पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २२६
← अध्यायः २२५ | पद्मपुराणम् अध्यायः २२६ वेदव्यासः |
अध्यायः २२७ → |
शंकर उवाच -
न्यासेवाप्यर्चने वापि मंत्रमेकांतिनः श्रयेत् ।
अवैष्णवोपदिष्टेन मंत्रेण न परा गतिः १।
अवैष्णवोपदिष्टंचेत्पूर्वमंत्रवरंद्वयम् ।
पुनश्च विधिना सम्यक्वैष्णवाद्ग्राहयेद्गुरोः २।
सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः ।
कुले महति जातोऽपि न गुरुः स्यादवैष्णवः ३।
यस्तु मंत्रद्वयं सम्यगध्यापयति वैष्णवः ।
स आचार्यस्तु विज्ञेयो भवबंधविदारकः ४।
आचार्यं संश्रयित्वाथ वत्सरं सेवयेद्दिवजः ।
तस्य वृत्तिं परिज्ञात्वा मंत्रमध्यापयेद्गुरुः ५।
कृत्वा तापादिसंस्कारान्पश्चान्मंत्रमुदीरयेत् ।
तापं पुंड्रं तथा नाम कृत्वा वै विधिना गुरुः ६।
पश्चादध्यापयेन्मंत्रं शिष्यं निर्मलचेतसम् ।
चक्रेण विधिना तप्तं ताप इत्यभिधीयते ७।
पुंड्रमूर्द्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते ।
ततो मंत्रं विधानेन शिष्यमध्यापयेद्गुरुः ८।
न्यासमष्टाक्षरं मंत्रमन्यं वा वैष्णवं मनुम् ।
न्यासमेवात्र परमं वैष्णवानां शुभानने ९।
तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते ।
न्यासविद्यापरो यस्तु ब्राह्मणः श्रेष्ठ उच्यते १०।
न्यासात्परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते ।
न्यासं द्वयं प्रपत्तिः स्यात्पर्यायेण निबोध मे ११।
द्वयोपदेशपूर्वं तु सर्वकर्मसमाचरेत् ।
द्वयाधिकारी न भवेत्सर्वकर्मसु नार्हति १२।
तस्माद्वयमधीत्येव पश्चान्मंत्रमनुत्तमम् ।
श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजसत्तमः १३।
मंत्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव संग्रहात् ।
नैसर्गप्रणवाद्यन्तु मंत्रमित्युच्यतेबुधैः १४।
नान्यत्र सर्वमंत्रेषु प्रणवस्वस्वभावतः ।
पूर्वं तु सर्वमंत्राणां योजयेत्प्रणवं शुभम् १५।
ॐकारः प्रणवं ब्रह्म सर्वमंत्रेषु नायकः ।
आदौ सर्वत्र युंजीत मंत्राणां तु शुभानने १६।
स्वभावात्प्रणवन्तस्मिन्मूलमंत्रे प्रतिष्ठितम् ।
ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ १७।
ततो नारायणायेति पंचार्णानि यथाक्रमम् ।
एवमष्टाक्षरो मंत्रो ज्ञेयः सर्वार्थसाधकः १८।
सर्वदुःखहरः श्रीमान्सर्वमंत्रात्मकः शुभः ।
ऋषिर्नारायणस्तस्य देवता श्रीश एव च १९।
छंदस्तु देवी गायत्री प्रणवो बीजमुच्यते ।
नित्यानपायिनी देवी शक्तिः श्रीरुच्यते मनोः २०।
प्रथमं पदमोङ्कार द्वितीयं नम उच्यते ।
तृतीयं नारायणायेति पदत्रयमुदाहृतम् २१।
अकारश्चाप्युकारश्च मकारश्च ततः परम् ।
वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् २२।
अकारेणोच्यते विष्णुः श्रीरुकारेण चोच्यते ।
मकारस्त्वनयोर्दासः पंचविंशः प्रकीर्तितः २३।
वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः ।
उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते २४।
मकारेणोच्यते जीवः पंचविंशोदितः पुमान् ।
भूतानि च कवर्गेण चवर्गणेन्द्रियाणि च २५।
ट वर्गेण तवर्गेण ज्ञानं धादयस्तथा ।
मनः पकारेणैवोक्तं फकारेण त्वहंकृतिः २६।
बकारेण भकारेण महान्प्रकृतिरुच्यते ।
आत्मा तु स मकारः स्यात्पंचविंशः प्रकीर्तितः २७।
देहेंद्रियमनः प्राणादिभ्योन्योऽनन्यसाधनः ।
भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः २८।
अवधारणवाच्येवमुकारः कैश्चिदुच्यते ।
श्रीतत्वमपि तत्पक्षे वकारेणैव चोच्यते २९।
भास्करस्य प्रभा यद्वत्तस्य नित्यानपायिनी ।
आकारेणोच्यते विष्णुः कल्याणगुणसागरः ३०।
श्रीशः सर्वात्मनां शेषो जगद्बीजं परः पुमान् ।
जगत्कर्त्ता जगद्भर्त्ता ईश्वरो लोकबांधवः ३१।
