दिव्यावदानम्/अवदानम् ४५१-५००
← अवदानम् ४०१-४५० | दिव्यावदानम् अवदानम् ४५१-५०० [[लेखकः :|]] |
अवदानम् ५०१-५१२ → |
४५१.००१. <४५१>तेनायस्कारभाण्डिकां याचित्वा अन्यत्र गृहे सुसूक्ष्माः सूच्यो घटिताः, या उदके प्लवन्त्
४५१.००२. एका च महती घटिता यस्यां सप्त सूच्यः प्रतिक्षिप्ताः सह तया प्लवन्त्
४५१.००२. स ताः कृत्वा तस्यायस्कारस्य गृहमागतः।
४५१.००३. स कथयति--सूच्यः सूच्य इति।
४५१.००३. तया दारिकया दृष्टाः।
४५१.००३. सा गाथां भाषते--
४५१.००५. उन्मत्तकस्त्वं कटुकोऽथ वासि अचेतनः।
४५१.००६. अयस्कारगृहे यस्त्वं सूचीं विक्त्रेतुमागतः॥१९॥ इति।
४५१.००७. सोऽपि गाथां भाषते--
४५१.००८. नाहमुन्मत्तको वास्मि कटुकोऽहमचेतनः।
४५१.००९. मानावतारणार्थं तु मया शिल्पं प्रदृश्यत् ।२०॥
४५१.०१०. सचेत्पिता ते जानीयाच्छिल्पं मम हि यादृशम्।
४५१.०११. त्वां चैवानुप्रयच्छेत अन्यच्च विप्रतम् (विपुलम्?) धनम्॥२१॥ इति।
४५१.०१२. सा कथयति--कीदृशं त्वं शिल्पं जानीषे? ईदृषीं सूचीं करोमि योदके प्लवत्
४५१.०१३. तया मातुर्निवेदितम्--अम्ब, शिल्पकर्मात्रागत इति।
४५१.०१३. सा कथयति--प्रवेशयेति।
४५१.०१३. तया प्रवेशितः।
४५१.०१४. अयस्कारभार्या कथयति--कीदृशं त्वं शिल्पं जानीषे? तेन समाख्यातम्।
४५१.०१४. तया स्वामिने निवेदितः।
४५१.०१५. आर्यपुत्र, अयं शिल्पदारकः।
४५१.०१५. ईदृशं जानीत इति।
४५१.०१५. स कथयति--यद्येवमानय पानीयम्, पश्यामीति।
४५१.०१६. तया पानीयस्य भाजनं पूरयित्वोपनामितम्।
४५१.०१६. तेनैका सूची प्रक्षिप्ता।
४५१.०१७. सा प्लोतुमारब्धा।
४५१.०१७. एवं द्वितीया, तृतीया।
४५१.०१७. ततः सा महती सूची प्रक्षिप्ता।
४५१.०१७. सापि प्लोतुमारब्धा।
४५१.०१८. पुनस्तस्यामेका सूची प्रक्षिप्ता।
४५१.०१८. तथापि प्लोतुमारब्धा।
४५१.०१८. एवं द्वितीयां तृतीयां यावत्सप्तसूचीं प्रक्षिप्य प्रक्षिप्तास्तथापि प्लोतुमारब्धाः।
४५१.०१९. अयस्कारः संलक्षयति--ममैषोऽधिकतरः शिल्पेन्
४५१.०२०. अस्मै दुहितरमनुप्रयच्छाम्।
४५१.०२०. इति विदित्वा तां दारिकां सर्वालंकारविभूषितां कृत्वा वामेन पाणिना गृहीत्वा दक्षिणेन पाणिना भृङ्गारकमादाय माणवस्य पुरतः स्थित्वा कथयति--इमां तेऽहं माणवक दुहितरमनुप्रयच्छामि भार्यार्थायेति।
४५१.०२२. स कथयति--नाहमनयार्थी, किं तु तवैव मदापनयः कर्तव्य इति मया शिल्पमुपदर्शितमिति॥
४५१.०२४. भगवानाह--किं मन्यध्वे भिक्षवो योऽसौ माणवः, अहमेव स तेन कालेन तेन समयेन्
४५१.०२५. योऽसावयस्कारः, एष एव माकन्दिकस्तेन कालेन तेन समयेन्
४५१.०२५. यासावयस्कारभार्या, एषैवासौ माकन्दिकभार्या तेन कालेन तेन समयेन्
४५१.०२६. यासावयस्कारदुहिता, एषैवासावनुपमा तेन कालेन तेन समयेन्
४५१.०२७. तदाप्येषा मया लभ्यमाना न प्रतिगृहीता।
४५१.०२८. एतर्ह्यप्येषा मया लभ्यमाना न प्रतिगृहीता॥
४५१.०२९. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त अयं महल्लकोऽनुपमामागम्यानयेन व्यसनमापन्न इति।
४५१.०३०. भगवानाह--भिक्षव एतर्हि यथातीतेऽप्यध्वन्येष अनुपमामागम्य सान्तःपुरोऽनयेन व्यसनमापन्नः।
४५१.०३१. तच्छ्रूयताम्॥
४५२.००१. <४५२>भूतपूर्वं भिक्षवः सिंहकल्पायां सिंहकेसरी नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनं पूर्ववद्यावद्धर्मेण राज्यं कारयति।
४५२.००२. तेन खलु समयेन सिंहकल्पायां सिंहको नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहः पूर्ववद्यावत्तेन कलत्रमानीतम्।
४५२.००४. सा आपन्नसत्त्वा संवृत्ता।
४५२.००४. न चास्याः किंचिदमनोऽज्ञशब्दश्रवणं यावद्गर्भस्य परिपाकाय्
४५२.००५. सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता।
४५२.००५. दारको जातहभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णह्छत्राकारशिराः प्रलम्बबाहुर्विद्तीर्णललाट उच्चघोण संगतभ्रूस्तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः।
४५२.००७. तस्य त्रीणि सप्तकान्येकविंशतिं दिवसान् विस्तरेण तस्य जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारकस्य नामेति? ज्ञातय ऊचुह्--अयं दारकः सिंहस्य सार्थवहस्य पुत्रः।
४५२.००९. भवतु सिंहल इति नाम्
४५२.००९. तस्य सिंहल इति नामधेयं व्यवस्थापितम्।
४५२.०१०. सिंहलो दारकोऽष्टाभ्यो धात्रीभ्यो दत्तः पूर्ववद्यावदष्टासु परीक्षासु घटको वाचकः पिण्डितः पटुप्रचारः संवृत्तः।
४५२.०११. तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्।
४५२.०१२. त्रीण्यन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयसम्।
४५२.०१३. सोऽपरेण समयेन पितरमाह्वयते--तात, अनुजानीहि, महासमुद्रमवतरामीति।
४५२.०१४. स कथयति--पुत्र, तावत्प्रभूतं मे धनजातमस्ति यदि त्वं तिलतण्डुलकुलत्थादिपरिभोगेन रत्नानि मे परिभोक्ष्यसे, तथापि मे भोगा न तनुत्वं परिक्षयं पर्यादानं गमिष्यन्ति।
४५२.०१५. तद्यावदहं जीवामि, तावत्क्रीड रमस्व परिचारय्
४५२.०१६. ममात्ययाद्धनेनोपार्जितं करिष्यसीति।
४५२.०१६. स भूयो भूयः कथयति--तात, अनुजानीहि, महासमुद्रमवतरामीति।
४५२.०१७. स तेनावश्यनिर्बन्धं ज्ञात्वा उक्तह्--पुत्र, एवं कुरु।
४५२.०१८. किं तु भयभैरवसहिष्णुना ते भवितव्यमिति।
४५२.०१८. तेन सिंहकल्पायां राजधान्यां घण्टावघोषणं कारितम्--शृण्वन्तु भवन्तः सिंहकल्पनिवासिनो वणिजो नानादेशाभ्यागताश्च्
४५२.०२०. सिंहलसार्थवाहो महासमुद्रमवतरिष्यतीति।
४५२.०२०. यो युष्माकमुत्सहते सिंहलेन सार्थवाहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयत्विति।
४५२.०२२. ततः पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्।
४५२.०२२. मातापितरौ भृत्यांश्च सुहृत्सम्बन्धिबान्धवानवलोक्य दिवसतिथिमुहूर्तप्रयोगेण कृतकौतुकम.ङ्गलस्वस्त्ययनः शकटैर्भारैः पिटकैर्मूटैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यमादाय पञ्चभिर्वणिक्शतैः सपरिवारः संप्रस्थितः।
४५२.०२५. सोऽनुपूर्वेण ग्रामनगरनिगमराष्ट्राजधानीषु चञ्चूर्यमाणः पत्तनान्यवलोकयन् समुद्रतीरमनुप्राप्तः।
४५२.०२६. विस्तरेण राक्षसीसूत्रं सर्वं वाच्यम्।
४५२.०२६. सर्वे ते वणिजो बालहाश्वराजात्पतिताः, ताभिश्च राक्षसीभिर्भक्षिताः।
४५२.०२७. सिंहलक एकः स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्राप्तः।
४५२.०२८. सिंहलभार्या या राक्षसी सा राक्षसीभिरुच्यते--भगिनि, अस्माभिः स्वकस्वकाः स्वामिनो भिक्षिताः, त्वया स्वामी निर्वाहितः।
४५२.०२९. यदि तावत्तमानयिष्यसीत्येवं कुशलम्, नो चेत्वां भक्षयामिति।
४५२.०३०. सा संत्रस्ता कथयति--यदि युष्माकमेष निर्बन्धो मां धरिष्यथ आनयामीति।
४५२.०३१. ताः कथयन्ति--शोभनम्।
४५२.०३१. एवं कुरुष्वेति।
४५२.०३१. सा परमभीषणरूपमभिनिर्माय लघुलध्वेव गत्वा सिंहलस्य सार्थवाहस्य पुरतो गत्वा स्थिता।
४५२.०३२. सिंहलेन सार्थवहेन निष्कोषमसिं कृत्वा <४५३>संत्रासिता अपक्रान्ता।
४५३.००१. यावन्मध्यदेशात्सार्थ आगतः।
४५३.००१. सा राक्षसी सार्थवाहस्य पादयोर्निपत्याह--सार्थवाह, अहं ताम्रद्वीपकस्य राज्ञो दुहिता।
४५३.००२. तेनाहं सिंहलसार्थवाहस्य भार्यार्थं दत्ता।
४५३.००३. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्।
४५३.००३. तेनाहममङ्गलेति कृत्वा छोरिता।
४५३.००४. तदर्हसि तं ममोपसंवरयितुमिति।
४५३.००४. तेनाधिवासितं क्षमापयामीति।
४५३.००४. स तस्य सकाशं गतः।
४५३.००५. विश्रम्भकथालापेन मुहूर्तं स्थित्वा कथयति--वयस्य, राजदुहितासौ त्वया परिणिता।
४५३.००६. मा तामस्थाने परित्यज, क्षमस्वेति।
४५३.००६. स कथयति--वयस्य, नासौ राजदुहिता, ताम्रद्वीपादसौ राक्षसी।
४५३.००७. अथ कथमिहागता? तेन वृत्तमारोचितम्।
४५३.००७. स तूष्णीमवस्थितः।
४५३.००८. सिंहलः सार्थवाहोऽनुक्रमतः स्वगृहमनुप्राप्तः।
४५३.००८. सापि राक्षसी स्वयमतीवरूपयौवनसम्पन्नमहासुन्दरीमानुषीरूपमास्थाय सिंहलसदृशनिर्विशेषसुन्दरं पुत्रं निर्माय तं पुत्रमादाय सिंहकल्पां राजधानीमनुप्राप्ता।
४५३.०१०. सिंहलस्य सार्थवाहस्य स्वगृहद्वारमूलेऽवस्थिता।
४५३.०१०. जनकायेनासौ मुखबिम्बकेन प्रत्यभिज्ञातः।
४५३.०११. ते कथयन्ति--भवन्तः, ज्ञायन्तामयं दारकः सिंहलस्य सार्थवाहस्य पुत्र इति।
४५३.०१२. राक्षसी कथयति--भवन्तः, परिज्ञातो युष्माभिः।
४५३.०१२. तस्यैवायं पुत्र इति।
४५३.०१३. ते कथयन्ति--भगिनि, कुत आगता, कस्य वा दुहिता त्वमिति? सा कथयति--भवन्तः, अहं ताम्रद्वीपराजस्य दुहिता सिंहलस्य सार्थवाहस्य भार्यार्थं दत्ता।
४५३.०१४. महासमुद्रमध्यगतस्य सार्थवाहस्य मत्स्यजातेन यानपात्रं भग्नम्।
४५३.०१५. तेनाहममङ्गलेति कृत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता।
४५३.०१६. क्षुद्रपुत्राहम्।
४५३.०१६. अर्हथ सिंहलं सार्थवाहं क्षमयितुमिति।
४५३.०१६. तैस्तस्य मातापित्रोर्निवेदितम्।
४५३.०१७. स ताभ्यामुक्तह्--पुत्र, मैनाम् {त्यज}दुहितरं राज्ञः, क्षुद्रपुत्रेयं तपस्विनी, क्षमेति।
४५३.०१८. स कथयति--तात, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति।
४५३.०१८. तौ कथयतह्--पुत्र, सर्वा एव स्त्रियो राक्षस्यः।
४५३.०१९. क्षमेति।
४५३.०१९. तात, यद्येषा युष्माकमभिप्रेता, एतां गृहे धारयत्
४५३.०२०. अहमप्यन्यत्र गच्छामीति।
४५३.०२०. तौ कथयतह्--पुत्र, सुतरां वयमेनां तवैवार्थाय धारयामः।
४५३.०२०. यद्येषा तव नाभिप्रेता, किमस्माकमनया? न धारयाम इति।
४५३.०२१. ताभ्यां निष्कासिता।
४५३.०२१. सा सिंहकेसैणो राज्ञः सकाशं गता।
४५३.०२२. अमात्यै राज्ञो निवेदितम्--देव, ईदृशी रूपयौवनसम्पन्ना स्त्री राजद्वारे तिष्ठतीति।
४५३.०२३. राजा कथयति--प्रवेशयेति।
४५३.०२३. पश्याम इति।
४५३.०२३. सा तैः प्रवेशिता।
४५३.०२३. हारिणीन्द्रियाणि।
४५३.०२४. राजा तां दृष्ट्वा रागेनोत्क्षिप्तः।
४५३.०२४. स्वागतवादसमुदाचारेण तां समुदाचर्य कथयति--कुतः कथमत्रागता, कस्य वा त्वमिति।
४५३.०२५. सा पादयोर्निपत्य कथयति--देव, अहं ताम्रद्वीपकस्य राज्ञो दुहिता सिंहलस्य सार्थवाहस्य भार्वार्थं दत्ता।
४५३.०२६. तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्।
४५३.०२७. तेनाहममङ्गलेति श्रुत्वा अस्थाने छोतिता, कथंचिदिह संप्राप्ता।
४५३.०२८. क्षुद्रपुत्राहम्।
४५३.०२८. तदर्हसि देव तमेव सिंहलं सार्थवाहं क्षमापयितुमर्हसि।
४५३.०२८. तेन राज्ञा समाश्वासिता।
४५३.०२९. अमात्यानामाज्ञा दत्ता--गच्छन्तु भवन्तः, सिंहलं सार्थवाहं शब्दयतेति।
४५३.०२९. तैरसौ शब्दितः।
४५३.०३०. राजा कथयति--सिंहल, एनां राजादुहितरं धारय, क्षमस्वेति।
४५३.०३०. स कथयति--देव, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति।
४५३.०३१. राजा कथयति--सार्थवाह, सर्वा एव स्त्रियो राक्षस्यः, क्षमस्व्
४५३.०३२. अथ तव नाभिप्रेता, ममानुप्रयच्छेति।
४५३.०३२. सार्थवाहः कथयति--देव, <४५४>राक्षस्येषा।
४५४.००१. नाहं ददामि, न वरयामीति।
४५४.००१. सा राज्ञा अन्तःपुरं प्रवेशिता।
४५४.००१. तया राजा वशीकृतः।
४५४.००२. यावदपरेण समयेन राज्ञः सान्तःपुरस्यास्वापनं दत्वा तासां राक्षसीनां सकाशं गत्वा कथयति--भगिन्यः, किं युष्माकं सिंहलेन सार्थवाहेन? मया सिंहकेसरिणो राज्ञः सान्तःपुरस्यास्वापनं दत्तम्।
४५४.००४. आगच्च्छत, तं भक्षयाम इति।
४५४.००४. ता विकृतकरचरणनासाः परमभैरवमात्मानमभिनिर्माय रात्रौ सिंहकल्पमागताः।
४५४.००५. ताभिरसौ राजा सान्तःपुरपरिवारो भक्षितः।
४५४.००६. प्रभातायां राजन्यां राजद्वारं न मुच्यत्
४५४.००६. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रामितुमारब्धाः।
४५४.००७. अमात्या भटबलाग्रनैगमजनपदाश्च राजद्वारे तिष्ठन्ति।
४५४.००७. एष शब्दः सिंहकल्पायां राजधान्यां समन्ततो विसृतह्--राजद्वारं न मुच्यत्
४५४.००८. राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रमन्ति।
४५४.००९. अमात्या भटबलग्रं नैगमजनपदाश्च राजद्वारे तिष्ठन्तीति।
४५४.०१०. सिंहलेन सार्थवाहेन श्रुतम्।
४५४.०१०. स त्वरितत्वरितं खङ्गमादाय गतः।
४५४.०१०. स कथयति--भवन्तः, क्षमं चिन्तयत्
४५४.०११. तया राक्षस्या राजा खादित इति।
४५४.०११. अमात्याः कथयन्ति--कथमत्र प्रतिपत्तव्यमिति? स कथयति--निश्रयणीमानयत, पश्यामीति।
४५४.०१२. तैरानीता।
४५४.०१२. सिंहलः सार्थवाहः खङ्गमादाय निरूठः।
४५४.०१३. तेन ताः संत्रासिताः।
४५४.०१३. तासां काश्चिद्धस्तपादानादाय निष्पलायिताः, काश्चिच्छिरः।
४५४.०१४. ततः सिंहलेन सार्थवाहेन राजकुलद्वाराणि भुक्तानि।
४५४.०१४. अमात्यै राजकुलं शोधितम्।
४५४.०१५. पौरामात्यजनपदाः संनिपत्य कथयन्ति--भवन्तः, राजा सान्तःपुरपरिवारो राक्षसीभिर्भक्षितः।
४५४.०१६. कुमारो नास्य, कमत्राभिषिञ्चाम इति? तत्रैके कथयन्ति--यः सात्त्विकः प्रज्ञश्चेति।
४५४.०१७. अपरे कथयन्ति--सिंहलात्सार्थवाहात्कोऽन्यः सात्त्विकः प्रज्ञश्च? सिंहलं सार्थवाहमभिषिञ्चाम इति।
४५४.०१८. एवं कुर्मः।
४५४.०१८. तैः सिंहलः सार्थवाह उक्तह्--सार्थवाह, राज्यं प्रतीच्छेति।
४५४.०१९. स कथयति--अहं वणिक्संव्यवहारोपजीवी।
४५४.०१९. किं मम राज्येनेति? ते कथयन्ति--सार्थवाह, नान्यः शक्नोति राज्यं धारयितुम्।
४५४.०२०. प्रतीच्छेति।
४५४.०२०. स कथयति--समयेन प्रतीच्छामि यदि मम वचनानुसारिणो भवथ्
४५४.०२१. प्रतीच्छ, भवामः, शोभनं त्
४५४.०२१. तौरसौ नगरशोभां कृत्वा महता सत्कारेण राज्येऽभिषिक्तः।
४५४.०२२. तेन नानादेशनिवासिनो विद्यावादिका आहूय भूयस्या मात्रया विद्या शिक्षिता, एवमिष्वस्त्राचार्या इष्वस्त्राणि।
४५४.०२३. अमात्यानां चाज्ञा दत्ता--सज्जीक्रियतां भवन्तश्चतुरङ्गबलकायं संनाहितम्।
४५४.०२५. सिंहलो राजा चतुरङ्गाद्बलकायाद्वरवराङ्गान् हस्तिनोऽश्वान् रथान्मनुष्याश्च वहनेष्वरोप्य ताम्रद्वीपं संप्रस्थितः।
४५४.०२६. स्नुपूर्वेण समुद्रतीरमनुप्राप्तः।
४५४.०२६. तासां रक्षसीनामापणस्थानीयो ध्वजः कम्पितुमारब्धः।
४५४.०२७. ताः संजल्पं कर्तुमारब्धाह्--भवत्यः, आपणस्थानीयो ध्वजः कम्पत्
४५४.०२८. नूनं जाम्बुद्वीपका मनुष्या युद्धभिनन्दिन आगताः।
४५४.०२९. समन्वेषाम इति।
४५४.०२९. ताः समुद्रतीरं गताः।
४५४.०२९. यावत्पश्यन्ति अनेकशतानि यानपात्राणि समुद्रतीरमनुप्राप्तानि।
४५४.०३०. दृष्ट्वा च पुनस्ता अर्धेन प्रत्युद्गताः।
४५४.०३०. ततो विद्याधारिभिराविष्टा इष्वस्त्राचार्यैः संप्रघातिताः।
४५४.०३१. अवशिष्टाः सिंहलस्य राज्ञः पादयोर्निपत्य कथयन्ति--देव, क्षमस्वेति।
४५४.०३२. स कथयति--समयेन क्षमे, यदि यूयमेतन्नगरमुत्कीलयित्वा अन्यत्र गच्छथ, न च मद्विजिते <४५५>कस्यचिदपराध्यथेति।
४५५.००१. ताः कथयन्ति--देव, एवं कुर्मः।
४५५.००१. शोभनम्।
४५५.००१. तं नगरमुत्कीलयित्वा अन्यत्र गत्वावस्थिताः।
४५५.००२. सिंहलेनापि राज्ञा आवासितमिति सिंहलद्वीपः सिंहलद्वीप इति संज्ञा संवृत्ता॥
४५५.००४. किं मन्यध्वे भिक्षवो योऽसौ सिमिहलः, अहमेव स तेन कालेन तेन समयेन्
४५५.००४. योऽसौ सिंहकेसरी राजा, एष एव स महल्लस्तेन कालेन तेन समयेन्
४५५.००५. या सा राक्षसी, एषैवानुपमा तेन कालेन तेन समयेन्
४५५.००६. तदाप्येच अनुपमाया अर्थे अनयेन व्यवसनमापन्नः।
४५५.००६. एतर्ह्यप्येष अनुपमाया अर्थे अनयेन व्यसनमापन्नः॥
४५५.००८. माकन्दिकः परिव्राजकोऽनुपमामादाय कौशाम्बीं गतः।
४५५.००८. अन्यतमस्मिन्नुद्यानेऽवस्थितः।
४५५.००९. उद्यानपालकपुरुषेण राज्ञ उदयनस्य वत्सराजस्य निवेदितम्--देव, स्त्री अभिरूपा दर्शनीया प्रासादिका उद्याने तिष्ठति।
४५५.०१०. देवस्यैषा योग्येति श्रुत्वा राजा तदुद्यानं गतः।
४५५.०११. तेनासौ दृष्टा।
४५५.०११. हारीणीन्द्रियाणि।
४५५.०११. सहदर्शनादेवाक्षिप्तहृदयः।
४५५.०११. तेन माकन्दिकः परिव्राजक उक्तह्--कस्येयं दारिका? स आह--देव, मद्दुहिता देव, न कस्यचि
४५५.०१२. मम कस्मान्न दीयते? देव, दत्ता भवतु राज्ञः।
४५५.०१३. शोभनम्।
४५५.०१३. महाराजस्य बहवः पण्यपरिणीताः।
४५५.०१३. तस्य पुष्पदन्तस्य परिणीता।
४५५.०१४. तस्याः पुष्पदन्तस्य प्रासादस्यार्थं दत्तम्, पञ्चोपस्थायिकाशतानि दत्तानि, पञ्च च कार्षापणशतानि दिने दिने गन्धमाल्यनिमित्तम्।
४५५.०१५. माकन्दिकः परिव्राजकोऽग्रामात्यः स्थापितः।
४५५.०१६. तेन खलु पुनः समयेनोदयनस्य राज्ञस्त्रयोऽग्रामात्या योगन्धरायणो घोषिलो माकन्दिक इति।
४५५.०१७. यावदपरेण समयेन उदयनस्य राज्ञः पुरुष उपसंक्रान्तः।
४५५.०१७. राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव प्रियाख्यायीति।
४५५.०१८. अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छत प्रियाख्यायिनो वृत्तिमिति।
४५५.०१९. तैस्तस्य वृत्तिर्दत्ता।
४५५.०१९. यावदपरः पुरुष उपसंक्रान्तः।
४५५.०१९. सोऽपि राज्ञा पृष्टह्--कस्त्वमिति? स कथयति--देव अप्रियाख्यायीति।
४५५.०२०. राज्ञा अमात्यानामाज्ञा दत्ता--भवन्तः, प्रयच्छताअस्याप्यप्रियाख्यायिनो वृत्तिमिति।
४५५.०२१. ते कथयन्ति--मा कदाचिद्देवोऽप्रियं शृणुयात् ।
४५५.०२१. स कथयति--भवन्तः, विस्तीर्णानि राजकार्याणि।
४५५.०२२. प्रियच्छतेति।
४५५.०२२. तैस्तस्यापि वृत्तिर्दत्ता।
४५५.०२२. यावदपरेण समयेन राजा उदयनः श्यामावती अनुपमा चैकस्मिन् स्थाने तिष्ठन्ति।
४५५.०२३. तदा राज्ञा क्षुतं कृतम्।
४५५.०२४. श्यामावत्योक्तम्--नमो बुद्धायेति।
४५५.०२४. अनुपमया नमो देवस्येति।
४५५.०२४. अनुपमा कथयति--महाराज, श्यामाअवती देवस्य सन्तकं भक्तं भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति।
४५५.०२६. राजा कथयति--अनुपमे, नात्र ह्येवम्।
४५५.०२६. श्यामावत्युपासिका।
४५५.०२६. अवश्यं श्रमणस्य गौतमस्य नमस्कारं करोतीति।
४५५.०२७. सा तूष्णीमवस्थिता।
४५५.०२७. तस्याः प्रेष्यदारिका उक्ता--दारिके, यदा देवः श्यामावती अहं च रहसि तिष्ठेम, तदा त्वं सोपानके कांसिकां पातयिष्यसीति।
४५५.०२९. एवमस्त्विति।
४५५.०२९. तया तेषां रहस्यवस्थितानां सोपानके कांसिका पातिता।
४५५.०२९. श्यामावत्योक्तम्--नमो बुद्धायेति।
४५५.०३०. अनुपमा नमो देवस्येत्युक्त्वा कथयति--देवस्य सन्तकं भवती भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति।
४५५.०३१. राजा कथयति--अनुपमे, अत्र मा संरम्भं कुरु, उपासिकैषा, नात्र दोष इति।
४५५.०३२. राजा उदयन एकस्मिन् दिवसे श्यामावत्या सकाशम् <४५६>भुङ्क्ते, द्वितीयदिवसेऽनुपमायाः।
