगत्स्थावरजंगमम् ३८
श्रीमन्नारायणः स्वामी जगतां प्रभुरीश्वरः
माता पिता सुतो बंधुर्निवासः शरणं गतिः ३९
कल्याणगुणवान्श्रीशः सर्वकामफलप्रदः
योऽसौ निर्गुण इत्युक्तः शास्त्रेषु जगदीश्वरः ४०
प्राकृतैर्हेयसंयुक्तैर्गुणैर्हीनत्वमुच्यते
यत्र मिथ्या प्रपञ्चत्वं वाक्यैर्वेदांतगोचरैः ४१
दृश्यमानमिदं सर्वमनित्यमिति चोच्यते
अत्रापि प्राकृतं रूपमण्डस्यैव विनाशनम् ४२
प्राकृतानां हि रूपाणामनित्यत्वं तथोच्यते
इममर्थं महादेवि प्रकृतेरुद्भवं हरेः ४३
क्रीडार्थं देवदेवस्य विष्णोर्लीलाधिकारिणः
लोकैश्चतुर्भिर्दशभिः सागरैर्द्वीपसंयुतैः ४४
भूतैश्चतुर्विधैश्चापि भूधरैश्च महोच्छ्रयैः
परिपूर्णमिदं रम्यमंडं प्रकृतिसंभवम् ४५
दशोत्तरगुणोपेतं सप्तावरणसंवृतम्
कलाकाष्ठादिरूपेण यः कालं परिवर्तते ४६
कालेनैव जगत्सर्गस्थितिसंहरणं भवेत्
चतुर्युगसहस्रं वै ब्रह्मणो दिवसो भवेत् ४७
तावंति रात्रिवर्षाणि ब्रह्मणोऽव्यक्तजन्मनः
क्षये तु ब्रह्मणः प्राप्ते सर्वसंहारको भवेत् ४८
अंडमंडगता लोका दह्यंते कालवह्निना
सर्वात्मानस्तथा विष्णोः प्रकृतौ विनिवेशिताः ४९
अंडावरणभूतानि प्रकृतौ लयमाप्नुयुः
सा सर्वजगदाधारा प्रकृतिर्हरिसंश्रिता ५०
तया जगत्सर्गलयौ करोति भगवान्सदा
क्रीडार्थं देवदेवेन सृष्टा माया जगन्मयी ५१
अविद्या प्रकृतिर्माया गुणत्रयमयी सदा
सर्गस्थितिलयानां सा हेतुभूता सनातनी ५२
योगनिद्रा महामाया प्रकृतिस्त्रिगुणान्विता
अव्यक्ता च प्रधानं च विष्णोर्लीलाविकारिणः ५३
जगत्सर्गलयौ स्यातां प्रकृतेरेव सर्वदा
असंख्यप्रकृतेः स्थानं निबिडध्वान्तमव्ययम् ५४
ऊर्ध्वं तु सीम्नि विरजा निस्सीमाधस्सनातनी
तयादृतं जगत्सर्वं स्थूलसूक्ष्माद्यवस्थया ५५
विकाससंकोचावस्थे तस्यां सर्गलयौ स्मृतौ
एवं सर्वाणि भूतानि प्रकृत्यंतर्गतानि वै ५६
ततः शून्यमिदं सर्वं प्रकृत्यंतर्गतं महत्
एवं प्रकृतिरूपाया विभूते रूपमुत्तमम् ५७
त्रिपाद्विभूतिरूपं तु शृणु भूधरनंदिनि
प्रधान परमव्योम्नोरंतरे विरजा नदी ५८
वेदांगस्वेदजनिततोयैः प्रस्राविता शुभा
तस्याः पारे परे व्योम्नि त्रिपाद्भूतिस्सनातनी ५९
अमृतं शाश्वतं नित्यमनन्तं परमं पदम्
शुद्धं सत्वमयं दिव्यमक्षरं ब्रह्मणः पदम् ६०
अनेककोटिसूर्याग्नि तुल्य वर्चसमव्ययम्
सर्ववेदमयं शुद्धं सर्गप्रलयवर्जितम् ६१
असंख्यमजरं नित्यं जाग्रत्स्वप्नादिवर्जितम्
हिरण्मयं मोक्षपदं ब्रह्मानंदसुखावहम् ६२
समानाधिक्यरहितमाद्यंतरहितं शुभम्
तेजसात्यद्भुतं रम्यं नित्यमानंदसागरम् ६३
एवमादिगुणोपेतं तद्विष्णोः परमं पदम्
न तद्भासयते सूर्यो न शशांको न पावकः ६४
यद्गत्वा न निवर्तंते तद्धाम परमं हरेः
तद्विष्णोः परमं धाम शाश्वतं नित्यमच्युतम्
न हि वर्णयितुं शक्यं कल्पकोटिशतैरपि ६५
हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनींद्रसङ्घैः
यस्मिन्पदे ह्यच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद ६६
यदक्षरं वेदगुह्यं यस्मिन्देवा अधि विश्वे निषेदुः
यस्तन्नो वेद किमृचा करिष्यति ये तद्विदुस्त इमे समासते ६७
तद्विष्णोः परमं धाम सदा पश्यंति सूरयः
अक्षरं शाश्वतं दिव्यं देवि चक्षुरिवाततम् ६८
तत्प्रवेष्टुमशक्यं च ब्रह्मरुद्रादिदैवतैः
ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुंगवैः ६९
अहं ब्रह्मा च देवाश्च न जानंति महर्षयः
सर्वोपनिषदामर्थं दृष्ट्वा वक्ष्यामि सुव्रते ७०
विष्णोः पदे हि परमे पदे तत्सशुभाह्वयेः
यत्र गावो भूरिशृंगा आसते सुसुखाः प्रजाः ७१
अत्राह तत्परं धाम गोपवेषस्य शार्ङ्गिणः
तद्भाति परमं धाम गोभिर्गोपैस्सुखाह्वयैः ७२
आदित्यवर्णं तमसः परस्ताज्ज्योतिरच्युतम्
आधारो ब्रह्मणो लोकश्शुद्धसत्त्वस्सनातनः ७३
सामान्या विभिते भूमिन्तेऽस्मिन्शाश्वते पदे
तस्थतुर्जागरूकेस्मिन्युवानौ श्रीसनातनौ ७४
यतः स्वसारौ युवती भूनीले विष्णुवल्लभे
अत्र पूर्वे ये च साध्या विश्वेदेवास्सनातनाः ७५
ते ह नाकं महिमानस्सचन्ते शुभदर्शनाः
तत्र विज्ञानिनो विप्रा जागृवांसस्समिन्धते ७६
तत्पदं ज्ञानिनो विप्रा यांति संवासमिच्छवः
तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते ७७
तस्मिन्बंधविनिर्मुक्ताः प्राप्नुवन्ति सुखं पदम्
तत्प्राप्य न निवर्तंते तस्मान्मोक्ष उदाहृतः ७८
मोक्षं परं पदं दिव्यममृतं विष्णुमंदिरम्
अक्षरं परमं धाम वैकुण्ठं शाश्वतं पदम् ७९
नित्यञ्च परमं व्योम सर्वोत्कृष्टं सनातनम्
पर्य्यायवाचकान्यस्य परधाम्नोच्युतस्य च
तस्य त्रिपाद्विभूतेस्तु रूपं वक्ष्यामि विस्तरात् ८०
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे त्रिपाद्विभूतिकथनंनाम सप्तविंशत्यधिकद्विशततमोऽध्यायः २२७