दिव्यावदानम्/अवदानम् ५०१-५१२

विकिस्रोतः तः
← अवदानम् ४५१-५०० दिव्यावदानम्
अवदानम् ५०१-५१२
[[लेखकः :|]]

५०१.००१. <५०१>दंष्ट्राकराले झषववक्त्ररन्ध्रे कश्चिन्ममारार्तरवस्तपस्वी।
५०१.००३. केचिज्जलोद्गारनिरुद्धकण्ठा जग्मुर्निरुच्छ्वासगिरा व्यसुत्वम्॥६०॥
५०१.००५. गत्वापि केचित्फलकैर्महद्भिरम्भोनिधेस्तीरमवेक्षमाणाः।
५०१.००७. दूराम्बुसंतानपरिश्रमार्तास्त्रासाकुला नेदुरुदीर्णनादाः॥६१॥
५०१.००९. अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससम्भ्रमं फलकमादाय प्रससार्
५०१.०१०. ततोऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्यमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथाकथंचित्तस्य दुर्वगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद्
५०१.०१४. तीर्त्वा तमम्भोनिधिमप्रगाधमासाद्य तीरं फलकं मुमोच्
५०१.०१६. संस्मृत्य मातुर्वचनं स पाणा व्यासज्य मूर्धानमिदं जगाद् ।६२॥
५०१.०१८. शृण्वन्ति ये नात्महितं गुरूणां वाक्यं हितार्थोदयकार्यभद्रम्।
५०१.०२०. तेषामिमानि व्यसनानि पुंसामावाहयन्ति प्रभवन्ति मूर्ध्नि॥६३॥
५०१.०२२. तैरेव नैकव्यसनप्रदस्य तोयेन्दुबिम्बस्थितभङ्गुरस्य्
५०१.०२४. प्राप्तं फलं जन्मतरोः सुधीभिर्ये मानयन्तीह गिरो गुरूणाम्॥६४॥
५०१.०२६. मातुर्हितायैव सदोद्यतायाः प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य्
५०१.०२८. पुष्पं यदीदृग्भरपापदारुणं प्रान्तं गमिष्यामि कदा फलस्य् ।६५॥
५०१.०३०. हुतवहहतलेखात्यन्तपर्यन्तरौद्रं गमनपतितमुग्रं विस्मयात्यन्तवज्रम्।
५०१.०३२. गुरुशिरसि दधानः पादवज्रं खलोऽहं कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः॥६६॥

५०२.००१. <५०२>ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरिः श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा।
५०२.००३. ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्तेऽन्यथा दुस्तारे व्यसनोदधौ निपतिन्ताः शोचन्ति तेऽहं यथा॥६७॥
५०२.००५. ततोऽसौ क्रमेण खदिरवरसरलनिचुलबकुलतमालतालनालिकेरद्रुमवनगहनं प्रवरवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुलताजालदुःसंचरं क्वचित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथंचिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्वचित्स्थित्वैवमाह--
५०२.००९. एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः।
५०२.०११. सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान् हत्वा पाणितलैः प्रयान्ति विवशाः फूत्कारभीता नुनः॥६८॥
५०२.०१३. रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्कर्
५०२.०१५. वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसम्पादिभिः संगीताहितचतसः प्रमुदिता गायन्त्यमी किन्नराः॥६९॥
५०२.०१७. ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श्
५०२.०१८. क्वचिदुग्रतरचारुमणिप्रभया सुरभीकृतभीमगुहाविचरम्।
५०२.०२०. क्वचिदुद्धतकिन्नरगीतरवं प्रतिबुद्धससम्भ्रमनागकुलम्॥७०॥
५०२.०२२. चपलानिलवेल्लितपुष्पतरुं ततुमन्दिरमूर्ध्नि चलद्भ्रमरम्।
५०२.०२४. भ्रमरध्वनिपूर्णगुहाकुहरं कुहरस्थितरौद्रभुजंगकुलम्॥७१॥
५०२.०२६. पक्षिविराजितपर्वतशृङ्गं शृङ्गशिलातलसंस्थितसिद्धम्।
५०२.०२८. सिद्धवधूजनरम्यनिकुञ्जं कुञ्जनिसेवितमत्तशकुन्तम्॥७२॥
५०२.०३०. मत्तशिखण्डिकलस्वररम्यं रम्यगुहामुखनिर्गतसिंह्
५०२.०३२. सिंहनिनादभयाकुलनागं नागमदाम्बुसुगन्धिसमीरम्॥७३॥