४५६.००१. राज्ञा शाकुनिकस्याज्ञा दत्ता--यस्मिन् दिवसे श्यामावत्या भोजनवारः, तस्मिन् दिवसे जीवन्तः कपिंजला आनेतव्या इति।
४५६.००२. शाकुनिकेन जीवन्तः कपिंजला राज्ञ उपनीताः।
४५६.००३. राजा कथयति--अनुपमायाः समर्पयेति।
४५६.००३. अनुपमया श्रुतम्।
४५६.००४. सा कथयति--देव, न मम वारः।
४५६.००४. श्यामावत्या वार इति।
४५६.००४. राजा कथयति--गच्छ भोः पुरुष, श्यामावत्याः समर्पयेति।
४५६.००५. तेन श्यामावत्याः सकाशमुपनीतह्--देवस्यार्थाय साधयेति।
४५६.००५. सा कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पत्
४५६.००६. गच्छेति।
४५६.००६. तेन राज्ञे गत्वा निवेदितम्--देव, श्यामावती कथयति--किमहं शाकुनिकायिनी? न मम प्राणातिपातः कल्पत्
४५६.००८. गच्छेति।
४५६.००८. अनुपमा श्रुत्वा कथयति--देव, यद्यसावुच्यते श्रमणस्य गौतमस्यार्थाय साधयेति साम्प्रतं सपरिवारा साधयेत् ।
४५६.००९. राजा संलक्षयति--स्यादेवम्।
४५६.००९. तेनासौ पुरुष उक्तह्--गच्छ भोः पुरुष, एवं वद--भगवतोऽर्थाय साधयेति।
४५६.०१०. संप्रस्थितोऽनुपमया प्रच्छन्नमुक्तह्--प्रघातयित्वानयेति।
४५६.०११. तेन प्रघातयित्वा श्यामावत्या उपनीताः।
४५६.०११. देव कथयति--भगवतोऽर्थाय साधयेति।
४५६.०१२. सा सपरिवारा उद्युक्ता।
४५६.०१२. शाकुनिकेन गत्वा राज्ञे निवेदितम्--सा देव सपरिवारा उद्युक्तेति।
४५६.०१३. अनुपमा कथयति--श्रुतं देवेन? यदि तावत्प्राणातिपातो न कल्पते, श्रमणस्यार्थाय न कल्पते, देवस्यापि कल्पते? देवस्य न कल्पते इति कुत एतत्? राजा पर्यवस्थितो धनुः पूरयित्वा संप्रथितः।
४५६.०१५. मितामित्रमध्यमो लोकः।
४५६.०१५. अपरया श्यामावत्या निवेदितम्--देवोऽत्यर्थं पर्यवस्थितो धनुः पूरयित्वा आगच्छति, क्षमयेति।
४५६.०१६. तया स्वोपनिषदुक्ता--भगिन्यः, सर्वा यूयं मैत्रीं समापद्यध्वमिति।
४५६.०१७. ताः सर्वा मैत्रीसमापन्नाः।
४५६.०१८. राज्ञा आ कर्णाद्धनुः पूरयित्वा शरः क्षिप्तः।
४५६.०१८. सोऽर्धमार्गे पतितः।
४५६.०१८. द्वितीयः क्षिप्तः।
४५६.०१८. स निवर्त्य राज्ञः समीपे पतितः।
४५६.०१९. तृतीयं क्षेप्तुमारब्धः।
४५६.०१९. श्यामावती कथयति--देव, मा क्षेप्स्यसि।
४५६.०१९. मा सर्वेण सर्वं न भविष्यतीति।
४५६.०२०. राजा विनीतः कथयति--त्वं देवी नागी यक्षिणी गन्धर्वी किन्नरी महोरगीति? सा कथयति--न्
४५६.०२१. अथ का त्वम्? भगवतः श्राविका अनागामिनी।
४५६.०२१. मय भगवतोऽन्तिकेऽनागामिफलं साक्षात्कृतम्, एभिश्च पञ्चभिः स्त्रीशतैः सत्यानि दृष्टानीति।
४५६.०२२. राजा अभिप्रसन्नः कथयति--वरं तेऽनुप्रयच्छामीति।
४५६.०२३. सा कथयति--यदि देवोऽभिप्रसन्नः, यदा देवोऽन्तःपुरं प्रविशति, तदा ममान्तिके धर्मान्वयमुपस्थापयेदिति।
४५६.०२४. राजा कथयति--शोभनम्।
४५६.०२५. एवं भवत्विति।
४५६.०२५. सोऽनुपमायाः श्यामावत्या अन्तिके धर्मान्वयं प्रसादयति।
४५६.०२५. यान्यस्य नवसस्यानि नवफलानि नवर्तुकानि समापद्यन्ते, तानि तत्प्रथमतः श्यामावत्याः प्रयच्छति।
४५६.०२७. ईष्र्याप्रकृतिर्मातृग्रामः।
४५६.०२७. अनुपमा संलक्षयति--अयं राजा मय सार्थं रतिक्रीडां प्रत्यनुभवति।
४५६.०२८. श्यामावत्या नवैः फलैर्नवैः सस्यकैर्नवर्तुकैः कारां करोति।
४५६.०२८. तदुपायसंविधानं कर्तव्यं येनैषा प्रघात्यत इति।
४५६.०२९. सा च तस्याः प्रघातनाय रन्ध्रान्वेषणतत्परा अवस्थिता।
४५६.०२९. राज्ञश्चान्यतमः कार्वटिको विरुद्धः।
४५६.०३०. तेनैकं दण्डस्थानं प्रेषितम्।
४५६.०३०. तद्धतुप्रहतमागतम्।
४५६.०३१. एवं द्वितीयं तृतीयम्।
४५६.०३१. अमात्याः कथयन्ति--देवस्य बलं हीयते, कार्वटिकस्य बलं वर्थत्
४५६.०३२. यदि देवः स्वयमेव न गच्छति, स्थानमेतद्विद्यते यत्सर्वथासौ दुर्दम्यो <४५७>भविष्यति।
४५७.००१. तेन कौशाम्ब्यां घण्टावघोषणं कारितम्--यो मम विजिते कश्चिच्छस्त्रोपजीवी प्रतिवसति, तेन सर्वेण गन्तव्यमिति।
४५७.००२. तेन संप्रस्थितेन योगन्धरायण उक्तह्--त्वमिह तिष्ठेति।
४५७.००३. स न संप्रतिपद्यत्
४५७.००३. स कथयति--देवेनैव सार्धं गच्छामीति।
४५७.००३. घोषिलोऽप्युक्त एवमेव कथयति।
४५७.००४. राज्ञा माकन्दिकः स्थापित उक्तश्च--श्यामावत्या योगोद्वहनं कर्तव्यमिति।
४५७.००५. संप्रस्थितेनाप्यनुव्रजन् स एवमेवोक्तः।
४५७.००५. निवर्तमानेनापि तेन संप्रतिपन्नम्।
४५७.००५. सोऽनुपमायाः सकाशं गतः।
४५७.००६. तया पृष्टह्--तात, क इह देवेन स्थापितह्? अहम्।
४५७.००६. सा संलक्षयति--शोभनम्।
४५७.००७. शक्यमनेन सहायेन वैरनिर्यातनं कर्तुमिति विदित्वा कथयति--नानुजानीषे श्यामावती का मम भवतीति।
४५७.००८. पुत्रि, जाने सपत्नीति।
४५७.००८. तात सत्यमेवम्।
४५७.००८. नानुजानीषे कतरो धर्मोऽत्यर्थं बाधत इति? पुत्रि, जाने ईर्ष्या मात्सर्यं च्
४५७.००९. तात यद्येवम्, श्यामावतीं प्रघातय्
४५७.०१०. स कथयति--किं मे द्वे शिरसी? यावत्त्रिरप्यहं राज्ञा सिंदिष्टह्--श्यामावत्या योगोद्वाहनं करिष्यसीति।
४५७.०११. भवतु नामापि न गृहीतुमिति।
४५७.०११. सा कथयति--तात, ईदृशोऽपि त्वं मूर्खह्? अस्ति कश्चित्पिता दुहितुरर्थे विमुखः, यः सपत्न्याः सकाशे अतीव स्नेहं करोति? प्रघातयसीत्येवं कुशलम्।
४५७.०१३. नो चेदहं पौराणे स्थाने स्थापयामीति।
४५७.०१३. स भीतः संलक्षयति--स्त्रीवशगा राजानः।
४५७.०१४. स्यादेवमिति।
४५७.०१५. सा कथयति--शोभनम्।
४५७.०१५. एवं कुरु।
४५७.०१५. स श्यामावत्याः सकाशं गतः।
४५७.०१६. स कथयति--देवि, किं ते करणीयमस्ति? सा कथयति--माकन्दिक, न किंचित्करणीयमस्ति।
४५७.०१७. अपि त्वेता दारिका रात्रौ प्रदीपेन बुद्धवचनं पठन्ति, अत्र भूर्जेन प्रयोजनं तैलेन मसिना कलमया तुलेन्
४५७.०१८. स कथयति--देवि, शोभनम्।
४५७.०१८. उपावर्तयामीति।
४५७.०१८. तेन प्रभूतमुपावर्त्य प्रवेशितम्, द्वारकोष्ठके राशिर्व्यवस्थापितः।
४५७.०१९. श्यामावती कथयति--माकन्दिक, अलं पर्याप्तंती।
४५७.०२०. माकन्दिकः कथयति--देवि प्रवेशयामि, न भूयो भूयः प्रवेशितव्यम्।
४५७.०२१. तेनपश्चिमे भूर्जभारकेऽग्निं प्रक्षिप्य शरः प्रवेशितः।
४५७.०२१. एत्न संधुक्षितेन द्वारकोष्ठकः प्रज्वालितः।
४५७.०२२. कौशाम्बीनिवासी जनकायः प्रधावितो निर्वापयितुम्।
४५७.०२२. माकन्दिको निष्कोषमसिं कृत्वा जनकायं निर्वासयितुमारब्धः।
४५७.०२३. तिष्ठत, किं यूयं राज्ञोऽन्तःपुरं द्रष्टुम्? कौशाम्ब्यां यन्त्रकराचार्यः कथयति--अहमेनं द्वारकोष्ठकं ज्वलन्तं यन्त्रेणान्यस्थानं संक्रमयामीति।
४५७.०२४. सोऽपि माकन्दिकेनैवमेवोक्तो निवर्तितः।
४५७.०२५. श्यामावती ऋद्ध्या आकाशमुत्प्लुत्य कथयति--भगिन्यः, अस्माभिरेवैतानि कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
४५७.०२७. अस्माभिरेव कृत्यान्युपचितानि।
४५७.०२७. कोऽन्यः प्रत्यनुभविष्यति? उक्तं च भगवता--
४५७.०२९. नैवान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य्
४५७.०३१. न विद्यते पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत कर्म् ।२२॥ इति।
४५८.००१. <४५८>तत्कर्मपरायणैर्वो भवितव्यमित्युक्त्वा गाथां भाषते--
४५८.००२. दृष्टो मया स भगवांस्तिर्यक्प्राकारसंनिभः।
४५८.००३. आज्ञातानि च सत्यानि कृतं बुद्धस्य शासनम्॥२३॥ इति।
४५८.००४. श्यामावतीप्रमुखास्ताः स्त्रियः पतङ्ग इवोत्प्लुत्याग्नौ निपतिताः।
४५८.००४. इति तत्र श्यामावतीप्रमुखानि पञ्च स्त्रीशतानि दग्धानि।
४५८.००५. कुब्जोत्तरा ससम्भ्रमेण निष्पलायिता।
४५८.००५. माकन्दिकेन तेषां पञ्चानां स्त्रीशतानां कलेवराणि श्मशाने छोरितानि।
४५८.००६. राजकुलं सान्तर्बहिः शोधितम्।
४५८.००७. कौशाम्बीनिवासी जनकायो नानादेशाभ्यागतश्च विक्रोशन्निवारितः॥
४५८.००८. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय कौशाम्बीं पिण्डाय प्राविक्षन्।
४५८.००९. अश्रौषुः संबहुला भिक्षवः कौशाम्बीनगरे उदयनस्य वत्सराजस्य जनपदान् गतस्य अन्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि।
४५८.०१०. श्रुत्वा च पुनः कौशाम्बीं पिण्डाय प्रविश्या चरित्वा प्रतिक्रम्य पुनर्येन भगवांस्तेनोपसंक्रान्ता एतदूचुह्--अश्रौष्म वयं भदन्त संबहुला भिक्षवो कौशाम्बीं पिण्डाय चरन्त उदयनस्य वत्सराजस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि दग्धानि॥
४५८.०१४. भगवानाह--बहु भिक्षवस्तेन मोहपुरुषेणापुण्यं प्रसूतं येनोदयनस्य वत्सराजस्य जनपदगतस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि।
४५८.०१५. किं चापि भिक्षवस्तेन मोहपुरुषेण बह्वपुण्यं प्रसूतम्, अपि तु न ता दुर्गतिं गताः।
४५८.०१६. सर्वाः शुद्धपुद्गलाः कालगताः।
४५८.०१७. तत्कस्य हेतोह्? सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः पञ्चानामवरभागीयानां सम्योजनानां प्रहाणादुपपादुकाः।
४५८.०१८. तत्र परिनिर्वायिण्योऽनागामिन्योऽनावृत्तिकधर्मिण्यः पुनरिमं लोकम्।
४५८.०१९. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
४५८.०१९. सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां सम्योजनानां प्रहाणाद्रागद्वेषमोहानां कालं कृत्वा सकृदागामिन्यः, सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यन्ति।
४५८.०२१. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
४५८.०२१. सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां सम्योजनानां प्रहाणाच्छ्रोतापन्ना अविनिपातधर्मिण्यो नियतसमाधिपरायणाः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति।
४५८.०२४. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
४५८.०२४. सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः स्वजीवितहेतोरपि शिक्षां न व्यतिक्रान्ताः।
४५८.०२५. इत्येवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
४५८.०२५. सन्ति तस्मिन्नन्तःपुरे स्त्रियो या ममान्तिके प्रसन्नचित्तालंकारं कृत्वा कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपन्नाः।
४५८.०२७. एवम्रूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति।
४५८.०२७. आगम्यत भिक्षवो येन श्यामावतीप्रमुखानां पञ्चस्त्रीशतानां कलेवराणि।
४५८.०२८. एवं भदन्तेति भिक्षवो भगवतः प्रत्यश्रौषुः।
४५८.०२८. अथ खलु भगवान् संबहुलैर्भिक्षुभिः सार्धं येन तासां पञ्चानां स्त्रीशताणां कलेवराणि तेनोपसंक्रान्तः।
४५८.०३०. उपसंक्रम्य भिक्षूनामन्त्रयते स्म--एतानि भिक्षवस्तानि पञ्चशतकलेवराणि यत्र उदयनो वत्सराजो रक्तः सक्तो गृद्धो ग्रथितो मूर्च्छितोऽध्यवसायमापन्नः।
४५८.०३१. तत्र नैव प्राज्ञधीः पादेनापि स्पृशेत् ।
४५८.०३२. गाथां च भाषते--
४५९.००१. <४५९>मोहसंवर्धनो लोको भव्यरूप इव दृश्यत्
४५९.००२. उपधिबन्धना बलास्तमसा परिवारिताः।
४५९.००३. असत्सदिति पश्यन्ति पश्यतां नास्ति किंचन् ।२४॥ इति।
४५९.००४. एवं चाह--तस्मात्तर्हि भिक्षव एवं शिक्षितव्यम्, यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः प्रागेव सविज्ञानके काय्
४५९.००५. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
४५९.००६. अथ कौशाम्बीनिवासिनः पौराः संनिपत्य संजल्पितुमारब्धाह्--भवन्तः, राज्ञ ईदृशोऽनर्थः संवृत्त्
४५९.००७. तत्को न्वस्माकं राज्ञ आरोचयिष्यतीति? तत्रेकै कथयन्ति--योऽसावप्रियाख्यायी स आरोचयिष्यति।
४५९.००८. तं शब्दयाम इति।
४५९.००८. अपरे कथयन्ति--एवं कुर्मः।
४५९.००८. तैरसावाहूयोक्तह्--देवस्येदमीदृशमप्रियमनुपूर्व्या निवेदयेति।
४५९.००९. वृत्तिर्दियताम्।
४५९.००९. किमप्रियाख्यायिनो वृत्तिर्दीयत इत्ययं स कालः।
४५९.०१०. यूयमेव निवेदयत्
४५९.०१०. ते कथयन्ति--अतोर्थमेव तव वृत्तिर्दत्ता।
४५९.०१०. कार्यं निवेदयेति।
४५९.०११. समयतो निवेदयामि यदहं ब्रवीमि तत्कुरुध्वम्? ब्रूहि, करिष्यामः।
४५९.०११. एवमनुपूर्वेणास्य निवेदयितव्यम्--पञ्चहस्तिशतानि प्रयच्छत, पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णलक्षं कौशाम्ब्यधिष्ठानम्।
४५९.०१३ पटे लेखयत पुष्पदन्तप्रासादं यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे च भूर्जभागेऽग्निः प्रक्षिप्तः।
४५९.०१५. यथा द्वारकोष्ठकः प्रज्वालितः, यथा कौशाम्बीनिवासी जनकायो निर्वापयितुं प्रधावितः, यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः।
४५९.०१६. यथा यन्त्रकलाचार्य आगत्य कथयति--द्वारकोष्ठकं ज्वलन्तमन्यत्स्थानं संक्रमयामीति।
४५९.०१७. सोऽपि माकन्दिकेन निवारितः।
४५९.०१७. यथा श्यमावतीप्रमुखानि पञ्चस्त्रीशतान्युत्प्लुत्य निपतितानि।
४५९.०१८. ते कथयति--एवं कुर्मः।
४५९.०१८. तैः पञ्चहस्तिशतान्युपस्थापितानि पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं कौशाम्ब्यधिष्ठानं पटे लिखितं पुष्पदन्तप्रासादः।
४५९.०२०. यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे भूर्जभारकेऽग्निः प्रक्षिप्तो यथा द्वारकोऽष्ठके प्रज्वालितः।
४५९.०२२. यथा कौशाम्बीनिवासी जनकायो निवार्पयितुं प्रधावितः।
४५९.०२२. यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः।
४५९.०२३. यथा यन्त्रकलाचार्य आगतह्--अहमेनं द्वारकोष्ठकं ज्वलन्तमन्यत्स्थानं संक्रमयामीति, सोऽपि माकन्दिकेन निवारितः।
४५९.०२४. यथा श्यामावतीप्रमुखानि पञ्चस्त्रीशतान्यग्नावुत्प्लुत्य निपतितानि, तत्सर्वं पटे लिखितम्।
४५९.०२५. ततोऽप्रियाख्यायिनोऽमात्यानां लेखोऽनुप्रेषितो राज्ञ ईदृशोऽनर्थ उत्पन्नोऽहमस्यानेनोपायेन निवेदयिष्यामि।
४५९.०२६. युष्माभिः साहाय्यं कल्पयितव्यमिति।
४५९.०२७. स तेषां लेखां लेखयित्वा चतुरङ्गबलकाययुक्तोऽन्यतमस्मिन् प्रदेशे गत्वावस्थितः।
४५९.०२८. उदयनस्य च लेखोऽनुप्रेषितह्--देव, अहमनुष्मिन् प्रदेशे राजा।
४५९.०२८. मम च पुत्रो मृत्युनापहृतः।
४५९.०२९. तदहं तेन सार्थं संग्रामं संग्रामयिष्यामि।
४५९.०२९. यदि तावत्त्वं शक्नोषि युद्धेन नियोक्तुमित्येवं कुशलम्, नो चेत्पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति।
४५९.०३२. राज्ञ उदयनस्य स कार्वटिको बलवान् संनामं न गच्छति।
४५९.०३२. सोऽमात्यानां कथयति--
४६०.००१. <४६०>भवन्तः, ईदृशोऽपि राजा मूर्खह्? अस्ति कश्षिन्मृत्युनापहृतः शक्यत आनेतुम्? तद्गतम्।
४६०.००२. एतत्तस्यैवं लिखितम्--ममैवंनामा कार्वटिकः संनामं न गच्छति।
४६०.००२. स त्वमस्माकं तावत्साहाय्यं कल्पय, पश्चात्तवापि साहय्यं करोमीति।
४६०.००३. सोऽमात्यैस्तस्यैवं लेखोऽनुप्रेषितः।
४६०.००३. स लेखश्रवणादेवागत्य कार्वटिकस्य नातिदूरे व्यवस्थापितः।
४६०.००४. कार्वटिकेन श्रुतम्।
४६०.००४. स संलक्षयति--एकेन तावदहं राज्ञा दश दिशो विश्रान्तः, अयं च द्वितीयः।
४६०.००५. सर्वथा पुनरपि विषयान्न तु प्राणान्निर्गच्छामीति।
४६०.००६. स कण्ठेऽसिं बद्ध्वा निर्गत्य राज्ञ उदयनस्य पादयोर्निपतितः।
४६०.००६. स राज्ञा उदयनेन करदो व्यवस्थापितः।
४६०.००७. अथसावप्रियाख्यायी राजलीलया राज्ञ उदयनस्य सकाशं गत्वा कथयति--देव, मम पुत्रो मृत्युना अपहृतः।
४६०.००८. त्वं मम देवः साहाय्यं कल्पयतु।
४६०.००९. अहं तेन सार्धं संग्रामं संग्रामयिष्यामीति।
४६०.००९. यदि तावत्त्वं शक्नोषि युद्धेन निर्जेतुमियेवं कुशलम्, नो चेत्पञ्चहस्तिशतानि पञ्चहस्तिनीशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति।
४६०.०११. उदयनो राजा कथयति--प्रियवयस्य, मूर्खस्त्वम्।
४६०.०१२. अस्ति कश्चिच्छक्यते मृत्योः सकाशादानेतुमिति? स कथयति--देव, न शक्यत्
४६०.०१३. यद्येवम्, इमं पटं पश्येति।
४६०.०१३. तेन पटः प्रसातितः।
४६०.०१३. राजा पटं निरीक्ष्य मर्मवेधविद्ध इव रुष्यमाणः कथयति--भोः किम्? कथयति--भोः पुरुष, किं कथयसि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दग्धानीति? स पट्टं मौलिं चापनीय गाथां भाषते--
४६०.०१६. नाहं नरेन्द्रो न नरेन्द्रपुत्रः पादोपजीवी तव देव मृत्यः।
४६०.०१८. अथाप्रियस्येव निवेदनार्थमिहागतोऽहं तव पादमूलम्॥२५॥ इति।
४६०.०२०. राजा सुतरां निरीक्ष्य विचारयति।
४६०.०२०. इयं कौशाम्बी नगरी, इदं राजकुलम्, अयं माकन्दिकः पुष्पदन्तं प्रासादं भूर्जादिना प्रयोगेण दहति, इमानि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दह्यमानान्युत्प्लुत्य निपतितानीति।
४६०.०२२. विचार्य कथयति--भोः पुरुष, किं कथयसि श्यामावती दग्धेति? देव, नाहं कथयामि अपि तु देव एव कथयति।
४६०.०२३. भोः पुरुष, उपायेन मे त्वया निवेदितम्, अन्यथा ते मयासिना निकृन्तितमूलं शिरः कृत्वा पृथिव्यां निपातितमन्वभविस्यदित्युत्क्वा मूर्च्छितः पृथिव्यां निपतितः।
४६०.०२५. ततो जलपरिषेकेण प्रत्यागतप्राणः कथयति--संनाहयत भवन्तश्चतुरङ्गबलकायम्।
४६०.०२६. कौशाम्बीं गच्छाम इति।
४६०.०२६. अमात्यैश्चतुरङ्गबलकायं संनाहितम्।
४६०.०२७. राजा कौशाम्बीं संप्रस्थितः।
४६०.०२७. अनुपूर्वेण संप्राप्तः।
४६०.०२७. तेन पौराणां सकाशात्सर्वं श्रुतम्।
४६०.०२८. तैरमर्षितम्।
४६०.०२८. तमारागितम्।
४६०.०२८. ततो योगन्धरायणस्याज्ञा दत्ता--गच्छ माकन्दिकमनुपमया सह यन्त्रगृहे प्रक्षिप्य दह्यताम्।
४६०.०२९. ततो योगन्धरायणेन सुगुप्तं भूमिगृहे प्रक्षिप्य स्थापितः।
४६०.०३०. राज्ञः सप्तमे दिवसे शोको विगतः।
४६०.०३०. स विगतशोकः।
४६०.०३०. स कथयति--योगन्धरायण, कुत्रानुपमेति? तेन यथावृत्तं निवेदितम्।
४६०.०३१. राजा कथयति--शोभनम्।
४६०.०३१. माकन्दिकेन श्यामावती प्रघातिता, त्वयाप्यनुपमया सपरिवारया सार्धं मया प्रव्रजितव्यं जातमिति।
४६०.०३२. योगन्धरायणः कथयति--देव, इत्यर्थमेव मया असौ भूमिगृहे प्रक्षिप्य स्थापिता।
४६०.०३२. पश्यामि तावद्यदि जीवतीति।
४६१.००१. <४६१>तेनासौ भूमिगृहादानीता तदवस्थानाक्लिष्टा अम्लानशरीरा।
४६१.००१. राजा दृष्ट्वा संलक्षयति--यथेयमम्लाना, नेइषा निराहारा।
४६१.००२. नूनमनया परपुरुषेण सार्धं परिचारितमिति विदित्वा कथयति--अनुपमे, अन्येन परिचारितमिति? सा कथयति--शान्तं पापम्, नाहमेवंकारिणी।
४६१.००३. कथं जाने? अभिश्रद्दधसि त्वं भगवतह्? अभिश्रद्दधे गौतम्
४६१.००४. तत्त्तदा श्रमणो गौतमः, इदानीं भगवान्।
४६१.००४. अपि तु किं नवशवाया अर्थे भगवन्तं प्रवक्ष्यामि, श्यामावत्या अर्थे प्रवक्ष्यामीति विदित्वा येन भगवांस्तेनोपसंक्रान्तः।
४६१.००६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
