नैषधीयचरितम्/दशमः सर्गः
← नवमः सर्गः | नैषधीयचरितम् दशमः सर्गः श्रीहर्षः |
एकादशः सर्गः → |
रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः ।
स्वयंवरं शंबरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः ॥ १०.१ ॥
नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः ।
नास्थादपन्था धरणेः कणोऽपि व्रजेषु राज्ञां युगपद्व्रजत्सु ॥ १०.२ ॥
योग्यैर्व्रजद्भिर्नृपजां वरीतुं वीरैरनर्हैः प्रसभेन हर्तुम् ।
द्रष्टुं परैस्तान्परिकर्तुमन्यैः स्वमात्रशेषाः ककुभो बभूवुः ॥ १०.३ ॥
लोकैरशेषैरविनिश्रियं तामुद्दिश्य दिश्यैर्विहिते प्रयाणे ।
स्ववर्तितत्तज्जनयन्त्रणार्तिविश्रान्तिमायुः ककुभां विभागाः ॥ १०.४ ॥
तलं यथेयुर्न तिला विकीर्णाः सैन्यैस्तथा राजपथा बभूवुः ।
भैमीं स लब्धामिव तत्र मेने कः प्राप भूभृद्भवितुं पुरस्तात् ॥ १०.५ ॥
नृपः पुरस्थैः प्रतिबद्धवर्त्मा पश्चात्तनैः कश्चन नुद्यमानः ।
यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥ १०.६ ॥
राज्ञां पथि स्त्यानतयानुपूर्व्या विलङ्घनाशक्तिविलम्बभाजाम् ।
आह्वानसंज्ञानमिवाग्रकम्पैर्ददुर्विदर्भेन्द्रपुरीपताकाः ॥ १०.७ ॥
प्राग्भूय कर्कोटक आचकर्ष सकम्बलं नागबलं यदुच्चैः ।
भुवस्तले कुण्डिनगामि राज्ञां तद्वासुकेश्चाश्वतरोऽन्वगच्छत् ॥ १०.८ ॥
आगच्छदुर्विन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः ।
विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् ॥ १०.९ ॥
आखण्डलो दण्डधरः कृशानुः पाशीति नाथैः ककुभां चतुर्भिः ।
भैम्येव बद्ध्वा स्वगुणेन कृष्टैः स्वयंवरे तत्र गतं न शेषैः ॥ १०.१ ॥
मन्त्रैः पुरं भीमपुरोहितस्य तद्बद्धरक्षं विशति क्व रक्षः ।
तत्रोद्यमं दिक्पतिराततान यातुं ततो जातु न यातुधानः ॥ १०.११ ॥
कर्तुं शशाकाभिमुखं न भैम्या मृगं दृगम्भोरुहतर्जितम् यत् ।
अस्या विवाहाय ययौ विदर्भांस्तद्वाहनस्तेन न गन्धवाहः ॥ १०.१२ ॥
जातौ न वित्ते न गुणे न कामः सौन्दर्य एव प्रवणः स वामः ।
स्वच्छस्वशैलेक्षितकुत्सबेरस्तां प्रत्यगान्न स्त्रितमां कुबेरः ॥ १०.१३ ॥
भमीविवाहं सहते स्म कस्मादर्धं तनुर्या गिरिजात्मभर्तुः ।
तेनाव्रजन्त्या विदधे विदर्भानीशानयानाय तयान्तरायः ॥ १०.१४ ॥
स्वयंवरं भीमनरेन्द्रजाया दिशः पतिन प्रविवेश शेषः ।
प्रयातु भारं स निवेश्य कस्मिन्नहिर्महीगौरवसासहिर्यः ॥ १०.१५ ॥
ययौ विमृश्योर्ध्वदिशः पतिर्न स्वयंवरं वीक्षितधर्मशास्त्रः ।
व्यलोकि लोके श्रुतिषु स्मृतौ वा समं विवाहः क्व पितामहेन ॥ १०.१६ ॥
भैमीनिरस्तं स्वमवेत्य दूतीमुखात्किलेन्द्रप्रमुखा दिगीशाः ।