५०३.००१. <५०३>क्वचिदुपचितवारणदन्तशिखाशनिदारितशिखरततं प्रविरूढविलासशिखागरुवृक्षवनम्।
५०३.००२. क्वचिदुपरिपयोधरभारतरलध्वनिरञ्जितशिखिकुलाविष्कृतपिच्छकलापविचित्रितचारुतटम्।
५०३.००३. क्वचिदनिलविकम्पितपुष्पतरुं स्खलितोज्ज्वलसुरभिबलं कुसुमप्रबलप्रतिवासितसानुशिखम्॥७४॥
५०३.००४. तथापरं ददर्श--
५०३.००५. लिखन्तं करालैर्नभः शृङ्गजालैः क्षिपन्तं मयूखैस्तमः सागराणाम्।
५०३.००७. वहन्तं समभ्राम्बरामद्रिगुर्वीं क्षरन्तं क्वचित्काञ्चनाम्भःप्रवाहम्॥७५॥
५०३.००९. फलितामलकासनकल्पतरुं तरुखण्डविराजितसानुशिखम्।
५०३.०११. शिखरस्थितदेववधूमिथुनं मिथुनैर्दहतां वयसा मधुरम्॥७६॥
५०३.०१३. क्वचिदर्कमहारथचक्रनिपातविखण्डितमयूखकलापकरालितनैकमहामणिपल्लवसंचयं मौलिभरावनतोन्नतभासुरवज्रधरम्।
५०३.०१५. क्वचिदिन्द्रकरीन्द्रविमर्दतरंगनयभ्रमितप्रचलत्कलहंसकुलावलिहारनभस्सरिदम्बुविधौतशिलम्।
५०३.०१७. क्वचिदण्डजराजविलाससमुच्छ्रितयक्षमहाभुजवज्रविपाटितसागरवारितलोद्धृतपन्नगभोगधरम्।
५०३.०१९. क्वचिदेव सुरासुरसम्युगशस्त्रविपन्नमहासुरविद्रुतशोणितरङ्गमहावलयम्॥७७॥
५०३.०२१. दृष्ट्वैवमाह--
५०३.०२२. एते पर्वतशृङ्गवन्दनतरुच्छायास्थलं संसृताः कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः।
५०३.०२४. प्रेक्षन्ते मदवारिलोलमधुलिट्प्रोल्लीढगण्डस्थलं दर्पात्केसरिणो बलेन महता प्रोन्मथ्यमाना गजम्॥७८॥
५०३.०२६. इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रन्नज्ञानतमःपटलावगुण्ठितमिव जगत्संसारपङ्के त्रिभुवनस्वामीवोदयद्रमणकं नाम नगरं ददर्श्
५०३.०२८. समुच्छ्रितोत्तुङ्गचलत्पताकैः पतत्पतत्रिस्वनवावदूकैः।
५०३.०३०. सुवर्णसालैर्मणिहेमशृङ्गैर्महीधराकारगृहैः सुगुप्तैः॥७९॥
५०३.०३१. निलीनपद्मालिकुलालिपद्मैः समुन्मिषत्पद्मरजःपिशङ्गैः।