४६१.००६. उदयनो वत्सराजो भगवन्तमिदमवोचत्--किं भदन्त श्यामावतीप्रमुखैः पञ्चभिः स्त्रीशतैः कर्म कृतं येनाग्निना दग्धानि? कुब्जोत्तरा अनुक्रमेण निष्पलायितेति।
४६१.००८. भगवानाह--आभिरेव महाराट्कर्माणि कृतान्युपचितानि लब्धसम्भाराणि परिणतप्रत्ययानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥
४६१.०१०. भूतपूर्वं महाराज वाराणस्यां नगर्या ब्रह्मदत्तो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च पूर्ववद्यावद्धर्मेण राज्यं कारयति।
४६१.०११. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य्
४६१.०१२. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीमनुप्राप्तः।
४६१.०१३. सोऽन्यतमस्मिन्नुद्याने कुटिकायामवस्थितः।
४६१.०१४. राजा च ब्रह्मदत्तः सान्तःपुरपरिवारस्तदुद्यानं निर्गतः।
४६१.०१४. ता अन्तःपुरिकास्त्रीडापुष्किरिण्यां स्नात्वा शीतेनानुबद्धाः।
४६१.०१५. ततोऽग्रमाहिष्या प्रेष्यदारिकोक्ता--दारिके, शीतेनातीव बाध्यामह्
४६१.०१६. गच्छ, एतस्याअं कुटिकायामग्निं प्रज्वलयेति।
४६१.०१६. सा उल्कां प्रज्वल्य गता।
४६१.०१६. पश्यति तं प्रत्येकबुद्धम्।
४६१.०१७. तया तस्या निवेदितम्--देवि, प्रव्रजितोऽस्यां तिष्ठतीति।
४६१.०१७. सा कथयति--प्रव्रजितो वा तिष्ठतु, अग्निं दत्वा तां प्रज्वलयेति।
४६१.०१८. तया न दत्तम्।
४६१.०१८. ततस्तया कुपितया स्वयमेव दत्तम्।
४६१.०१९. स प्रत्येकबुद्धो निर्गतः।
४६१.०१९. आभिः सर्वाभिरन्तःपुरिकाभिरनुमोदितम्।
४६१.०१९. देवि, शोभनं त्वया यदग्निर्दत्तः।
४६१.०२०. सर्वा वयं प्रतप्ता इति।
४६१.०२०. स प्रत्येकबुद्धः संलक्षयति--क्षता एतास्तपस्विन्य उपहताश्च्
४६१.०२१. मा अत्यन्तक्षता एता भविष्यन्ति।
४६१.०२१. अनुग्रहमासां करोमीति।
४६१.०२१. स तासामनुकम्पार्थं तत एवाकाशमुत्प्लुत्य तपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
४६१.०२२. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी।
४६१.०२३. ता मूलनिकृन्तित इव द्रुमः पादयोर्निपत्य क्षमयितुमारब्धाः।
४६१.०२३. अवतरावतर सद्भूतदक्षिणीय, अस्माकं कामपङ्कनिमग्नानां हस्तोद्धारमनुप्रयच्छेति।
४६१.०२४. स तासामनुकम्पार्थमवतीर्णः।
४६१.०२५. तानि तस्मिन् कारां कृत्वा प्रणिधानं कार्तुमारब्धाह्--यदस्माभिरेवं सद्भूतदक्षिणीयेऽपकारः कृतः, मा अस्य कर्मणो विपाकमनुभवेम्
४६१.०२६. यत्तु काराः कृताः, अनेन वयं कुशलमूलेनैवंविधानां धर्माणां लाभिन्यो, भवेम, प्रतिविशिष्टतरं चातः शास्तारमारगयेम इति॥
४६१.०२८. किं मन्यसे महाराज तदा सासौ राज्ञो ब्रह्मदत्तस्याग्रमहिषी, एषैव सा श्यामावती तेन कालेन तेन समयेन्
४६१.०२९. यानि पञ्च स्त्रीशतानि, एतान्येव तानि पञ्च स्त्रीशतानि तानि तेन कालेन तेन समयेन्
४६१.०३०. या सा प्रेष्यदारिका, एषैवासौ कुब्जोत्तरा तेन कालेन तेन समयेन्
४६१.०३१. यदाभिः प्रत्येकबुद्धस्य कुटिकां दग्ध्वा अनुमोदितम्, तस्य कर्मणो विपाकेन बहूनि वर्षाणि नरकेषु पत्का यावदेतर्ह्यपि दृष्टसत्या अग्निना दग्धाः।
४६१.०३२. कुब्जोत्तरा अनुक्रमेण <४६२>निष्पलायिता।
४६२.००१. यत्प्रणिधानं कृतं ममान्तिके सत्यदर्शनं कृतम्।
४६२.००१. इति हि महाराज एकान्तकृष्णानां कर्माणां पूर्ववद्यावदेवमाभोगः करणीयः।
४६२.००२. इत्येवं ते महाराज शिक्षितव्यम्।
४६२.००३. अत्रोदयनो वत्सराजो भगवतो भाषितमभिनिन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
४६२.००५. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त कुब्जोत्तरया कर्म कृतं येन कुब्जा संवृत्ता? भगवानाह--कुब्जोत्तरयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावद्फलन्ति खलु देहिनाम्।
४६२.००८. भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति पूर्ववद्यावद्धर्मेण राज्यं कारयति।
४६२.००९. नैमित्तिकैर्द्वादशवार्षिका अनावृष्टिरादिष्टा।
४६२.००९. राज्ञा वाराणस्यामेवं घण्टावघोषणं कारितम्--यस्य द्वादशवार्षिकं भक्तमस्ति, तेन स्थातव्यम्।
४६२.०१०. यस्य नास्ति तेनान्यत्र गन्तव्यमिति यतः कोलेनागन्तव्यमिति।
४६२.०११. तेन खलु समयेन वाराणस्यां संधानो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः पूर्ववद्यावद्वैश्रवणधनप्रतिस्पर्धी।
४६२.०१३. तेन कोष्ठागारिक आहूयोक्तह्--भोः पुरुष, भविष्यति मम सपरिवारस्य द्वादश वर्षाणि भक्तमिति? स कथयति--आर्य, भविष्यतीति।
४६२.०१४. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते पूर्ववद्यावद्भोः पुरुष, विन्यस्य प्रव्रजितसहस्रस्य मम द्वादश वर्षाणि भक्तमिति।
४६२.०१६. स कथयति--आर्य, भबिष्यतीति।
४६२.०१६. तेन तेषां प्रतिज्ञातम्।
४६२.०१६. दानशाला मापिताः।
४६२.०१७. पूर्ववत्तत्र दिने दिने प्रत्येकबुद्धसहस्रं भुङ्क्त्
४६२.०१७. तत्रैकः प्रत्येकबुद्धो ग्लानः।
४६२.०१८. सोऽन्यतमस्मिन् दिने नागच्छति।
४६२.०१८. सन्धानस्य दुहिता कथयति--तात, एकोऽद्य प्रव्रजितो नागत इति।
४६२.०१९. स कथयति--पुत्रि, कीदृश इति।
४६२.०१९. सा पृष्ठं विनामयित्वा कथयति--तात, ईदृश इति।
४६२.०२०. यदनया प्रत्येकबुद्धो विनाडितः, तस्य कर्मणो विपाकेन कुब्जा संवृत्ता।
४६२.०२१. पुनरपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त, कुब्जोत्तरया कर्म कृतं येन श्रुतधराअ जातेति? भगवानाह--तेन कालेन तेन समयेन प्रत्येकबुद्धानां यः संघस्थविरः स वाय्वाधिकः।
४६२.०२३. तस्य मुञ्जानस्य पात्रं कम्पत्
४६२.०२३. तस्य संधानदुहित्रा हस्तात्कटानवतार्य स प्रत्येकबुद्ध उक्तह्--आर्य, तैस्तत्पात्रं स्थापयेति।
४६२.०२४. तेन तत्र स्थापितम्।
४६२.०२४. निष्कम्पमवस्थितम्।
४६२.०२५. तया पादयोर्निपत्य प्रणिधानं कृतम्।
४६२.०२५. यथैव तत्पात्रं निष्कम्पमवस्थितम्, एवमेव ममापि संताने ये धर्माः प्रविशेयुः, ते निष्क्रम्पं तिष्ठन्त्वति।
४६२.०२६. यत्तया प्रणिधानं कृतं तस्य कर्मणो विपाकेन श्रुतधरा संवृता॥
४६२.०२८. पुनरपि भिक्षवो भगवन्तं पप्रच्छुह्--किं भदन्त कुब्जोत्तरया कर्म कृतं येन दासीसंवृत्तेति? भगवानाह--अनया भिक्षवस्तत्रैश्वर्यमदमत्तया परिजनो दासीवादेन समुदाचरितः।
४६२.०३०. तस्य कर्मविपाकेन दासी संवृत्ता॥
४६२.०३१. पुनरपि भिक्षवो भगवन्तं पप्रच्छुह्--किं भदन्त अनुपमया कर्म यदेषा निराहारा भूमिगृहे स्थापिता अम्लानगात्री चोत्थिता।
४६२.०३२. भगवानाह--अनुपमयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥
४६३.००१. <४६३>भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके द्वे दारिके अन्योन्यसंस्तुतिके क्षत्रियदारिका ब्राह्मणदारिका च्
४६३.००२. अस्ति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य्
४६३.००३. यावदन्यतमः प्रत्येकबुद्धोऽन्यतमस्मिञ्छान्ते प्रदेशे रात्रिं वासमुपगतः।
४६३.००४. अपरस्मिन् दिवसे पूर्वाह्णे निवास्य पिण्डार्थी प्रचलितः।
४६३.००४. तं दृष्ट्वा ते दारिके प्रसादिते, अस्मै प्रणीतान्नपूर्णं पात्रं प्रयच्छतः।
४६३.००५. तत्कर्मणो विपालेनानुपमा जाता, एका घोषिलस्य गृहपतेर्दुहिता जाता महासुन्दरी श्रीमती नाम्
४६३.००६. एकस्मिन् समये राज्ञा दृष्टा पृष्टा च--कस्येयं कन्या? मान्त्रिभिः कथियम्--घोषिलस्य गृहपतेः।
४६३.००७. ततो घोषिलो गृहपतिः समाहूयोक्तह्--गृहपते, तव दुहितेयं कन्या? स प्राह--मम देव्
४६३.००८. कस्मान्मम न दीयते? दीयतां मह्यम्।
४६३.००९. स प्राह--देव, दत्ता भवतु।
४६३.००९. घोषिलेन गृहपतिना दत्ता।
४६३.००९. उदयनेन वत्सराजेनान्तःपुरं प्रवेश्य महता श्रीसमुदयेन परिणीता।
४६३.०१०. अपरेण समयेन राजा उक्तह्--देव, भिक्षुदर्शनमभिकाङ्क्षामीति।
४६३.०११. स कथयति--आकाङ्क्षसे किं तु भिक्षवो राजकुलं प्रविशान्ति।
४६३.०१२. देव, अहं नाम दारकं प्रवेशिता।
४६३.०१२. सर्वथा यदि भिक्षुदर्शनं न लभे, अद्याग्रेण न भोक्ष्ये न पास्य इति।
४६३.०१३. सा अनाहारतां प्रतिपन्ना।
४६३.०१३. राज्ञा घोषिलो गृहपतिरुक्तह्--गृहपते, न त्वं दुहितरं प्रत्यवेक्षसे? देव, किम्? अनाहारतां प्रतिपन्ना।
४६३.०१४. किमर्थम्? भिक्षुदर्शनमाकाङ्क्षत्
४६३.०१५. तदात्मनो गृहे भक्तं साधित्वा कायाम्(?) भिक्षुसंघमुपनिमन्त्र्य भोजय, अन्तरेण च द्वारं छेदयेति।
४६३.०१६. राज्ञो घोषिलस्य च संसक्तसीमं गृहम्।
४६३.०१६. घोषिलेन गृहपतिना द्वारं छिन्नम्।
४६३.०१७. ततो भूरि कर्म कारयित्वा येन भगवांस्तेनोपसंक्रान्तः।
४६३.०१७. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
४६३.०१८. एकान्तनिषण्णं घोषिलं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
४६३.०१९. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तुष्णीम्।
४६३.०२०. अथ घोषिलो गृहपतिरुत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्--अधिवासयतु मे भगवाञ्छ्वोऽन्तर्गृहे भक्तेन मम निमन्त्रितं सार्धं भिक्षुसंघेन्
४६३.०२२. पूर्ववद्यावद्भगवतो दूतेन कालमारोचयति--समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालां मन्यत इति।
४६३.० हगवानौपधिके स्थितः।
४६३.०२३. शारिपुत्रप्रमुखो भिषुसंघः संप्रस्थितः।
४६३.०२४. पञ्चभिः कारणैर्बुद्धा भगवन्त औपधिके तिष्ठन्ति--अभिनिर्हृतं मन्र्तयते स्म्
४६३.०२५. चतुर्णामायुष्मन्त आज्ञा अकोप्या तथागतस्यार्हतः सम्यक्सम्बुद्धस्य, अरहतो भिक्षोः क्षीणाश्रवस्य उपधिवारकस्य, राज्ञश्च क्षत्रियस्य मूर्ध्नाभिषिक्तस्य्
४६३.०२६. स्मृतिमुपस्थापयति--प्रविशामेति।
४६३.०२७. स प्रविश्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
४६३.०२७. अथ श्रीमती देवी सुखोपनिषण्णं शारिपुत्रप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद्यावन्नीचतरमासनं गृहीत्वा पुरस्तान्निषण्णा धर्मश्रवणाय्
४६३.०२९. अथायुष्माञ्छारिपुत्रः श्रीमतीं देवीं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
४६३.०३०. सा सत्यानि न पश्यति।
४६३.०३०. आयुष्माञ्छारिपुत्रः संलक्षयति--किमास्याः सन्ति कानिचित्कुशलमूलानि? न सन्तीति पश्यति।
४६३.०३१. सन्ति कस्यान्तिके प्रतिबद्धानि? पश्यत्यात्मनः।
४६३.०३२. तस्य धर्मं देशयतो विचारयतश्च सूर्यास्तंगमनसमयो <४६४>जातः।
४६४.००१. भिक्षव उत्थायासनात्प्रक्रान्ताः।
४६४.००१. आयुष्माञ्छारिपुत्रः संलक्षयति--किं चापि भगवता नानुज्ञातम्, स्थानमेतद्विद्यते यदेतदेव प्रत्यक्षं कृत्वा अनुज्ञास्यतीति।
४६४.००२. स विनेयापेक्षया तत्रैवावस्थितः।
४६४.००३. तेन तस्या आशयानुशयं धातुं च प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा श्रीमत्या विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं पूर्ववद्यावत्सर्वं वाद्यं त्रिशरणगमभिप्रसन्नम्।
४६४.००५. अथायुष्माञ्छारिपुत्रः श्रीमतीं सत्येषु प्रतिष्ठाप्य प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः।
४६४.००६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
४६४.००६. एकान्ते निषण्ण आयुष्माञ्छारिपुत्र एतत्प्रकरणं भिक्षवो भगवते विस्तरणारोचयति।
४६४.००७. भगवानाह--साधु साधु शारिपुत्र, सप्तानामाज्ञा अकोप्या--तथागतस्यार्हतः सम्यक्सम्बुद्धस्य, अर्हतो भिक्षोः क्षीणाश्रवस्य, राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य, संघस्थविरस्य, उपधिवारिकस्य, आचार्यस्य, उपाध्यायस्य्
४६४.०१०. अथ भगवाञ्छिक्षाकामतया वर्णं भाषित्वा पूर्ववद्यावत्पूर्विका प्रज्ञप्तः।
४६४.०११. इयं चाभ्यनुज्ञाता--एवं च मे श्रावकैर्विनयशिक्षापदमुपदेष्टव्यम्।
४६४.०११. यः पुनर्भिक्षुरनिर्गतायां रजन्यामनुद्गतेऽरुणे अनिर्हृतेषु रत्नेषु रत्नसंमतेषु वा राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य इन्द्रकीलं वा इद्रकीलसामन्तं वा समतिक्रामेदन्यत्र तद्रूपात्प्रत्ययात्पापान्तिकेति।
४६४.०१३. यः पुनर्भिक्षुरित्युदायी इति, सो वा पुनरन्योऽप्येवंजातीयहनिर्गतायां रजन्यामित्यप्रभातायाम्, अनुद्गत इत्यनुदिते अरुणे इति, अरुणो नीलारुणः पीतारुणस्ताम्रारुणः।
४६४.०१६. तत्र नीलारुणो नीलाभासः, पीतारुणः पीताभासः, ताम्रारुणस्ताम्राभासः।
४६४.०१६. इह तु ताम्रारुणोऽभिप्रेतः।
४६४.०१७. रत्नेषु वेति रत्नान्युच्यन्ते मणयो मुक्ता वैडूर्यं पूर्ववद्यावद्दक्षिणावर्तः।
४६४.०१८. रत्नसंमतेषु वेति रत्नसंमतमुच्यते सर्वं संग्रामावचरशस्त्रं सर्वं च गन्धर्वावचरं भाण्डम्।
४६४.०१९. राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्येति वा राज्ये स्त्र्यपि राज्याभिषिकेणाभिषिक्ता भवति, राजा सा क्षत्रियो मूर्ध्नाभिषिक्तः।
४६४.०२०. क्षत्रियोऽपि ब्राह्मणोऽपि वैश्योऽपि शूद्रोऽपि राज्याभिषेकेणाभिषिक्तो भवति राजा क्षत्रियो मूर्ध्नाभिषिक्तः।
४६४.०२१. इन्द्रकीलं वेति त्रय इन्द्रकीलः।
४६४.०२१. नगरे इन्द्रकीलो राजकुले इन्द्रकीलोऽन्तःपुर इन्द्रकीलश्च्
४६४.०२२. इन्द्रकीलसामन्तं वेति तत्समीपम्।
४६४.०२३. समतिक्रमेदपि विगच्छेत् ।
४६४.०२३. अन्यत्र तद्रूपात्प्रत्ययादिति तद्रूपं प्रत्ययं स्थापयित्वा।
४६४.०२४. पापान्तिकेति दहति पचति यातयति पूर्ववत् ।
४६४.०२४. तत्रापत्तिः कथं भवति? भिक्षुरप्रभाते प्रभातसंज्ञी नगरेन्द्रकीलं समतिक्रामति, आपद्यते दुष्कृताम्।
४६४.०२५. अप्रभाते वैमतिकः, आपद्यते दुष्कृतम्।
४६४.०२६. प्रभाते अप्रभातसंज्ञी, अथापद्यते दुष्कृतम्।
४६४.०२६. प्रभाते वैमतिकः, आपद्यते दुष्कृतम्।
४६४.०२७. भिक्षुरप्रभाते अप्रभातसंज्ञी अन्तःपुरेन्द्रकीलमस्मतिक्रामति आपद्यते पापान्तिकम्।
४६४.०२८. प्रभातेऽप्रभातसंज्ञी आपद्यते दुष्कृतम्।
४६४.०२८. प्रभाते वैमतिकः, आपद्यते दुष्कृतम्।
४६४.०२८. अनापत्तिह्--राजा शब्दयति--देव्यः कुमारा आमात्या अष्टानामन्तरायाणामन्त्यतमान्यतममुपथितं भवति राजा चौरमनुष्यामनुष्यव्यालाग्न्युदकानाम्।
४६४.०३०. अनापत्तिरादिकर्मिकस्येति पूर्ववत् ॥
४६४.०३१. इति श्रीदिव्यावदाने माकन्दिकावदानं समाप्तम्॥
- अवदान ३७ **********
- अवदान ३७ **********
४६५.००१. दिव्३७ रुद्रायणावदानम्।
४६५.००२. बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप्
४६५.००२. द्वे महानगरे पाटलिपुत्रं रोरुकं च्
४६५.००३. यदा पाटलिपुत्रं संवर्तते, तदा रोरुकं विवर्तत्
४६५.००३. रोरुके महानगरे रुद्रायणो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
४६५.००५. सदापुष्पफलवृक्षाः।
४६५.००५. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
४६५.००५. अतीव शस्यसम्पत्तिर्भवति।
४६५.००६. तस्य चन्द्रप्रभा नाम देवी, शिखण्डी पुत्रः कुमारः, हिरुभिरुस्तस्याग्रामात्यौ।
४६५.००७. राजगृहे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
४६५.००८. तस्य वैदेही महादेवी, अजातशत्रुः पुत्रः कुमारः, वर्षकारो ब्राह्मणो मगधमहामात्योऽग्रामात्यः।
४६५.००९. सदापुष्पफलवृक्षाः।
४६५.००९. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
४६५.०१०. अतीव शस्यसम्पत्तिर्भवति। राजगृहाद्वणिजः पण्यमादाय रोरुकमनुप्राप्ताः।
४६५.०१०. अथ राजा रुद्रायणोऽमात्यगणपरिवृतोऽमात्यानामन्त्रयते--भवन्तः, अस्ति कस्यचिदन्यस्यापि राज्ञ एवमविधा जनपदा ऋद्धाश्च स्फीताश्च क्षेमाष्च आकीर्णबहुजनमनुष्याश्च? सदापुष्पफलवृक्षाह्? देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति? अतीव शस्यसम्पत्तिर्भवति? ते वणिजः कथयन्ति--अस्ति देव पूर्वदेशे राजगृहं नगरम्।
४६५.०१४. तत्र राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च्
४६५.०१५. तस्यापि सदापुष्पफलवृक्षाः।
४६५.०१६. देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति।
४६५.०१६. अतीव शस्यसम्पत्तिर्भवति।
४६५.०१७. तस्य महश्रवणादेव तस्यान्तिकेऽनुनय उत्पन्नः।
४६५.०१७. सोऽमात्यानामन्त्रयते--किं भवन्तस्तस्य राज्ञो दुर्लभम्? ते कथयन्ति--देवो रत्नाधिपतिः, स राजा वस्त्राधिपतिः।
४६५.०१८. तस्य रत्नानि दुर्लभानि।
४६५.०१९. तेन तस्य रत्नानां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तह्--प्रियवयस्य, त्वं ममादृष्टसखा।
४६५.०२०. यदा तव किंचिद्रोरुके नगरे करणीयं भवति, मम लेखो दातव्यः।
४६५.०२१. सर्वं तत्परिप्रापयिष्यामि।
४६५.०२१. ते तं प्राभृतमादाय येन राजगृहं तेन प्रक्रान्ताः।
४६५.०२२. अनुपूर्वेण राजगृहमनुप्राप्ताः।
४६५.०२२. तैः सा रत्नपेटा राज्ञो बिम्बिसारस्योपनामिता लेखश्च्
४६५.०२२. राजा बिम्बिसारो लेखं वाचयित्वा अमात्यानामन्त्रयते--किं भवन्तस्तद्राज्ञो दुर्लभम्? अमात्याः कथयन्ति--देवो वस्त्राधिपतिः, स राजा रत्नाधिपतिः।
४६५.०२४. तस्य वस्त्राणि दुर्लभानि।
४६५.०२४. तेन तस्य महार्हाणां वस्त्राणां वस्त्राणां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तह्--प्रियवयस्य, त्वं ममादृष्टसखा।
४६५.०२६. यत्किंचित्तव राजगृहे प्रयोजनं भवति, मम लेखो दातव्यः।
४६५.०२६. तत्सर्वं परिप्रापयिष्यामि।
४६५.०२७. ते तं प्राभृतमादाय येन रोरुकं तेन प्रक्रान्ताः।
४६५.०२७. अनुपूर्वेण रोरुकमनुप्राप्ताः।
४६५.०२८. तैः सा वस्त्रपेटा राज्ञो रुद्तायणस्योपनामिता लेखष्च्
४६५.०२८. स दूतः प्रत्यागतः।
४६५.०२८. अथापरेण समयेन राजा रुद्रायणोऽमात्यगणपरिवृतः।
४६५.०२९. सोऽमात्यानामन्त्रयते--भवन्तः, कीदृशस्तस्य राज्ञो आनाहपरिणाहह्? ते कथयन्ति--यादृश एव देवस्य, अपि तु स राजा स्वयं प्रहर्ता।
४६५.०३० प्रातिसीमैः कीदृशं रजभिः सार्धं संग्रामयति? रुद्रायणस्य राज्ञो मणिवर्म पञ्चाङ्गेपेतोशीतमुष्णसंस्पर्शमुष्णे शोओतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकं च्
४६५.०३२. तेन तस्य तं प्राभृतमनुप्रेषितम् <४६६>लेखश्च दत्तह्--प्रियवयस्य, इदं मया च तव मणिवर्म प्राभृतमनुप्रेषितं पञ्चाङ्गोपेतं शीते उष्णसंस्पर्शमुष्णे शीतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकम्।
४६६.००२. न त्वयैतत्कस्यचिद्दातव्यम्।
४६६.००३. स दूतस्तन्मणिवर्म आदाय लेखं च, येन राजगृहं तेन प्रक्रान्तः।
४६६.००३. अनुपूर्वेण राजगृहमनुप्राप्तः।
४६६.००४. तेन तन्मणिवर्म राज्ञो बिम्बिसारस्योपनीतं लेखश्च्
४६६.००४. राजा बिम्बिसारस्तं दृष्ट्वा विस्मयमापन्नः।
४६६.००५. तेन रत्नपरीक्षका आहूताह्--मूल्यमस्य कुरुत्