स्यदे मुखेन्दौ च वितत्य मान्द्यं चित्तस्य ते राजसमाजमीयुः ॥ १०.१७ ॥
नलभ्रमेणापि भजेत भैमी कदाचिदस्मानिति शेषिताशा ।
अभून्महेन्द्रादिचतुष्टयी सा चतुर्नली काचिदलीकरूपा ॥ १०.१८ ॥
प्रयस्यतां तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण ।
नैवानुमेने नलसाम्यसिद्धिः स्वाभाविकात्कृत्रिममन्यदेव ॥ १०.१९ ॥
पूर्णेन्दुमास्यं विदधुः पुनस्ते पुनर्मुखीचक्रुरनिद्रमब्जम् ।
स्ववक्त्रमादर्शतलेऽथ दर्शं दर्शं बभञ्जुर्न तथातिमञ्जु ॥ १०.२ ॥
तेषां तदा लब्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य ।
नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् ॥ १०.२१ ॥
प्रियावियोगक्वथितादिवैलाच्चन्द्राच्च राहुग्रहपीडितात्ते ।
ध्माताद्भवेन स्मरतोऽपि सारैः स्वं कल्पयन्ति स्म नलानुकल्पम् ॥ १०.२२ ॥
नलस्य पश्यत्वियदन्तरं तैर्भैमीति भूपान्विधिराहृतास्यै ।
स्पर्धां दिगीशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानमाख्यत् ॥ १०.२३ ॥
सभा नलश्रीयमकैर्यमाद्यैर्नलं विनाभूद्धृतदिव्यरत्नैः ।
भामाङ्गणप्राधुणिके चतुर्भिर्देवद्रुमैर्द्यौरिव पारिजाते ॥ १०.२४ ॥
तत्रागमद्वासुकिरीशभूषाभस्मोपदेहस्फुटगौरदेहः ।
फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवाद्यनुजीविवादः ॥ १०.२५ ॥
द्वीपान्तरेभ्यः पुटभेदनं तत् क्षणादवापे सुरभूमिभूपैः ।
तत्कालमालम्बि न केन यूना स्मरेषुपक्षानिलतूललीला ॥ १०.२६ ॥
रम्येषु हर्म्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः ।
प्रियोक्तिदानादरनम्रताद्यैरुपाचरच्चारु स राजचक्रम् ॥ १०.२७ ॥
चतुःसमुद्रीपरिखे नृपाणामन्तः पुरे वासितकीर्तिदारे ।
दानं दया सूनृतमातिथेयी चतुष्टयी रक्षणसौविदल्ला ॥ १०.२८ ॥
अभ्यागतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु ।
जिज्ञासितस्वेप्सितलाभलिङ्गं स्वल्पोऽति नावापि नृपैर्विशेषः ॥ १०.२९ ॥
अङ्के विदर्भेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः ।
यथा पयोराशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥ १०.३ ॥
पुरे पथि द्वारगृहाणि तत्र चित्रीकृतान्युत्सववाञ्छयेव ।
नभोऽपि किर्मीरमकारि तेषां महीभुजामाभरणप्रभाभिः ॥ १०.३१ ॥
विलासवैदग्ध्यविभूषणश्रीस्तेषां यथासीत्परिचारकेऽपि ।
अज्ञासिषुः स्त्रीशिशुबालिशास्तं यथागतं नायकमेव कंचित् ॥ १०.३२ ॥
न स्वेदिनश्चामरमारुतैर्न निमेषनेत्राः प्रतिवस्तुचित्रैः ।
म्लानस्रजो नातपवारणेन देवा नृदेवा बिभिदुर्न तत्र ॥ १०.३३ ॥
अन्योन्यभाषानवबोधभीतेः संस्कृत्रिमाभिर्व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नृपेषु तेषु सौवर्गवर्गो न जनैरचिह्नि ॥ १०.३४ ॥
ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि ।
निरीक्ष्य निन्युर्दिवसं निशां च तत्स्वप्नसंभोगकलाविलासैः ॥ १०.३५ ॥
सा विभ्रमं स्वप्नगतापि तस्यां निशि स्वलाभस्य ददे यदेभ्यः ।
तदर्थिनां भूमिभुजां वदान्या सती सती पूरयति स्म कामम् ॥ १०.३६ ॥
वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीरनुभावयद्भिः ।
स्वयंवरस्थानजनाश्रयस्तैर्दिने परत्रालमकारि वीरैः ॥ १०.३७ ॥
भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्याकृत प्राकृतबुद्धिमेव ।
प्रसूनबाणे विबुधाधिनाथस्तेनाथ साऽशोभि सभा नलेन ॥ १०.३८ ॥
धृताङ्गरागे कलितद्युशोभां तस्मिन्सभां चुम्बति राजचन्द्रे ।
गता बताक्ष्णोर्विषयं विहाय क्व क्षात्त्रनक्षत्त्रकुलस्य कान्तिः ॥ १०.३९ ॥
द्राग्दृष्टयः क्षोणिभुजाममुष्मीन्नाश्चर्यपर्युत्सुकिता निपेतुः ।
अनन्तरं दन्तुरितभ्रुवां तु नितान्तमीर्ष्याकलुषा दृगन्ताः ॥ १०.४ ॥
सुधांशुरेषु प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् ।
दस्रस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥ १०.४१ ॥
आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवासौ रतिवल्लभस्य ।
नासत्ययोर्मूर्तितृतीयतायमिति स्तुतस्तैः कृतमत्सरैः सः ॥ १०.४२ ॥
मायानलोदाहरणान्मिथस्तैरूचे समाः सन्त्यमुना कियन्तः ।
आत्मापकर्षे सति मत्सराणां द्विषः परस्पर्धनया समाधिः ॥ १०.४३ ॥
गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत्खलत्वम् ।
रूपेण तत्संसददूषितस्य सुरैर्नरत्वं यददूषि तस्य ॥ १०.४४ ॥
नलानसत्यानवदत्स सत्यः कृतोपवेशान्सविधे सुवेषान् ।
नोभाविलाभूः किमु दर्पकश्च भवन्ति नासत्ययुतौ भवन्तः ॥ १०.४५ ॥
अमी तमीदृग्जगुरत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् ।
अदर्पकाः स्मः सविधे स्थितास्ते नासत्यतां नात्र बिभर्ति कश्चित् ॥ १०.४६ ॥
तेभ्यः परान्नः परिकल्पयस्व श्रिया विदूरीकृतकामदेवान् ।
अस्मिन्समाजे बहुषु भ्रमन्ती भैमी किलास्मासु घटिष्यतेऽसौ ॥ १०.४७ ॥
असाम यन्नाम तवेह रूपं स्वेनाधिगत्य श्रितमुग्धभावाः ।
तन्नो धिगाशापतितान्नरेन्द्र धिक्चेदमस्मद्विबुधत्वमस्तु ॥ १०.४८ ॥
सा वागवाज्ञायितमां नलेन तेषामनाशङ्कितवाक्छलेन ।
स्त्रीरत्नलाभोचितयत्नमग्नमेनं हि न स्म प्रतिभाति किंचित् ॥ १०.४९ ॥
यः स्पर्धया येन निजप्रतिष्ठां लिप्सुः स एवाह तदुन्नतत्वम् ।
कः स्पर्धितुः स्वाभिहितस्वहानेः स्थानेऽवहेलां बहुलां न कुर्यात् ॥ १०.५ ॥
गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्त्वल्ललिताभिनेता ।
मुदा तदाऽवैक्षत केशवस्तं स्वयंवराडम्बरमम्बरस्थः ॥ १०.५१ ॥