जगतामीश्वरी नित्या विष्णोरनपगामिनी ।
माता सर्वस्य जगतः पत्नी विष्णोर्मनोरमा ३२।
जगदाधारभूता श्रीरुकारेणात्र चोच्यते ।
मकारेण तयोर्दासः क्षेत्रज्ञः प्रोच्यते बुधैः ३३।
ज्ञानाश्रमो ज्ञानगुणश्चेतनः प्रकृतेः परः ।
न जडो निर्विकारश्च एकरूप स्वरूपभाक् ३४।
अणुर्नित्यो व्याप्तिशीलश्चिदानंदात्मकस्तथा ।
अहमर्थोऽव्ययः क्षेत्री भिन्नरूपं सनातनः ३५।
अदाह्योच्छेद्यो ह्यक्लैद्यस्त्वशोष्योक्षर एव च ।
एवमादिगुणोपेतश्शेषभूतः परस्य वै ३६।
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा ।
दासभूतो हरेरेव नान्यस्य तु कदाचन ३७।
एवं दासत्वमेवास्य मध्यमेवावधार्यते ।
इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानघे ३८।
विवृतिः प्रणवस्यार्थ मन्त्रशेषेण वै शुभे ।
परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते ३९।
तस्मान्महदहंकारौ मनसा विनिवर्त्तयेत् ।
स्वोपायबुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते ४०।
अहंकृतिर्मकारः स्यान्नकारस्तन्निषेधकः ।
तस्मात्तु मनसैवास्य अहंकारविमोचनम् ४१।
मनसा सर्वसिद्धिः स्यादन्यथा नाशमाप्नुयात् ।
नमसा सहितं किंचित्तदहंकार उच्यते ४२।
अहंकारेण युक्तस्य सुखं किंचिन्न विद्यते ।
अहंकारविमूढात्मा अंधे तमसि मज्जति ४३।
तस्मान्न मनसा चात्र स्वातंत्र्यं प्रतिषिध्यते ।
भगवत्परतंत्रोऽसौ तदायत्तश्च जीवति ४४।
तस्मात्साधनकर्तृत्वं चेतनस्य न विद्यते ।
ईश्वरस्यैव संकल्पाद्वर्त्तते स्वचराचरम् ४५।
तस्मात्स्वसामर्थ्यविधिं त्यजेत्सर्वमशेषतः ।
ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते ४६।
तस्मिन्न्यस्तभरः श्रीशे तत्कर्मैव समाचरेत् ।
परमात्मा हरिस्स्वामी स्वमहं तस्य सर्वदा ४७।
इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि ।
इत्येवं मनसा त्यक्तमहंता ममतोर्जितम् ४८।
देहेष्वहं मतिर्मूलं संसृतौ कर्मबंधने ।
तस्मान्महदहंकारौ मनसा वर्जयेद्बुधः ४९।
अथ नारायणपदं वक्ष्यामि गिरजे शुभे ।
नारा इत्यात्मनां संघास्तेषां गतिरसौ पुमान् ५०।
त एव चायनं तस्य तस्मान्नारायणः स्मृतः ।
सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगत् ५१।
योऽसौ व्याप्यस्थितो नित्यं स वै नारायणः स्मृतः ।
नाराश्चेति सर्वपुंसां समूहाः परिकीर्तिताः ५२।
गतिरालंबनं तेषां तस्मान्नारायणः स्मृतः ।
नराज्जातानि तत्वानि नाराणीति विदुर्बुधाः ५३।
तान्येव चायनं तस्य तेन नारायणस्स्मृतः ।
कल्पांतेपि जगत्कृत्स्नं ग्रसित्वा येन धार्यते ५४।
पुनः संसृज्यते येन स वै नारायणः स्मृतः ।
चराचरं जगत्कृत्स्नं नार इत्यभि धीयते ५५।
तस्य वासं गतिर्येन तेन नारायणः स्मृतः ।
नारो नराणां संघातस्तस्यासावयनं गतिः ५६।
तेनासौ मुनिभिर्नित्यं नारायण इतीरितः ।
प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवत् ५७।
पुनर्यस्मात्प्रलीयन्ते तस्मान्नारायणः स्मृतः ।
यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ५८।
ईशः सर्वस्य जगतः स वै नारायणः स्मृतः ।
नारायणः परंब्रह्म तत्वं नारायणः परम् ५९।
यच्च किंचिज्जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ।
अंतर्बंहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ६०।
अपहतपाप्मा पुरुषः सर्वभूतांतरस्थितः ।
दिव्यएकस्सदा नित्यो हरिर्नारायणोऽच्युतः ६१।
यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च ।
स्प्रष्टा च स्पर्शितव्यश्च ध्याता ध्यातव्यमेव च ६२।
वक्ता च वाच्यं ज्ञाता च ज्ञातव्यं चिदचिज्जगत् ।
तच्च सर्वं हरिः श्रीशो नारायण उदाहृतः ६३।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स लोकान्सर्वतो व्याप्य अत्यतिष्ठद्दशांगुलम् ६४।
यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः ।
उतामृतत्वस्येशानो यदन्नेन विराट्पुमान् ६५।
स एव पुरुषो विष्णुर्वासुदेवोऽच्युतो हरिः ।
हिरण्मयोऽथ भगवान्सोऽमृतः शाश्वतः शिवः ६६।
पतिर्विश्वस्य जगतः सर्वलोकेश्वरं प्रभुः ।
हिरण्यगर्भाः सविता अनंतोऽसौ महेश्वरः ६७।
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
वर्त्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ६८।
ईश्वरो भगवान्विष्णुः परमात्मा जगत्सुहृत् ।
शास्ता चराचरस्यैको यतीनां परमा गतिः ६९।
यो वेदादौ स्वरः प्रोक्तो वेदांते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ७०।
योसावकारो वै विष्णुर्योऽसौ नारायणो हरिः ।
स एव पुरुषो नित्यः परमात्मा महेश्वरः ७१।
यस्मादुद्भूतमैश्वर्यं यस्मिन्कस्मिंश्च वर्तते ।
तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा ।
निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् ७२।
आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः ।
तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७३।
असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः ।
विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः ७४।
श्रीभूनीलापतिर्योसावीश्वरस्स उदाहृतः ।
तस्मात्सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् ७५।
असौ यज्ञेश्वरो यज्ञो यज्ञभुक्यज्ञकृद्विभुः ।
यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः ७६।
यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र ।
तत्संनिधानादपयांति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे ७७।
योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः ।
संतर्पयति लोकांस्त्रीन्स एव परमेश्वरः ७८।
येन पूर्णेन हविषा देवा यज्ञमतन्वत ।
तस्माद्यज्ञात्समुत्पन्ना ये के चोभयादतः ७९।
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
तस्मादश्वा अजायंत गावश्च पुरुषादयः ८०।
पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै ।
हरेः सर्वं समुद्भूतं जगत्स्थावरजंगमम् ८१।
मुखबाहूरुपादाः स्युस्तस्य वर्णा यथाक्रमम् ।
पद्भ्यां तु पृथिवी तस्य शिरसा द्यौरजायत ८२।
मनसश्चंद्रमा जातश्चक्षुषश्च प्रभाकरः ।
मुखादग्निः सहस्राक्षो वायुः प्राणात्सदागतिः ८३।
नाभेर्विरिंचिर्गगनं जगत्सर्वं चराचरम् ।
यस्मात्सर्वं समुद्भूतं जगद्विष्णोः सनातनात् ८४।
तस्मात्सर्वमयो विष्णुर्नारायण इतीरितः ।
एवं सृष्ट्वा जगत्सर्वं पुनः संग्रसते हरिः ८५।
निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवत् ।
ब्रह्माणमिंद्रं रुद्रं च यमं वरुणमेव च ८६।
निगृह्य हरते यस्मात्तस्माद्धरिरहोच्यते ।
असावेकार्णवीभूते मायावटतले पुमान् ८७।
जगत्स्वजठरे कृत्वा शेते तस्मिन्सनातनः ।
आसीदेको हि वै चात्र विष्णुर्नारायणोऽच्युतः ८८।
न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः ।
नेमे द्यावापृथिव्यौ च न सोमो न च भास्करः ८९।
न नक्षत्राणि लोकाश्च न चांडं महदावृतम् ।
यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे ९०।
सृष्टं पुनस्तथा सर्गे तस्मान्नारायणस्स्मृतः ।
तस्य दास्यं चतुर्थ्यानु मंत्रे प्रोक्तं तु पार्वति ९१।
दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगत् ।
एवमर्थं विदित्वा वै पश्चान्मंत्रं प्रयोजयेत् ९२।
अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति ।
न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने ९३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे मंत्रार्थोपदेशोनाम षड्विंशत्यधिकद्विशततमोऽध्यायः २२६।