४६६.००५. ते कथयन्ति--देव, एकैकरत्नमनर्धोऽयम्।
४६६.००६. धर्मता खलु यस्य न शक्यते मूल्यं कर्तुम्, तस्यैकैकस्य कोटिमूल्यं क्रियत्
४६६.००७. राजा बिम्बिसारो व्यथितः कथयति--किं मया तस्य प्राभृतमनुप्रेषितव्यं भविष्यति? स संलक्षयति--अयं बुद्धो भगवान्।
४६६.००८. स राज्ञः सर्वदस्यानुत्तरज्ञानज्ञो वशिप्राप्तः।
४६६.००९. गच्छामि, बुद्धं भगवन्तं पृच्छामि।
४६६.००९. स तमादाय येन भगवांस्तेनोपसंक्रान्तः।
४६६.००९. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
४६६.०१०. राजा बिम्बिसारो भगवन्तमिदमवोचत्--रोरुके भदन्त नगरे राजा रुद्रायणो नाम प्रतिवसति ममादृष्टसखा।
४६६.०११. तेन मम पञ्चाङ्गोपतमणिवर्म प्राभृतमनुप्रेषितम्।
४६६.०१२. अहं तस्य किं प्राभृतमनुप्रषेयामि? भगवानाह--तथागतप्रतिमां पटे लिखापयित्वा प्राभृतमनुप्रेषय्
४६६.०१३. तेन चित्रकरा आहूयोत्काह्--तथागतप्रतिमां पेटे चित्रयथ्
४६६.०१४. दुरासदा बुद्धा भगवन्तः।
४६६.०१४. ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्।
४६६.०१५. ते कथयन्ति--यदि देवो भगवन्तमन्तर्गृहे भोजयेत्, एवं स्वयं संज्ञापय भगवतो निमित्तमुद्ग्रहीतुम्।
४६६.०१६. राज्ञा बिम्बिसारेण भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः।
४६६.०१६. असेचनकदर्शना बुद्धा भगवन्तः।
४६६.०१७. ते यमेवावयवं भगवतः पश्यन्ति, तमेव पश्यन्तो न तृप्तिं गच्छन्ति।
४६६.०१८. ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्।
४६६.०१९. भगवानाह--महाराज, खेदमापत्स्यन्ते, न शक्यते तथागतस्य निमित्तमुद्ग्रहीतुम्।
४६६.०१९. अपि तु पटकमानय्
४६६.०१९. तेन पटक आनीतः।
४६६.०२०. तत्र भगवता छाया उत्सृष्टा, उक्ताश्च--रङ्गैः पूरयत्
४६६.०२०. तस्याधस्ताच्छरणगमनशिक्षापदानि लखितव्यानि।
४६६.०२१. अनुलोमप्रतिलोमद्वादशाङ्गः प्रतीत्यसमुत्पादो लिखितव्यः।
४६६.०२१. गाथाद्वयं च लिकितव्यम्--
४६६.०२३. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
४६६.०२४. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥
४६६.०२५. अस्मिन् यो धर्मविनये ह्यप्रमत्तश्चरिष्यति।
४६६.०२६. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥
४६६.०२७. यदि कथयति--किमिदम्? वक्तव्यम्--इयमभ्युपपत्तिरियं शिक्षा इयं लोकसंवृतिरियमत्युत्साहता।
४६६.०२८. तैर्यथासंदिष्टं सर्वमभिलिखितम्।
४६६.०२८. भगवता राजा बिम्बिसार उक्तह्--महाराज, रुद्रायणस्य लेखमनुप्रयच्छ--प्रियवय्स्य, इदं ते मया त्रैलोक्यप्रतिविशिष्टं प्राभृतमनुप्रेषितम्।
४६६.०२९. अस्य त्वया अर्धतृतीयानि योजनानि मार्गशोभा कर्तव्यम्।
४६६.०३०. स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्।
४६६.०३१. विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां सत्कारं कृत्वोद्घाटयितव्यम्।
४६६.०३१. ततस्ते महतः पुण्यस्यावाप्तिर्भविष्यतीति।
४६६.०३२. राज्ञा बिम्बिसारेण यथासंदिष्टं लेखो लिखित्वा संप्रेषितः।
४६६.०३२. राज्ञो <४६७>रुद्रायणस्य लेख उपनामितः।
४६७.००१. तेन वाचितः।
४६७.००१. तस्यामर्षः।
४६७.००१. सोऽमात्यानां कथयति--भवन्तः, कीदृशं मम तेन प्रभृतमनुप्रेषितं यस्य सत्कारः कर्तव्यो भविष्यति? संनाहयत चतुरङ्गबलकायम्।
४६७.००३. राष्ट्रापमर्दनमस्य करिष्यामः।
४६७.००३. अमात्याः कथयन्ति--देव, महात्मासौ राजा श्रूयत्
४६७.००४. न शक्यं तेन यद्वा तद्वा प्रतिप्राभृतमनुप्रेषयितुम्।
४६७.००४. आनुपूर्वी तावत्क्रियताम्।
४६७.००५. यदि देवस्य न चित्तपरितोषो भविष्यति, तत्र कालज्ञा भविष्यामः।
४६७.००५. एवं क्रियताम्।
४६७.००६. तेनार्धतृतीयानि योजनानि मार्गशोभा कृता।
४६७.००६. स्वयमेव चतुरङ्गबलकायेन प्रत्युद्गम्य प्रवेशितः।
४६७.००७. विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां कृत्वोद्धाटिता।
४६७.००७. मध्यदेशाद्वणिजः पण्यमादाय तत्रानुप्राप्तः।
४६७.००८. तैर्बुद्धप्रतिमां दृष्ट्वा एकरवेण नादो मुक्तह्--नमो बुद्धायेति।
४६७.००९. तस्य बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपाण्याहृष्टानि।
४६७.००९. स कथयति--क एष भवन्तो बुद्धो नाम? ते कथयन्ति--देव, शाक्यानां कुमार उत्पन्नोऽस्ति हिमवत्पार्श्वे नद्या भागीरथ्यास्तीरे कपिलस्य ऋषेराश्रमपदस्य नातिदूर्
४६७.०११. स ब्राहमणैर्नैमित्तिकैर्विपश्चिकैर्व्याकृतः।
४६७.०१२. सचेद्गृही अगारमध्यावसिष्यति, राजा भविष्यति चक्रवर्ती चतुरङ्गैर्विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः।
४६७.०१३. तस्येमान्येवम्रूपाणि सप्तरत्नानि भवन्ति, तद्यथा--चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्।
४६७.०१४. पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्।
४६७.०१५. स इमामेव समुद्रपर्यन्तां महापृथ्वींखिलामलण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्मेण शमेनाभिनिर्जित्य अध्यावसिष्यति।
४६७.०१६. सचेत्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्सम्बुद्धो विघुष्टशब्दो लोक्
४६७.०१८. स एष बुद्धो नाम्
४६७.०१८. तस्यैषा प्रतिभा।
४६७.०१९. इदं किम्? अभ्युपपत्तिः।
४६७.०१९. इदं किम्? शिक्षापदम्।
४६७.०१९. इदं किम्? लोकस्य प्रवृत्तिनिवृत्ती।
४६७.०२०. इदं किम्? अत्युत्साहना।
४६७.०२०. तेन प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमः सुगृहीतः कृतः॥
४६७.०२१. अथ रुद्रायणो राजा सामात्यः प्रत्यूषसमये सर्वार्थान् सर्वकर्मान्तान् प्रतिप्रस्रभ्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य्
४६७.०२२. स इममेव द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयति, यदुत अस्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते यदुत अविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवति।
४६७.०२४. तेनेमं द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
४६७.०२६. स दृष्टसत्यो गाथां भाषते--
४६७.०२७. भूरत्नेन हि बुद्धेन प्रज्ञाचक्षुर्विशोधितम्।
४६७.०२८. नमस्तस्मै सुवैद्याय चिकित्सा यस्य हीदृशी॥३॥
४६७.०२९. तेन राज्ञो बिम्बिसारस्य संदिष्टम्--प्रियवयस्य, त्वामागम्य मयोद्द्धृतो नरकतिर्यक्प्रेतेभ्यः पादः, प्रतिष्ठापितो देवमनुष्येषु।
४६७.०३०. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
४६७.०३२. भिक्षुदर्शनमाकाङ्क्षामि।
४६७.०३२. तदर्हसि भिक्षुं प्रेषयितुम्।
४६७.०३२. अथ स राजा बिम्बिसारो येन भगवांस्तेनोपसंक्रान्तः।
४६८.००१. <४६८>उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
४६८.००१. एकान्तनिषण्णो भगवन्तमिदमवोचत्--रुद्रायणेन भदन्त राज्ञा सत्यानि दृष्टानि।
४६८.००२. तेन मम संदिष्टम्--भिक्षुदर्शनमाकाङ्क्षामीति।
४६८.००३. भगवान् संलक्षयति--कतमस्य भिक्षो रुद्रायणो राजा सपरिवारो विनेयो रैरुकनिवासी च जनकायह्? कात्यायनस्य भिक्षोः।
४६८.००४. तत्र भ्गवानायुष्मन्तं महाकात्यायनमामन्त्रयते--समन्वाहर कात्यायन रौरुके नगरे रुद्रायणं राजानं सपरिवारं रौरुकनिवासिनं च जनकायम्।
४६८.००६. अधिवासयत्यायुष्मान्महाकात्यायनः।
४६८.००६. भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
४६८.००७. अथायुष्मान्महाकात्यायनस्तस्या एव रात्र्या अत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत् ।
४६८.००८. राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः परिभुक्तं शयनं प्रतिशाम्य समादाय पात्रचीवरं पञ्चशतपरिवारो येन रौरुकं तेन चारिकां प्रक्रान्तः।
४६८.०१०. राज्ञा बिम्बिसारेण रुद्रायणस्य राज्ञो लेखोऽनुप्रेषितः।
४६८.०११. प्रियवयस्य, एष ते भिक्षुर्मया शास्तृकल्पो महाश्रावकोऽनुप्रेषितः।
४६८.०१२. अस्य त्वयार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च्
४६८.०१२. स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यः।
४६८.०१३. पञ्च विहारशतानि कर्तव्यानि।
४६८.०१३. पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दातव्यानि।
४६८.०१४. पञ्च पिण्डशतानि प्रज्ञापयितव्यानि।
४६८.०१५. अतस्ते महतः पुण्यस्यावाप्तिर्भविष्यति।
४६८.०१५. तेनार्धतृतीयानि योजनानि मार्गशोभा कृता, नगरशोभा कृता, पञ्च विहारशतानि, येन एकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रोरुकं नगरं प्रवेशितः।
४६८.०१७. बहिर्नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि, विस्तीर्णावकाशे च पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता।
४६८.०१९. अयुष्मान्महाकात्यायनः पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
४६८.०२०. अनेकानि प्रणिशतसहस्राणि संनिपतितानि।
४६८.०२१. कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि।
४६८.०२१. तत आयुष्मता महाकात्यायनेन तस्याः परिषद आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महाविशेषोऽधिगतः।
४६८.०२३. कैश्चिच्छ्रोतापत्तिफलम्, कैश्चिद्नागामिफलम्, कैश्चित्प्रव्रह्य सर्वल्केशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ।
४६८.०२६. यद्भूयसा सा परिषद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥
४६८.०२७. रौरुके नगरे तिष्यः पुष्यश्च गृहपती वसतः।
४६८.०२७. तौ येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्तौ।
४६८.०२८. उपसंक्रम्य आयुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ।
४६८.०२९. तिष्यपुष्यौ गृहपती आयुष्मन्तं महाकात्यायनमिदमवोचताम्--लभेवहि आर्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
४६८.०३०. चरेव आर्यमहाकात्यायन भवतोऽन्तिके ब्रह्मचर्यमिति।
४६८.०३१. तावयुष्मता कात्यायनेन प्रव्रजितावुपसम्पादितौ, अववादो दत्तः।
४६८.०३१. ताभ्यां युज्यमानाभ्यां व्यायच्छमानाभ्यां घटमानाभ्यामिदमेव पञ्चगण्डकं संसारचक्रं चलाचलम् <४६९>विदित्वा सर्वसंस्कारगतीः शतशः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
४६९.००२. अर्हन्तौ संवृत्तौ त्रैधातुकवीरागौ समलोष्टकाञ्चनावाकाशपाणिसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भ्वलाभलोभसत्कारपरान्मुखौ।
४६९.००४. सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्यवभिवाद्यौ च संवृत्तौ।
४६९.००४. तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ।
४६९.००६. तयोर्ज्ञातृभिः शरीरपूजां कृर्त्वा द्वौ स्तूपौ कारितौ--एकस्तिष्यस्य, द्वितीयः पुण्यस्य् ।
४६९.००७. रुद्रायणो राजा दिने दिने आयुष्मतो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा अन्तःपुरस्यारोचयति--आर्यो महाकात्यायनो मधुरमधुरं धर्मं देशयति क्षौद्रमिव मधुरं प्रप्रीणयतीति।
४६९.००९. ताः कथयन्ति--देवस्य सफलो बुद्धोत्पादः।
४६९.००९. कथम्? येन त्वं धर्मं शृणोषि।
४६९.०१०. यद्येवम्, यूयं कस्माञ्शृणुथ? देव, वयं ह्रीमन्त्यः।
४६९.०१०. कथं वयं तत्र गत्वा धर्मं शृणुमह्? यद्यार्यो महाकात्यायन इहैवागत्य धर्मं देशयेत्, एवं वयमपि शृणुयामिति।
४६९.०११. रुद्रायणेन राज्ञा आयुष्मान्महाकात्यायन उक्तह्--मम आर्य सान्तःपुरमिच्छति श्रोतुम्।
४६९.०१२. स कथयति--महाराज, न भिक्षवोऽन्तःपुरं प्रविश्य धर्मं देशयन्ति।
४६९.०१३. प्रतिक्षिप्तो भगवता अन्तःपुरप्रवेशः।
४६९.०१४. आर्य, अत्र कोऽन्तःपुरस्य धर्मं देशयति? महाराज, भिक्षुण्यः।
४६९.०१४. रुद्रायणराज्ञा बिम्बिसारस्य राज्ञो लेखोऽनुप्रेषितह्--प्रियवयस्य, अन्तःपुरमिच्छति धर्मं श्रोतुम्।
४६९.०१५. तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुम्।
४६९.०१६. बिम्बिसारो राजा तं लेखं वाचयित्वा येन भग्वांस्तेनोपसंक्रान्तः।
४६९.०१६. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
४६९.०१७. एकान्तनिषण्णो राजा बिम्बिसारो भगवन्तमिदमवोचत्--रुद्रायणेन भगवन् राज्ञा लेखोऽनुप्रेषितह्--अन्तःपुरमिच्छति धर्मं श्रोतुम्।
तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुमिति।
४६९.०१९. तदत्र कथं प्रतिपत्तव्यमिति? भगवान् संलक्षयति--कतरस्या भिक्षुण्या रुद्रायणस्य राज्ञो अन्तःपुरपरिजनो विनेयो रौरुकनिवासी च स्त्रीजन इति? पश्यति शैलाया भिक्षुण्याः।
४६९.०२१. तत्र भगवाञ्छैलां भिक्षुणीमामन्त्रयते--समन्वाहर शैले रौरुके नगरे रुद्रायणस्य राज्ञोऽन्तःपुरजनं रौरुकनिवासिनं स्त्रीजनमिति।
४६९.०२२. एवं भदन्तेति शैला भिक्षुणी भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्ता।
४६९.०२४. अथ शैला भिक्षुणी तस्या एव रात्रेर्त्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय चरित्वा कृतभक्रकृत्या पञ्चाद्भक्तपिण्डपातप्रतिक्रान्ता यथापरिभुक्तं शयनासनं प्रतिसमय्य समादाय पात्रचीवरं पञ्चशतपरिवारा येन रौरुकं नगरं तेन चारिकां प्रक्रान्ता।
४६९.०२७. बिम्बिसारेण च राज्ञा रुद्रायणस्य राज्ञो लेखोऽनुप्रेषितह्--प्रियवयस्य, एषा ते मया महाश्राविका शास्त्रानुगता पञ्चशतपरिवारा प्रेषिता।
४६९.०२८. अस्यां त्वयार्धरृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च्
४६९.०२९. स्वयमेव च चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्।
४६९.०२९. अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारयितव्यानि, पञ्च मञ्चपीठशतानि, वृषिकोच्चबिम्बोपधानचतुरस्रकशतानि दातव्यानि, पञ्च पिण्डपातशतानि प्रज्ञापयितव्यानि।
४६९.०३१. अतस्ते पुण्यस्यावाप्तिर्भविष्यतीति।
४६९.०३२. रुद्रायणेन राज्ञा लेखं वाचयित्वा प्रामोद्यजातेनार्धतृतीयानि योजनानि मार्गशोभा कारिता।
४७०.००१. अनेकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रौरुकं नगरं प्रवेशिता।
४७०.००२. अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोषबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि।
४७०.००३. शैला भिक्षुणी रुद्रायणस्य राज्ञोऽन्तःपुरं प्रविश्य दिने दिनै धर्मं देशयति।
४७०.००४. रुद्रायणो राजा वीणायां कृतावी, चन्द्रप्रभा देवी नृत्य्
४७०.००५. यावदपरेण समयेन रुद्रायणो राजा वीणां वादयति, चन्द्रप्रभा देवी नृत्यति।
४७०.००५. तेन तस्या नृत्यन्त्या बिनाशलक्षणं दृष्टम्।
४७०.००६. स तामितश्चामुतश्च निरीक्ष्य संलक्षयति--सप्ताहस्यात्ययात्कालं करिष्यति।
४७०.००७. तस्य हस्ताद्वीणा स्रस्ता, भूमौ निपतिता।
४७०.००७. चन्द्रप्रभा देवी कथयति--देव, मा मया दुर्नृत्यम्? देवि, न त्वया दुनृत्यम्।
४७०.००८. अपि तु मया तव नृत्यन्त्या विनाशलक्षणं दृष्टम्--सप्तमे दिवसे तव कालत्रिया भवतीति।
४७०.००९. चन्द्रप्रभा देवी पादयोर्निपत्य कथयति--देव यद्येवम्, कृतोपस्थानाहं देवस्य्
४७०.०१०. यदि देवोऽनुजानीयात्, अहं प्रव्रजेयमिति।
४७०.०१०. स कथयति--चन्द्रप्रभे, समयतोऽनुजानामि।
४७०.०११. यदि तावत्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोषि, एष एव ते दुःखान्तः।
४७०.०१२. अथ सावशेषसम्योजना कालं कृत्वा देवेषूपपद्यसे, देवभूतया ते ममोपदर्शयितव्यमिति।
४७०.०१३. सा कथयति--देव, एवं भवत्विति।
४७०.०१३. सा रुद्रायणेन राज्ञा शैलाया भिक्षुण्याः समर्पिता--आर्यचन्द्रप्तभा देवी आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्चुणीभावम्।
४७०.०१५. तदर्हसि तां प्रव्राजयितुमुपसम्पादयितुमिति।
४७०.०१५. शैला भिक्षुणी कथयति--एवं भवतु, प्रब्राजयामीति।
४७०.०१६. तयासौ प्रव्राजिता उपसम्पादिता च्
४७०.०१६. समन्वाहृत्य चाववादो दत्तह्--मरणसंज्ञां भावयेति।
४७०.०१७. चन्द्रप्रभा देवी मरणसंज्ञां भावयितुमारब्धा।
४७०.०१७. सा सप्तमे दिवसे कालगता चातुर्महाराजिकेषु देवेषूपपन्ना।
४७०.०१८. धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य, त्रीणि चित्तान्युत्पद्यन्ते--कुतश्च्युतः, कुत्रोपपन्नः, केन कर्मणेति।
४७०.०१९. चन्द्रप्रभा देवकन्या संलक्षयति--कृतोऽहं च्युता? मनुष्येभ्यः।
४७०.०२०. कुत्रोपपन्ना? चातुर्महाराजिकेषु देवेषु।
४७०.०२१. केन कर्मणा? भगवतः शासने ब्राह्मचर्यं चरित्वेति।
४७०.०२१. तस्या एतदभवत्--तदप्रतिरूपं स्याद्यदहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रमितुम्।
४७०.०२२. यन्न्वहमपर्युषितपरिवासैव भगवन्तं दर्शनायोपसंक्रामेयमिति।
४७०.०२३. अथ चन्द्रप्रभा देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्री तामेव रात्रीं दिव्यानामुत्पलकुमुदपुण्डरीकमान्दारवाणामुत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दककनिवापमुदारेणावभासेनावभास्य भगवन्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय्
४७०.०२६. भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चन्द्रप्रभया देवकन्यया विंशतिशिखरसमुद्गतंसत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्।
४७०.०२८. सा दृष्टसत्या त्रिरुदानमुदानयति--इदमस्माकं भदन्त, न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर्नेष्टैर्नस्वजनबन्धुवर्गैर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्।
४७०.०३०. उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्टापिता देवमनुष्येषु।
४७०.०३२. आह च--
४७१.००१. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदुःखयुक्तः।
४७१.००३. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥४॥
४७१.००५. त्वदाश्रयादाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः।
४७१.००७. प्राप्तं च शान्तं पदमार्यकान्तं तीर्णश्च दुःखार्णवपारमस्मि॥५॥
४७१.००९. जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय्
४७१.०११. भवसहस्रसुदुर्लभदर्शन स्फलमद्य मुने तव दर्शनम्॥६॥
४७१.०१३. अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जारहर्षा।
४७१.०१५. परिगम्य प्रदक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम् ।७॥
४७१.०१७. अथ चन्द्रप्रभा देवकन्या वणिगिव लब्धलाभः, सस्यसम्पन्न इव कर्षकः, शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरः, यया विभूत्या भगवत्सकाशामागता तयैव विभूत्या स्वर्भवनं संप्रस्थिता।
४७१.०१९. तस्या एतदभवत्--मया रुद्रायणस्य राज्ञः प्रतिज्ञातमुपदर्शयिष्यामीति।
४७१.०२०. अथ चन्द्रप्रभा देवकन्या येन राजा रुद्रायणस्तेनोपसंक्रान्ता।
