दिव्यावदानम्/अवदानम् ४०१-४५०

विकिस्रोतः तः
← अवदानम् ३५१-४०० दिव्यावदानम्
अवदानम् ४०१-४५०
[[लेखकः :|]]
अवदानम् ४५१-५०० →

४००.००१. <४००>मत्स्यो धान्यं भवेद्भोगायामिषादौ यवे धनम्।
४००.००२. भोगसौभाग्यं जानीयान्मीनादौ नात्र संशयः॥७६७॥
४००.००३. पताकाभिर्ध्वजैर्वापि शक्तिभिस्तोमरैस्तथा।
४००.००४. तलस्थैरङ्कुशैश्चापि विज्ञेयः पृथिवीपतिः।
४००.००५. राजवंशप्रसूतं च राजमात्रं विनिर्दिशेत् ॥७६८॥
४००.००६. प्रेष्क्यन्ते शाखया पञ्च हस्ते चत्वार एव च्
४००.००७. क्षत्रियो वा भवेद्भोगी राजभिश्चापि सत्कृतः॥७६९॥
४००.००८. वैश्योऽथ क्षत्रियो वाग्मी धनधान्यं न संशयः।
४००.००९. शूद्रो विपुलभागी स्यात्पर्वशीलोऽथ नैष्ठिकः॥७७०॥
४००.०१०. सततमभिपूज्यः स्यात्सर्वेषां च प्रियंवदः।
४००.०११. विशीलः शीलकुञ्चो वा बहुभिर्न बहुस्तथा॥७७१॥
४००.०१२. श्यामवर्णाथ भिन्ना वा सा लेखा दुःखभागिनी।
४००.०१३. त्रिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करस्थिताः।
४००.०१४. महाभोगो महाविद्वाञ्जीवेद्वर्षशतं च सः॥७७२॥
४००.०१५. अजपदं राजच्छत्रं शङ्खचक्रपुरस्कृतम्।
४००.०१६. तलेषु यस्य दृश्यन्ते तं विद्यात्पृथिवीपतिम्॥७७३॥
४००.०१७. भगस्तु भाग्याय ध्वजैः पताकैर्हस्त्यश्वमालाङ्कुशतश्च राजा।
४००.०१९. मत्स्यो नु पानाय यवो धनाय वेदिस्तु यज्ञाय गवां च गोष्ठः॥७७४॥
४००.०२१. अनामिकापर्व अतिक्रमेद्यदि कनिष्ठिका वर्षशतं स जीवति।
४००.०२३. समे त्वशीतिर्वर्षाणि सप्तभिर्यथा नदीनां भरिताय निर्दिशे ।७७५॥
४००.०२५. शरीरवर्णप्रभवां तु लेखां सवैशिखां वर्णविहीनकां च्
४००.०२७. समीक्ष्य नीचोत्तममध्यमानां दारिद्र्यमध्ये चरतां विजानताम्॥७७६॥
४००.०२९. अभ्यञ्जनोद्वर्तनसत्करी{षै}रध्यक्षचुर्णैश्च विमृज्य पाणिम्।
४००.०३१. प्रक्षाल्य चैकान्तरघृष्टलेखामेकाग्रचित्तस्तु करं परीक्षेत् ॥७७७॥

४०१.००१. <४०१>वलयसमनराधिपं भजन्त्यः समनुगता मणिबन्धने तु तिस्रः।
४०१.००३. द्विरपि च {स} भवान्तरे महात्मा विपुलधनश्रिय आह वस्त्रलाभः॥७७८॥
४०१.००५. ददति सततमुन्नतस्तु पाणिर्भवति चिराय तु दीर्घपीनपाणिः।
४०१.००७. परिपतति शिराविरुद्धपाणिर्धनमधिगच्छति मांसगूढपाणिः॥७७९॥
४०१.००९. सुदृश {करतलैश्च} साधवस्ते कुटिलकृतैर्विनिमीलितैश्च धूर्ताः।
४०१.०११. भवति रुधिरसंनिभः सुरक्तश्चिरमिह पिण्डितपाणिरीश्वरः स्यात् ॥७८०॥
४०१.०१३. धृतरुचिरमनाः शिलारविन्दैर्ज्वलनकषायसुवर्णपाणिरा{जिह्}।
४०१.०१५. भवति बहुधनो निगूढपाणिश्चिरमिह जीवति पानभोगभोगी॥७८१॥
४०१.०१७. सुभग इह तथोष्णदीर्घपाणिर्ध्रुवमिह शीतलपाणिकस्तु षण्ढः।
४०१.०१९. इह हि बहुधनो बलेन युक्तः सुतनुसुसंचितपाणिरेखको यः॥७८२॥
४०१.०२१. धनमुपनयतीह पाणिलेखा कृतजनिता जलवच्च या सुदीर्घा।
४०१.०२३. जलवदनुगता सुवर्णवर्णा धनमधिगच्छति निंनशोन्नता या॥७८३॥
४०१.०२५. धनमुपलभते सुरक्तपाणिर्विपुलमथो च निरन्तराङ्गुलिः स्यात् ।
४०१.०२७. बलिपुरुषमपि त्यजेद्धि वित्तं दितविवशा (?) च विशीर्णवर्णलेखा॥७८४॥
४०१.०२९. अपगतघृतवर्णपाणिलेखो भवति नरो धनवान् बलेन युक्तः।
४०१.०३१. असुभृतिसदृशा भवेत्तथा भूषणवृत {रूपवती सुभा} एकभार्या॥७८५॥