अष्टौ तदाष्टासु हरित्सु दृष्टीः सदो दिदृक्षुर्निदिदेश देवः ।
लैङ्गीमदृष्ट्वापि शिरःश्रियं यो दृष्टौ मृषावादितकेतकीकः ॥ १०.५२ ॥
एकेन पर्यक्षिपदात्मनाद्रिं चक्षुर्मुरारेरभवत्परेण ।
तैर्द्वादशात्मा दशभिस्तु शेषैर्दिशो दशालोकत लोकपूर्णाः ॥ १०.५३ ॥
प्रदक्षिणं दैवतहर्म्यमद्रिं सदैव कुर्वन्नपि शर्वरीशः ।
द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या न प्राप तद्दर्शनविघ्नतापम् ॥ १०.५४ ॥
आलोकमाना वरलोकलक्ष्मीं तात्कालिकीमप्सरसो रसोत्काः ।
जनाम्बुधौ यत्र निजाननानि वितेनुरम्भोरुहकाननानि ॥ १०.५५ ॥
न यक्षलक्षैः किमलक्षि नो वा सिद्धैः किमध्यासि समाप्तशोभा ।
सा किंनरैः किं न रसादसेवि नादर्शि हर्षेण महर्षिभिर्वा ॥ १०.५६ ॥
वाल्मीकिरश्लाघत तामनेकशाखत्रयीभूरुहराजिभाजा ।
क्लेशं विना कण्ठपथेन यस्य दैवी दिवः प्राग्भुवमागमद्वाक् ॥ १०.५७ ॥
प्राशंसि संसद्गुरुणापि चार्वी चार्वाकतासर्वविदूषकेण ।
आष्थानपट्टं रसनां यदीयां जानामि वाचामधिदेवतायाः ॥ १०.५८ ॥
नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्रगाचार्यकवित्कविर्यः ।
दैतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभामभाणीत् ॥ १०.५९ ॥
अमेलयद्भीमनृपः परं न नाकर्षदेतान्दमनस्वसैव ।
इदं विधातापि विचिन्त्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः ॥ १०.६ ॥
एकाकिभावेन पुरा पुरारिर्यः पञ्चतां पञ्चशरं निनाय ।
तद्भीसमाधानममुष्य काय निकायलीलाः किममी युवानः ॥ १०.६१ ॥
पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत्क्वापि निधाय वेधाः ।
तैरेव शिल्पी निरमादमीषां मुखानि लावण्यमयानि मन्ये ॥ १०.६२ ॥
मुधार्पितं मूर्धसु रत्नमेभिर्यन्नाम तानि स्वयमेत एव ।
स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणाऋथमर्थ्यम् ॥ १०.६३ ॥
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् ।
न शक्ष्यतो लक्षयितुं विमिश्रं दस्रौ सहस्रैरपि वत्सराणाम् ॥ १०.६४ ॥
स्थितैरियद्भिर्युवभिर्विदग्धैर्दग्धेऽपि कामे जगतः क्षतिः का ।
एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् ॥ १०.६५ ॥
इति स्तुवन्हुंकृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतैव ।
ओंकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथाऽन्वमानि ॥ १०.६६ ॥
न्यवीविशत्तानथ राजसिंहान्सिंहासनौघेषु विदर्भराजः ।
शृङ्गेषु यत्र त्रिदशैरिवैभिरशोभि कार्तस्वरभूधरस्य ॥ १०.६७ ॥
विचिन्त्य नानाभुवनागतांस्तानमर्त्यसंकीर्त्यचरित्रगोत्रान् ।
कथ्याः कथंकारममी सुतायामिति व्यषादि क्षितिपेन तेन ॥ १०.६८ ॥
श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः ।
