देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २४
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २३ | देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २४ वेदव्यासः |
देवीभागवतपुराणम्/स्कन्धः १२ → |
प्रातश्चिन्तनम्
<poem> नारद उवाच
नारायण महाभाग गायत्र्यास्तु समासतः ।
शान्त्यादिकान्प्रयोगांस्तु वदस्व करुणानिधे ॥ १ ॥
श्रीनारायण उवाच
अतिगुह्यमिदं पृष्टं त्वया ब्रह्यतनूद्भव ।
न कस्यापि च वक्तव्यं दुष्टाय पिशुनाय च ॥ २ ॥
अथ शान्तिः पयोऽक्ताभिः समिद्भिर्जुहुयाद् द्विजः ।
शमीसमिद्भिः शाम्यन्ति भूतरोगग्रहादयः ॥ ३ ॥
आर्द्राभिः क्षीरवृक्षस्य समिद्भिर्जुहुयाद् द्विजः ।
जुहुयाच्छकलैर्वापि भूतरोगादिशान्तये ॥ ४ ॥
जलेन तर्पयेत्सूर्यं पाणिभ्यां शान्तिमाप्नुयात् ।
जानुदघ्ने जले जप्त्वा सर्वान्दोषाञ्छमं नयेत् ॥ ५ ॥
कण्ठदघ्ने जले जप्त्वा मुच्येत्प्राणान्तिकाद्भयात् ।
सर्वेभ्यः शान्तिकर्मभ्यो निमज्याप्सु जपः स्मृतः ॥ ६ ॥
सौवर्णे राजते वापि पात्रे ताम्रमयेऽपि वा ।
क्षीरवृक्षमये वापि निर्व्रणे मृण्मयेऽपि वा ॥ ७ ॥
सहस्रं पञ्चगव्येन हुत्वा सुज्वलितेऽनले ।
क्षीरवृक्षमयैः काष्ठैः शेषं सम्पादयेच्छनैः ॥ ८ ॥
प्रत्याहुतिं स्पृशञ्जप्त्वा सहस्रं पात्रसंस्थितम् ।
तेन तं प्रोक्षयेद्देशं कुशैर्मन्त्रमनुस्मरन् ॥ ९ ॥
बलिं किरंस्ततस्तस्मिन्ध्यायेत्तु परदेवताम् ।
अभिचारसमुत्पन्ना कृत्या पापं च नश्यति ॥ १० ॥
देवभूतपिशाचाद्यान् यद्येवं कुरुते वशे ।
गृहं ग्रामं पुरं राष्ट्रं सर्वं तेभ्यो विमुच्यते ॥ ११ ॥
निखने मुच्यते तेभ्यो लिखने मध्यतोऽपि च ।
मण्डले शूलमालिख्य पूर्वोक्ते च क्रमेऽपि वा ॥ १२ ॥
अभिमन्त्र्य सहस्रं तन्निखनेत्सर्वशान्तये ।
सौवर्णं राजतं वापि कुम्भं ताम्रमयं च वा ॥ १३ ॥
मृण्मयं वा नवं दिव्यं सूत्रवेष्टितमव्रणम् ।
स्थण्डिले सैकते स्थाप्य पूरयेन्मन्त्रविज्जलैः ॥ १४ ॥
दिग्भ्य आहृत्य तीर्थानि चतसृभ्यो द्विजोत्तमैः ।
एलाचन्दनकर्पूरजातीपाटलमल्लिकाः ॥ १५ ॥
बिल्वपत्रं तथा क्रान्तां देवीं व्रीहियवांस्तिलान् ।
सर्षपान्क्षीरवृक्षाणां प्रवालानि च निक्षिपेत् ॥ १६ ॥
सर्वाण्यभिविधायैव कुशकूर्चसमन्वितम् ।
स्नातः समाहितो विप्रः सहस्रं मन्त्रयेद् बुधः ॥ १७ ॥
दिक्षु सौरानधीयीरन्मन्त्रान्विप्रास्त्रयीविदः ।