४०२.००१. <४०२>भवति बहुधनो धनैर्विहीनः श्रुतमधिगम्य विशालपाणिलेखः।
४०२.००३. {सु}ऋजुभिरहिनीलनिर्मला{भिह्} करतलराजि {भिरीश्वरः स धन्यह्}॥७८६॥
४०२.००५. अयं भोः पुष्करसारिन् करतललेखानामाध्यायः॥
४०२.००६. अथ खलु भोः पुष्करसारिन् वायसरुतं नामाध्यायं व्याख्यास्यामि।
४०२.००६. तच्छ्रूयताम्।
४०२.००७. अथ किम्।
४०२.००७. कथयतु भगवांस्त्रिशङ्कुः।
४०२.००७. नमोऽर्हताम्।
४०२.००७. तेषां नमस्कृत्वा--
४०२.००८. वायसरुतम्।
४०२.००९. इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभाशुभम्।
४०२.०१०. जयं पराजयं चैव लाभालाभं तथैव च् ।७८७॥
४०२.०११. सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा।
४०२.०१२. वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥७८८॥
४०२.०१३. देवाः प्रवदन्ति श्रेष्ठा वायसानां नमो नमः।
४०२.०१४. आगता मानुषं लोकं वायसा बलिभोजनाः॥७८९॥
४०२.०१५. प्रस्थितस्य यदाध्वानमग्रतो वायसो भवेत् ।
४०२.०१६. व्याहरन् क्षीरिवृक्षस्थो निर्दिशेदर्थसिद्धिताम्॥७९०॥
४०२.०१७. स्वरेण परितुष्टेन फलवृक्षसमाश्रितः।
४०२.०१८. पुनरागमनं चैव सिद्धमर्थनिवेदितम्॥७८१॥
४०२.०१९. विवृद्धवृक्षपत्राणि मधुरं चानुवासति।
४०२.०२०. असूपं निर्दिशेद्भोज्यं गुडमिश्रं तु गोरसम्॥७८२॥
४०२.०२१. दृष्टस्तु तुण्डपादेन आत्मनः परिमार्जति।
४०२.०२२. पायसं सर्पिषा मिश्रं तत्र विद्यान्न संशयः॥७८३॥
४०२.०२३. रूक्षं निर्घर्षते तुण्डं शिरश्च परिमार्जति।
४०२.०२४. सफलं वृक्षमास्थाय ध्रुवं मांसेन भोजनम्॥७८४॥
४०२.०२५. लोचयति व्याहरति फलवृक्षसमाश्रितः।
४०२.०२६. व्याधेन च हतं मांसं निवेदयति भोजनम्॥७८५॥
४०२.०२७. घोरं व्याहरते कार्यं वायसो वृक्षमाश्रितः।
४०२.०२८. कलहं संग्रामभयं तत्र विद्यान्न संशयः॥७८६॥
४०२.०२९. शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत् ।
४०२.०३०. कलहं सुमहत्कृत्वा न चार्थं तत्र सिध्यति॥७८७॥
४०२.०३१. क्षीरिवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत् ।
४०२.०३२. क्रमेण युगमात्रेण न चार्थं तत्र सिध्यत् ।७८८॥

४०३.००१. <४०३>शुष्कवृक्षे निषीदित्वाऽकामुकाकम्ऽ प्रवाशति।
४०३.००२. तत्क्षणं संनिवेदेति तत्र चौरभयं भवेत् ॥७९९॥
४०३.००३. शुष्कवृक्षे निषीदित्वाऽकामुकाकम्ऽ प्रवाशति।
४०३.००४. पृष्ठेन दर्शयेद्भारं क्षुधापीडां च निर्दिशेत् ॥८००॥
४०३.००५. पक्षं विधूयमानो यः पश्यन् पथस्य वाशति।
४०३.००६. न तत्र गमनं कुर्याच्चौरैः पथमुपद्रुतम्॥८०१॥
४०३.००७. रज्जुं वा फलकं वापि यदि कर्षति वायसः।
४०३.००८. न तत्र गमनं श्रेयश्चौरैः पथमुपद्रुतम्॥८०२॥
४०३.००९. गोमये शुष्ककाष्ठे वा यदि वाशति वायसः।
४०३.०१०. कलहः कुवचो व्याधिर्न चार्थं तत्र सिध्यति॥८०३॥
४०३.०११. तृणं वा यदि वा काष्ठं दर्शयेच्च सदा खगः।
४०३.०१२. पुरतः शुष्कपाणिस्तु तत्र चौरभयं भवेत् ॥८०४॥
४०३.०१३. सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत् ।
४०३.०१४. निपतेत्सार्थमध्येऽस्मिंश्चौरसैन्यं न संशयः॥८०५॥
४०३.०१५. यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः।
४०३.०१६. शुष्कवृक्षे निषीदित्वा तत्र विद्यान्महाभयम्॥८०६॥