तदाकुलोऽसौ कुलदैवतस्य स्मृतिं ततान क्षणमेकतानः ॥ १०.६९ ॥
तच्चिन्तनानन्तरमेव देवः सरस्वतीं सस्मितमाह स स्म ।
स्वयंवरे राजकगोत्रवृत्तवत्त्रीमिह त्वां करवाणि वाणि ॥ १०.७ ॥
कुलं च शीलं च बलं च यूनां जानासि नानाभुवनागतानाम् ।
एषामतस्त्वं भव वावदूका मूकायितुं कः समयस्तवायम् ॥ १०.७१ ॥
जगत्त्रयीपण्डितमण्डितैषा सभा न भूता च न भाविनी च ।
राज्ञां गुणज्ञापनकैतवेन संख्यावतः श्रावय वाङ्मुखानि ॥ १०.७२ ॥
इतीरिता तच्चरणात्परागं गीर्वाणचूडामणिमृष्टशेषम् ।
तस्य प्रसादेन सहाज्ञयासावादाय मूर्ध्नादरिणी बभार ॥ १०.७३ ॥
मध्येसभं सावततार बाला गन्धर्वविद्याधरकण्ठनाला ।
त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वर्तितदृक्तरङ्गा ॥ १०.७४ ॥
आसीदथर्वा त्रिवलित्रिवेदी मूलाद्विनिर्गत्य वितायमाना ।
नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा ॥ १०.७५ ॥
शिक्षैव साक्षाच्चरितं यदीयं कल्पश्रियाकल्पविधिर्यदीयः ।
यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तिविद्या खलु पर्यणंसीत् ॥ १०.७६ ॥
जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूद्यदीयम् ।
श्लोकार्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् ॥ १०.७७ ॥
असंशयं सा गुणदीर्घभावकृता दधाना विततिं यदीया ।
विधायिका शब्दपरम्पराणां किं वारचि व्याकरणेन काञ्ची ॥ १०.७८ ॥
स्थितैव कण्ठे परिणम्य हारलता बभूवोदिततारवृत्ता ।
ज्योतिर्मयी यद्भजनाय विद्या मध्येङ्गमङ्केन भृता विशङ्के ॥ १०.७९ ॥
अवैमि वादिप्रतिवादिगाढखपक्षरागेण विराजमाने ।
ते पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ ॥ १०.८ ॥
ब्रह्मार्थकर्मार्थकवेदभेदा द्विधा विधाय स्थितयात्मदेहम् ।
चक्रे पराच्छादनचारु यस्या मीमांसया मांसलमूरुयुग्मम् ॥ १०.८१ ॥
उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थैः ।
आन्वीक्षिकीं यद्दशनद्विमालीं तां मुक्तिकामाकलितां प्रतीमः ॥ १०.८२ ॥
तर्का रदा यद्वदनस्य तर्क्या वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः ।
पत्त्रं क्व दातुं गुणशालिपूगं क्व वादतः खण्डयितुं प्रभुत्वम् ॥ १०.८३ ॥
सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुभयीभविष्णु ।
तन्मत्स्यपद्माद्युपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् ॥ १०.८४ ॥
आकल्पविच्छेदविवर्जितो यः स धर्मशास्त्रव्रज एव यस्याः ।
पश्यामि मूर्धा श्रुतिमूलशाली कण्ठस्थितः कस्य मुदे न वृत्तः ॥ १०.८५ ॥
भ्रुवौ दलाभ्यां प्रणवस्य यस्यास्तद्बिन्दुना भालतमालपत्त्रम् ।
तदर्धचन्द्रेण विधिर्विपञ्ची निक्वाणनाकोणधनुः प्रणिन्ये ॥ १०.८६ ॥