प्रोक्षयेत्पाययेदेनं नीरं तेनाभिषिञ्चयेत् ॥ १८ ॥
भूतरोगाभिचारेभ्यः स निर्मुक्तः सुखी भवेत् ।
अभिषेकेण मुच्येत मृत्योरास्यगतो नरः ॥ १९ ॥
अवश्यं कारयेद्विद्वान्राजा दीर्घं जिजीविषुः ।
गावो देयाश्च ऋत्विग्भ्य अभिषेके शतं मुने ॥ २० ॥
दक्षिणा येन वा तुष्टिर्यथाशक्त्याथवा भवेत् ।
जपेदश्वत्थमालभ्य मन्दवारे शतं द्विजः ॥ २१ ॥
भूतरोगाभिचारेभ्यो मुच्यते महतो भयात् ।
गुडूच्याः पर्वविच्छिन्नाः पयोऽक्ता जुहुयाद् द्विजः ॥ २२ ॥
एवं मृत्युञ्जयो होमः सर्वव्याधिविनाशनः ।
आम्रस्य जुहुयात्पत्रैः पयोऽक्तैर्ज्वरशान्तये ॥ २३ ॥
वचाभिः पयसाक्ताभिः क्षयं हुत्वा विनाशयेत् ।
मधुत्रितयहोमेन राजयक्ष्मा विनश्यति ॥ २४ ॥
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।
राजयक्ष्माभिभूतं च प्राशयेच्छान्तिमाप्नुयात् ॥ २५ ॥
लताः पर्वसु विच्छिद्य सोमस्य जुहुयाद् द्विजः ।
सोमे सूर्येण संयुक्ते पयोऽक्ताः क्षयशान्तये ॥ २६ ॥
कुसुमैः शङ्खवृक्षस्य हुत्वा कुष्ठं विनाशयेत् ।
अपस्मारविनाशः स्यादपामार्गस्य तण्डुलैः ॥ २७ ॥
क्षीरवृक्षसमिद्धोमादुन्मादोऽपि विनश्यति ।
औदुम्बरसमिद्धोमादतिमेहः क्षयं व्रजेत् ॥ २८ ॥
प्रमेहं शमयेद्धुत्वा मधुनेक्षुरसेन वा ।
मधुत्रितयहोमेन नयेच्छान्तिं मसूरिकाम् ॥ २९ ॥
कपिलासर्पिषा हुत्वा नयेच्छान्तिं मसूरिकाम् ।
उदुम्बरवटाश्वत्थैर्गोगजाश्वामयं हरेत् ॥ ३० ॥
पिपीलिमधुवल्मीके गृहे जाते शतं शतम् ।
शमीसमिद्भिरन्नेन सर्पिषा जुहुयाद् द्विजः ॥ ३१ ॥
तदुत्थं शान्तिमायाति शेषैस्तत्र बलिं हरेत् ।
अभ्रस्तनितभूकम्पालक्ष्यादौ वनवेतसः ॥ ३२ ॥
सप्ताहं जुहुयादेवं राष्ट्रे राज्यं सुखी भवेत् ।
यां दिशं शतजप्तेन लोष्ठेनाभिप्रताडयेत् ॥ ३३ ॥
ततोऽग्निमारुतारिभ्यो भयं तस्य विनश्यति ।
मनसैव जपेदेनां बद्धो मुच्येत बन्धनात् ॥ ३४ ॥
भूतरोगविषादिभ्यः स्पृशञ्जप्त्वा विमोचयेत् ।
भूतादिभ्यो विमुच्येत जलं पीत्वाभिमन्त्रितम् ॥ ३५ ॥
अभिमन्त्र्य शतं भस्म न्यसेद्भूतादिशान्तये ।
शिरसा धारयेद्भस्म मन्त्रयित्वा तदित्यृचा ॥ ३६ ॥
सर्वव्याधिविनिर्मुक्तः सुखी जीवेच्छतं समाः ।
अशक्तः कारयेच्छान्तिं विप्रं दत्त्वा तु दक्षिणाम् ॥ ३७ ॥
अथ पुष्टिं श्रियं लक्ष्मीं पुष्पैर्हुत्वाप्नुयाद् द्विजः ।
श्रीकामो जुहुयात्पद्मै रक्तैः श्रियमवाप्नुयात् ॥ ३८ ॥
हुत्वा श्रियमवाप्नोति जातीपुष्पैर्नवैः शुभैः ।