४०३.०१७. भीतस्त्रस्तः परीतश्च यस्तु व्याहरते खगः।
४०३.०१८. परिबाधन् दिशः सर्वास्तत्र भयमुपस्थितम्॥८०७॥
४०३.०१९. गच्छन्तं समनुगच्छेत्पुरः स्थित्वा तु व्याहरेत् ।
४०३.०२०. न तत्र गमनं कुर्यान्मार्गमत्र प्रशातनम्॥८०८॥
४०३.०२१. वास्तुमध्ये प्रतिस्थाने क्षामं दीनं च व्याहरेत् ।
४०३.०२२. व्याधिं तत्र विजानीयाद्वासे वा गृहस्वामिनाम्॥८०९॥
४०३.०२३. शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः।
४०३.०२४. दूरादभ्यागतं ज्ञात्वा प्रसिद्धिं चाभिनिर्दिशेत् ॥८१०॥
४०३.०२५. गर्गरे घटके चैव स्थालिकपिठरेषु वा।
४०३.०२६. निषण्णो वाशति काकः प्रसिद्धं गमनं ध्रुवम्॥८११॥
४०३.०२७. आसने शयने वापि स्थितो वाशति वायसः।
४०३.०२८. प्रसिद्धं गमनं ब्रूयात्प्रोषितेन समागमः॥८१२॥
४०३.०२९. ब्रह्मस्थाने निषीदित्वा ध्रुवं वाशति वायसः।
४०३.०३०. अर्थलाभं विजानीयाद्धनलाभं च आकरेत् ॥८१३॥
४०३.०३१. ब्रह्मस्थाने निषीदित्वा क्षामं दीनं वाशति।
४०३.०३२. संधिस्थाने हरेच्चौरस्तत्र वै नास्ति संशयः॥८१४॥

४०४.००१. <४०४>देवतादेवतानां च देवस्योपवनानि च्
४०४.००२. यस्य वाचं वदेत्तस्य अर्थलाभं विनिर्दिशेत् ॥८१५॥
४०४.००३. लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः।
४०४.००४. यस्याहरेत्पुरस्तस्य स्वर्णलाभं विनिर्दिशेत् ॥८१६॥
४०४.००५. पात्रं च पात्रकं चैव मृत्तिकावरभाजनम्।
४०४.००६. यस्य यस्य हरेत्तस्य द्रव्यलाभं विनिर्दिशेत् ॥८१७॥
४०४.००७. संघीभूत्वा युगमात्रं शुभं तिष्ठति वायसः।
४०४.००८. काष्ठं वा वायसा यत्र गृहमारोपयन्ति च्
४०४.००९. निगदन्त्यत्र विजानीयाद्याचकात्तु महाभयम्॥८१८॥
४०४.०१०. नीलं पीतं लोहितं च प्रतिसंहरणानि च्
४०४.०११. निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत् ॥८१९॥
४०४.०१२. ग्रामान्ते भयमाख्याति काको वा वाशति ध्रुवम्।
४०४.०१३. प्रत्येकतो वा वाशति विद्यात्तत्र महाभयम्॥८२०॥
४०४.०१४. वायसोऽस्थ गृहीत्वा वै प्रगच्छेदनुदक्षिणम्।
४०४.०१५. निषीदन् सफले वृक्षे स वदेन्मांसभोजनम्॥८२१॥
४०४.०१६. यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः।
४०४.०१७. अभ्यन्तरे सप्तरात्रान्मरणं तस्य निर्दिशेत् ॥८२२॥
४०४.०१८. करके चोदके चैव स्निग्धदेशेषु वाशति।
४०४.०१९. ऊर्ध्वमुखं निरीक्षंस्तु जगद्वृष्टिं विनिर्दिशेत् ॥८२३॥
४०४.०२०. स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति।
४०४.०२१. ऊर्ध्वमुखं तथा वक्ति वातवृष्टिं विनिर्दिशेत् ॥८२४॥
४०४.०२२. कायं किलकिलायंस्तु स्निग्धदेशेषु वाशति।
४०४.०२३. वक्षो विधुन्वन् वायसः सद्यो वृष्टिं विनिर्दिशेत् ॥८२५॥
४०४.०२४. स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति।
४०४.०२५. सक्षरसद्रवं भागं वाशति भोजनं भवेत् ॥८२६॥
४०४.०२६. प्रकारे तोरणाग्रे वा यदि वाशति वायसः।
४०४.०२७. अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत् ॥८२७॥
४०४.०२८. मण्डलानि वावर्तानि बहिर्वा नगरस्य च्
४०४.०२९. वैरं च विग्रहं घोरं तत्र चैव विनिर्दिशेत् ॥८२८॥
४०४.०३०. ग्रामे वा नगरे वापि कुर्वते यत्र मण्डलम्।