४७१.०२०. तेन खलु समयेन रुद्रायणो राजा एकाकी गृहस्योपरितलके शयितः।
४७१.०२१. स तया उदारावभासं कृत्वा अच्छटाशब्देन प्रतिबोधितः।
४७१.०२२. स मिद्धावस्थलोचनापरिस्फुटोऽविज्ञातः कथयति--का त्वमिति? सा कथयति--अहं चन्द्रप्रभेति।
४७१.०२३. राजा कथयति--आगच्छ, परिचारयाम इति।
४७१.०२३. सा कथयति--देव, च्युताहं कालगता चातुर्महाराजिकेषु देवेषूपपन्ना।
४७१.०२४. यदीच्छसि मया सार्धं समागमम्, भगवतोऽन्तिके प्रव्रज्
४७१.०२५. यदि तावद्दृष्टधर्मा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यसे, स एव तेऽन्तो दुखस्य्
४७१.०२६. अथ सावशेषसम्योजनः, कालं कृत्वा चार्तुर्महाराजिकेषु देवेषूपपत्स्यस्
४७१.०२६. तत्र ते मया सार्धं समागमो भविष्यति।
४७१.०२७. इत्युक्त्वा तत्रैवान्तर्हिता।
४७१.०२७. रुद्रायणो राजा कृत्स्नां रात्रिं प्रव्रज्यामनुविचिन्तयन् काल्यमेवोत्थाय अमात्यानामन्त्रयते--पश्यत भवन्तः, चन्द्रप्रभा देवी क्व तिष्ठतीति? ते कथयन्ति--देव, कालगतेति।
४७१.०२९. रुद्रायणः संलक्षयति--न मम प्रतिरूपं स्याद्यदहं देवताचोदितोऽहमगारमध्यावसेयम्।
४७१.०३०. संनिधानी कालपरिभोगेन वा कामान् परिभुञ्जीयम्।
४७१.०३१. यन्न्वहं शिखण्डिनं कुमारं राज्येऽभिषिच्य केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति।
४७१.०३२. तेन हिरुभिरुकावग्रामात्यौ द्दुतनाहूतोक्तौ <४७२>भवन्तौ, यादृश एव मम शिखण्डी कुमारः पुत्रः, तादृश एव युवयोः।
४७२.००१. स एष युवाभ्यामहितान्निवारयितव्यो हिते च संनियोजयितव्यः।
४७२.००२. अहं प्रव्रजामि स्वाख्याते धर्मविनये इति।
४७२.००२. एतौ साश्रुकण्ठौ ब्यवस्थितौ।
४७२.००३. शिखण्ड्यपि कुमारोऽभिहितह्--पुत्र, यथैव त्वं मम वचनं श्रोतव्यं कर्तव्यं मन्यसे, तथा अनयोरपि हिरुभिरुकयोरग्रामात्ययोर्वचनं श्रोतव्यं कर्तव्यं मन्यथाः।
४७२.००४. अहं प्रव्रजामि स्वाख्याते धर्मविनय्
४७२.००५. इति श्रुत्वा सोऽपि साश्रुकण्ठो व्यवस्थितः।
४७२.००५. ततो रुद्रायणेन राज्ञा रौरुके नगरे घण्टावधोषणं कारितम्--शृण्वन्तु भवन्तो रौरुकनिवासिनः पौरा नानादेशाभ्यागतश्च जनकायः।
४७२.००७. अहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यामि।
४७२.००८. भूयशः पुत्रमाह--पुत्र, त्वया राज्यं कारयता कस्यचिदपराध्यं न क्षन्तव्यमिति।
४७२.००९. अनुरक्तपौरजनपदोऽसौ राजा।
४७२.००९. श्रुत्वा सर्व एव रौरुकनिवासी जनकायोऽन्यश्च नानादेशाभ्यागातः साश्रुकण्ठो व्यवस्थितः।
४७२.०१०. ततो रुद्रायणो राजा शिखण्डिनं कुमारं राज्ये प्रतिष्ठाप्य बन्धुजनं क्षमापयित्वा श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा पण्यानि कृत्वा एकेन पुरुषेणोपस्थायकेन राजगृहाभिमुखह्{सम्प्रस्थितह्}।
४७२.०१२. ततः शिखण्डी राजा सान्तःपुरामात्यपौरजनपदोऽन्यश्च नानादेशाभ्यागतो जनकायः पृष्ठतः पृष्ठतः समनुबद्धः।
४७२.०१३. सोऽनेकैः प्रणिशतसहस्रैरनुगम्यमानो रौरुकान्नगरान्निष्क्रम्य अन्यतमास्मिन्नुद्याने विविधतरुषण्डमण्डिते नानापुष्पसलिलसम्पन्ने हंसक्रोञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनिर्घोषिते मुहूर्तमास्थाय रौरुकं नगरमवलोक्य शिखण्डिनं राजानमामन्त्रयते--पुत्र, मया धर्मेण राज्यं कारितम्, येन मे इयन्ति प्रणिशतसहस्राणि पृष्ठतोऽनुवद्धानि।
४७२.०१७. तत्त्वयापि धर्मेण राज्यं कारयितव्यमिति।
४७२.०१७. सोऽपि जनकायः समाश्वास्योक्तह्--भवन्तः, एष युष्माकं राजा समनुयुक्तो मया।
४७२.०१८. निवर्तते, सुखं प्रतिवत्स्यथ, इत्युक्त्वा संप्रस्थितः।
४७२.०१९. राजा शिखण्डी सान्तःपुरकुमारामात्यपौरजनपदोऽश्रुपरुयाकुलेक्षणो मुहूर्मुहूर्निवर्त्य निरीक्षमाणो रौरुकं नगरं प्रतिनिवृत्तः।
४७२.०२०. ततो रुद्रायणो राजा अनुपूर्वेण राजगृहं नगरमनुप्राप्तः।
४७२.०२१. तेनोद्याने स्थित्वा स पुरुष उक्तह्--गच्छ भोः पुरुष, राज्ञो बिम्बिसारस्य गत्वा निवेदय--रुद्रायणो नाम उद्याने तिष्ठतीति।
४७२.०२२. तेन पुरुषेण गत्वा राज्ञो बिम्बिसारस्य निवेदितम्--देव, रुद्रायणो राजा उद्याअने तिष्ठतीति, स राजा श्रुत्वा सहसैवोत्थितः पौरुषानामन्त्रयते--भवन्तः, महासाधनो राजा अप्रतिसंविदित एवागतः।
४७२.०२४. न युष्माकं केनचिद्विज्ञातिति? स कथयति--देव, कुतोऽस्य साधनम्? आत्मना द्वितीय आगत इति।
४७२.०२५. राजा बिम्बिसारः संलक्षयति--न मम प्रतिरूपं स्याद्यदहं राहानं क्षत्रियं मूर्ध्नामिषिक्तमेवमेव प्रवेशयेयम्।
४७२.०२७. महता सत्कारेण प्रवेशयामीति विदित्वा मार्गशोभां बगरशोभां च कारयित्वा चतुरङ्गेन बलकायेन प्रत्युद्गतः।
४७२.०२८. कण्ठे परिष्वज्य हस्तिस्कन्धे आरोप्य राजगृहं महानगरं प्रवेशितः।
४७२.०२९. नानागन्धपरिभावितेनोदकेन स्नापितः।
४७२.०२९. राजार्हैवस्त्रैर्गन्धमाल्यविलेपनैश्च समलंकृत्य भोजितः।
४७२.०३०. मार्गश्रमे प्रतिविनोदिते उक्तह्--प्रियवयस्य, स्फीतं राज्यमपास्य अन्तःपुरं कुमारानामात्यान् पौरजनपदान् किमिहागमनप्रयोजनम्? मा केनचिद्भूम्यन्तरेण राज्ञा राष्ट्रावमर्दनः कृतह्? कुमारेण वा केनचिद्दुष्टामात्यविग्राहितेन राज्याभिनन्दिना पराक्रान्तमिति? स कथयति--वयस्य, <४७३>आकङ्क्षामि स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
४७३.००१. इति श्रुत्वा राजा बिम्बिसार आत्तमनाः पूर्वकायमभ्युन्नमय्य दक्षिणबाहुमाभिप्रसार्योदानमुदानयति--अहो बुद्धः, अहो धर्मः, अहो संघहहो धर्मस्य स्वाख्यातता, यत्रेदानीमेवंविधाः पुरुषाः स्फीतं राज्यमपहाय स्फीतमन्तःपुरं विस्तीर्णस्वजनबन्धुवर्गं स्फीतानि च कोशकोष्ठागाराण्यपहाय आकाङ्क्षन्ते स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
४७३.००५. इत्युक्त्वा राजानं रुद्रायणं समादाय येन भगवांसेत्नोपसंक्रान्तः।
४७३.००६. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति।
४७३.००७. अद्राक्षीद्भगवान् राजानं मागधं श्रेण्यं बिम्बिसारं दूरादेव्
४७३.००७. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षवो राजा बिम्बिसारः सप्राभृत आगच्छति।
४७३.००८. नास्तितथागतस्यैवंविधः प्राभृतो यथा विनेयप्राभृतः।
४७३.००९. इत्युक्त्वा तूष्णीमवस्थितः।
४७३.००९. राजा बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः।
४७३.०१०. एकान्तनिषण्णो राजा बिंविसारो भगवन्तमिदमवोचत्--अयं भदन्त राजा रुद्रायण आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
४७३.०११. तं भगवान् प्रव्राजयतु, उपसम्पादयतु अनुकम्पामुपादायेति।
४७३.०१२. स भगवता एहिभिक्षुकया आभाषितह्--एहि भिक्षो, चर ब्राह्मचर्यमिति।
४७३.०१३. स भगवतो वाचावसाने एव मुण्डः संवृत्तः संघाटीप्रावृतः पात्रकरव्यग्रहस्तो वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थितः॥
४७३.०१५. एहीति चोक्तः स तथागतेन मुण्डश्च संघाटिपरिवृतदेहः।
४७३.०१७. सद्यः प्रशान्तेन्द्रय एव तस्थौ एवं स्थितो बुद्धो मनोरथेन् ।८॥
४७३.०१९. आयुष्मान् रुद्रायणः पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्टाय प्राविक्षत् ।
४७३.०२०. स महाजनकायेन दृष्टः।
४७३.०२०. एष च शब्दो राजगृहे नगरे समन्ततो विसृतह्--रुद्रायणो राजा भगवता प्रव्रजितः, स राजगृहं भिक्षार्थी प्रविष्टः।
४७३.०२१. इति श्रुत्वा अनेकानि प्राणिशतसहस्राणि संनिपतितानि।
४७३.०२२. अन्तर्भवनविचारिण्योऽपि योषितो वातायनगवाक्षवेदिकास्ववस्थिता निरीक्षितुमारब्धाः।
४७३.०२३. अमात्यै राज्ञो बिम्बिसारस्य निवेदितम्--देव, रुद्रायणो राजा राजगृहं पिण्डाय प्रविष्टोऽनेकैः प्राणिशतसहस्रैः परिवृतस्तिष्ठतीति।
४७३.०२४. श्रुत्वा च पुना राजा बिम्बिसारो येन रुद्रायणो भिक्षुस्तेनोपसंक्रान्तः।
४७३.०२५. उपसंक्रम्य रुद्रायणं भिक्षुमिदमवोचत्--
४७३.०२६. भुक्त्वा ग्रामसहस्राणि रौरुकं च नराधिप्
४७३.०२७. उत्सृष्टं पिण्डमेषाणः कच्चिन्न परितप्यस्।९॥
४७३.०२८. भुक्त्वा शतपले पात्रे सौवर्णे राजतेऽथ वा।
४७३.०२९. भुञ्जानो मृन्मये पात्रे कच्चिन्न परितप्यस्।१०॥
४७३.०३०. शालीनामोदनं भुक्त्वा शुचि मांसोपसेवितम्।
४७३.०३१. भुञ्जानः शुष्ककुल्माषान् कच्चिन्न परितप्यस्।११॥
४७४.००१. <४७४>हित्वा कौशेयकर्पासान् क्षौमं कौटुम्बकाशिकान्।
४७४.००२. धारयन् पांशुकूलानि कच्चिन्न परितप्यस्।१२॥
४७४.००३. कूटागारे शायित्वा त्वं निर्वाते स्पर्शितागत् ।
४७४.००४. आसीनो वृक्षमूलेषु कच्चिन्न परितप्यस्।१३॥
४७४.००५. पर्यङ्केऽवशयित्वा त्वं मृदुके तूलसंनिभ्
४७४.००६. तृणसंस्तरे शयानः कच्चिन्न परितप्यस्।१४॥
४७४.००७. भार्यां सदृशिकां गृद्यामाश्रवां वै प्रियंवदाम्।
४७४.००८. रुदन्तीं विप्रहाय त्वं कच्चिन्न परितप्यस्।१५॥
४७४.००९. यानैस्त्वं हस्तिग्रीवाभिरश्वैरपि रथैरपि।
४७४.०१०. पद्भ्यां परिभ्रमन् भूमौ कच्चिन्न परितप्यस्।१६॥
४७४.०११. कोष्ठागाराणि कोशं च बहुवित्तं प्रहाय वै।
४७४.०१२. आकिंचन्यमनुप्राप्तः कच्चिन्न परितप्यस्।१७॥ इति।
४७४.०१३. रुद्रायणः प्राह--
४७४.०१४. अनृद्धिर्दमयत्येनं सचेद्भवति दुर्दमः।
४७४.०१५. परभोजनभुञ्जानः कथं दमयते युगम्॥१८॥ इति।
४७४.०१६. राजा बिम्बिसारः प्राह--
४७४.०१७. किं नु त्वं दुर्मना राजन् किं दीन इव भाषस्
४७४.०१८. ददाम्युपार्धराज्यं ते भुङ्क्ष्व भोगपरायण् ।१९॥
४७४.०१९. किं नु त्वं दुर्मना राहन् किं दीन इव भाषस्
४७४.०२०. ददामि प्रवरान् भोगान् यान् कांश्चिन्मनसेच्छसि॥२०॥ इति।
४७४.०२१. रुद्रायण प्राह--
४७४.०२२. न राजन् कृपणो लोके धर्मकायेन संस्पृशेत् ।
४७४.०२३. देव त्रिपथनिराशी(?) ध्रुवं तस्य विधीयत् ।२१॥
४७४.०२४. यस्तु धर्मविरागार्थमधर्मे निरतो नृपः।
४७४.०२५. स राजन् कृपणो ज्ञेयस्तमस्तमःपरायणः॥२२॥
४७४.०२६. शृणु मे त्वं महाराज धर्मता देशयाम्यहम्।
४७४.०२७. श्रुत्वा धर्मं ततो ज्ञेयो यदि त्वं प्रीतिमेष्यसि॥२३॥
४७४.०२८. निर्गुणस्य शरीरस्य एक एव महागुणः।
४७४.०२९. यथा यथा विधार्यं ते तत्तथैवानुवर्तत् ।२४॥
४७४.०३०. दशेमे वर्षदशाः पुरुषस्यासु निरुच्यत्
४७४.०३१. त्रीटा तत्र रतिः का वा पुत्रपरधनेषु वा॥२५॥
४७५.००१. <४७५>पुत्राद्वेषिणीयामाहुर्भार्यया कृतिरुच्यत्
४७५.००२. शौरा धनं प्रार्थयन्ते राजन्मुक्तोऽस्मि बन्धनात् ॥२६॥
४७५.००३. न भैषज्यानि त्रायन्ते न धनं ज्ञातयो न च्
४७५.००४. न सर्वविद्या न बलं न शौर्यं त्रायतेऽन्तकात् ॥२७।
४७५.००५. देवापि सन्तीह महानुभावाः स्थानेच्विहोच्चेषु चिरायुषोऽपि।
४७५.००७. आयुःक्षयान्तेऽपि ततश्च्यवन्ते मुच्येत को नेह शरीरभेदात् ॥२८॥
४७५.००९. राज्यानि कृत्वापि महानुभावा वृष्ण्यन्धकाः कुरवश्च पाण्डवाश्च्
४७५.०११. संपन्नचित्ता यशसा ज्वलन्तस्ते न शक्ता मरणं नोपगन्तुम्॥२९॥
४७५.०१३. न सम्यमेन तपसा न राजन्न कर्मणा न राजन्न कर्मणा वीर्यपराक्रमेण वा।
४७५.०१५. न वित्तपूगैर्न धनैरुदारैः शक्यं कदाचिन्मरणाद्विमोक्तम्॥३०॥
४७५.०१७. नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य्
४७५.०१९. न विद्यते स पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत मृत्युः॥३१॥
४७५.०२१. नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रचिश्य्
४७५.०२३. न विद्यते स पृथिवीप्रदेशो यत्र स्थितं न प्रसहेत कर्म् ।३२॥
४७५.०२५. यानीमान्यपविद्धानि विक्षिप्तानि दिशो दिश्
४७५.०२६. कपोतवर्णान्यस्थीनि तानि दृष्ट्वेह का रतिः॥३३॥
४७५.०२७. इमानि यान्युपस्थानानि अलाबुरिव सेरभ्
४७५.०२८. शङ्खवर्णानि शीर्षाणि तानि दृष्ट्वेह का रतिः॥३४॥
४७५.०२९. यमातपे छादयसे शीते यमुपगूहस्
४७५.०३०. एवं ते प्रियमात्मानं राजन्मृत्युर्हनिष्यति॥३५॥
४७६.००१. <४७६>यावन्मृत्योर्वशं भुङ्क्ते परिधत्ते ददाति वा।
४७६.००२. तद्धि तस्य स्वकं ज्ञेयमन्यन्नित्यं विगच्छति॥३६॥
४७६.००३. असाधारणमन्येषामशौराहरणं निधिम्।
४७६.००४. मर्त्यो निदह्याद्दानेन अन्येन सुकृतेन वा॥३७॥
४७६.००५. पुरा हि त्वां व्याघ्र इव मृगं निहत्य व्याधिर्जरा कर्षति अन्तकश्च्
४७६.००७. न ते मित्राण्यपनेष्यन्ति रोगं संगम्य सोदर्यगणाश्च सर्व् ।३८॥
४७६.००९. यदेव लब्धाधिकमस्य भवति धनं धान्यं रजतं जातरूपम्।
४७६.०११. दायाद्यमेवानुविचिन्तयन्ति पुत्राः सदारा अनुजीविनश्च् ।३९॥
४७६.०१३. सचेदृणं भ्वति पितुर्मृतस्य प्रियाः सुता नास्य वह्णिं विशन्ति मृत्यौ न वाप्यश्रुमुखा रुदन्ति राहुः पिता मम कार्यतेति(?)॥४०॥
४७६.०१७. आयान्तु सत्त्वाः पिता ममेति प्रकीर्णकेशाश्रुमुखा रुदन्ति।
४७६.०१९. ज्योतिश्चास्य पुरतो हरन्ति ह्यहो बतायममरो भवेदिति॥४१॥
४७६.०२१. दूष्यैरेनं प्रावृतं निर्हरन्ति ज्योतिः समादाय {च तम्} दहन्ति।
४७६.०२३. स दह्यते ज्ञातिभी रुद्यमान एकेन वस्त्रेण विहाय भोगम्॥४२॥
४७६.०२५. एको ह्ययं जायते जायमानस्तथा म्रियते म्रियमाणोऽयमेकः।
४७६.०२७. एको दुःखाननुभवतीह जन्तुर्न विद्यते संसरतः सहायः॥४३॥
४७६.०२९. एतच्च दृष्ट्वेह परिव्रजन्ति कुलायकास्ते न भवन्ति सन्तः।
४७६.०३१. ते सर्वसंगानभिसम्प्रहाय न गर्भशय्यां पुनरावसान्ति॥३३॥ इति।
४७७.००१. <४७७>अथ बिम्बिसारो राजा रुद्रायणेन भिक्षुणा उत्तरोत्तरेण प्रतिभानेन निराकृतस्तूष्णीं निष्प्रतिभः प्रक्रान्तः॥
४७७.००३. अथ शिखण्डी राजा यावत्कंचिद्धर्मेण राज्यं कारयित्वा अधर्मेण राज्यं कारयितुमारब्धः।
४७७.००४. स हिरुभिरुकाभ्यामुक्तह्--देव, धर्मेण राज्यं कारय, मा अधर्मेण्
४७७.००४. तत्कस्य हेतोह्? पुष्पफलवृक्षसदृशा देव जनपदाः।
४७७.००५. तद्यथा देव पुष्पवृक्षाः फलवृक्षाश्च कालेन कालं सम्यक्परिपाल्यमाना अनुपरतप्रयोगेण यथाकालं पुष्पाणि फलानि चानुप्रयच्छन्ति, एवमेव जनपदाः प्रितिपाल्यमाना अनुपरतप्रयोगेण यथाकालं करप्रत्यायाननुप्रयच्छन्तीति।
४७७.००७. स ताभ्यां निवारितो यावत्तावद्धर्मेण राज्यं कारयित्वा पुनरप्यधर्मेण राज्यं कारयितुमारब्धः।
४७७.००९. स ताभ्यां यावत्त्रिरप्युक्तः।
४७७.००९. विसारिणी कृ(तृ?)ष्णा।
४७७.००९. निवार्यमाणा नावतिष्ठत्
४७७.००९. रुषितोऽमात्यानामन्त्रयते--यो भवन्तो राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य यावत्त्रिरप्याज्ञां प्रतिवहति, तस्य कीदृशो दण्ड इति।
४७७.०११. तत्र केचिद्दुष्टामात्याः कथयन्ति--देव, किमत्र ज्ञातव्यम्? तस्य वधो दण्ड इति।
४७७.०१२. गाथे च भाषन्ते--
४७७.०१३. अमात्यस्य च दुष्टस्य दन्तस्य चलितस्य च्
४७७.०१४. भोजनस्य च {अजीर्णस्य} नान्यत्रोद्धरणात्सुखम्॥४५॥
४७७.०१५. अमात्यं बुद्धिसम्पत्तिप्रज्ञाविनयकोविदम्।
४७७.०१६. कोशस्थं च बलस्थं च यो न हन्यात्स घात्यत् ।४३॥ इति।
४७७.०१७. शिखण्डी राजा कथयति--भवन्तः, ममैतौ पित्रा संन्यस्तौ।
४७७.०१७. नाहमेतौ प्रघातयामि।
४७७.०१८. किं त्वाभ्यां मम दर्शनपथे न स्थातव्यमिति।
४७७.०१८. तयोर्द्वारं निवारितम्।
४७७.०१८. अन्यौ द्वौ दुष्टामात्यौ स्थापितौ।
४७७.०१९. तौ कथयतह्--देव, नाक्रन्दिता नालुञ्चिता नातप्ता नोत्पीडितास्तिलास्तैलं प्रयच्छन्ति, तद्वन्नरपते जनपदा इति।
४७७.०२०. राजा कथयति--यदेताभ्यां कृतम्, तत्परं प्रमाणमिति।
४७७.०२१. तौ जनपदान् पीडयितुमारब्धौ।
४७७.०२१. यावदन्यतमो वणिक्पण्यमादाय रौरुकान्नगराद्राजगृहमनुप्राप्तः।
४७७.०२२. स आयुष्मता रुद्रायणेन दृष्टः।
४७७.०२३. कच्चिच्छिखण्डी खलु रौरुकेषु सभ्त्यवर्गो बलवानरोगः।
४७७.०२५. धर्मेण वा कारयति स्वराज्यं न चास्य कश्चित्परतोपसर्गः॥४७॥ इति।
४७७.०२७. स कथयति--
४७७.०२८. तथ्यं शिखण्डी खलु रौरुकेषु सभृत्यवर्गो बलवानरोगः।
४७७.०३०. न चास्य कश्चित्परतोपसर्गो अधर्मेण तु राज्यं करोति नित्यम्॥४८॥
४७८.००१. <४७८>अथायुष्मान् रुद्रायणोऽनुपूर्व्या प्रष्टुमारब्धह्--कस्तत्रामात्यप्रधानह्? कस्य शिखण्डी वशेन जनपदान् पीडयतीति? स कथयति--देव, हिरुभिरुकयोरमात्ययोर्द्वारं निवार्य अन्यौ दुष्टामात्यौ स्थापितौ।
४७८.००३. तद्वशेन शिखण्डी जनपदान् पीडयतीति।
४७८.००३. रुद्रायणः कथयति--गच्छ त्वं भोः पुरुष, रौरुकनिवासिनं जनकायं समाश्चासय्
४७८.००४. अहमपि तत्र प्रचारिते गमिष्यामि।
४७८.००५. अहमेनं शिखण्डिनमहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामीति।
४७८.००६. स वणिक्पण्यं विसर्जयित्वा प्रतिपण्यमादाय संप्रस्थितोऽनुपूर्वेण रौरुकमनुप्राप्तः।
४७८.००७. तेन ज्ञातीनां रहसि निवेदितम्--भवन्तः, अहं पण्यमादाय राजगृहं गतः।
४७८.००७. तत्र मया वृद्धराजो दृष्टः।
४७८.००८. स कथयति--अहं प्रचारितं रौरुकं गमिष्यामि, शिखण्डिनं चाहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामि यथा जनपदान्न पीडयतीति।
४७८.००९. तैरपरेषामारोचितम्, तैरप्यपरेषाम्।
४७८.०१०. एवं कर्णपरम्परया स शब्दस्तयोर्दुष्टामात्ययोः कर्णं गतः।
४७८.०१०. तौ संलक्षयतह्--यदि वृद्धराजा आगमिष्यति, नियतमसौ भूयो हिरुभिरुकावग्रामात्यौ स्थापयिष्यति, आवयोश्चानर्थं कारयिष्यति।
४७८.०१२. तदुपायसंविधानं च कर्तव्यं येनासवन्तर्मार्ग एव प्रघात्यत इति।
४७८.०१३. ताभ्यां राज्ञः शिखण्डिन आरोचितम्--देव, श्रूयते वृद्धराजा आगच्छतीति।
४७८.०१३. स कथयति--प्रव्रजितोऽसौ।
४७८.०१४. किमर्थं तस्यागमनप्रयोजनमिति? तौ कथयतह्--देव, येनैकदिवसमपि राज्यं कारितम्, स विना राज्येनाभिरंस्यत इति कृत एतत्? पुनरप्यसौ राज्यं कारयितुकाम इति।
४७८.०१६. शिखण्डी कथयति--यद्यसौ राजा भविष्यति, अहं स एव कुमारः।
४७८.०१६. को नु विरोध इति? तौ कथयतह्--देव, अप्रतिरूपमेतत् ।
४७८.०१७. कथं नाम कुमारामात्यपौरजनपदैरञ्जलिसहस्रैर्नमस्यमानेन राज्यं कारयित्वा पुनरपि कुमारवासेन वस्तव्यम्? वरं देशपरित्यागो न तु कुमारवासेन वासम्।
४७८.०१९. तद्यथापि नाम पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्,अश्वपृष्ठेन गत्वा रथेन गच्छेत्, रथेन गत्वा पादाभ्यामेव गच्छेत्, एवमेव राज्यं कारयित्वा पुनः कुमारवासेन वास इति।
४७८.०२१. स ताभ्यां विप्रलब्धः कथयति--किमत्र युक्तम्? कथं प्रतिपत्तव्यमिति? तौ कथयतह्--देव, प्रघातयितव्योऽसौ।
४७८.०२२. यदि न प्रघात्यते, नियतं दुष्टामात्यविग्राहितो देवं प्रघातयतीति।
४७८.०२३. स एवमुक्ते हीनदीनवदनो मूहूर्तं तूष्णीं स्थित्वा बाष्पोपरुध्यमानहृदयः करुणदीनविलम्बितैरक्षरैः स कथयति--भवन्तौ, कथं पितरं प्रघातयामीति? तौ कह्तयतह्--न देवेन श्रुतम्?
