देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १२
← अध्यायः ११ | देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १२ वेदव्यासः |
अध्यायः १३ → |
देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम्
मुनिरुवाच
महिषीगर्भसम्भूतो महाबलपराक्रमः ।
देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १
सर्वेषां लोकपालानामधिकारान्महासुरः ।
बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्भुतम् ॥ २ ॥
ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः ।
ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ ३ ॥
यत्रोत्तमौ देवदेवौ संस्थितौ शङ्कराच्युतौ ।
वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ ४ ॥
देवानां चैव सर्वेषां स्थानानि तरसासुरः ।
विनिर्जित्य स्वयं भुङ्क्ते बलवीर्यमदोद्धतः ॥ ५ ॥
महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ ।
वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ ६ ॥
एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः ।
चकार कोपं सुबहुं तथा शङ्करपद्मजौ ॥ ७ ॥
एवं कोपयुतस्यास्य हरेरास्यान्महीपते ।
तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ ८ ॥
अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् ।
शरीरादुद्भवं प्राप हर्षयद्विबुधाधिपान् ॥ ९ ॥
यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत ।
केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ १० ॥
सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः ।
वारुणेन ततो भूप जङ्घोरू सम्बभूवतुः ॥ ११ ॥
नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा ।
पादाङ्गुल्यो भानवेन वासवेन कराङ्गुली ॥ १२ ॥
कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा ।
प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ १३ ॥
पावकेन च सञ्जातं लोचनत्रितयं शुभम् ।
सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ १४ ॥
कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप ।
सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ १५ ॥
शूलं ददौ शिवो विष्णुश्चक्रं शङ्खं च पाशभृत् ।
हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ १६ ॥
वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद् गजात् ।
कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ १७ ॥
दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ ।
कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ १८ ॥
समुद्रो निर्मलं हारमजरे चाम्बरे नृप ।
चूडामणिं कुण्डले च कटकानि तथाङ्गदे ॥ १९ ॥
अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ ।
ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ २० ॥
विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते ।
हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ २१ ॥
पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः ।
शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ २२ ॥
अन्यैरशेषविबुधैर्मानिता सा जगन्मयी ।
तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ २३ ॥
नानास्तोत्रैर्महेशानीं जगदुद्भवकारिणीम् ।
तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ २४ ॥
महिषस्य वधार्थाय महानादं चकार ह ।
तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ २५ ॥
आससाद जगद्धात्रीं सर्वसैन्यसमावृतः ।
ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ २६ ॥
शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् ।
चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ २७ ॥
बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः ।
एतैश्चान्यैरसंख्यातैः संग्रामान्तकसन्निभैः ॥ २८ ॥
योधैः परिवृतो वीरो महिषो दानवोत्तमः ।
ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ २९ ॥
जघान योधान्समरे देवी महिषमाश्रितान् ।
ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ ३० ॥
आससाद तदा देवीं तूर्णं मायाविशारदः ।
रूपान्तराणि सम्भेजे मायया दानवेश्वरः ॥ ३१ ॥
तानि तान्यस्य रूपाणि नाशयामास सा तदा ।
ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम् ॥ ३२ ॥
पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः ।
पातयामास महिषं देवी देवगणान्तकम् ॥ ३३ ॥
हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश ।
तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥ ३४ ॥
एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी ।
राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत् ॥ ३५ ॥
एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः ।
निशुम्भश्चापि तद्भ्राता महाबलपराक्रमः ॥ ३६ ॥
तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप ।
हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात् ॥ ३७ ॥
देवा ऊचुः
जय देवेशि भक्तानामार्तिनाशनकोविदे ।
दानवान्तकरूपे त्वमजरामरणेऽनघे ॥ ३८ ॥
देवेशि भक्तिसुलभे महाबलपराक्रमे ।
विष्णुशङ्करब्रह्मादिस्वरूपेऽनन्तविक्रमे ॥ ३९ ॥
सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि ।
महाताण्डवसुप्रीते मोददायिनि माधवि ॥ ४० ॥
प्रसीद देवदेवेशि प्रसीद करुणानिधे ।
निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे ॥ ४१ ॥
उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् ।
एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥ ४२ ॥
प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् ।
एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता ॥ ४३ ॥
कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत्।
प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥ ४४ ॥
व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् ।
शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः ॥ ४५ ॥
त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना ।
तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः ॥ ४६ ॥
बाधते सततं देवि तिरस्कृत्य निजौजसा ।
देव्युवाच
देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च ॥ ४७ ॥
स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः ।
इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी ॥ ४८ ॥
जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् ।
देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम् ॥ ४९ ॥
चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः ।
दृष्ट्वा तां चारुसर्वाङ्गीं देवीं लोकविमोहिनीम् ॥ ५० ॥
कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ ।
देव सर्वासुरश्रेष्ठ रत्नभोगार्ह मानद ॥ ५१ ॥
अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन ।
तस्याः संभोगयोग्यत्वमस्त्येव तव साम्प्रतम् ॥ ५२ ॥
तां समानय चार्वङ्गीं भुङ्क्ष्व सौख्यसमन्वितः ।
तादृशी नासुरी नारी न गन्धर्वी न दानवी ॥ ५३ ॥
न मानवी नापि देवी यादृशी सा मनोहरा ।
एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः ॥ ५४ ॥
दूतं सम्मेषयामास सुग्रीवं नाम दानवम् ।
स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥ ५५ ॥
वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः ।
देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः ॥ ५६ ॥
सर्वेषां रत्नवस्तूनां भोक्ता मान्यो दिवौकसाम् ।
तदुक्तं शृणु मे देवि रत्नभोक्ताहमव्ययः ॥ ५७ ॥
त्वं चापि रत्नभूतासि भज मां चारुलोचने ।
सर्वेषु यानि रत्नानि देवासुरनरेषु च ॥ ५८ ॥
तानि मय्येव सुभगे भज मां कामजै रसैः ।
देव्युवाच
सत्यं वदसि हे दूत दैत्यराजप्रियङ्करम् ॥ ५९ ॥
प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् ।
भवेत्तां शृणु मे दूत या प्रतिज्ञा मया कृता ॥ ६० ॥
यो मे दर्पं विधुनुते यो मे बलमपोहति ।
यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥ ६१ ॥
तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः ।
गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि ॥ ६२ ॥
तस्माद् गच्छ महादूत स्वामिनं ब्रूहि चादृतः ।
प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥ ६३ ॥
एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः ।
कथयामास शुम्भाय देव्या वृत्तान्तमादितः ॥ ६४ ॥
तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः ।
कोपमाहारयामास महान्तं दनुजाधिपः ॥ ६५ ॥
ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः ।
आदिदेश शृणु वचो धूम्राक्ष मम चादृतः ॥ ६६ ॥
तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम ।
समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥ ६७ ॥
इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः ।
षष्ट्यासुराणां सहितः सहस्राणां महाबलः ॥ ६८ ॥
तुहिनाचलमासाद्य देव्याः सविधमेव सः ।
उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे ॥ ६९ ॥
शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि ।
नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति ॥ ७० ॥
इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा ।
उवाच दैत्य यद् ब्रूषे तत्सत्यं ते महाबल ॥ ७१ ॥
राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद ।
इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः ॥ ७२ ॥
भस्मसात्तं चकाराशु हुङ्कारेण महेश्वरी ।
ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥ ७३ ॥
दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् ।
तद्वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः ॥ ७४ ॥
चुकोप च महाकोपाद् भ्रुकुटीकुटिलाननः ।
ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥ ७५ ॥
चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः ।
ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः ॥ ७६ ॥
देवीं ग्रहीतुमारब्धयत्नास्ते ह्यभवन्बलात् ।
तानापतत एवासौ जगद्धात्री मदोत्कटा ॥ ७७ ॥
शूलं गहीत्वा वेगेन पातयामास भूतले ।
ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ ॥ ७८ ॥
शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा ।
निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम् ॥ ७९ ॥
देव्याश्च वशगौ जातौ निहतौ च तयासुरौ ।
इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी ॥ ८० ॥
विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा ।
एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः ॥ ८१ ॥
काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च ।
परा परेश्वरी देवी जगत्सर्गं करोति च ॥ ८२ ॥
पालनं चैव संहारं सैव देवी दधाति हि ।
तां समाश्रय देवेशीं जगन्मोहनिवारिणीम् ॥ ८३ ॥
महामायां पूज्यतमां सा कार्यं ते विधास्यति ।
श्रीनारायण उवाच
इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥ ८४ ॥
देवीं जगाम शरणं सर्वकामफलप्रदाम् ।
निराहारो यतात्मा च तन्मनाश्च समाहितः ॥ ८५ ॥
देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः ।
पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥ ८६ ॥
तदा प्रसन्ना देवेशी जगद्योनिः कृपावती ।
प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥ ८७ ॥
स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् ।
राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम् ॥ ८८ ॥
देव्युवाच
राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् ।
भविष्यति मया दत्तमस्मिन्नेव भवे तव ॥ ८९ ॥
अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् ।
भानोर्जन्म समासाद्य सावर्णिर्भविता भवान् ॥ ९० ॥
तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् ।
सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्भवान् ॥ ९१ ॥
एवं दत्त्वा वरं देवी जगामादर्शनं तदा ।
सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः ॥ ९२ ॥
एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च ।
एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात् ॥ ९३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे
देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे
देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