शालितण्डुलहोमेन श्रियमाप्नोति पुष्कलाम् ॥ ३९ ॥
समिद्भिर्बिल्ववृक्षस्य हुत्वा श्रियमवाप्नुयात् ।
बिल्वस्य शकलैर्हुत्वा पत्रैः पुष्पैः फलैरपि ॥ ४० ॥
श्रियमाप्नोति परमां मूलस्य शकलैरपि ।
समिद्भिर्बिल्ववृक्षस्य पायसेन च सर्पिषा ॥ ४१ ॥
शतं शतं च सप्ताहं हुत्वा श्रियमवाप्नुयात् ।
लाजैस्त्रिमधुरोपेतैर्होमे कन्यामवाप्नुयात् ॥ ४२ ॥
अनेन विधिना कन्या वरमाप्नोति वाञ्छितम् ।
रक्तोत्पलशतं हुत्वा सप्ताहं हेम चाप्नुयात् ॥ ४३ ॥
सूर्यबिम्बे जलं हुत्वा जलस्थं हेम चाप्नुयात् ।
अन्नं हुत्वाप्नुयादन्नं व्रीहीन्व्रीहिपतिर्भवेत् ॥ ४४ ॥
करीषचूर्णैर्वत्सस्य हुत्वा पशुमवाप्नुयात् ।
प्रियङ्गुपायसाज्यैश्च भवेद्धोमादिभिः प्रजा ॥ ४५ ॥
निवेद्य भास्करायान्नं पायसं होमपूर्वकम् ।
भोजयेत्तदृतुस्नातां पुत्रं परमवाप्नुयात् ॥ ४६ ॥
सप्ररोहाभिरार्द्राभिरायुर्हुत्वा समाप्नुयात् ।
समिद्भिः क्षीरवृक्षस्य हुत्वायुषमवाप्नुयात् ॥ ४७ ॥
सप्ररोहाभिरार्द्राभी रक्ताभिर्मधुरत्रयैः ।
व्रीहीणां च शतं हुत्वा हेम चायुरवाप्नुयात् ॥ ४८ ॥
सुवर्णकुड्मलं हुत्वा शतमायुरवाप्नुयात् ।
दूर्वाभिः पयसा वापि मधुना सर्पिषापि वा ॥ ४९ ॥
शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।
शमीसमिद्भिरन्नेन पयसा वा च सर्पिषा ॥ ५० ॥
शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।
न्यग्रोधसमिधो हुत्वा पायसं होमयेत्ततः ॥ ५१ ॥
शतं शतं च सप्ताहमपमृत्युं व्यपोहति ।
क्षीराहारो जपेन्मृत्योः सप्ताहाद्विजयी भवेत् ॥ ५२ ॥
अनश्नन्वाग्यतो जप्त्वा त्रिरात्रं मुच्यते यमात् ।
निमज्ज्याप्सु जपेदेवं सद्यो मृत्योर्विमुच्यते ॥ ५३ ॥
जपेद् बिल्वं समाश्रित्य मासं राज्यमवाप्नुयात् ।
बिल्वं हुत्वाप्नुयाद्राज्यं समूलफलपल्लवम् ॥ ५४ ॥
हुत्वा पद्मशतं मासं राज्यमाप्नोत्यकण्टकम् ।
यवागूं ग्राममाप्नोति हुत्वा शालिसमन्वितम् ॥ ५५ ॥
अश्वत्थसमिधो हुत्वा युद्धादौ जयमाप्नुयात् ।
अर्कस्य समिधो हुत्वा सर्वत्र विजयी भवेत् ॥ ५६ ॥
संयुक्तैः पयसा पत्रैः पुष्पैर्वा वेतसस्य च ।
पायसेन शतं हुत्वा सप्ताहं वृष्टिमाप्नुयात् ॥ ५७ ॥
नाभिदघ्ने जले जप्त्वा सप्ताहं वृष्टिमाप्नुयात् ।
जले भस्मशतं हुत्वा महावृष्टिं निवारयेत् ॥ ५८ ॥
पालाशाभिरवाप्नोति समिद्भिर्ब्रह्मवर्चसम् ।
पलाशकुसुमैर्हुत्वा सर्वमिष्टमवाप्नुयात् ॥ ५९ ॥