४७८.०२६. पिता वा यदि वा भ्राता पुत्रो वा स्वाङ्गनिःसृतः।
४७८.०२७. प्रत्यनीकेषु वर्तेत कर्तव्या भूमिवर्धना(?)॥४९॥ इति।
४७८.०२८. पुनरप्याह--
४७८.०२९. यस्य पुत्रसहस्रं स्यादेकनावाधिरूढकम्।
४७८.०३०. एकश्च तत्र शत्रुः स्यात्तदर्थे तान्निमज्जयेत् ॥५०॥ इति।
४७८.०३१. अन्यत्राप्युक्तम्--
४७८.०३२. त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
४७८.०३३. ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥५१॥ इति।
४७९.००१. <४७९>देव, नात्र किंचित्तपनीयम्।
४७९.००१. वधार्होऽसौ प्रघातयितव्यः।
४७९.००१. यदि देवोऽत्र विलम्बते, यद्देवस्यानुरक्ताः कुमारामात्यपौरजनपदास्ते क्षोभमापन्ना नियतमनर्थं कुर्वन्तीति।
४७९.००२. कामान् खलु प्रतिसेवमानस्य नास्ति किंचित्पापं कर्माकरणीयमिति तेनाधिवासितम्--एवं क्रियतामिति।
४७९.००४. तौ दुष्टामात्यौ हृष्टतुष्टौ प्रमुदितौ वधकपुरुषानुत्साहयतह्--भवन्तः, गच्छत, वृद्धराजं प्रघातयत्
४७९.००५. भोगैर्वः संविभागं करिष्याम इति।
४७९.००५. अनुरक्तपौरजानपदः स राजा।
४७९.००५. न कश्चिदुत्सहते प्रघातयितुम्।
४७९.००६. ताभ्यां ते हिरण्यसुवर्णग्रामप्रदानादिना प्रोत्साहिता न प्रतिपद्यन्त्
४७९.००७. ततस्ताभ्यां क्रोधपर्यवस्थिताभ्यां चारपालानामाज्ञा दत्ता--गच्छन्तु, भवन्तहेतान् पुरुषान् सपुत्रदारान् ससुहृत्सम्बन्धिबान्धवांश्चारके बद्ध्वा स्थापयतेति।
४७९.००८. ते श्रुत्वा भीताः संप्रतिपन्नाः कथयन्ति--देव, अलं क्रोधेन्
४७९.००९. भृत्या वयमाज्ञाकराः।
४७९.००९. गच्छाम इति।
४७९.००९. ते तीक्ष्णानसीन् कक्षेणादाय संप्रस्थिताः।
४७९.०१०. आयुष्मानपि रुद्रायणस्त्रयाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं येन भगवांस्तेनोपसंक्रान्तः।
४७९.०११. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्--इच्छाम्यहं भदन्त रौरुकं नगरं जनपदचारिकां चरितुमिति।
४७९.०१३. भगवानाह--गच्छ रुद्रायण, कर्मस्वकता ते मनसिकर्तव्येति।
४७९.०१३. अथायुष्मान् रुद्रायणो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः।
४७९.०१४. आयुष्मान् रुद्रायणस्तस्या एव रात्रेरत्ययात्पूर्वाह्ने निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत् ।
४७९.०१५. राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिसामय्य समादाय पात्रचीवरं कर्मबलप्रेरितम्--
४७९.०१८. दूरं हि कर्षते कर्म दूरात्कर्म प्रकर्षत्
४७९.०१९. तत्र प्रकर्षते जन्तुं यत्र कर्म विपच्यत् ।५२॥
४७९.०२०. इति येन रौरुकं तेन चारिकां प्रक्रान्तः।
४७९.०२०. अनुपूर्वेण चारिकां चरन्नन्तर्मार्गेऽन्यतमं कर्वटकं पिण्डाय प्रविष्टः।
४७९.०२१. स च तस्मात्पिण्डपातमटित्वा निष्क्रामति।
४७९.०२१. ते च वधकपुरुषाः संप्राप्ताः।
४७९.०२२. स तैर्दृष्टः।
४७९.०२२. तेनापि ते प्रत्यभिज्ञाताः।
४७९.०२२. स तैः पुरुषैः सार्धमेकस्मिन्नेवोद्याने रात्रिंदेवा समुपगतः।
४७९.०२३. स तान् प्रष्टुमारब्धह्--
४७९.०२४. कच्चिच्छिखण्डी खलु रौरुकेषु सभृत्यवर्गो बलवानरोगः।
४७९.०२६. धर्मेण वा कारयति स्वकं राज्यं न चास्य कच्चित्परतोपसर्गः॥५३॥ इति।
४७९.०२८. ते कथयन्ति--
४७९.०२९. देव, तथ्यं शिखण्डी खलु रौरुकेषु सभृत्यवर्गो बकवानरोगः।
४७९.०३१. न चास्य कश्चित्परतोपसर्गहधर्मराज्यं तु करोति नित्यम्॥५४॥
४८०.००१. <४८०>नरवर यत्तव सदृशं कृतं त्वया आर्यपराभवचिह्नकरम्।
४८०.००२. तस्यापि तु यत्सदृशं तदद्य उपलप्स्यसे सौभ्येति॥५५॥
४८०.००३. आयुष्मान् रुद्रायणः कथयति--भवन्तः, किमसौ मम तत्र गमनं नाभिनन्दतीति? ते कथयति--देव, नाभिनन्दतीति।
४८०.००४. स कथयति--भवन्तः, यदेवं न गच्छामि, प्रतिनिवर्तामीति।
४८०.००५. ते गाथां भाषन्ते--
४८०.००६. क्व यास्यसि त्वं नरवीर भूयो न ते सुतो नन्दति जीवितेन्
४८०.००८. वयं ह्यधन्या नृपसम्प्रयुक्ता इहाभ्युपेतास्तव घातनाय ॥५६॥ इति॥
४८०.०१०. आयुष्मान् रुद्रायणः कथयति--भवन्तः, यूयं नाम मम वधकपुरुषाह्? देव, वधकपुरुषाः।
४८०.०११. स संलक्षयति--यत्तदुक्तं भगवता कर्मस्वकता ते रुद्रायण मनसिकर्तव्येति, इदं तत् ।
४८०.०१२. सर्वथा धिक्संसारभङ्गुरमिति विदित्वा तेषां कथयति--भद्रमुखाः, अहमस्मि यदर्थं प्रवजितः, सोऽर्थो मया न संप्राप्तः।
४८०.०१३. तिष्ठत तावन्मुहूर्तं यावत्खकार्यमनुरूपं गच्छामीति।
४८०.०१४. ते परस्परं संजल्पं कृत्वा कथयन्ति--देव, एवं कुरु।
४८०.०१४. अथायुष्मान् रुद्रायणोऽन्यतमं वृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेनावस्थितः।
४८०.०१५. उक्तं भगवता--पञ्चानुशंसा बाहुश्रुत्ये--स्कन्धकुशलो भवति धातुकुशल आयतनकुशलः प्रतीत्यसमुत्पादकुशलः, अपरप्रतिबद्धा चास्य भवत्यववादानुशासनीति।
४८०.०१७. तेन वीर्यमारभ्य इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
४८०.०१९. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः।
४८०.०२१. सेन्द्रोपैन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः।
४८०.०२२. अथायुष्मान् रुद्रायणोऽर्हत्त्वप्राप्तो विमुक्तिप्रीतिसुखप्रतिसंवेदी तस्या वेलायां गाथां भाषते--
४८०.०२४. मुक्तो ग्रन्थैश्च योगौश्च शल्यैर्नीवरणैस्तथा।
४८०.०२५. अद्याप्युद्रायणो भिक्षू राजधर्मैर्न मुच्यत् ।५७॥ इति।
४८०.०२६. इत्युक्त्वा तान् वधकपुरुषानुवाच--भद्रमुखाः, यं मया प्राप्तव्यं तत्प्राप्तम्।
४८०.०२६. इदानीं यदर्थं यूयमागतास्तदर्थं संप्रापयतेति।
४८०.०२७. ते कथयति--देव, यदि शिखण्डी राजा अस्मान् पृच्छति--किं वृद्धराजेन मरणसमये व्याकृतमिति, किमस्माभिर्वक्तव्यम्? भद्रमुखाः, स वक्तव्यह्--
४८०.०३०. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात् ।
४८०.०३१. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसि॥५८॥ इति।
४८१.००१. <४८१>इदं चापरं वक्तव्यह्--द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवः।
४८१.००२. तेऽवीचौ महानरके वस्तव्यम्।
४८१.००२. अत्ययमत्ययतो देशय, अप्येतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति।
४८१.००३. पुनरायुष्मान् रुद्रायणः संलक्षयति--ऋद्ध्या गच्छामि।
४८१.००४. ममासौ सत्त्वो नरकपरायणो भविष्यतीति।
४८१.००४. यं यमृद्ध्युपायं प्रारभते, तस्य धर्मविनष्टत्वादृकरोऽपि न प्रतिभाति प्रागेव ऋद्धिः।
४८१.००५. ततस्तेषामेकेन पुरुषेण निर्घृणहृदयेन त्यक्तपरलोकेन कक्षादसिं निष्कृष्य उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातितः॥
४८१.००८. अथ भववान् स्मितमकार्षीत् ।
४८१.००८. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतकोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति।
४८१.०१०. या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मन्महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्पीभूत्वा निपतन्ति।
४८१.०१३. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्त्
४८१.०१३. तेषामेवं भवति--किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति।
४८१.०१४. तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति।
४८१.०१५. तेषां निर्मितं दृष्ट्वैवं भवति--न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः।
४८१.०१६. अपि त्वयमपूर्वदर्शनः सत्त्वः।
४८१.०१६. अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति।
४८१.०१६. ते निर्मिते चित्तमभिप्रसाद्य तं नरकनिवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति।
४८१.०१८. या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् ब्रह्मपार्षद्यान्महब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति।
४८१.०२२. गाथाद्वयं च भाषन्ते--
४८१.०२३. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
४८१.०२४. धुनीत मृत्युनः सौन्यं नडागारमिव कुञ्जरः॥५९॥
४८१.०२५. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
४८१.०२६. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥६०॥
४८१.०२७. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकघातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति।
४८१.०२८. तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्त्
४८१.०२९. अनागतं चेत्पुरस्तात् ।
४८१.०२९. नरकोपपत्तिं चेत्पादतल्
४८१.०२९. तिर्यगुपपत्तिं चेत्पार्ष्ण्याम्।
४८१.०३०. प्रेतोपपत्तिं चेत्पादाङ्गुष्ठ्
४८१.०३०. मनुष्योपपत्तिं चेज्जानुनोः।
४८१.०३०. बलचक्रवर्तिराज्यं चेद्वामे करतल्
४८१.०३१. चक्रवर्तिराज्यं चेद्दक्षिणे करतल्
४८१.०३१. देवोपपत्तिं चेन्नाभ्याम्।
४८१.०३१. श्रावकबोधिं चेदास्य्
४८१.०३२. प्रत्येकां बोधिं चेदूर्णायाम्।
४८१.०३२. यद्यनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति <४८२>उष्णीषेऽन्तर्धीयन्त्
४८२.००१. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादतलेऽन्तर्हिताः।
४८२.००२. अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ--
४८२.००३. नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान्निष्कसितः कलापः।
४८२.००५. अवभासिता येन दिशः समन्ताद्दिवाकरेणोदयता यथैव् ।६१॥
४८२.००७. गाथां च भाषते--
४८२.००८. विगतोद्भवा दैन्यमदप्रहीणा बुद्धाजगत्युत्तमहेतुभूताः।
४८२.०१०. नाकरणं शङ्खमृणालगौरं स्मितमुपदर्शयन्ति जिवा जितारयः॥६२॥
४८२.०१३. तत्कालं स्वयमधिगम्य धीर बुद्द्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
४८२.०१४. धीरभिर्मुनिवृष वाग्मिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥६३॥
४८२.०१६. नाकस्माल्लवणजलाद्रिताजधैर्याः संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।
४८२.०१८. यस्यार्थे स्मितमुपदर्शयन्ति धीरास्तं श्रोतुं समभिलषन्ति ते जनौघाः॥६४॥ इति।
४८२.०२०. भगवानाह--एवमेतदानन्द, एवमेत
४८२.०२०. नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितं प्राविष्कुर्वन्ति।
४८२.०२१. अपि त्वानन्द,
४८२.०२२. मुक्तो ग्रन्थैश्च योगैश्च शल्यैर्नीवरणैस्तथा।
४८२.०२३. अथापि रुद्रायणो भिक्षुर्जीविताद्व्यपरोपितः॥६५॥
४८२.०२४. रुद्रायण आनन्द अर्हत्त्वं प्राप्तो जीविताद्व्यपरोपितः।
४८२.०२४. श्रुत्वा आयुष्मानान्दः साश्रुकण्ठो व्यवस्थितः।
४८२.०२५. अथ ते वधकपुरुषा आयुष्मतो रुद्रायणस्य पात्रचीवरं खिक्खितं चादाय रौरुकमनुप्राप्ताः।
४८२.०२६. तैस्तयोर्दुष्टमात्ययोर्निवेदितम्--वृद्धराजः प्रघातित इति।
४८२.०२६. तौ श्रुत्वा प्रीतिप्रामोद्यजातौ येन शिखण्डी राजा तेनोपसंक्रान्तौ।
४८२.०२७. कथयतह्--देव, दिष्ट्या वर्धस्
४८२.०२८. इदानीं देवस्याकण्टकं राज्यम्।
४८२.०२८. कथं कृत्वा? यो देवस्य शत्रुः, स प्रघातितः।
४८२.०२९. को नाम शत्रुह्? देव, वृद्धराजः।
४८२.०२९. कथं ज्ञायतेऽसौ? प्रघातित इति? ताभ्यां ते वधकपुरुषा दर्शिताह्--देव, इमे ते बधकपुरुषा यौरसौ प्रघातितः।
४८२.०३०. शोखण्डना राज्ञा ते पृष्टाह्--भवन्तः, कियद्वृद्धराजस्य बलम्।
४८२.०३१. देव, कुतस्तस्य बलम्? इदं पात्रचीवरं खिक्खिरं चेति।
४८२.०३१. शिखण्डी <४८३>राजा मूर्च्छितः पृथिव्यां निपतितो जलपरिषेकप्रत्यागतप्राणः कथयति--भवन्तः, किं वृद्धराजेन मरणकाले व्याकृतम्? देव, वृद्धराजः प्राणवियोगः कथयति--
४८३.००३. बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात् ।
४८३.००४. अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यस्।६६॥ इति।
४८३.००५. इदं चापरं वक्तव्यह्--द्वे त्वया आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवश्च्
४८३.००६. चिरं तेऽवीचौ महानरके वस्तव्यम्।
४८३.००६. अत्ययमत्ययतो देशय्
४८३.००७. अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति।
४८३.००७. मनःशोकशल्येनाभ्याहतो हरितलून उव न:ओ म्लायितुमारब्धः।
४८३.००८. तेन हिरुभिरुकावग्रामात्यावाहूतोक्तौभवन्तौ, न युवाभ्यामहमीदृशकर्म कुर्वाणो निवारित इति? तौ कथयतह्--वयं देवेनादर्शनपथे व्यवस्थापिताः।
४८३.०१०. कथं निवारयाम इति? तेन तौ दुष्टामात्यौ अदर्शनपथे व्यवस्थापितौ।
४८३.०११. भूयो हिरुभिरुकावग्रामात्यौ स्थापितौ।
४८३.०११. ताभ्यामपि दुष्टामात्याभ्यां प्रच्छन्नं तिष्यपुष्यस्तूपयोर्द्वे बले कृत्वा द्वौ बिडालपोतकौ स्थापितौ।
४८३.०१२. तयोर्दिने दिने मांसपेशीर्दत्त्वा शिक्षयतह्--तिष्यपुष्यौ,येन सत्येन सत्यवचनेन युवाभ्यां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ, तेन सत्येन सत्यवचनेन मांसपेशीं कृत्वा स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बलं प्रविशतामिति।
४८३.०१५. तौ यदा सुशिक्षितौ संवृत्तौ, तदा ताभ्यां दुष्टामात्याभ्यां रुद्रायणस्य राज्ञो देवी उक्ता--देवि, पुत्रस्ते कृशालुको दुर्बलको म्लानोऽप्राप्तकायः।
४८३.०१७. किमध्युपेक्षस इति? सा कथयति--किमहं करोमीति? युवाभ्यामेवासावीदृशकर्म कारित इति।
४८३.०१८. तौ कथयति--देवि, यत्र घ{अः पतितः, किं तत्र रज्जुरपि पातयितव्या? सा कथयति--सत्यमेतत्पितुर्वधम्।
४८३.०१९. तदहं तस्य प्रतिविनोदयामि इति।
४८३.०२०. सा कथयति--यद्येवम्, शोभनम्।
४८३.०२१. सा तस्य सकाशं गत्वा कथयति--पुत्र, कस्मात्वमुत्पाण्डूत्पाडुः कृशालुको दुर्बलको म्लानोऽप्राप्तकाय इति? स कथयति--अम्ब, त्वमप्येवं कथयसि--कस्मात्त्वमुत्पाडूत्पाण्डुः कृशालुको दुर्बको म्लानोऽप्राप्तकाय इति, कथमहं नोत्पाण्डूत्पाण्डुको भवामि कृशालुको दुबलको म्लानोऽप्राप्तकाय इति, येन मया दुष्टामात्यविग्राहितेन द्वे आनन्तर्ये कर्मणी कृते--यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन् भिक्षुः क्षीणाश्रवह्? चिरमवीचौ महानरके वस्तव्यमिति।
४८३.०२६. सा कथयति--पुत्र, अभयं तावत्प्रयच्छ, यत्सत्यं तत्कथयामीति।
४८३.०२६. स कथयति--दत्तं भवतु।
४८३.०२७. सा कथयति--यथाभूतं पुत्र, नासौ तव पिता, किं तु मया ऋतुस्नातया अन्येन पुरुषेण सार्थं परिचरितम्, ततस्त्वं जात इति।
४८३.०२८. स संलक्षयति--पितृवधस्तावन्न जातः।
४८३.०२९. इति विदित्वा कथयति--अम्ब, यद्येवं पितृवधो नास्ति, अथद्वधोऽस्ति।
४८३.०२९. स कथं निस्तार्य इति? सा कथयति--पुत्र, ज्ञानकोचिदाः प्रष्टव्याः।
४८३.०३०. ते एतदेकान्तीकरिष्यन्तीति उक्त्वा प्रक्रान्ता।
४८३.०३१. तया तौ दुष्टामात्यौ आहूयोक्तौ--मया अस्य पितृवधो विनोदितः।
४८३.०३१. युवामिदानीमर्हद्वधं प्रतिविनोदयतामिति।
४८३.०३२. शिखण्डिना राज्ञा अमात्यानामाज्ञा दत्ता, सर्वामात्यान् <४८४>संनिपातयत ये च केचिज्ज्ञानकोविदा इति।
४८४.००१. तैः सर्वामात्याः संनिपातिताः, ये च केचिज्ज्ञानकोविदाः।
४८४.००२. तावपि सुष्टामात्यौ तत्रैव संनिपतितौ।
४८४.००२. सर्व एव जाजोपजीवी लोकोऽनुकूलं वक्तुमारब्धः।
४८४.००३. तत्र केचित्कथयन्ति--देव, केनासौ दृष्टोऽर्हत्त्वमिति? अपरे कथयन्ति--देव, अर्हन्तः सर्वज्ञानकल्पा आकाशगामिन इति।
४८४.००४. तौ दुष्टामात्यौ कथयतह्--देव, किमत्र शोकः क्रियते? स कथयति--युवामप्येवं कथयथ--किमर्थं शोकः क्रियते इति, ननु युवाभ्यामेवाहमर्हद्वधं कातितः।
४८४.००६. देव, न सन्त्यर्हन्तः।
४८४.००६. कुतोऽर्हद्वधह्? स कथयति--मया प्रत्यक्षदृष्टौ तिष्यपुष्यौ अर्हन्तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ निर्वातौ।
४८४.००८. युवामेवं कथयथ--न सन्त्यर्हनतः, कुतोऽर्हद्वध इति? तौ कथयतह्--वयं देवस्य प्रत्यक्षीकुर्मो यथा मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ अद्यत्वेऽपि स्तूपे तिष्ठत इति।
४८४.०१०. राजा अमात्यानामन्त्रयते--भवन्तः, यद्येवमागच्छत गच्छामः, पश्यामः किं भूतमभूतं वेति।
४८४.०११. एष च शब्दो रौरुके नगरे समन्ततो विसृतः।
४८४.०१२. ततस्ते सर्वे जनपदनिवासिनो लोकास्तद्द्रष्टुं निष्क्रान्ताः।
४८४.०१२. ततस्तौ दुष्टामात्यौ कथयतह्--यथा तिष्यपुष्यौ येन सत्येन सत्यवचनेन युवां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ स्वकस्वके स्तूपे तिष्ठतः।
४८४.०१४. अनेन सत्येन सत्यवचनेन इमां मांसपेशीमादाय स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बिलं प्रविशतामिति।
४८४.०१५. तावेवमुक्तौ स्वकस्वकात्स्तूपान्निर्गतौ।
४८४.०१६. तावेवानेकैः प्राणिशतसहस्रैर्दृष्टौ।
४८४.०१६. तौ मांसपेशीमादाय स्वकस्वकस्तूपं प्रदक्षिणीकृत्य स्वकस्वकबिलं प्रविष्टौ।
४८४.०१७. तौ दुष्टामात्यौ कथयत--दृष्टं देवेनेति? स कथयति--दृष्टम्।
४८४.०१८. देव, न सन्ति लोकेऽर्हन्तः।
४८४.०१८. केवलं त्वयं जनप्रवाद इति।
४८४.०१८. तस्य यासौ दृष्टिह्--सन्ति लोकेऽर्हन्त इति, सा प्रतिविगता।
४८४.०१९. तत्र येऽश्रद्धास्तेषामसद्दर्शनमुत्पन्नम्, ये मध्यस्थास्तेषां काङ्क्षा, ये श्रद्धास्तेषामद्भुतं संवृत्तम्।
४८४.०२०. अनुभावोदग्रा अविशारदाः।
४८४.०२०. शिखण्डी राजा संलक्षयति--यदि न सन्त्येव लोकेऽर्हन्तः, किमर्ह्तमार्यकाश्यपस्य कात्यायनस्य पञ्चशतपरिवारस्य शौलाया भिक्षुण्याः प्लञ्चशतपरिवारायाः पिण्डकमनुप्रयच्छामीति? तेन भिक्षूणां भिक्षुणीनां च पिण्डपातः समुच्छिन्नः।
४८४.०२३. भिक्षवो भिक्षुण्यश्च रौरुकात्प्रक्रान्ताः।
४८४.०२३. अथायुष्मान्महाकात्यायनः शौला च भिक्षुणी विनयापेक्षया तत्रैवावस्थतौ।
४८४.०२४. यावदपरेण समयेन राजा शिखण्डी रौरुकान्नगरान्निर्गच्छति।
४८४.०२५. आयुष्मांश्च महाकात्यायनो रौरुकं नगरं पिण्डाय प्रविशति।
४८४.०२६. स राजानं दृष्ट्वैकान्तेऽपक्रम्यावस्थितह्--मा अयमप्रसादं प्रवेदयिष्यतीति।
४८४.०२७. स राज्ञा शिखण्डिना एकान्तेऽवस्थितो दृष्टः।
४८४.०२७. दृष्ट्वा च पुनरामन्त्रयते--भवन्तः, किमर्थमयमार्यो महाकात्यायनो मां दृष्ट्वा एकान्तेऽपक्रम्यावस्थित इति।
४८४.०२८. तस्य पृष्ठतो हिरुभिरुकावग्रामात्यौ गच्छतः।
४८४.०२९. तौ कथयतह्--देव, आर्यो महाकात्यायनः संलक्षयति--देवः कृतकौतुकमङ्गलो गच्छति, मा अप्रसादं वेदयिष्यति, दुःखं चरद्गच्छति, कर्म क्रियते, पात्रचीवराणि पांशुना अवतरिष्यतीति।
४८४.०३१. राजा तूष्णीमवस्थित इति।
४८४.०३१. आयुष्मान्महाकात्यायनो रौरुकं नगरं पिण्डाय चरित्वा निर्गच्छति, राजा च शिखण्डी प्रविशति।
४८५.००१. <४८५>आयुष्मान्महाकात्यायनस्तथैव एकान्तेऽपक्रम्यावस्थितः।
४८५.००१. शिखण्डी राजा कथयति--भवन्तः, पूर्वमप्ययमार्यो महाकात्यायनो मां दृष्ट्वा एकान्तेऽपक्रम्यावस्थितः, साम्प्रतिमपि।
४८५.००३. कोऽत्र हेतुरिति? तस्य पृष्ठतस्तौ दुष्टामात्यौ गच्छतः।
४८५.००३. तौ कथयतह्--देव, एष कथयति--मा अहमस्य पितृमारकस्य रजसा प्रव्रज्यामीति।
४८५.००४. अपरीक्षकोऽसौ।
४८५.००४. श्रुत्वा पर्यवस्थितः।
४८५.००५. स कथयति--भवन्तः, यस्याहं प्रियः, सोऽस्य मुण्डकस्य श्रमणकस्योपर्येकैकं पांशुमुस्टिं क्षिपत्विति।
४८५.००६. सर्वेण जनकायेनैकैका पांशुमुष्टिः क्षिप्ता।
४८५.००६. महासाधनोऽसौ राजा।
४८५.००६. एकैकया पांशुमुष्ट्या आयुष्मतो महाकात्यायनस्योपरि महान् पांशुराशिर्व्यवस्थितः।
४८५.००७. सोऽपि ऋद्ध्या पर्णिकां कुटिमभिनिर्मायावस्हितः।
४८५.००८. स गोपालकैः पशुपालकैश्चावष्टभ्यमानो दृष्टः।
४५८.००८. ते बुद्ध्यायमानाह्(?) परिवार्यावस्थिताः।
४८५.००९. हिरुभिरुकावग्रामात्यौ पृष्ठतोऽनुहिण्ड्य तं प्रदेशमनुप्राप्तौ।
४८५.०१०. तौ पृच्छतह्--भवन्तः, किमिदमिति? ते कथयन्ति--तेन कलिराजेन पितृमारकेण आर्यो महाकात्यायनोऽदुष्यनयकारी पांशुना अवष्टब्ध इति।
४८५.०११. तौ साश्रुकण्ठौ रुदन्मुखौ गोपालकपशुपालकैः सार्धं पांशूनपनेतुमारब्धौ।
४८५.०११. आयुष्मान्महाकात्यायनो निर्गतः।