द्विकुण्डली वृत्तसमाप्तिलिप्या कराङ्गुली काञ्चनलेखनीनाम् ।
कैश्यं मषीणां स्मितभा कठिन्याः काये यदीये निरमायि सारैः ॥ १०.८७ ॥
या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयोदरेव ।
विज्ञानसामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव ॥ १०.८८ ॥
भीमस्तयागद्यत मोदितुं ते वेला किलेयं तदलं विषद्य ।
मया निगाद्यं जगतीपतीनां गोत्रं चरित्रं च विचित्रमेषाम् ॥ १०.८९ ॥
अविन्दतासौ मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे ।
अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगास्मि कापि ॥ १०.९ ॥
तत्कालवेद्यैः शकुनस्वराद्यैराप्तामवाप्तां नृपतिः प्रतीत्य ।
तां लोकपालैकधुरीण एष तस्यै सपर्यामुचितां दिदेश ॥ १०.९१ ॥
दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकौतूहलसिद्धविद्याम् ।
ततः क्षितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव ॥ १०.९२ ॥
दासीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु ।
स्वाङ्गेषु रूपोत्थमथाद्भुताब्धिमुद्वेलयन्तीमवलोककानाम् ॥ १०.९३ ॥
स्निग्धत्वमायाजललेपलोपसयत्नरत्नांशुमृजांशुकाभाम् ।
नेपथ्यहीरद्युतिवारिवर्तिस्वच्छायसच्छायनिजालिजालाम् ॥ १०.९४ ॥
विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च ।
रतीशदूतेन मधुव्रतेन कर्णे रहः किंचिदिवोच्यमानाम् ॥ १०.९५ ॥
विरोधिवर्णाभरणाश्मभासां मल्लाजिकौतूहलमीक्षमाणाम् ।
स्मरस्वचापभ्रमचालिते नु भ्रुवौ विलासाद्वलिते वहन्तीम् ॥ १०.९६ ॥
सामोदपुष्पाशुगवासिताङ्गीं किशोरशाखाग्रशयालिमालाम् ।
वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम् ॥ १०.९७ ॥
पीतावदातारुणनीलभासां देहोपदेहात्किरणैर्मणीनाम् ।
गोरोचनाचन्दनकुङ्कुमैणनाभीविलेपान्पुनरुक्तयन्तीम् ॥ १०.९८ ॥
स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतीं नलस्य ।
तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषः कार्मुकमर्पयन्तीम् ॥ १०.९९ ॥
विभूषाणेभ्योऽवरमंशुकेषु ततोऽवरं सान्द्रमणिप्रभासु ।
सम्यक्पुनः क्वापि न राजकस्य पातुं दृशा धातृधृतावकाशाम् ॥ १०.१ ॥
प्राक्पुष्पवर्षैर्वियतः पतद्भिर्द्रष्टुं न दत्तामथ न द्विरेफैः ।
तद्भीतिभुग्नेन ततो मुखेन विधेरहो वाञ्छितविघ्नयत्नः ॥ १०.१०१ ॥
एतद्वरं स्यामिति राजकेन मनोरथातिथ्यमवापिताय ।
सखीमुखायोत्सृजतीमपाङ्गात्कर्पूरकस्तूरिकयोः प्रवाहम् ॥ १०.१०२ ॥
स्मितेच्छुदन्तच्छदकम्पकिंचिद्दिगम्बरीभूतरदांशुवृन्दैः ।
आनन्दितोर्वीन्द्रमुखारविन्दैर्मन्दं नुदन्तीं हृदि कौमुदीनाम् ॥ १०.१०३ ॥