४०४.०३१. ऊर्ध्वमुखं वाशन्तो वै विषण्णत्वं समुत्थितम्॥८२९॥

४०५.००१. <४०५>पूर्वेण चैव ग्रामस्य यदा सूयति वायसी।
४०५.००२. अल्पोदकेनोत्प्लवन्ति वनानि नगराणि च् ।८३०॥
४०५.००३. पुरस्ताद्दक्षिणे पार्श्वे यदि सूयति वायसी।
४०५.००४. वर्षति प्रथमे मासे पश्चाद्देवो न वर्षति।
४०५.००५. कृष्टधान्यानि वर्धन्ते माषधान्यं विनश्यति॥८३१॥
४०५.००६. दक्षिणे वृक्षशिखरे यदा सूयति वायसी।
४०५.००७. मण्डूककीटकमक्षा चौरश्च बहुलीभवेत् ॥८३२॥
४०५.००८. पश्चिमोत्तरपाश्व तु यदा सूयति वायसी।
४०५.००९. अशनिर्निपतेत्तत्र भयं च मृगपक्षिणाम्॥८३३॥
४०५.०१०. उत्तरे वृक्षशिखरे यदा सूयति वायसी।
४०५.०११. पूर्वमुप्तं विजानीयाच्छस्यं समुपजायत् ।८३४॥
४०५.०१२. उपरि वृक्षशिखरे यदा सूयति वायसी।
४०५.०१३. अल्पोदकं विजानीयात्स्थले बीजानि रोपयेत् ॥८३५॥
४०५.०१४. यदा तु मध्ये वृक्षस्य निलयं करोति वायसी।
४०५.०१५. मध्यं वर्षते वर्षं मध्यशस्यं प्रजायत् ।८३६॥
४०५.०१६. स्कन्धमूले तु वृक्षस्य यदा सूयति वायसी।
४०५.०१७. अनावृष्टिर्भवेद्घोरा दुर्भिक्षं तत्र निर्दिशेत् ॥८३७॥
४०५.०१८. चतुरः पञ्च वा पोतान् यदा सूयति वायसी।
४०५.०१९. सुभिक्षं च भवेत्तत्र फलानामुदितं भवेत् ॥८३८॥
४०५.०२०. अयं भोः पुष्करसारिन् वायसरुतं नामाध्यायः॥
४०५.०२१. अथ खलु भोः पुष्करसारिन् द्वारलक्षणं नामाध्यायं व्याख्यास्यामि।
४०५.०२१. तच्छ्रूयताम्।
४०५.०२२. अथ किम्।
४०५.०२२. कथयतु भगवांस्त्रिशङ्कुह्--
४०५.०२३. द्वारलक्षणम्।
४०५.०२४. मोहेन्द्रमथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतम्।
४०५.०२५. दक्षिणे तु दिशो भागे पूषा च पित्र्यमेव च् ।८३९॥
४०५.०२६. सुग्रीवं पुष्पदन्तं च पश्चिमेनात्र निर्दिशेत् ।
४०५.०२७. भल्लातकं राजयक्ष्मं विद्यादुत्तरतः शुभम्॥८४०॥
४०५.०२८. जन्मसम्पद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनम्।
४०५.०२९. अथ वै धनमित्रं च परमं मैरमेव च् ।८४१॥
४०५.०३०. उवाच विधिवत्प्राज्ञो विश्वकर्मा महामतिः।
४०५.०३१. वास्तूनां गुणदोषौ च प्रवक्ष्याम्यनुपूर्वशः॥८४२॥

४०६.००१. <४०६>समं स्याच्चतुरस्रं च विस्तीर्णा चैव मृत्तिका।
४०६.००२. क्षीरिवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यत् ।८४३॥
४०६.००३. पूर्वायतनतया वास्तु रथचक्राकृति च यत् ।
४०६.००४. रक्तपांशुर्भवेद्यत्र राज्ञां तत्तु प्रशस्यत् ।८४४॥
४०६.००५. त्रिकोणं कुशसंस्त्रीर्णमुत्तानं मधुरं च यत् ।
४०६.००६. व्यायमतो जलं चैव वास्तु तस्य धनौषधी॥८४५॥
४०६.००७. अङ्गाराकारसंस्थानं गोमुखं शकटाकृति।
४०६.००८. अनावास्यं च तत्प्रोक्तं यच्च पुत्रक्षयावहम्॥८४६॥
४०६.००९. यत्तु कञ्जरकक्षैस्तत्त्यक्तं वर्षोदकेन च्
४०६.०१०. अपसव्योदकं चैव दूरतः परिवर्जयेत् ॥८४७॥
४०६.०११. विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलम्।
४०६.०१२. दशद्वादशकं वैश्ये शूद्रस्य तत्र लेखनम्॥८४८॥
४०६.०१३. वास्तुपूर्वोत्तरे देशे गोकुलं तत्र कारयेत् ।
४०६.०१४. तथैव चाग्निशालां तु पूर्वदक्षिणतो दिशि॥८४९॥
४०६.०१५. वर्षवृष्यायुधागारान् दक्षिणेन निवेशयेत् ।
४०६.०१६. पश्चिमोत्तरतश्चात्र वणिग्भाण्डं निवेशयेत् ॥८५०॥