४८५.०१२. तौ पादयोर्निपत्य पृच्छतह्--आर्य, किमिदमिति? स कथयति--किमन्यद्भविष्यतीति? तौ कथयतह्--आर्य, यदिदं शिखण्डिना महाकात्यायने जनकायसहायेन कर्म कृतम्।
४८५.०१४. अस्य को भविष्यतीति।
४८५.०१५. इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत्
४८५.०१५. आर्य, का आवुपूर्वी भविष्यतीति? आयुष्मन्तौ, प्रथमे दिवसे महावायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति।
४८५.०१७. द्वितीये दिवसे पुष्पवर्षं पतिष्यति।
४८५.०१७. तृतीये वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामान्तनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रेवक्ष्यन्ति।
४८५.०१९. तेषु प्रविष्टेषु षष्ठे दिवसे रत्ववर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति।
४८५.०१९. तौ कथयतह्--आर्य, किमावामस्य कर्मणो भाविनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ।
४८५.०२१. आर्य, यदेवं कथमस्माभिरस्मान्नगरान्निष्क्रमितव्यमिति? स कथयति--युवां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत्
४८५.०२३. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलायितव्यमिति।
४८५.०२३. तौ तस्य पादयोर्निपत्य रौरुकं प्रविष्टौ।
४८५.०२४. राज्ञः सकाशं प्रविष्टौ कथयतह्--किं देवेनार्यो महाकात्यायनः किंचिदुक्तः पांशुनावष्टब्धह्? स कथयति--भवन्तः, जीवत्यसौ? देव, जीवति।
४८५.०२५. किं कथयति--देव, एवं कथयति--इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत इति।
४८५.०२६. कानुपूर्वी? कथयति--देव, स एवं कथयति, प्रथमे तावद्दिवसे महवायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति, द्वितीये दिवसे पुष्पवर्षं पतिष्यति, तृतीये दिवसे वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतं ते रौरुकं नगरं प्रवेक्ष्यन्ति, तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति।
४८५.०३१. तौ कथयतह्--आर्य, किमावामप्यस्य कर्मणो भागिनौ? भद्रमुखौ, न युवामस्य कर्मणो भागिनौ।
४८५.०३२. आर्य, यद्येवं कथमस्मान्नाग्रान्निष्क्रमितव्यमिति? स कथयति--<४८६>युवां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत्
४८६.००२. यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलयितव्यमिति।
४८६.००२. तौ दुष्टामात्यौ कथयतह्--समुच्छिन्नपिण्डपातः पांशुवर्षेणावष्टबधः स किमन्यद्वदतु? ईदृशं वा वदते, देवतो वा पापनरमिति(?)।
४८६.००४. राजा शिखण्डी संलक्षयति--स्यादेवमिति।
४८६.००४. हिरुभिरुकावग्रामात्यौ मुखं विभण्ड्य हस्तान् संपरिवर्त्य प्रक्रान्तौ।
४८६.००५. तत्र हितुकस्य श्यामाको दारकः पुत्रः।
४८६.००६. भिरुकस्य श्यामावती नाम दारिका दुहिता।
४८६.००६. हितुकेन श्यामाको दारक आयुष्मते महाकात्यायनाय दत्तह्--आर्य, यद्यस्य कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः।
४८६.००७. नो चेत्तवैवायमुपस्थायक इति।
४८६.००८. भिरुकेनापि श्यामावती दारिका शैलाया भिक्षुण्या दत्ता--आर्ये, यद्यस्याः कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः।
४८६.००९. नो चेत्कौशाम्ब्यां घोषिलो नाम गृहपतिर्मम वयस्यस्तस्य समर्पयिष्यसीति।
४८६.०१०. तयाधिवासितम्।
४८६.०१०. अथ शैला भिक्षुणी श्यामावतीमादाय ऋद्ध्या रौरुकान्नगरात्प्रक्रान्ता।
४८६.०११. तदा कौशाम्ब्यां घोषिलस्य गृहपतेर्दत्ता।
४८६.०१२. यथा च संदिष्टं समाख्यातम्।
४८६.०१२. आयुष्मान्महाकात्यायनस्तत्रैवावस्थितः।
४८६.०१२. हिरुभिरुकाभ्यामग्रामात्याभ्यां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे च नौः स्थापिता।
४८६.०१४. यावदन्यतमस्मिन् दिवसे महावायुरागतः, येन तं रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापितम्।
४८६.०१५. द्वितीये दिवसे पुष्पवर्षं पतितम्।
४८६.०१५. तौ दुष्टामात्यौ कथयतह्--देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितमिति।
४८६.०१६. देवस्येदं पुष्पवर्षं पतितम्, नचिराद्वस्त्रवर्षं पतिष्यति।
४८६.०१७. तृतीये दिवसे वस्त्रवर्षं पतिअम्।
४८६.०१७. तौ दुष्टामात्यौ कथयतह्--देवस्येदं वस्त्रवर्षं पतितम्, नचिराद्विराद्धिरण्यवर्षं पतिष्यतीति।
४८६.०१८. चतुर्थे दिवसे हिरण्यवर्षं पतितम्।
४८६.०१९. तौ दुष्टामात्यौ कथयतह्--देवस्येदं हिरण्यवर्षं पतितम्, नचिरादेव सुवर्णवर्षं पतिष्यतीति।
४८६.०२०. पञ्चमे दिवसे सुवर्णवर्षं पतितम्।
४८६.०२०. तौ दुष्टामात्यौ कथयतह्--देवस्येदं सुवर्षं प्ततितम्, नचिरादेव रत्नवर्षं पतिष्यतीति।
४८६.०२१. यौ रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रविष्टाः।
४८६.०२२. तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतितम्।
४८६.०२२. हिरुभिरुकावग्रामात्यौ रत्नानां नावं पूरयित्वा निष्पलायितौ।
४८६.०२३. तत्र हिरुकेणान्यतमस्मिन् प्रदेशे हिरुकं नाम नगरं मापितम्।
४८६.०२४. तस्य हिरुकं हिरुकमिति संज्ञा संवृत्ता।
४८६.०२४. भिरुकेणान्यतमस्मिन् प्रदेशे भिरुकं नाम नगरं मापितम्।
४८६.०२५. तस्यापि भिरुकच्छं भिरुकच्छमिति संज्ञा संवृत्ता।
४८६.०२५. सप्तमे दिवसे पांशुवर्षं पतितुमारब्धम्।
४८६.०२६. अमनुष्यकैर्द्वाराण्यवष्टब्धानि।
४८६.०२६. श्यामाकः कथयति--आर्य, किमेष उच्चशब्दो महाशब्द इति।
४८६.०२७. आयुष्मान्महाकात्यायनः कथयति--पुत्र, वातायनेन काशिकां निष्कासयेति।
४८६.०२८. तेन वातायनेन काशिका निष्कासिता।
४८६.०२८. पांशुभिरनवीकृता।
४८६.०२८. आयुष्मान्महाकात्यायनः संलक्षयति--सावशेषागोचर इति।
४८६.०२९. यावद्भूयो निष्कासिता, पूर्णा चूडिकाबद्धा संवृत्ता।
४८६.०३०. आयुष्मान्महाकात्यायनः संलक्षयति--अगोचरीभूतम्।
४८६.०३०. इदानीं गच्छमीति।
४८६.०३०. अथ या रौरुकनिवासिनी देवता सा येनायुष्मान्महाकात्यायनस्तेनोपसंक्रान्ता।
४८६.०३१. उपसंक्रम्य पादाभिवन्दनं कृत्वा कथयति--आर्य, अहमप्यागछामि।
४८६.०३२. आर्यस्योपस्थानं करिष्यामीति।
४८७.००१. <४८७>तेनाधिवासितम्।
४८७.००१. आय्ष्मता महाकात्यायनेन श्यामाक उक्तह्--पुत्र, गृहाण चीवरकर्णिकम्।
४८७.००२. गच्छाम इति।
४८७.००२. तेन चीवरकर्णिको गृहीतः।
४८७.००२. स ऋद्ध्या उपरिविहायसा श्यामाकं दारकमादाय संप्रस्थितः।
४८७.००३. रौरुकनिवासिन्यपि देवता स्वर्द्ध्या तस्य पृष्ठतोऽनुबद्धा।
४८७.००४. रौरुकमपि नगरं पांशुनावष्टबद्धम्।
४८७.००४. तेऽनुपूर्वेण खरं मम कर्वटकमनुप्राप्ताः।
४८७.००४. तेन तत्र खलाभिधानेऽवस्थिताः।
४८७.००५. आयुष्मान्महाकात्यायनः श्यामाकं दारकं खलभिधाने स्थापयित्वा पिन्ण्डपात्रं प्रविष्टः।
४८७.००६. देवतानुभावात्तस्मिन् खलाभिधाने धान्यं वर्धितुमारब्धम्।
४८७.००७. यस्तत्र पुरुषोऽवस्थितः, स तं दारकं दृष्ट्वा तस्य सकाशमुपसंक्रम्य कथयति--भो दारक, तव प्रभावात्खलाभिधाने धान्यं वर्धत इति।
४८७.००८. स कथयति--न मम प्रभावात्खलभिधाने धान्यं वर्धत इति, अपि तु रौरुकनिवासिनी देवता इहागता अमुष्मिन् प्रदेशे तिष्ठति, तस्याः प्रभावात्खलाभिधाने धान्यं वर्धत इति।
४८७.०१०. स तस्याः सकाशं गत्वा पादयोर्निपत्य कथयति--देवते, ताडकं कुञ्चिकां च तावद्धारय, यावद्ग्रामम् {गत्वा} आगच्छामि।
४८७.०११. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति।
४८७.०१२. तेनापि कर्वटकं गत्वा कर्वटकनिवासी जनकायः संनिपातितः।
४८७.०१३. उक्तश्च--भवन्तः, रौरुकनिवासिनी देवता इहागता खलाभिधाने तिष्ठति।
४८७.०१४. तत्प्रभावात्खलभिधाने धान्यं वर्धत्
४८७.०१४. तस्या हस्ते मया ताडकं कुञ्चिका च दत्ता।
४८७.०१५. {उक्तम्} च--देवते, ताडकं कुञ्चिकां च तावद्धारय यावद्ग्रामं गत्वा आगच्छामि।
४८७.०१६. न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति।
४८७.०१६. तदधिष्ठानं विज्ञापयामि--यदि मम पुत्रं श्रेष्ठिनमभिषिञ्चथ, अहमात्मानं जीविताद्व्यपरोपयामीति।
४८७.०१७. देवता अस्मादधिष्ठानान्न क्वचिद्गमिष्यति, युष्माकं भोगाभिवृद्धिर्भविष्यति, सर्वाश्च ईतयो व्युपशमं गमिष्यन्तीति।
४८७.०१९. तौस्तस्य पुत्रः श्रेष्ठी तेनात्मा जीविताद्व्यपरोपितः।
४८७.०१९. ततः सर्वं तदधिष्ठानं गन्धपुष्पोशोभितं छत्रध्वजपताकाशोभितं च बलिमादाय येन देवता तेनोपसंक्रान्ताः।
४८७.०२१. उपसंक्रम्य पादयोर्निपत्य कथयति--देवते, अधिष्ठा भव, इहैव तिष्ठेति।
४८७.०२२. नास्ति ममेहावस्थानम्।
४८७.०२२. आर्यस्याहं महाकात्यायनस्योपस्थायिकेति।
४८७.०२२. आयुष्मान्महाकात्यायन इति कथयति--देवते, समन्वाहर अस्य यस्य सकाशात्ताडकः कुञ्चिका च गृहीतेति।
४८७.०२४. सा समन्वाहर्तुं प्रवृत्ता पश्यति, यावत्कालगतः।
४८७.०२४. तयासावधिष्ठाननिवासी जनकायोऽभिहितह्--भवन्तः, समयतोऽहं तिष्ठामि।
४८७.०२५. तौर्यादृशमेव तस्या देवतायाः स्थण्डिलं कारितं तादृशमेवायुष्मतो महाकात्यायनस्य्
४८७.०२७. तस्या देवताया योऽधिष्ठाने प्रदीपः प्रज्ञप्तः, तमसौ गृहीत्वा आयुष्मतो महाकात्यायनस्य स्थण्डिले स्थापयति।
४८७.०२८. सा अन्यतमेन पुरुषेण प्राकारकण्टके स्थितेन प्रदीपं गृहीत्वा गच्छन्ती दृष्टा।
४८७.०२९. स संलक्षयति--एषा देवता आर्यस्य महाकात्यायनस्याभिसातिका गच्छतीति।
४८७.०३०. तया तस्य चित्तमुपलक्षितम्।
४८७.०३०. सा रुषिता--पापचित्तसमुदाचारोऽयं कर्वटकनिवासी जनकायः।
४८७.०३१. आर्यस्य महाकात्यायनस्य निरामगन्धस्यातृप्तपुण्यस्यापवादमनुप्रयच्छतीति।
४८७.०३२. तस्मात्तस्मिन् कर्वटके मारिरुत्सृष्टा।
४८७.०३२. महाजनमरको जातः।
४८७.०३२. मृतजने <४८८>निष्कास्यमाने मञ्चकामञ्चके सड्त्कुमारब्धाः।
४८८.००१. अधिष्ठाननिवासिना जनकायेन नैमित्तिका आहूय पृष्टाह्--किमेतदिति? ते कथयन्ति देवताप्रकोप इति।
४८८.००२. ते तां क्षमयितुमारब्धाः।
४८८.००२. साकथयति--यूयमार्यस्य महाकात्यायनस्य निरामगन्धस्यासत्कारमनुप्रयच्छथेति? ते भूयः कथयन्ति--क्षमख देवते, न कश्चिदसत्कारं करिष्यतीति।
४८८.००४. सा कथयति--यदि यूयं यादृशमेवार्यस्य महाकात्यायनस्येति।
४८८.००५. ते कथयन्ति--देवते क्षमख, प्रतिविशिष्टतरं कुर्म इति।
४८८.००६. तया तेषां क्षान्तम्।
४८८.००६. तैरप्यायुष्मतो महाकात्यायनस्य प्रतिविशिष्टतरः सत्कारः कृतः।
४८८.००६. आयुष्मान्महाकात्यायनस्तत्र वर्षोषितः श्यामाकं दारकमादाय देवतामुपामन्त्र्य संप्रस्थितः।
४८८.००७. सा कथयति--आर्य, मम किचिच्चिह्नमनुप्रयच्छ, यत्राहं कारां कृत्वा तिष्ठामीति।
४८८.००८. तेन तस्यां काशिका दत्ता।
४८८.००९. तयात्र प्रक्षिप्य स्तूपः प्रतिष्ठापितो महश्च प्रस्थापितह्--काशीमह काशीमह इति संज्ञा संवृत्ता।
४८८.०१०. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्त्
४८८.०१०. श्यामाको दारकश्चीवरकर्णिके लग्नः प्रलम्बमानो गोपालकपशुपालकैर्दृष्टः।
४८८.०११. तैर्लम्बते लम्बत इति उच्चैर्नादो मुक्तः।
४८८.०११. तस्मिञ्जनपदे मनुष्याणां लम्बकपाल इति संज्ञा संवृत्ता।
४८८.०१२. आयुष्मान्महाकात्यायनोऽन्यतमं कर्वटकमनुप्राप्तः।
४८८.०१३. तत्र श्यामाकं दारकं वृक्षमूले स्थापयित्वा पिण्डाय प्रविष्टः।
४८८.०१३. तस्मिंश्च कर्वटकेऽपुत्रो राजा कालगतः।
४८८.०१४. पौरजानपदाः संनिपत्य कथयन्ति--भवन्तः, कं राजानमभिषिञ्चाम इति? तत्रैके कथयन्ति--यः पुण्यमहेशाख्य इति।
४८८.०१५. अपरे कथयन्ति--कथमसौ प्रज्ञायत इति? अन्ये कथयन्ति--परीक्षकाः प्रयुज्यन्तामिति।
४८८.०१६. तैः परीक्षकाः प्रयुक्ताः।
४८८.०१६. ते इतश्चामुतश्च पर्याटितुमारब्धाः।
४८८.०१७. तैरसौ वृक्षस्याधस्तान्मिद्धमवक्रान्तो दृष्टः।
४८८.०१७. ते तस्य निमित्तमुद्गृहीतुमारब्धा यावत्पश्यन्ति।
४८८.०१८. अन्येषां वृक्षाणां छाया प्राचीनप्रवणा प्राचीनप्राग्भारा।
४८८.०१८. तस्य वृक्षस्य च्छाया अस्य श्यामाकस्य दारक्स्य कायं न विजहातीति।
४८८.०१९. दृष्ट्वा च पुनः संजल्पितुमारब्धाह्--भवन्तः, अयं पुण्यमहेशाख्यः सत्त्वः, एतमभिषिञ्चाम इति।
४८८.०२०. स तैः प्रबोध्योक्तह्--दारक, राज्यं प्रतीच्छेति।
४८८.०२१. स कथयति--नाहं राज्येनार्थी।
४८८.०२१. अहमार्यस्य महाकात्यायनस्योपस्थापक इति।
४८८.०२२. आयुष्मता महाकात्यायनेन श्रुतम्।
४८८.०२२. समन्वाहर्तुं प्रवृत्तः।
४८८.०२२. किमस्य दारकस्य राज्ञः संवर्तनीयानि कर्माणि न वेति।
४८८.०२३. पश्यति, सन्ति।
४८८.०२३. स कथयति--पुत्र, प्रतीच्छ राज्यम्, किं तु धर्मेण ते कारयितव्यमिति।
४८८.०२४. तेन तं प्रतीष्टम्।
४८८.०२४. स तै राज्येऽभिषिक्रः।
४८८.०२४. श्यामाकेन दारकेण तस्मिन् राज्यं कारितमिति।
४८८.०२५. श्यामाकराज्यं श्यामाकराज्यमिति संज्ञा संवृत्ता॥
४८८.०२६. आयुष्मान्महाकात्यायनो वोक्काणमनुप्राप्तः।
४८८.०२६. वोक्काणे आयुष्मतो महाकात्यायनस्य माता उपपन्ना।
४८८.०२७. सा आयुष्मन्तं महाकात्यायनं दृष्ट्वा कथयति--दृष्ट्वा चिरस्य बर पुत्रकं पश्यामि, चिरस्य बत पुत्रकं पश्यामीति।
४८८.०२८. स्तनाभ्यां चास्याः क्षीरधाराः प्रसृताः।
४८८.०२८. आयुष्मता महाकात्यायनेन अम्ब अम्बेति समाश्वासिता।
४८८.०२९. तया आयुष्मान्महाकात्यायनो भोजितः।
४८८.०२९. तस्या आयुष्मता महाकात्यायनेनाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसम्प्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्।
४८८.०३२. सा दृष्टसत्या त्रिरुदानमुदानयति स्म--इदमस्माकं भदनत न मात्रा <४८९>कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भवता अस्माकं कृतम्।
४८९.००२. स्मुच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमौष्येषु।
४८९.००३. आह च--
४८९.००४. यत्कर्तव्यं सुपुत्रेण मानुर्दुष्करकारिणा।
४८९.००५. तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्॥६७॥
४८९.००६. दुर्गतिभ्यः समुद्धृत्य स्वर्गे च ते अहम्।
४८९.००७. स्थापिता पुत्र यत्नेन साधु ते दुष्कृतं कृतम्॥६८॥
४८९.००८. अथायुष्मान्महाकात्यायनस्तां भद्रकन्यां सत्येषु प्रतिष्ठाप्य कथयति--अम्ब, अवलोकिता भव, गच्छामीति।
४८९.००९. सा कथयति--पुत्र, यद्येवं मम किंचिदनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति।
४८९.०१०. तेन तस्या यष्टिर्दत्ता।
४८९.०१०. तया स्तूपं प्रतिष्ठाप्य सा तस्मिन् प्रतिमारोपिता।
४८९.०११. यष्टिस्तूप इति संज्ञा संवृत्ता।
४८९.०११. अद्यापि चैत्यवन्दका भिक्षवो वन्दन्त् ।
४८९.०१२. अथायुष्मान्महाकात्यायनो मध्यदेशमागन्तुकामः सिन्धुमनुप्राप्तः।
४८९.०१२. अथ या उत्तरापथनिवासिनी देवता, सा आयुष्मन्तं महाकात्यायनमिदमवोचत्--आर्य, ममापि किंचिच्चिह्नमनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति।
४८९.०१४. स संलक्षयति--उक्तं भगवता मध्यदेशे पुले न धारयितव्ये इति।
४८९.०१५. तदेते अनुप्रयच्छामीति।
४८९.०१५. तेन तस्यैते दत्त्
४८९.०१५. तया स्थण्डिले कारयित्वा ते प्रतिष्ठापिते इतश्चरसन्तिसंज्ञा संवृत्ता।
४८९.०१६. आयुष्मान्महाकात्यायनोऽनुपूर्वेण श्रावस्तीमनुप्राप्तः।
४८९.०१७. भिक्षुभिर्दृष्ट उक्तश्च--स्वागतं स्वागतमायुष्मन्।
४८९.०१७. किच्चित्कुशलचर्येति? स कथयति--आयुष्मन्तः, किंचित्सुखचर्या किंचिद्दुःखचर्येति।
४८९.०१८. भिक्षवः कथयन्ति--किं सुखचर्या किं दुःखचर्येति? स कथयति--यत्सत्त्वकार्यं कृतम्, इयं सुखचर्या।
४८९.०१९. यद्राजा शिखण्डी रौरुकनिवासी च जनकाय अहं च पांशुनावच्टब्धः, हिरुभिरुकौ चाग्रामात्यौ कृच्छ्रेण पलायितौ, इयं दुःखचर्येति।
४८९.०२१. अथ पाथाभिक्षवोऽवध्यायन्तः कथयन्ति--पितृमारकोऽसौ।
४८९.०२२. तेनायुष्मान् रुद्रायणोऽर्हत्त्वं प्राप्तः।
४८९.०२२. अदुष्यनयकारी प्रघतित इति।
४८९.०२२. इदं तस्य पुष्पमात्रम्।
४८९.०२३. अन्यत्फलं भविष्यतीति॥
४८९.०२४. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त आयुष्मता रुद्रायणेन कर्म कृतं येनाढ्ये महाधने महाभोगे कुले प्रत्याजातह्? भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? अर्हत्त्वप्राप्तश्च शस्त्रेण प्रघातित इति? भगवानाह--रुद्रायणेन भिक्षुणा कर्माणि कृतान्युपचित्तानि लब्धसम्भाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
४८९.०२८. रुद्रायणेन कर्माणि कृतान्युपचितानि।
४८९.०२८. कोऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च्
४९०.००१. <४९०>न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
४९०.००२. सामगरीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥६९॥ इति।
४९०.००३. भूतपूर्वं भिक्षवोऽतीतिध्वनि अस्ति बुद्धानां भगवतामुत्पादे प्रत्येकबुद्धा लोल उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः खङ्गविषाणकल्पा एकदक्षिणीया लोकस्य्
४९०.००५. यावदन्यतमस्मिन् कर्वटके लब्धुः प्रतिवसति।
४९०.००५. तस्य कर्वटकस्य च नातिदूरे उदपानं प्रभूतानां मृगाणामावासः।
४९०.००६. तत्रासौ लुब्धकः प्रतिदिनं प्रभूतान् कूटान् पाशालेपांश्च प्रतिक्षिपति प्रभूतानां मृगानामुत्सादाय विनाशाय अनयेन व्यसनाय्
४९०.००७. तस्य चामोघास्ते कूटाः पाशालेपाश्च्
४९०.००८. यावदन्यतरः प्रत्येकबुद्धो जनपदचारिकाअं चरंस्तं कर्वटकमनुप्राप्तो देवतायतने रातिंदिवा समुपागतः।
४९०.००९. स पूर्वाह्णे निवास्य पात्रचीवरमादाय तं कर्वटकमनुप्राप्तः।
४९०.००९. तन् कर्वटकं पिण्डाय प्राविक्षत् ।
४९०.०१०. ततः पिण्डपातमटित्वा संलक्षयति--इदं देवायतनं दिवा आकीर्णम्।
४९०.०११. बहिः कर्वटकस्य शान्ते स्थाने पिण्डपातं वेलां करोमीति।
४९०.०११. स कर्वटकान्निष्क्रम्येदं शान्तमिदं शान्तमिति येन तदुदपानं तेनोपसंक्रान्तः।
४९०.०१२. उपसंक्रम्य पात्रस्नावणमेकान्त उपनिक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य शीर्णपर्णकानि समुदानीय निषद्य भक्तकेत्यं कृत्वा हस्तौ निर्माद्य मुखं पात्रं च पात्रपरिस्रावणं यथास्थाने स्थाप्य पादौ प्रक्षाल्य अन्यतमवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेन निषण्णः।
४९०.०१६. तस्मिन् दिवसे मानुषगन्धेनैकमृगोऽपि न ग्रहणानुगतः।
४९०.०१६. अथ स लुब्धकः काल्यमेवोत्थाय येन तदुदपानं तेनोपसंक्रान्तः।
४९०.०१७. स तान् कूटान् पाशांश्च प्रत्येवेक्षितुमारब्धः।
४९०.०१८. एकमृगमपि नाद्रक्षीत् ।
४९०.०१८. तस्यैतदभवत्--ममामी कूटाः पाशालेपाश्चावन्ध्याः।
४९०.०१८. किमत्र कारणं येनाद्य एकमृगोऽपि न बद्ध इति?।
४९०.०१९. तदुदपानं सामन्तकेन पर्यटितुमारब्धः।
४९०.०१९. पश्यति मनुष्यपदम्।
४९०.०२०. स तेन पदानुसारेण गतः।
४९०.०२०. पश्यति तं प्रत्येकबुद्धं शान्तेनेर्यापथेन निषण्णम्।
४९०.०२१. स संलक्षयति--एते प्रव्रजिताः शान्तात्मान ईदृशेषु स्थानेष्वभिरमन्त्
४९०.०२१. यद्यद्याहमस्य जीवितापच्छेदं न करोमि, नियतमेष मम वृत्तिसमुच्छेदं करोति।
४९०.०२२. सर्वथा प्रघात्योऽयमिति।
४९०.०२३. तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन कराकारसदृशं धनुराकर्णं पूरयित्वा सविषेण शरेण मर्मणि ताडितः।
४९०.०२४. स महात्मा प्रत्येकबुद्धः संलक्षयति--मा अयं तपस्वी लुब्धोऽत्यन्तक्षतश्च भविष्यति, उपहतश्च्
४९०.०२५. हस्तोद्धारमस्य ददामीति।
४९०.०२५. स विततपक्ष इव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः।
४९०.०२६. आशु पृथग्जनस्य ऋद्धिरावर्जनकरी।
४९०.०२७. स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति--अवतरावतर सद्भूतदक्षिणीय, मम क्लेशपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति।
४९०.०२८. स तस्यानुकम्पार्थमवतीर्णः।
४९०.०२८. ततस्तेन विशल्यी कृतः।
४९०.०२९. उपनाहो दत्तः।
४९०.०२९. उक्तश्च--आर्य, निवेशनं गच्छमः।
४९०.०२९. यद्यत्र सुवर्णपणोऽपि दातव्यः, अहं परिप्रापयामीति।
४९०.०३०. स संलक्षयति--यन्मया अनेन पूतिकायेन प्राप्तव्यं तदिदानीं शान्तं निरुपधिशेषं निर्वाणधातुं प्रविशामीति।