प्रत्यङ्गभूषाच्छमणिच्छलेन यल्लग्नतन्निश्चललोकनेत्राम् ।
हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् ॥ १०.१०४ ॥
तद्गौरसारस्मितविस्मितेन्दुप्रभाशिरःकम्परुचोऽभिनेतुम् ।
विपाण्डुतामण्डितचामरालीनानामरालीकृतलास्यलीलाम् ॥ १०.१०५ ॥
तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्ठितानाम् ।
स्वयं धृतामप्सरसां प्रसादं ह्रियं हृदो मण्डनमर्पयन्तीम् ॥ १०.१०६ ॥
तारा रदानां वदनस्य चन्द्रं रुचा कचानां च नभो जयन्तीम् ।
आकण्ठमक्ष्णोर्द्वितयं मधूनि महीभुजः कस्य न भोजयन्तीम् ॥ १०.१०७ ॥
अलंकृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।
इमां विमानेन सभां विशन्तीं पपावपाङ्गैरथ राजराजिः ॥ १०.१०८ ॥
आसीदसौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोद्भवदद्भुतस्य ।
उल्लेसुरङ्गानि मुदा न यस्य विनद्ररोमाङ्कुरदन्तुराणि ॥ १०.१०९ ॥
अङ्गुष्ठमूर्ध्ना विनिपीडिताया मध्येन भागेन च मध्यमायाः ।
आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम ॥ १०.११ ॥
अस्मिन्समाजे मनुजेश्वरेण तां खञ्जनाक्षीमंवलोक्य केन ।
पुनः पुनर्लोलितमौलिना न भ्रुवोरुदक्षेपितरां द्वयी वा ॥ १०.१११ ॥
स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः ।
इदं मुदा विह्वलचित्तभावादवापि खण्डाक्षारजिह्मजिह्वम् ॥ १०.११२ ॥
रम्भादिलोभात्कृतकर्मभिर्मा शून्यैव भूर्भूत्सुरभूमिपान्थैः ।
इत्येतयालोपि दिवोऽपि पुंसां वैमत्यमत्यप्सरसा रसायाम् ॥ १०.११३ ॥
रूपं यदाकर्ण्य जनाननेभ्यस्तत्तद्दिगन्ताद्वयमागमाम ।
सौन्दर्यसारादनुभूयमानादस्यास्तदस्माद्बहु नाकनीयः ॥ १०.११४ ॥
रसस्य शृङ्गार इति श्रुतस्य क्व नाम जागर्ति महानुदन्वान् ।
कस्मादुदस्थादियमन्यथा श्रीर्लावण्यवैदग्ध्यनिधिः पयोधेः ॥ १०.११५ ॥
साक्षात्सुधांशुर्मुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः ।
एतद्भुवौ मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥ १०.११६ ॥
लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङ्कयुग्मं स्मरधन्विने किम् ।
सव्यापसव्यं विशिखा विसृष्टास्तेनानयोर्यान्ति किमन्तरेव ॥ १०.११७ ॥
तनोत्यकीर्तिं कुसुमाशुगस्य सैषा बतेन्दीवरकर्णपूरौ ।
यतः श्रवःकुण्डलिकापराद्धशरं खलः ख्यापयिता तमाभ्याम् ॥ १०.११८ ॥
रजःपदं षट्पदकीटजुष्टं हित्वात्मनः पुष्पमयं पुराणम् ।
अद्यात्मभूराद्रियतां स भैम्या भ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥ १०.११९ ॥
पद्मान्हिमे प्रावृषि खञ्जरीटान्क्षिप्नुर्यमादाय विधिः क्वचित्तान् ।
सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिद्वयमेतदीयम् ॥ १०.१२ ॥