५०४.००१. <५०४>कलप्रलापाण्डजरावरम्यैर्मन्दानिलैरावस्थीकृतं सदा॥८०॥
५०४.००३. सुरकरिकरजध्नकल्पवृक्षैर्मरकतरत्नतृणैः शुकांशुनीलैः।
५०४.००५. मणिकनकलतानिबद्धशाखैः क्वचिदुरुभिस्तरुभिः प्रकामहारि॥८१॥
५०४.००७. विकसितनवकर्णिकारगौरैः कनकगृहैर्बहुरत्नशृङ्गचित्रैः।
५०४.००९. स्वकिरणरुचिरोरुरत्नसानोरचलपतेः सकलश्रियं दधानम्॥८२॥
५०४.०११. क्वचिदमरविलासिनीकराग्रप्रहतमहामुरजस्वनाभिरामम्।
५०४.०१३. क्वचिदुपरिपयोदतूर्यनादप्रमुदितमत्तशिखण्डिवृन्दकीर्णम्॥८३॥
५०४.०१५. ततस्तद्दर्शनात्समुत्पन्नजीविताशोऽसौ रमणं नगरमुपससर्प्
५०४.०१५. तस्मान्नगराद्विनिःसृत्य चतस्रोऽप्सरसो द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः क्वणद्रुचिरविविधमणिमेखलापभा(प्राग्भा)रमन्दविलासगतयः कनककलशाकारपृथुतरपओधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मैत्रकन्यस्य बोधिसत्त्वस्य पादयोर्विन्यसितशिरसः प्राहुह्--
५०४.०२१. सुस्वागतं चन्द्रसमाननाय नारीजनप्रीतिविवर्धनाय्
५०४.०२३. कृपामृताह्लादितमानसाय बोधौ चिराबद्धविनिश्च्ययाय् ।८४॥
५०४.०२५. अद्यैव दुःखानि शमं गतानि अद्यैव नो जीवितमात्तसारम्।
५०४.०२७. निरत्ययप्रेमविशेषभद्राण्यद्यैव सौख्यानि पुरः स्थितानि॥८५॥
५०४.०२९. इमानि दुःखाङ्कुशखण्डितानि मनांसि नः शोकपरिक्षतानि।
५०४.०३१. भवन्तमासाद्य वसन्तकाले वनान्तराणीव विजृम्भितानि॥८६॥

५०५.००१. <५०५>यान्यर्जितान्यन्यभवान्तरेषु कर्माणि शुक्लानि शुभोदयानि।
५०५.००३. तेषां फलं वीक्षणमेव तेऽलं सङ्गस्त्वया किं पुनरेव दीघ्यम् (र्घ?) ॥८७॥
५०५.००५. अद्यैव मा बन्धुसुहृद्वियोगशोकंकथाः कस्य न सन्त्यपायाः।
५०५.००७. दास्यो वयं तेऽप्सरसश्चतस्रह्छाया न ते लङ्घयितुं समर्थाः॥८८॥
५०५.००९. रत्नानि वासांसि समुज्ज्वलानि शय्याश्रयाश्चारुतरा वयं च्
५०५.०११. संत्यभर्ताः सुरराजयोग्या शक्तिर्विधेनेह(?) सुखं भजस्व् ।८९॥
५०५.०१३. अपि च्
५०५.०१४. दुःखे महत्यप्रतिकारघोरे ये वर्तमानाश्चिरमुद्वहन्ति।
५०५.०१६. ते दुःखभारोपनिपातमूढास्तत्रैव शीघ्रं निधनं प्रयान्ति॥९०॥
५०५.०१८. नित्ये वियोगे मरणात्पुरःस्थिते शोचन्ति ते देशकृते वियोग्
५०५.०२०. संस्मृत्य रोगोपनिपातमूढाः कामप्रहाराद्विषमं प्रपन्नाः॥९१॥
५०५.०२२. शब्दायमानवरनूपुरमेखलाभिरादिश्यमानभवनं प्रवराप्सरोभिः।
५०५.०२४. हैमाद्रिशृङ्गमिव तत्पुरमाविशन्तं नेमुः कृताञ्जलिपुटा बहवोऽपि तत्र् ।९२॥
५०५.०२६. अन्यैश्च पुनह्--
५०५.०२७. किं दीप्तरश्मिर्विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः।
५०५.०२९. हा किं विनिक्षिप्य खराग्रवज्रो नाथः सुराणामिति तर्कितोऽभूत् ॥९३॥
५०५.०३१. तिमिरनिकरलेख्याः श्यामलोपक्ष्मलेख्याह्(?) स्फुटितकनकहारा न्यस्तरत्नोज्वलाङ्गाः।