४०६.०१७. उत्तरायां तु कर्तव्यं वर्चःस्थानमनुत्तरम्।
४०६.०१८. एशान्यामेव सर्वाणि प्रासादश्च पुरोमुखः॥८५१॥
४०६.०१९. अविधिपरिवर्तेत तत्र वैरं वधो भवेत् ।
४०६.०२०. रचितसर्वद्वाराणामायामो द्विगुणो मतः॥८५२॥
४०६.०२१. कुर्यात्सुरभवनानां यथेष्टं द्वारकाण्यपि।
४०६.०२२. तद्द्वारबाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥८५३॥
४०६.०२३. विद्विषस्य सलोकस्य द्वारे स्यान्नु करग्रह्
४०६.०२४. महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥८५४॥
४०६.०२५. सत्ये मृदुर्मृगो शूरोऽन्तरीक्षे धनक्षयः।
४०६.०२६. वायव्ये तु बहुव्याधिर्भगे भाग्यविपर्ययः॥८५५॥
४०६.०२७. पुष्पे तु सुभगो नित्यं वितथेऽप्यशुभो भवेत् ।
४०६.०२८. शोके भूतविकारः स्यात्शोषे तस्य विषण्णता॥८५६॥
४०६.०२९. भल्लातके गृहे वासो राजयक्ष्मे समावृतिः।
४०६.०३०. ह्रदे रेणुपरिश्राव आदित्ये तु कलिर्ध्रुवम्॥८५७॥
४०६.०३१. नागराजे नागभयं महश्चेद्दीर्घमायुषम्।
४०६.०३२. भवेदस्य च यद्द्वारं तत्राग्निभयमादिशेत् ॥८५८॥

४०७.००१. <४०७>क्षयं विद्यात्तस्य तस्य धनस्य कुलस्य च्
४०७.००२. यमे मृत्युं विजानीयात्कुले श्रेष्ठोत्तमस्य च्
४०७.००३. भृङ्गिराजे तु मतिमान् गन्धर्वे गन्धमाल्यता॥८५९॥
४०७.००४. भृङ्गे क्रोधः कलिश्चैव पितरि भोगसम्पदः।
४०७.००५. दौवारिके स्वल्पधनं सुग्रीवे राजपूजितः॥८६०॥
४०७.००६. पुष्पदन्ते धनावाप्तिर्वरुणे जलचित्रता।
४०७.००७. असुरे मरणं घोरं रोगे तु बहुदोषता॥८६१॥
४०७.००८. बलिंश्च उपहारांश्च प्रवक्ष्यामि यथागृहम्।
४०७.००९. विचित्रैर्विदिशैर्गन्धैः परिपूज्य बलिं हरेत् ॥८६२॥
४०७.०१०. कलत्रे हेतुबीजानि मध्यमेऽर्जितमेव तु।
४०७.०११. महेन्द्रे मुक्तपुष्पाणि पावके च पयो दधि॥८६३॥
४०७.०१२. आदित्ये परिदेयं तु भक्तं चैव प्रियङ्गवः।
४०७.०१३. अन्तरीक्षे जलं दिव्यं पुष्पाणि जलजानि च् ।८६४॥
४०७.०१४. नन्दा प्रतिपदा ज्ञेया षष्ठी त्रयोदशी जया।
४०७.०१५. तासु तासु ध्रुवं कुर्यात्प्राज्ञो ह्येवं विचक्षणः॥८६५॥
४०७.०१६. अयं भोः पुष्करसारिन् द्वारलक्षणं नामाध्यायः॥
४०७.०१७. अथ खलु भोः पुष्करसारिन् द्वादशराशिकं नामाध्यायं व्याख्यास्यामि।
४०७.०१७. तच्छ्रूयताम्।
४०७.०१८. अथ किम्।
४०७.०१८. कथयतु भगवांस्त्रिशङ्कुह्--
४०७.०१९. द्वादशराशिकः।
४०७.०२०. अतः परं प्रवक्ष्यामि चित्तविज्ञानकाण्डकम्।
४०७.०२१. यथादृष्टान्तेनैवेनं नराणां समुदाहृतम्॥८६६॥
४०७.०२२. तदहं संप्रवक्ष्यामि चित्तविज्ञानमुत्तमम्।
४०७.०२३. द्वादशैव तु चित्तास्ते ये लोके प्रचरन्ति वै॥८६७॥
४०७.०२४. तानहं संप्रवक्ष्यामि शृणु तत्त्वेन मे ततः।
४०७.०२५. द्वादशैव तु कुर्याच्च मण्डलानि विचक्षणः॥८६८॥
४०७.०२६. प्रथमं मेषो नाम स्याद्द्वितीयं तु वृषः स्मृतः।
४०७.०२७. तृतीयं मिथुनं नाम चतुर्थं चापि कर्कटः॥८६९॥
४०७.०२८. पञ्चमं चापि सिंहस्तु षष्ठं कन्या इति स्मृतम्।
४०७.०२९. तुला तु सप्तमं ज्ञेया वृश्चिकस्तु तथाष्टमम्॥८७०॥
४०७.०३०. धन्वी तु नवमं ज्ञेया दशमं मकरः स्मृतः।
४०७.०३१. कुम्भश्चैकादशं ज्ञेयो द्वादशं मीन उच्यत् ।८७१॥