एतादृशोरम्बुरुहैर्विशेषं भृङ्गौ जनः पृच्छतु तद्गुणज्ञौ ।
इतीव धाताकृत तारकालिस्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे ॥ १०.१२१ ॥
व्यधत्ते सौधे रतिकामयोस्तद्भक्तं वयोऽस्या हृदि वासभाजोः ।
तदग्रजाग्रत्पृथुशातकुम्भकुम्भौ न संभावयति स्तनौ कः ॥ १०.१२२ ॥
अस्या भुजाभ्यां विजिताद्बिसाक्तिं पृथक्करोऽगृह्यत तत्प्रसूनम् ।
इहेष्यते तन्न गृहाः श्रियः कैर्न गीयते वा कर एव लोकैः ॥ १०.१२३ ॥
छद्मैव तच्छम्बरजं बिसिन्यास्तत्पद्ममस्यास्तु भुजाग्रसदम् ।
उत्कण्टकादुद्गमनेन नालादुत्कण्टकं शातशिखैर्नखैर्यत् ॥ १०.१२४ ॥
जागर्ति मर्त्येषु तुलार्थमस्या योग्येति योग्यानुपलम्भनं नः ।
यद्यस्ति नाके भुवनेऽथ वाधस्तदा न कौतस्कुतलोकबाधः ॥ १०.१२५ ॥
नमः करेभ्योऽस्तु विधेर्न वास्तु स्पृष्टं धियाप्यस्य न किं पुनस्तैः ।
स्पर्शादिदं स्याल्लुलितं हि शिल्पं मनोभुवोऽनङ्गतयानुरूपम् ॥ १०.१२६ ॥
इमां न मृद्वीमसृजत्कराभ्यां वेधा कुशाध्यासनकर्कशाभ्याम् ।
शृङ्गारधारां मनसा न शान्तिविश्रान्तिधन्वाध्वमहीरुहेण ॥ १०.१२७ ॥
उल्लास्य धातुस्तुलिता करेण श्रोणौ किमेषा स्तनयोर्गुरुर्वा ।
तेनान्तरालैस्त्रिभिरङ्गुलीनामुदीतमध्यत्रिवलीविलासा ॥ १०.१२८ ॥
निजामृतोद्यन्नवनीतजाङ्गीमेतां क्रमोन्मीलितपीतिमानम् ।
कृत्वेन्दुरस्या मुखमात्मनाभून्निद्रालुना दुर्घटमम्बुजेन ॥ १०.१२९ ॥
अस्याः स चारुर्मधुरेव कारुः श्वासं वितेने मलयानिलेन ।
अमूनि सूनैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥ १०.१३ ॥
कृतिः स्मरस्यैव न धातुरेषा नास्या हि शिल्पीतरकारुजेयः ।
रूपस्य शिल्पे वयसाऽपि वेधा निजीयते स स्मरकिङ्करेण ॥ १०.१३१ ॥
गुरोरपीमां भणदोष्ठकण्ठं निरुक्तिगर्वच्छिदया विनेतुम् ।
श्रमः स्मरस्यैव भवं विहाय मुक्तिं गतानामनुतापनाय ॥ १०.१३२ ॥
आख्यातुमक्षिव्रजसर्वपीतां भैमीं तदेकाङ्गनिखातदृक्षु ।
गाथासुधाश्लेषकलाविलासैरलंचकाराननचन्द्रमिन्द्रः ॥ १०.१३३ ॥
स्मितेन गौरी हरिणी दृशेयं वीणावती सुस्वरकण्ठभासा ।
हेमेव कायप्रभयाङ्गशेषैस्तन्वी मतिं क्रामति मे न कापि ॥ १०.१३४ ॥
इति स्तुवानः सविधे नलेन विलोकितः शङ्कितमानसेन ।
व्याकृत्य मर्त्योचितमर्थमुक्तेराखण्डलस्तस्य नुनोद शङ्काम् ॥ १०.१३५ ॥
स्वं नैषधादेशमहो विधाय कार्यस्य हेतोरपि नानलः सन् ।
किं स्थानिवद्भावमधत्त दुष्टं तादृक्कृतव्याकरणः पुनः सः ॥ १०.१३६ ॥
इयमियमधिरथ्यं याति नेपथ्यमञ्जुर्विशतिविशति वेदीमुर्वशी सेयमुर्व्याः ।
इति जनजनितैः सानन्दनादैर्विजघ्ने नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥ १०.१३७ ॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ १०.१३८ ॥