५०६.००१. <५०६>विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसोऽन्याश्चिक्षिपुः स्रस्तकाञ्चयः॥९४॥
५०६.००३. रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम्।
५०६.००५. चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम्॥९५॥
५०६.००७. तासां विलासैर्गमनैः सलीलैर्हासैः कटाक्षैर्मधुरैः प्रलापैः।
५०६.००९. क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः॥९६॥
५०६.०११. प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म्
५०६.०११. सोऽपि यथा यथा निवार्यते, तथा तथा तया दिशा गमनायौत्सुक्यमना बभूव्
५०६.०१३. यत्रायं वार्यते लोको जनेन हितबुद्धिना।
५०६.०१४. विपर्यस्तमतिस्तत्र जनः स परिधावति॥९७॥
५०६.०१५. यदि कुर्यादयं लोके सुहृदां वचनं हितम्।
५०६.०१६. परैति स्वर्गं पाताले श्वभ्रे वा स्वप्नतोऽपि न् ।९८॥
५०६.०१७. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसामपरिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श्
५०६.०१८. तस्मादपि नगरादष्टाप्सरसः ससम्भ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः।
५०६.०१९. तत्राप्यतिचिरं रतिमनुभूय प्रतिषिद्धमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श्
५०६.०२०. तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामास्
५०६.०२१. तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ।
५०६.०२१. तत्रापि द्वात्रिंशताप्सरोभिः प्रभूतसत्कारं विषयसुखं भुक्त्वा ताः प्राह--
५०६.०२३. इच्छामि गन्तुं तदहं भवन्त्यो मा मत्कृते शोकह्रदे शयीध्वम्।
५०६.०२५. संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोक् ।९९॥
५०६.०२७. स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद्भवितान्तकाल्
५०६.०२९. तेनैव नेत्राश्रुजलार्द्रगण्डान् युष्मान् विहायाद्य यियासुरस्मि॥१००॥
५०६.०३१. वाताहताम्भोधितरंगलोले ये जीवलोके बहुदुःखभीम्

५०७.००१. <५०७>विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः॥१०१॥
५०७.००३. अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकरोपितहृदयाः ससम्भ्रमाः कमलकुवलयकुन्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुह्--
५०७.००५. अस्मासु ते कर्तुमनिष्टमिष्टं कथं हि भक्तिप्रणयार्पितासु।
५०७.००७. सोऽन्येन एकग्रहणीयरूपः शरीरदानेन वयोऽग्रहीत्त् ।१०२॥
५०७.००९. गत्वा तन्नगरत्रयं यदपि हे स्वामिन्निहाप्यागतः संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम्।
५०७.०११. गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किं यासि चेत्संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः॥१०३॥
५०७.०१३. बोधिसत्त्वः प्राह--
५०७.०१४. यदभ्यासवशान्नृर्णामुदयः संपदस्थिरा।
५०७.०१५. कथं तेषु निवार्येरन्निवर्तेरन् कथं नु वा॥१०४॥
५०७.०१६. नियोजनीयाः सुहृदोऽसुहृद्भिर्यस्मिन् हिते कर्मणि नित्यकालम्।
५०७.०१८. निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो मित्रतया भवन्ति॥१०५॥
५०७.०२०. दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा आयातोऽस्मि निषेवणाय परं सौख्यं सदामत्तकम्।
५०७.०२२. संप्राप्तोऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः॥१०६॥
५०७.०२४. तस्मादतो मे गमनं भवन्त्यो मा वारयध्वं न हि नोऽस्त्यपायः।
५०७.०२६. अस्माद्विशेषाणि सुखानि मन्ये लप्स्येऽहमित्युच्चलितोऽहमद्य् ।१०७॥ इति।
५०७.०२८. अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गलप्रघटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरम्।
५०७.०३१. तस्य च द्वारदेशमुपचक्राम्