४०८.००१. <४०८>होरा शरीरं जातस्य द्वितीये चिन्तितं धनम्।
४०८.००२. तृतीये भ्रातरश्चैव चतुर्थे स्वजनस्तथा॥८७२॥
४०८.००३. चिन्त्यते पञ्चमे पुत्रः षष्ठे मण्डले शत्रुता।
४०८.००४. सप्तमे दारसम्योगो ह्यष्टमे नैधनं स्मृतम्॥८७३॥
४०८.००५. नवमे चिन्त्यते धर्मो दशमे कर्मजं फलम्।
४०८.००६. एकादशे चार्थलाभो द्वादशे व्यर्थसम्भवः॥८७४॥
४०८.००७. एते द्वादश चित्तास्तु यथा दृष्टा महर्षिभिः।
४०८.००८. सर्वभूतात्मभूताश्च यथाज्ञेयास्त देहिनाम्॥८७५॥
४०८.००९. आगत्य पृच्छते कश्चित्प्रथमं मण्डलं स्पृशेत् ।
४०८.०१०. शिरस्तु स्पृशते यश्च शब्दश्च उपलक्ष्यत् ।८७६॥
४०८.०११. व्याधितं चैव ह्यात्मानमाग्नेयाश्च विनष्टयः।
४०८.०१२. यदि ब्रूयात्तदा तस्य आत्मार्थं चिन्तितं भवेत् ॥८७७॥
४०८.०१३. काञ्चनं रजतं ताम्रं लोहं चैव भृशं भवेत् ।
४०८.०१४. स च सर्वगतश्चैव अग्निरश्नाति निश्चितम्॥८७८॥
४०८.०१५. एतादृशं दृष्ट्वोत्पातमाग्नेयं तस्य निर्दिशेत् ।
४०८.०१६. यादृशश्च भवेच्छब्दस्तादृशं तेन चिन्तितम्॥८७९॥
४०८.०१७. पुरुषः कश्चिदागत्य द्वितीयं मण्डलं स्पृशेत् ।
४०८.०१८. ग्रीवां वा परिमार्जयेद्गलं च चिबुकं पुनः॥८८०॥
४०८.०१९. यदि शब्दश्च श्रूयेत दृष्टा गावस्तथैव च्
४०८.०२०. ईदृशं च दृष्ट्वोत्पातं गोशब्दं तत्र निर्दिशेत् ।
४०८.०२१. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८८१॥
४०८.०२२. पुरुषः कश्चिदागत्य तृतीयं मण्डलं स्पृशेत् ।
४०८.०२३. मार्जयेन्मुखदेशं तु स्त्रीचित्तं तस्य निर्दिशेत् ॥८८२॥
४०८.०२४. अथ शब्दो भवेत्तत्र श्रूयन्तां तादृशास्तु त्
४०८.०२५. जातं प्रजातमुपजातं तथा जातो भविष्यति॥८८३॥
४०८.०२६. एतादृशं दृष्ट्वोत्पातं गर्भं तस्य विनिर्दिशेत् ।
४०८.०२७. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८८४॥
४०८.०२८. पुरुषः कश्चिदागत्य चतुर्थं मण्डलं स्पृशेत् ।
४०८.०२९. कच्छपं स्पृशते यस्तु कलहं तत्र निर्दिशेत् ।
४०८.०३०. स्वजनव्यवहारस्तु सति कलह न संशयः॥८८५॥
४०८.०३१. आकट्टा कट्टेति शब्दा भवन्ति च निरन्तरम्।
४०८.०३२. एतादृशं दृष्ट्वोत्पातं कलहं तत्र निर्दिशेत् ॥८८६॥

४०९.००१. <४०९>पुरुषः कश्चिदागत्य पञ्चमं मण्डलं स्पृशेत् ।
४०९.००२. हृदयं स्पृशते यस्तु अपत्यं तत्र चिन्तितम्॥८८७॥
४०९.००३. प्रवासकश्च विज्ञेयः परग्रामगतो मृतः।
४०९.००४. शस्त्रद्रव्यं च यत्तस्य ब्राह्मणानां कुले स्थितम्॥८८८॥
४०९.००५. अथ शब्दो भवेत्तत्र यं दृष्ट्वा तु महर्षिभिः।
४०९.००६. पुत्रपुत्रेति यच्छब्दो यद्गतं गतमेव च्
४०९.००७. एतादृशं दृष्ट्वोत्पातं मरणं तत्र निर्दिशेत् ॥८८९॥
४०९.००८. पुरुषः कश्चिदागत्य षष्ठं तु मण्डलं स्पृशेत् ।
४०९.००९. स्पृशते चापि पार्श्वानि गात्रचिन्ता तु चिन्तिता॥८९०॥
४०९.०१०. विग्रहस्तु महाघोरः शत्रुश्चापि प्रवध्यत्
४०९.०११. अथ वा तत्र ये शब्दाः श्रोतव्यास्ते न संशयः॥८९१॥
४०९.०१२. अयं तु प्रक्षरश्चैवं हतश्च विहतस्तथा।
४०९.०१३. एतादृशं दृष्ट्वोत्पातमरिविग्रहमादिशेत् ।
४०९.०१४. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८९२॥
४०९.०१५. पुरुषः कश्चिदागत्य सप्तमं मण्डलं स्पृशेत् ।