४९०.०३१. स तस्यैव पुरस्तात्पुनर्गगनतलमभ्युद्गम्य विचित्राणि प्रतिहार्याणि विदर्श्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः।
४९०.०३२. धनवानसौ <४९१>लब्धः।
४९१.००१. तेन सर्वगन्धकाष्ठैश्चितां चित्वा ध्मापितः।
४९१.००१. सा चिता क्षीरेण निर्वापिता।
४९१.००१. तान्यस्थीनि नवे कुम्भे प्रक्षिप्य शारीरस्तूपः प्रतिष्ठापितः।
४९१.००२. छत्रध्वजपताकाश्चारोपिताः।
४९१.००२. गन्धैर्माल्यैर्धूपश्च कुम्भे कृत्वा पादयोर्निपत्य प्रणिधानं कृतम्--यन्मयैवंविधे सद्भूतदक्षिणीयेऽपकारो कृतः, मा अहमस्य कर्मनो भागी स्याम्।
४९१.००४. यत्तु कारा कृता, अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च गुणानां लाभी स्याम्, प्रतिविशिष्टतरं चातुः शास्तारमारागयेयं न विरागयोयमिति॥
४९१.००७. किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन तेन समयेन लुब्धकः, एष एवासौ रुद्रायणो भिक्षुः।
४९१.००८. यदनेन प्रत्येकबुद्धः सविषेण शरेण मर्मणि ताडितः, तस्य कर्मणो विपाकेन बहूनि वर्षशतानि बहूनि वर्षसहस्राणि नरकेषु पक्तः, तस्मिन्नपि चोदपाने सविषेण शरेण मर्मणि ताडितः, तेनैव च कर्मावशेषेणैतर्ह्यप्यर्हत्त्वप्राप्तः शस्त्रेण प्रघातितः॥
४९१.०११. पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं भदन्त शिखण्डिना रौरुकनिवासिना जनकायेनायुच्मता महाकात्यायनेन च कर्म कृतं येन पांशुनावष्टब्धाः, हिरुभिरुकौ त्वग्रामात्यौ निष्पलयिताविति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि प्ररिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यम्भावीनि।
४९१.०१४. एभिः कर्माणि कृतान्युपचितानि।
४९१.०१५. केऽन्यः प्रत्यनुभविष्यति? न ब्ःक्षवः कर्मणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वाअयतनेषु कर्मणि कृतानि विपच्यन्ते शुभान्यशुभानि च्
४९१.०१८. न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
४९१.०१९. समग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७०॥
४९१.०२०. भूतपूर्वं भिक्षवोऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति।
४९१.०२०. तेन सदृशात्कुलात्कलत्रमानीतम्।
४९१.०२१. स तया सह क्रीडते रमते परिचारयति।
४९१.०२१. तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः।
४९१.०२२. पुनरस्य क्रीडतो रममाणस्य परिचारयतो दारिका जाता।
४९१.०२२. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
४९१.०२३. या जन्मिका दारिकाः, तासां याचनका आगच्छन्ति।
४९१.०२४. तस्या न कश्चिदागच्छति।
४९१.०२४. असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनसनभक्ता एकदक्षिणीया लोकस्य्
४९१.०२५. यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः।
४९१.०२६. यावत्तया दारिकया गृहं संमृज्य वाटस्योपरिष्टात्संकारश्छोरितः।
४९१.०२७. तस्य प्रत्येकबुद्धस्य पिण्डपातमटतः शिरसि पतितः।
४९१.०२८. तयासौ दारिकया पतन् दृष्टः।
४९१.०२८. न चास्य विप्रतिसारचित्तमुत्पन्नम्।
४९१.०२८. नेइवम्।
४९१.०२९. तस्यास्तमेव दिवसं याचनक आगतः।
४९१.०२९. सा भ्रात्रा पृष्टा--किं त्वयाद्य कृतं येन ते याचनका नागता इति।
४९१.०३०. तया समाख्यातम्--मया तस्योपरि संस्कारशछोरितः।
४९१.०३०. तेन विपुष्पितम्।
४९१.०३१. तदा दारिकया अन्यस्या दारिकाया निवेदितम्।
४९१.०३१. तयाप्यस्या लोकस्येदं पापकं दृष्टिगतमुत्पन्नम्।
४९१.०३२. यस्या यस्या याचनका आगच्छन्ति, सा सा तस्य प्रत्येकबुद्धस्योपरि संकारम् <४९२>छोरयत्विति।
४९२.००१. असत्कारभीतवस्ते महात्मानः सर्वे प्रत्येकबुद्धाः।
४९२.००१. स तस्मात्कर्वटकात्प्रक्रान्तः।
४९२.००२. पञ्चाभिज्ञामृषीणामुपरि क्षेप्तुमारब्धाः।
४९२.००२. तेऽपि प्रक्रान्ताः।
४९२.००२. ततो मातापित्रोरुपरि क्षेप्तुमारब्धाः।
४९२.००३. तस्मिन् कर्वटके द्वौ गृहपती समकौ प्रतिवसतः।
४९२.००३. सा आभ्यामुक्ता--भवन्तः, असद्धर्मोऽयं वर्धते, विरमतेति।
४९२.००४. ताभ्यां निवारिताः प्रतिविरताः॥
४९२.००५. किं मन्यध्वे भिक्षवो यासौ दारिका यया प्रत्येकबुद्धस्योपरि संकारश्छोरितः, एष एवासु शिखण्डी।
४९२.००६. योऽसौ कर्वटकनिवासी जनकायः, एष एवासौ रौरुकनिवासी जनकायः।
४९२.००७. यदेभिः प्रत्येकबुद्धानामुपरि पापकं दृष्टिगरमुत्पन्नं कृतम्, अस्य कर्मणो विपाकेन पांशुनावष्टब्धाः।
४९२.००८. योऽसौ गृहपती याभ्यां निवारितम्, एतावेतौ हिरुभिरुकावग्रामात्यौ।
४९२.००९. तस्य कर्मणो विपाकेन निष्पलायितौ।
४९२.००९. योऽसौ दारिकाया भ्राता येन विपुष्पितम्, एष एवासौ कात्यायनो भिक्षुः।
४९२.०१०. यदनेन बिपुष्पितं तस्य कर्मणो विपाकेन पांशुनावष्टब्धः।
४९२.०११. यदि तेन न विपुष्पितम् (चित्तम्) न पांशुनावष्टब्धोऽभविष्यदिति।
४९२.०११. यदि तस्य पापकं दृष्टिगतमुत्पन्नमभविष्यत्, कात्यायनोऽपि भिक्षुः पांशुनावष्टब्धोऽनयेन व्यसनमापन्नोऽभविष्यदिति।
४९२.०१३. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः।
४९२.०१४. तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुलेष्वेव कर्मस्वाभोगः करणीयः।
४९२.०१५. इत्येवं वो भिक्षवः शिक्षितव्यमिति।
४९२.०१६. भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥
४९२.०१७. इति श्रीदिव्यावदाने रुद्रायणावदानं समाप्तम्॥
- अवदान ३८ **********
- अवदान ३८ **********
४९३.००१. दिव्३८ मैत्रकन्यकावदानम्।
४९३.००२. मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः।
४९३.००३. तद्यथानुश्रूयते--विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसम्भारो धनदसमानरत्नाश्रयः स्वजनकृपणवनीपकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव्
४९३.००७. परोपकारैकरसाभिरामा विभूतयः स्फीततरा बभूवुः।
४९३.००९. तस्यार्यसत्त्वस्य नभस्यरात्रे करा नवेन्दोः कुमुदावदाताः॥१॥
४९३.०११. तृष्णानिलैः शोकशिखाप्रचण्डैश्चित्तानि दग्धानि बहुप्रकारम्।
४९३.०१३. आशावतां सप्रणयाभिरामैर्दानाम्बुषेकैः शमयाम्बभूव् ।२॥
४९३.०१५. दृष्ट्वा लोकमिमं धनक्षयभयात्संत्यक्तदानोत्सवं लोकक्लेशपिशाचिकावशतया संदूषिताध्याशयम्।
४९३.०१७. कारुण्यात्स ददावनाथकृपणक्लीबातुरेभ्यो धनं मत्वा च प्रहतार्णवोर्मिचपलं स्वं जीवितं भूयसा॥३॥
४९३.०१९. येषु व्यासज्जचेता भुजगवरवधूभोगभीमेषु लब्धा गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम्।
४९३.०२१. वाताघातप्रनृत्तप्रवरनरवधूनेत्रपक्ष्माग्रलोलांस्तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः॥४॥
४९३.०२३. तस्मात्पुत्रधनत्वात्पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनैव विगतनिखिलप्रतीकारदारुणप्रभावमहता सुकृतान्तलयईकपरायणाः क्रियन्ते स्म, यदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुमारेभ्
४९३.०२७. यस्मिन् यस्मिंस्तनयसरसि स्वच्छपूर्णाम्बुपूर्णे वने(जाते)वृद्धिः समुदितमहावंशलक्ष्म्यम्बुजस्य्
४९३.०२९. तत्तत्तस्य प्रबलविरसं याति तीक्ष्णांशुमालैः शोषं मन्ये रविरिव जलं भागधेयार्कबिम्बम्॥५॥
४९४.००१. <४९४>रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम्।
४९४.००३. गङ्गाशङ्खदलावदातसलिलांस्तांस्तांश्च देवानसौ पुत्रार्थी शरणं ययौ बहु पुनर्दानं द्विजेभ्यो ददौ॥६॥
४९४.००५. यद्यज्जनो मङ्गलदेशनाभिर्व्रतोपवासाधिगतैश्च दुःखैः।
४९४.००७. पुत्रार्थसंसिद्धिनिमग्नबुद्धिर्विक्षिप्य खेदं स चकार तांस्तान्॥७॥
४९४.००९. एवमनेकप्रकारकायचेतसोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदाचित्कालेऽस्य पुत्रा जीविनो बभूवुः, तदैनमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित्साधुपुरुषोऽब्रवीत्--
४९४.०१२. कर्माण्येवावलम्बन्ति देहिनां सर्वसम्पदः।
४९४.०१३. भूतानां तुङ्गशृङ्गाद्वा विनिपातो न भूतय् ।८॥
४९४.०१४. संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना।
४९४.०१५. न च तेऽद्यापि जीवन्ति तत्र किं परिखिद्यस्।९॥
४९४.०१६. कर्माणि निर्मुच्य कथं भवेभ्यः स्वर्गौकसस्तुष्टिवशादिहेयुः।
४९४.०१८. ये यैर्विना नात्मभवं लभन्ते ते तैर्विना जन्म कथं भजेरन्॥१०॥
४९४.०२०. ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गितास्ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः।
४९४.०२२. त्वं केनापि विडम्बसे जडमतिः पुत्राशयोन्मत्तको यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात् ॥१२॥
४९४.०२४. विधिमपरमहं ते बोधयामि प्रसिद्ध्यै त्वमपि च कुरु तावत्संप्रसिद्ध्यै कदाचित् ।
४९४.०२६. यदि भवति सुतस्ते कन्यकानाम तस्य सकलजनपदेऽस्मिन् ख्यापयस्व प्रसिद्ध्या॥१३॥
४९४.०२८. अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकिरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयाम्बभूव्
४९४.०२९. स च--
४९४.०३०. निर्वान्तामलहेमशैलशिरसः प्रच्छेदगौरद्युतिः संपूर्णामलचन्द्रमण्डलसमच्छत्रोरुभास्वच्छिराः।
४९५.००१. <४९५>मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो भिन्नेन्दीवरफुल्लपत्रनिचयश्यामारुणान्तेक्षणः॥१४॥
४९५.००३. भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रह्लादिभिर्लक्षणैः।
४९५.००५. मूर्तिस्तस्य रराज चारुशिखराद्धेमं यथा भूच्युतं प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम्॥१५॥
४९५.००७. भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं समविपुलललाटं श्रीमदुत्तुङ्गनासम्।
४९५.००९. तनयमुदितचेता मैत्रकन्याभिधानं दशदिवसपरेण ख्यापयामास लोक् ।१६॥
४९५.०११. शरीरिणां वृद्धिकरैः समृद्धैर्विशेषयुक्तैर्विविधान्नपानैः।
४९५.०१३. सुधावदातैः स्फुटचन्द्रपादैः पयोधिवेलेव ययौ समृद्धिम्॥१७॥
४९५.०१५. धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः।
४९५.०१६. पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम्॥१८॥
४९५.०१७. अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः।
४९५.०१८. द्रव्यैर्वहनमारोप्य जगाहे चोदधिं मुदा॥१९॥
४९५.०१९. तिमिंगिलक्षोभविवर्धितोर्मिपयोदधौ मीनविपन्नपात्र्
४९५.०२१. पितर्यतीते जननीं जगाद चकार किं कर्म पिता ममेति॥२०॥
४९५.०२३. ततोऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेद्
४९५.०२४. आशापाशशताकृष्टो वारणस्येव मृत्यं न पश्यति।
४९५.०२५. विषयास्वादकृपणो वारणस्येव बन्धनम्॥२१॥
४९५.०२६. यद्यपि कथयिष्यामि पितरं यानपात्रिकम्।
४९५.०२७. एषोऽपि मम मन्दाया नाशमेष्यति तोयधौ॥२२॥
४९५.०२८. यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः।
४९५.०३०. तावद्युक्तं मम सुतमिमं मृत्युवक्त्रान्तरालं नानादुःखव्यसनगहनं व्याधिषक्तं निषेद्धुम्॥२३॥
४९६.००१. <४९६>परोऽपि यः साधुजनानुजुष्टं विहाय मार्गं श्रयते विमार्गम्।
४९६.००३. निवारणीयः स स्वमताज्जनेन प्रयत्नतः किं पुनरेव पुत्रः॥२४॥
४९६.००५. ततो जननी कथयांचक्रे--
४९६.००६. पुत्र औकरिकत्वेन पिता ते मामपूपुषत् ।
४९६.००७. यद्यहं सुखिता कार्या कार्षीरौकारिभूषणम्॥२५॥
४९६.००८. अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवन्द्य अन्यस्मिन्नहनि औकरिकापणं प्रससार्
४९६.०१०. पुण्यसम्भारमहतस्तस्य सत्त्वदयावतः।
४९६.०११. प्रथमेऽहनि संपन्नं चतुःकार्षापणं धनम्॥२६॥
४९६.०१२. स्वगर्भसंधारणदुःखितायै ददौ स तस्यै मुदितो जनन्यै।
४९६.०१४. दारिद्र्यदुःखव्यसनच्छिदायै धनं महाभोगफलप्रसूत्यै॥२७॥
४९६.०१६. अथ ये तस्मिन् पुरवरे चिरंतना औकरिकाः, ते तस्य तामभिवर्धमानां क्रियविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसस्तस्मिन्महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्--
४९६.०१९. गान्धिकापणिकः श्रेष्ठी पितैतस्मिन् पुरे पुरा।
४९६.०२०. स त्वं तां वृत्तिमुज्झत्वा श्रयसेऽन्यां कया धिया॥२८॥
४९६.०२१. अथ बोधिसत्त्वस्तामापि जीविकामपहाय गान्धिकापणं चकार--
४९६.०२२. यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम्।
४९६.०२३. कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यत् ।२९॥
४९६.०२४. तमपि मात्रे प्रतिपादितवान्।
४९६.०२४. अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुह्--
४९६.०२६. गान्धापणं क्लीबजनाभिपन्नं पिता न वै माद्य पुरे(?) चकार्
४९६.०२८. तत्रैव हैरण्यिकतां स कृत्वा धनानि भूयांसि समाप साधो॥३०॥
४९६.०३०. अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चक्रार्
४९६.०३१. तयापि तस्मिन् व्यवहारनीत्या हैरण्यिकांस्तानभिभूय सर्वान्।
४९७.००१. <४९७>लेभे दिने स प्रथमे महार्हः कार्षापणान् षोडश तान् ददौ च् ।३१॥
४९७.००३. दिने द्वितीये द्वात्रिंशत्कार्षापणमुपार्ज्य सः।
४९७.००४. दक्षिणीयविशेषायै मात्रे तानपि दत्तवान्॥३२॥
४९७.००५. अथ हैरण्यिकापणिकाः पुरुषा समेत्यागत्य च तं तस्मात्कर्मणो विनिवर्तनार्थमाहुह्--
४९७.००६. शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम्।
४९७.००७. कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान्॥३३॥
४९७.००८. प्रभञ्जनोद्धूतशिखाकराले हुताशने विस्फुरितस्फुलिङ्ग्
४९७.०१०. विवर्तितं श्लाघ्यमतीव पुंसां न तु स्ववृत्तेश्च्यवनं प्रवृत्तम्॥३४॥
४९७.०१२. महोरगाश्वासविघूर्णितोग्रैस्तरंगभङ्गैर्विषमं पयोधिम्।
४९७.०१४. अगाधपातालविलग्नमूलं पिता विगाह्यार्जितवान् धनं त् ।३५॥
४९७.०१६. यदाश्रितं कर्म जनानुवर्जिना त्वया विदग्धेन धनेप्सुनाधुना।
४९७.०१८. कथं न संप्राप्स्यसि भाग्यसम्पदं पितुर्व्यतीतेऽपि विशालिनीं श्रियम्॥३६॥
४९७.०२०. वित्तेश्वरोऽप्यर्थविभूतिविस्तरैर्नाशां सदर्थां विबभार यस्य्
४९७.०२२. तस्या महेन्द्रामलतुल्यकीर्तेः सूनुः कथं त्वं न बिभर्षि लज्जाम्॥३७॥
४९७.०२४. ये मृत्युं गणयन्ति नैव विपदि ग्रासं भजन्तेऽनघ गेहे बन्धुषु सूनुषु व्यपगतस्नेहात्मनोद्योगिनः।
४९७.०२६. ये नीत्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः प्राप्यार्थान् गजदन्तभङ्गसितयासिन्वन्त कीर्त्या जगत् ॥३८॥
४९७.०२८. अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्योऽपि तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच--अम्ब, सार्थवाहः किलास्माकं पिता पुरा।
४९७.०२९. तदनुज्ञां प्रयच्छ, यदहमपि महासमुद्रमवतरिष्यामीति।
४९७.०३०. सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासम्लक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदयेव स्वतनयमाह--
४९७.०३२. वत्स केन तवाख्यातं विनाकारणशत्रुना।
४९७.०३३. जीवितं कस्य तेऽनिष्टं त्वया क्रीडां करोति कः॥३९॥
४९८.००१. <४९८>दैवात्कथंचित्सम्प्राप्तं चक्षुरेकं त्वमद्य म्
४९८.००२. पुत्रक्लेशाभागिन्या मृत्युना ह्रियसेऽधुना॥४०॥
४९८.००३. न यावदेवं मम दुःखशल्यं प्रयाति नाशं प्रविदार्य शोकम्।
४९८.००५. कथं नु तस्योपरि मे द्वितीयं निपात्यते पापमयैरमित्रैः॥४१॥
४९८.००७. येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः।
४९८.००९. ते संत्यक्त्वा नयनगलिताश्रुप्रवाहार्द्रवक्त्रान् बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम्॥४२॥
४९८.०११. तन्मामनाथां प्रतिपालनीयां त्वज्जीविताशैकनिबन्धजीवाम्।
४९८.०१३. संत्यज्य यातुं कथमुद्यमस्ते मा सा कथा मा नु वचो मदीयम्(?)॥४३॥
४९८.०१५. स्वप्राणसंदेहकरीमवस्थां प्रविश्य नैकान्तसुखं प्रसाध्यम्।
४९८.०१७. संपत्तयो येन वणिग्जनस्य ततोऽहमेवं सुत वारयामि॥४४॥
४९८.०१९. स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं किंचिदीदृशं प्रत्याह--
४९८.०२१. वरं नैव तु जायेरन् ये जाता निर्धना जनाः।
४९८.०२२. जातस्य यदि दुःखानि वरं मृत्युर्न जीवितम्॥४५॥
४९८.०२३. आशया गृहमागत्य दीनदीनास्तपस्विनः।
४९८.०२४. अर्थिनो मम पापस्य यान्ति निःश्वस्य दुर्मनाः॥४६॥
४९८.०२५. ये शक्तिहीना विभवार्जनादौ ते देहिनो दुःखशतं सहन्त्
४९८.०२७. लोकं पुनर्दुःखशतोपतप्तं द्रष्टं न शक्नोमि चिरायमाणः॥४७॥
४९८.०२९. तस्माद्विलङ्घामि वचस्त्वदीयं यास्यामि तं त्वं प्रजहीहि शोकम्।
४९८.०३१. तत्रैव यायां निधनं समुद्रे छिन्नं मया वा व्यसनं जनस्य् ।४८॥
४९९.००१. <४९९>अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणीकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्धोषयामास्
४९९.००३. अस्यामेव पुरा पुरंदरपुरीप्रतिस्पर्धिपुर्यां वणिक्मित्रो नाम बभूव यत्सुरनरप्रख्यातकीर्तिध्वजः।
४९९.००५. पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्यमुष्मिन्दिने यातुं ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति॥४९॥
४९९.००७. अथ मैत्रकन्यको बोधिसत्त्वो विविधोपकरणसम्भारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविविधानां वणिजां पञ्चभिः शतैः कृतपरिवारः प्रससार्
४९९.००८. माता चैनं गच्छतीति श्रुत्वाह--ममैकपुत्रक, क्व यास्यसीति करुणकरुणाक्रन्दितमात्रपरायाणा कोमलविमलकमलदलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति।
४९९.०११. बाष्पसलिलधारापरम्परोद्भवोपरुध्यमानकण्ठी अनिलबलाकुलितगलितसजलजलदपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह--मा मां पुत्रक परित्यजय यासीति।
४९९.०१४. अनर्थरागग्रहमूढबुद्धयो नरा हि पश्यन्ति न केवलं हितम्।
४९९.०१६. सतां हिताधानविधानचेतसां गिरोऽपि शृण्वन्ति न भूतवादिनाम्॥५०॥
४९९.०१८. मैत्रकन्यकोऽपि धरणि{तल}निंनां मातरं शोकवश्यां शिरसि कुपितचित्तः पादवज्रेण हत्वा।
४९९.०२१. मुहुरुपचितशोकः कर्मणा प्रेर्यमाणस्त्वरितमतिरभूत्संप्रयातुं वणिग्भिः॥५१॥
४९९.०२३. ततः सा माता समुत्थायाह--पुत्रक,
४९९.०२४. मयि गमननिवृत्तिं कर्तुमत्युद्यतायां यदुपचितमपुण्यं मच्छिरस्ताडनात्त्
४९९.०२६. व्यसनफलमनन्तं मा तु भूत्कर्मणोऽस्य पुनरपि गुरुवाक्यं मातिगाः स्वप्नतोऽपि॥५२॥
४९९.०२८. अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमर्कटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलबलविलुलितविपुलविमलसलिलमरुणतरुणकिरणनिकररुचिरपद्मरागपुञ्जप्रभारागरञ्जितोर्मिमालाजलमसुरस्वरसमसुरपरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरंगभङ्गरौद्रं समुद्रमवततार्
५००.००१. <५००>महाअनिलोत्क्षिप्ततरंगभङ्गैः समुल्लसद्भिः खमिवोत्पतन्तम्।
५००.००३. सरित्सहस्राम्बुरयप्रवाहैर्भुजैर्विलासैरिव गृह्यमाणम्॥५३॥
५००.००५. प्रक्षुब्धशीर्षोरगभीमभोगव्यावर्तितोद्वर्तिततोयराशिम्।
५००.००७. तन्मूर्ध्नि रत्नोद्गतरश्मिपुञ्जं ज्वालाकलापोच्छ्रुरितोर्मिचक्रम्॥५४॥
५००.००९. अहिपतिवदनाद्विमुक्ततीव्रज्वलितविषानलदाहभीमशङ्खम्।
५००.०११. तिमिनखकुलिशाग्रदारिताद्रिं तदचलपादहताम्बुमीनवृन्दम्॥५५॥
५००.०१३. तुङ्गतरंगसमुद्गततीरं तीरनिलीनकलस्वनहंसम्।
५००.०१५. हंसनखक्षतदारुणमीनं मीनविवर्तितकम्पितवेलम्॥५६॥
५००.०१७. रत्नलतावृतभासुरशङ्खं शङ्खसितेन्दुगभस्तिविवृद्धम्।
५००.०१९. वृद्धभुजंगमहाभवरौद्रं रौद्रमहामकराहतचक्रम्॥५७॥
५००.०२१. खगपतिसविलासपाणिवज्रं प्रहतविपाटितदृष्टिमूलरन्ध्रम्।
५००.०२३. प्रमुदितजलदन्तिदन्तकोटिप्रमथितनैकविलासकल्पवृक्षम्॥५८॥
५००.०२५. तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटार्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रामतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः सम्यानपात्रकैः सह सहैव सलिलनिधेरधः प्रवेष्टुमारब्धम्।
५००.०३०. उर्वीधराकारतरंगतुङ्गैरुग्रैर्युगान्तानिलचण्डवेगैः।
५००.०३२. तद्यानपात्रं जलधेर्जलौघैरास्फाल्यमानं विददार मध्य् ।५९॥