५०८.००१. <५०८>सम्प्राप्तमात्रस्य तु तत्क्षणेन द्वारं च पुस्फोट कपाटभारम्।
५०८.००३. वज्राग्रधारोपरिभिन्नसानोर्विन्ध्याचलस्येव नितम्बकुक्षिः॥१०८॥
५०८.००५. ततो मैत्रकन्यको बोधिसत्त्वोऽत्र विवेश्
५०८.००६. प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम्।
५०८.००८. तत्कर्मवायुप्रभवैर्महद्भिः क्षणाद्भुजाग्रैरिव संजघाट् ।१०९॥
५०८.०१०. अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तम्।
५०८.०११. श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ्
५०८.०१२. प्रविष्टमात्रस्य ततो द्वितीयमास्फालितं द्वारमिवापरुद्धम्।
५०८.०१४. पर्यन्तकालानिलवेगविद्धं द्वारं सुराणामिव वज्रकल्पम्॥११०॥
५०८.०१६. ततो मैत्रकन्यको बोधिसत्त्वः प्रविवेश्
५०८.०१७. प्रविष्टमात्रस्य पुनस्तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम्।
५०८.०१९. क्षणादभूत्तन्नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः॥१११॥
५०८.०२१. ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूराज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्क्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषम्।
५०८.०२४. समीपं चोपगम्यैनं पर्यपृच्छत्--
५०८.०२५. किं नागोऽसि सुरोऽसि किन्नरवरो यक्षोऽसि किं मानुषः किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचोऽसि वा।
५०८.०२७. किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं यास्यामि व्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत् ॥११२॥
५०८.०२९. पुरुषः प्राह--
५०८.०३०. नाहं नागो नैव यक्षो न देवो दैत्यो नाहं नापि गन्धर्वराजः।

५०९.००१. <५०९>रक्षो नाहं नापि विद्याधरोऽपि जातिस्तुल्या संप्रतीहि त्वया नः॥११३॥
५०९.००३. बोधिसत्त्वः प्राह--
५०९.००४. किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं येनेदं ज्वलितानलं शिरसि चक्रं भ्रमत्यायसम्।
५०९.००६. पुरुषः प्राह--
५०९.००७. नानादुष्करकारिका भगवती संसारसंदर्शिका तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया॥११४॥
५०९.००९. यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां दैवावेशवशादकार्यगुरुकस्तस्या जनन्या महत् ।
५०९.०११. साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयस्तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम्॥११५॥
५०९.०१३. अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह--
५०९.०१५. अन्यं जुगुप्साम्यहमल्पबुद्धिरात्मानमेवाद्य निनिन्द अज्ञः।
५०९.०१७. येषु स्वयं दोषगुणेषु मग्नस्तैरेव लोकं कथमङ्कयामि॥११६॥
५०९.०१९. मयापि यन्मातरि दक्षिणीयैह्(णायाम्?) कृतोऽपराधः पुरुषाधमेन्
५०९.०२१. तस्यैव पापस्य फलानि भोक्तुमुल्लङ्घ्य तोयावलिमागतोऽस्मि॥११७॥
५०९.०२३. अथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात्सजलजलदनिनादगम्भीरधीरो ध्वनिरुच्चचार--
५०९.०२५. किं न पश्यति कर्माणि बलवन्ति शरीरिणाम्।
५०९.०२६. लोकालोकान्तरस्थायी पाशेनेव विकृष्यत् ।११८॥
५०९.०२७. ये बद्धा विषयेण दुःखनिगडेनायासकर्मोत्कटे ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वत्
५०९.०२९. मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैर्मानुष्यं यदवाप्य मूढमतयो दूरे स्थिता जर्मिणह्(जन्मिनह्?) ॥११९॥
५०९.०३१. अथ तस्य वचनानन्तरमेव कर्मानिलावेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युद्गम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयद्भ्रमितुमारब्धम्।
५०९.०३४. क्षणात्स रेजे रुधिरप्रवाहैर्मूर्ध्ना च्युतैः स्नातसमस्तमूर्तिः।