पयो हुत्वाऽऽप्नुयान्मेधामाज्यं बुद्धिमवाप्नुयात् ।
अभिमन्त्र्य पिबेद् ब्राह्मं रसं मेधामवाप्नुयात् ॥ ६० ॥
पुष्पहोमे भवेद्वासस्तन्तुभिस्तद्विधं पटम् ।
लवणं मधुसम्मिश्रं हुत्वेष्टं वशमानयेत् ॥ ६१ ॥
नयेदिष्टं वशं हुत्वा लक्ष्मीपुष्पैर्मधुप्लुतैः ।
नित्यमञ्जलिनाऽऽत्मानमभिषिञ्चेज्जले स्थितः ॥ ६२ ॥
मतिमारोग्यमायुष्यमग्र्यं स्वास्थ्यमवाप्नुयात् ।
कुर्याद्विप्रोऽन्यमुद्दिश्य सोऽपि पुष्टिमवाप्नुयात् ॥ ६३ ॥
अथ चारुविधिर्मासं सहस्रं प्रत्यहं जपेत् ।
आयुष्कामः शुचौ देशे प्राप्नुयादायुरूत्तमम् ॥ ६४ ॥
आयुरारोग्यकामस्तु जपेन्मासद्वयं द्विजः ।
भवेदायुष्यमारोग्यं श्रियै मासत्रयं जपेत् ॥ ६५ ॥
आयुः श्रीपुत्रदाराद्याश्चतुर्भिश्च यशो जपात् ।
पुत्रदारायुरारोग्यं श्रियं विद्यां च पञ्चभिः ॥ ६६ ॥
एवमेवोत्तरान्कामान् मासैरेवोत्तरैर्व्रजेत् ।
एकपादो जपेदूर्ध्वबाहुः स्थित्वा निराश्रयः ॥ ६७ ॥
मासं शतत्रयं विप्रः सर्वान्कामानवाप्नुयात् ।
एवं शतोत्तरं जप्त्वा सहस्रं सर्वमाप्नुयात् ॥ ६८ ॥
रुद्ध्वा प्राणमपानं च जपेन्मासं शतत्रयम् ।
यदिच्छेत्तदवाप्नोति सहस्रात्परमाप्नुयात् ॥ ६९ ॥
एकपादो जपेदूर्ध्वबाहू रुद्ध्वानिलं वशः ।
मासं शतमवाप्नोति यदिच्छेदिति कौशिकः ॥ ७० ॥
एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् ।
निमज्ज्याप्सु जपेन्मासं शतमिष्टमवाप्नुयात् ॥ ७१ ॥
एवं शतत्रयं जप्त्वा सहस्रं सर्वमाप्नुयात् ।
एकपादो जपेदूर्ध्वबाहू रुद्ध्वा निराश्रयः ॥ ७२ ॥
नक्तमश्नन् हविष्यान्नं वत्सरादृषितामियात् ।
गीरमोघा भवेदेवं जप्त्वा संवत्सरद्वयम् ॥ ७३ ॥
त्रिवत्सरं जपेदेवं भवेत्त्रैकालदर्शनम् ।
आयाति भगवान्देवश्चतुःसंवत्सरं जपेत् ॥ ७४ ॥
पञ्चभिर्वत्सरैरेवमणिमादिगुणो भवेत् ।
एवं षड्वत्सरं जप्त्वा कामरूपित्वमाप्नुयात् ॥ ७५ ॥
सप्तिभिर्वत्सरैरेवममरत्वमवाप्नुयात् ।
मनुत्वं नवभिः सिद्धमिन्द्रत्वं दशभिर्भवेत् ॥ ७६ ॥
एकादशभिराप्नोति प्राजापत्यं सुवत्सरैः ।
बह्मत्वं प्राप्नुयादेवं जप्त्वा द्वादशवत्सरान् ॥ ७७ ॥
एतेनैव जिता लोकास्तपसा नारदादिभिः ।
शाकमन्ये परे मूलं फलमन्ये पयः परे ॥ ७८ ॥
घृतमन्ये परे सोममपरे चरुवृत्तयः ।
ऋषयः पक्षमश्नन्ति केचिद्भैक्ष्याशिनोऽहनि ॥ ७९ ॥
हविष्यमपरेऽश्नन्तः कुर्वन्त्येव परं तपः ।
अथ शुद्ध्यै रहस्यानां त्रिसहस्रं जपेद् द्विजः ॥ ८० ॥