४०९.०१६. हस्तेन मर्दयेधस्तं तथा नाडीं च मर्दयेत् ॥८९३॥
४०९.०१७. निवेशचिन्ता विज्ञेया अन्यग्रामगता भवेत् ।
४०९.०१८. तत्रेमे भवन्ति शब्दाः श्रोतव्या भूमिमिच्छता॥८९४॥
४०९.०१९. स्थितं निविष्टं वर्तं च कृतं हस्तगतं तथा।
४०९.०२०. एतादृशं दृष्ट्वोत्पातं निवेशं तस्य निर्दिशेत् ।
४०९.०२१. यादृशो वा श्रुतः शब्दस्तादृशं तेन चिन्तितम्॥८९५॥
४०९.०२२. पुरुषः कश्चिदागत्य अष्टमं मण्डलं स्पृशेत् ।
४०९.०२३. उदरं चैव फिचकं द्वे इमे परिमार्जयेत् ॥८९६॥
४०९.०२४. निधनं दृश्यते तस्य मरणं चापि दृश्यत्
४०९.०२५. यदि भवेद्भवेन्मृत्युर्यश्चान्यप्रियसंगमः॥८९७॥
४०९.०२६. तत्रेमे शब्दाः श्रोतव्या मृत एव भविष्यति।
४०९.०२७. एतादृशं दृष्ट्वोत्पातं व्यापत्तिं तस्य निर्दिशेत् ॥८९८॥
४०९.०२८. पुरुषः कश्चिदागत्य नवमं मण्डलं स्पृशेत् ।
४०९.०२९. ऊरुं च स्पृशते भूयो धर्मचिन्ता च चिन्तिता॥८९९॥
४०९.०३०. तत्र शब्दाश्च श्रोतव्या भवन्ति हि न संशयः।
४०९.०३१. यजन् हि याजकश्चैव यजमानस्तथैव च्
४०९.०३२. शब्दानेवंविधाञ्श्रुत्वा यज्ञचिन्तां तु निर्दिशेत् ॥९००॥

४१०.००१. <४१०>पुरुषः कश्चिदागत्य दशमं मण्डलं स्पृशेत् ।
४१०.००२. कर्मचिन्ता विचिन्त्येति गृहकर्म न संशयः॥९०१॥
४१०.००३. स्पृशते जानुनी चैव कर्मचिन्तां तु निर्दिशेत् ।
४१०.००४. तत्र शब्दा भवन्तीमे श्रोतव्याश्च न संशयः॥९०२॥
४१०.००५. भूमिकर्म च क्षेत्रं च क्षेत्रकर्म तथैव च्
४१०.००६. एतादृशं दृष्ट्वोत्पातं कर्मचिन्तां विनिर्दिशेत् ॥९०३॥
४१०.००७. पुरुषः कश्चिदागत्य एकादशं तु संस्पृशेत् ।
४१०.००८. जङ्घे तु स्पृशते भूयो ह्यर्थलाभं विनिर्दिशेत् ॥९०४॥
४१०.००९. तत्रेमे शब्दाः श्रोतव्या भवन्तीह न संशयः।
४१०.०१०. पणसुवर्णचेलानि धान्यं समणिकुण्डलम्॥९०५॥
४१०.०११. एतादृशं रवं श्रुत्वा हिरण्यं तस्य निर्दिशेत् ।
४१०.०१२. अथ वा यादृशः शब्दस्तादृशं फलमादिशेत् ॥९०६॥
४१०.०१३. पुरुषः कश्चिदागत्य द्वादशं मण्डलं स्पृशेत् ।
४१०.०१४. पादौ च स्पृशते पृच्छंश्चित्तं चाप्यनर्थिकम्॥९०७॥
४१०.०१५. यस्तु तच्चिन्तितो ह्यर्थ आशा आगन्तुका च या।
४१०.०१६. अथ वा शब्दाः श्रोतव्या निमित्तज्ञानपारगैः॥९०८॥
४१०.०१७. निराशश्चैव घोषश्च निराशं तस्य निर्दिशेत् ।
४१०.०१८. अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥९०९॥
४१०.०१९. अय भोः पुष्करसारिन् द्वादशराशिको नामाध्यायः॥
४१०.०२०. अथ खलु भोः पुष्करसारिन् कन्यालक्षणं नामाध्यायं व्याख्यास्यामि।
४१०.०२०. तच्छ्रूयताम्।
४१०.०२१. अथ किम्।
४१०.०२१. कथयतु भगवांस्त्रिशङ्कुह्--
४१०.०२२. कन्यालक्षणम्।
४१०.०२३. तत्त्वं विज्ञायते येन येन शुभमुपस्थितम्।
४१०.०२४. निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणम्॥९१०॥
४१०.०२५. पितरं मातरं चैव मातुलं भ्रातरं तथा।
४१०.०२६. विम्बाद्विम्बं परीक्ष्येत त्रिशङ्कुवचनं यथा॥९११॥
४१०.०२७. मुहूर्ते तिथिसम्पन्ने नक्षत्रे चापि पूजित्
४१०.०२८. तद्विज्ञैः सह संगम्य कन्यां पश्येत शास्त्रवित् ॥९१२॥
४१०.०२९. हस्तौ पादौ निरीक्षत नखानि ह्यङ्गुलीस्तथा।
४१०.०३०. पाणिलेखाश्च जङ्घे च कटि नाभ्यूरुमेव च् ।९१३॥