५१०.००१. <५१०>प्रभिन्नचक्राग्रविभिन्नमूर्ध्ना ऐरावणस्येव तनुः पतन्ती॥१२०॥
५१०.००३. ततः स पुरुषो हा हेति मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह--
५१०.००५. दिव्याङ्गनागीतमनोहराणि चित्तप्रमोदोदयसाधनानि।
५१०.००७. संत्यज्य कर्माद पराणि तानि प्राप्तस्त्विदं स्थानमनन्तदुःखम्॥१२१॥
५१०.००९. देवालयं दिव्यसुखोपभोगं को नाम संप्राप्य शुभैरतुल्यैः।
५१०.०११. नित्यं ज्वलद्वह्निशिखाकरेण संप्रार्थयेद्भीममपायगर्तम्॥१२२॥
५१०.०१३. बोधिसत्त्वः प्राह--
५१०.०१४. सत्तालिकोलाहलसंकुलानि वनानि पुष्पोज्ज्वलमस्तकानि।
५१०.०१६. संत्यज्य नागा व्यसनं सहन्ते यया तयेच्छालतया गतोऽहम्॥१२३॥
५१०.०१८. राज्यानि विस्तीर्णधनोज्ज्वलानि विहाय नारीमुखपङ्कजानि।
५१०.०२०. युद्धे म्रियन्ते बहवो नरेन्द्रा यया तयेच्छालतया गतोऽहम्॥१२४॥
५१०.०२२. समुत्पतत्तुङ्गतरंगरोद्रौ भ्रमज्जलावर्तविमुक्तनाद्
५१०.०२४. महोदधौ यान्ति नराः प्रणाशं यया तयेच्छालतया गतोऽहम्॥१२५॥
५१०.०२६. निरत्ययात्यन्तिकसौख्यसाधनं नरामरश्रीसुखसिद्धिमार्गम्।
५१०.०२८. मुनीश्वराणां व्रतमुत्सृजन्ति यया तयेच्छालतया गतोऽहम्॥१२६॥
५१०.०३०. तेषां मुनीनां विगतव्यथानां देयं कथं पादरजेन मूर्ध्नि।
५१०.०३२. यैर्लङ्घितास्तीव्रविषप्रचण्डा आशाप्रपाता बहुदुःखभीमाः॥१२७॥

