देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०४
← अध्यायः ०३ | देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०४ वेदव्यासः |
अध्यायः ०५ → |
रुद्रप्रार्थनम्
सूत उवाच
ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा ।
पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः ॥ १ ॥
उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः ।
देवदेवं गिरिशयं शशिलोलितशेखरम् ॥ २ ॥
देववा ऊचुः
जय देव गणाध्यक्ष उमालालितपङ्कज ।
अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते ॥ ३ ॥
महामायाविलसितस्थानाय परमात्मने ।
वृषाङ्कायामरेशाय कैलासस्थितिशालिने ॥ ४ ॥
अहिर्बुध्न्याय मान्याय मनवे मानदायिने ।
अजाय बहुरूपाय स्वात्मारामाय शम्भवे ॥ ५ ॥
गणनाथाय देवाय गिरिशाय नमोऽस्तु ते ।
महाविभूतिदात्रे ते महाविष्णुस्तुताय च ॥ ६ ॥
विष्णुहृत्कञ्जवासाय महायोगरताय च ।
योगगम्याय योगाय योगिनां पतये नमः ॥ ७ ॥
योगीशाय नमस्तुभ्यं योगानां फलदायिने ।
दीनदानपरायापि दयासागरमूर्तये ॥ ८ ॥
आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये ।
वृषध्वजाय कालाय कालकालाय ते नमः ॥ ९ ॥
सूत उवाच
एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः ।
प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान् ॥ १० ॥
श्रीभगवानुवाच
प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः ।
मनोरथं पूरयामि सर्वेषां देवतर्षभाः ॥ ११ ॥
देवा ऊचुः
सर्वदेवेश गिरिश शशिमौलिविराजित ।
आर्तानां शङ्करस्त्वं च शं विधेहि महाबल ॥ १२ ॥
पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः ।
भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ ॥ १३ ॥
तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव ।
भानुसञ्चाररोधेन कालज्ञानं कथं भवेत् ॥ १४ ॥
नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् ।
अस्माकं च भयार्तानां भवानेव हि दृश्यते ॥ १५ ॥
दुःखनाशकरो देव प्रसीद गिरिजापते ।
श्रीशिव उवाच
नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः ॥ १६ ॥
इममेवं वदिष्यामो भगवन्तं रमाधवम् ।
सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक् ॥ १७ ॥
गोविन्दो भगवान्विष्णुः सर्वकारणकारणः ।
तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति ॥ १८ ॥
इत्येवमाकर्ण्य गिरीशभाषितं
देवाश्च सेन्द्राः सपयोजसम्भवाः ।
रुद्रं पुरस्कृत्य च वेपमाना
वैकुण्ठलोकं प्रतिजग्मुरञ्जसा ॥ १९ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे रुद्रप्रार्थनं नाम चतुर्थोऽध्यायः ॥ ४ ॥