मासं शुद्धो भवेत्स्तेयात्सुवर्णस्य द्विजोत्तमः ।
जपेन्मासं त्रिसाहस्रं सुरापः शुद्धिमाप्नुयात् ॥ ८१ ॥
मासं जपेत् त्रिसाहस्रं शुचिः स्याद् गुरुतल्पगः ।
त्रिसहस्रं जपेन्मासं कुटीं कृत्वा वने वसन् ॥ ८२ ॥
ब्रह्महा मुच्यते पापादिति कौशिकभाषितम् ।
द्वादशाहं निमज्ज्याप्सु सहस्रं प्रत्यहं जपेत् ॥ ८३ ॥
मुच्येरन्नंहसः सर्वे महापातकिनो द्विजाः ।
त्रिसाहस्रं जपेन्मासं प्राणानायम्य वाग्यतः ॥ ८४ ॥
महापातकयुक्तो वा मुच्यते महतो भयात् ।
प्राणायामसहस्रेण ब्रह्महापि विशुध्यति ॥ ८५ ॥
षट्कृत्वस्त्वभ्यसेदूर्ध्वं प्राणापानौ समाहितः ।
प्राणायामो भवेदेष सर्वपापप्रणाशनः ॥ ८६ ॥
सहस्रमभ्यसेन्मासं क्षितिपः शुचितामियात् ।
द्वादशाहं त्रिसाहस्रं जपेद्धि गोवधे द्विजः ॥ ८७ ॥
अगम्यागमनस्तेयहननाभक्ष्यभक्षणे ।
दशसाहस्रमभ्यस्ता गायत्री शोधयेद् द्विजम् ॥ ८८ ॥
प्राणायामशतं कृत्वा मुच्यते सर्वकिल्विषात् ।
सर्वेषामेव पापानां सङ्करे सति शुद्धये ॥ ८९ ॥
सहस्रमभ्यसेन्मासं नित्यजापी वने वसन् ।
उपवाससमं जप्यं त्रिसहस्रं तदित्यृचम् ॥ ९० ॥
चतुर्विंशतिसाहस्रमभ्यस्तात्कृच्छ्रसंज्ञिता ।
चतुःषष्टिसहस्राणि चान्द्रायणसमानि तु ॥ ९१ ॥
शतकृत्वोऽभ्यसेन्नित्यं प्राणानायम्य सन्ध्ययोः ।
तदित्यृचमवाप्नोति सर्वपापक्षयं परम् ॥ ९२ ॥
निमज्ज्याप्सु जपेन्नित्यं शतकृत्वस्तदित्यृचम् ।
ध्यायन्देवीं सूर्यरूपां सर्वपापैः प्रमुच्यते ॥ ९३ ॥
इति ते सम्यगाख्याताः शान्तिशुद्ध्यादिकल्पनाः ।
रहस्यातिरहस्याश्च गोपनीयास्त्वया सदा ॥ ९४ ॥
इति संक्षेपतः प्रोक्तः सदाचारस्य संग्रहः ।
विधिनाऽऽचरणादस्य माया दुर्गा प्रसीदति ॥ ९५ ॥
नैमित्तिकं च नित्यं च काम्यं कर्म यथाविधि ।
आचरेन्मनुजः सोऽयं भुक्तिमुक्तिफलाप्तिभाक् ॥ ९६ ॥
आचारः प्रथमो धर्मो धर्मस्य प्रभुरीश्वरी ।
इत्युक्तं सर्वशास्त्रेषु सदाचारफलं महत् ॥ ९७ ॥
आचारवान्सदा पूतः सदैवाचारवान्मसुखी ।
आचारवान्सदा धन्यः सत्यं सत्यं च नारद ॥ ९८ ॥
देवीप्रसादजनकं सदाचारविधानकम् ।
यदपि शृणुयान्मर्त्यो महासम्पत्तिसौख्यभाक् ॥ ९९ ॥
सदाचारेण सिद्धेच्च ऐहिकामुष्मिकं सुखम् ।
तदेव ते मया प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १०० ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सदाचारनिरूपणं नाम चतुर्विंशोध्यायः ॥ २४ ॥ </poem>