५११.००१. <५११>किं तद्भवेद्दुःखमतीव तीव्रं का वा विपत्तिर्बहुदुःखयोनिः।
५११.००३. तृष्णाविषाग्निक्षतचित्तवृत्तेर्या दूरतः संपरिवर्तिनी स्यात् ॥१२८॥
५११.००५. अपि च हे साधो,
५११.००६. कर्मणा परिकृष्टोऽस्मि वर्तमानोऽपि दूरतः।
५११.००७. कर्षति प्राणिनस्तत्र फलं यत्र प्रयच्छति॥१२९॥
५११.००८. अपि च--
५११.००९. कति वर्षसहस्राणि कति वर्षशतानि च्
५११.०१०. प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति॥१३०॥
५११.०११. पुरुषः प्राह--
५११.०१२. षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च्
५११.०१३. प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति॥१३१॥
५११.०१४. बोधिसत्त्वः प्राह--
५११.०१५. एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं कोऽन्योऽवभ्रमितं प्रयास्यति समं छित्त्वा परश्चैष्यति।
५११.०१७. पुरुषः प्राह--
५११.०१८. यो मातर्यपकारकर्तुमनसः कृत्वा समायास्यति तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना तव प्रच्युतम्॥१३२॥
५११.०२०. अथ बोधिसत्त्वस्तेन मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयोऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे--
५११.०२२. क्षपितसकलरागक्लेशजालान्धकारा गगनतलनिलीना योगिनो ये नमस्याः।
५११.०२४. स्फुरितकटकहाराः प्रज्वलन्मौलयो ये पुनरमरसमूहास्तेऽपि शेण्वन्तु सन्तः॥१३३॥
५११.०२६. कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नं यदि प्रोद्वहेदेतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि।
५११.०२८. कल्पं कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे सत्त्वार्थं प्रतिपद्यमानमस्य हि मे चित्तं न संखिद्यत् ।१३४॥
५११.०३०. अथ तस्य सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना समुत्पाट्योत्क्षिप्तमिव तच्चक्रं सप्ततालोच्छ्रयाच्चक्रं नभस्तलं समुत्पत्यावतस्थ्
५११.०३२. रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम्।
५११.०३४. उद्यद्बिम्बमिवारुणस्य सकलप्रोन्मुक्तरश्म्युत्करं रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः॥१३५॥

५१२.००१. <५१२>ततः स्रवन्निर्झरवारिचारिणः समीरणोल्लासितपुष्पशाखिनः।
५१२.००३. नभो विचुम्ब्यायतशृङ्गबाहवश्चकम्पिरे भूमिभृतो हता इव् ।१३६॥
५१२.००५. भुजंगविक्षोभसमुद्गतोर्मयः पयोधरध्वानगभीरनादिनः।
५१२.००७. जलालया रत्नशिखानिवासिनस्तदातिवेलासलिलैर्ललङ्घिर् ।१३७॥
५१२.००९. प्रमुक्तनिःशेषमयूखभासुरं रराज खे मण्डलमंशुमालिनः।
५१२.०११. रवेर्मयूखाङ्कुरदन्तुरान्तराद्दिशः समन्ताद्ददृशुः स्फुटश्रियः॥१३८॥
५१२.०१३. स्फुरत्तडिद्दामविराजितोरसः सुरेन्द्रचापप्रतिबद्धकङ्कणाः।
५१२.०१५. पयोमुचः किंचिदवास्रुताम्भसो वितानवद्व्योमनि ते विरेजिर् ।१३९॥
५१२.०१७. स्रजो विचित्रा विनिपेतुरम्बरात्वितुष्टुवुर्हृष्टतरा दिवौकसः।
५१२.०१९. चिरप्रगाढव्यसना हतार्तयः क्षणादभूवन् बहवो निरामयाः॥१४०॥
५१२.०२१. ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायो गलितरुधिरधारासिक्तसर्वाङ्गकायः।
५१२.०२३. भगवति गुणराशौ संप्रसाद्य स्वचित्तं स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन् ।१४१॥
५१२.०२५. दानोदकमहत्तीर्थे शीलशौचसुनिर्मल्
५१२.०२६. क्षमासुरभिशीताच्छे वीर्यागाधप्रवाहक् ।१४२॥
५१२.०२७. ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधक्
५१२.०२८. तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः॥१४३॥
५१२.०२९. प्रक्षालयेच्छेषपापं तुषितेऽसौ ययौ मुदा।
५१२.०३०. तत्रस्थोऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः॥१४४॥
५१२.०३१. तत्किमिदमुपनीतम्? एवं हि मातर्यपकारिणः प्राणिनहिहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानसानसैः सत्पुरुषैर्मातरः शुश्रूषणीया इति॥


५१२.०३३. इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम्॥