४११.००१. <४११>ओष्ठौ जिह्वां च दन्तांश्च कपोलौ नासिकां तथा।
४११.००२. अक्षिभ्रुवौ ललाटं च कर्णौ केशांस्तथैव च् ।९१४॥
४११.००३. रोमराजीं स्वरं वर्णं मन्त्रितं गीतमेव च्
४११.००४. मतिं सत्त्वं समीक्षेत कन्यानां शास्त्रकोविदः।
४११.००५. तत्र पूर्वं परीक्षेत स्वयमेव विचक्षणः॥९१५॥
४११.००६. हंसस्वरा मेघवर्णा नारी मधुरलोचना।
४११.००७. अष्टौ पुत्रान् प्रसूयेत दासीदासैः समावृता॥९१६॥
४११.००८. व्यावर्ताश्चत्वारो यस्याः सर्वे चैव प्रदक्षिणाः।
४११.००९. समगात्रविभक्ताङ्गी पुत्रानष्टौ प्रसूयत् ।९१७॥
४११.०१०. मण्डूककुक्षिर्या नारी सैश्वर्यमधिगच्छति।
४११.०११. धन्यान् सा जनयेत्पुत्रांस्तेषां प्रीतिं च भुञ्जत् ।९१८॥
४११.०१२. यस्याः पाणितले व्यक्तः कच्छपः स्वस्तिको ध्वजः।
४११.०१३. अङ्कुशं कुण्डलं माला दृश्यन्ते सुप्रतिष्ठिताः।
४११.०१४. एकं सा जनयेत्पुत्रं तं च राजानमादिशेत् ॥९१९॥
४११.०१५. यस्याः पाणौ प्रदृश्येत कोष्ठागारं सतोरणम्।
४११.०१६. अपि दासकुले जाता राजपत्नी भविष्यति॥९२०॥
४११.०१७. द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डराः।
४११.०१८. समशिखरिस्निग्धाभा राजानं सा प्रसूयत् ।९२१॥
४११.०१९. स्निग्धा कारण्डवप्रेक्षा हरिणाक्षी तनुत्वचा।
४११.०२०. रक्तोष्ठजिह्वा सुमुखी राजानमुपतिष्ठति॥९२२॥
४११.०२१. सूक्ष्मा च तुङ्गनासा च मुक्तमारक्तिमोदरी।
४११.०२२. सुभ्रूः सुवरकेशान्ता सा तु कन्या बहुप्रजा॥९२३॥
४११.०२३. अङ्गुल्यः संहिताः कान्ता नखाः कमलसंनिभाः।
४११.०२४. सुऋजुरक्तचरणा सा कन्या सुखमेधत् ।९२४॥
४११.०२५. यस्यावर्तौ समौ स्निग्धौ उभौ पार्श्वौ सुसंस्थितौ।
४११.०२६. ...............ऋआजपत्नी तु सा भवेत् ॥९२५॥
४११.०२७. प्रदक्षिणं प्रक्रमेत प्रेक्षते च प्रदक्षिणम्।
४११.०२८. प्रदक्षिणसमाचारां कन्यां भार्यर्थमावहेत् ॥९२६॥
४११.०२९. ऊरू जङ्घे च पार्श्वे च तथा विक्रमः संस्थितः।
४११.०३०. रक्तान्ते विपुले नेत्रे सा कन्या सुखमेधत् ।९२७॥
४११.०३१. मृगाक्षी मृगजङ्घा च मृगग्रीवा मृगोदरी।
४११.०३२. युक्तनामा तु या नारी राजानमुपतिष्ठत् ।९२८॥

४१२.००१. <४१२>यस्याग्रललिताः केशा मुखं च परिमण्डलम्।
४१२.००२. नाभिः प्रदक्षिणावर्ता सा कन्या कुलवर्धिनी॥९२९॥
४१२.००३. नातिदीर्घा नातिह्रस्वा सुप्रतिष्ठतनुत्वचा।
४१२.००४. सुखसंस्पर्शकेशाग्रा सौभाग्यं नातिवर्तत् ।९३०॥
४१२.००५. कान्तजिह्वा तु या नारी रक्तोष्ठी प्रियभाषिणी।
४१२.००६. तादृशीं वरयेत्प्राज्ञो गृहार्थं सुखमेधिनीम्॥९३१॥
४१२.००७. नीलोत्पलसुवर्णाभा दीर्घाङ्गुलितला तु या।
४१२.००८. सहस्राणां बहूनां तु स्वामिनी सा भविष्यति॥९३२॥
४१२.००९. धनधान्यैः समायुक्तामायुषा यशसा श्रिया।
४१२.०१०. कन्यां लक्षणसम्पन्नां प्राप्य वर्धति मानवः॥९३३॥
४१२.०११. कीर्तितास्तु मया धन्या मङ्गल्यक्षणाः स्त्रियः।
४१२.०१२. अप्रशस्तं प्रवक्ष्यामि यथोद्देशेन लक्षणम्॥९३४॥
४१२.०१३. ऊर्ध्वप्रेक्षी अधःप्रेक्षी या च तिर्यक्च प्रेक्षिणी।
४१२.०१४. उद्भ्रान्ता विपुलाक्षी च वर्जनीया विचक्षणैः॥९३५॥
४१२.०१५. भिन्नाग्रशतिका रूक्षाः केशा यस्याः प्रलम्बिकाः।
४१२.०१६. चित्रावली चित्रगात्रा भवति कामचारिणी॥९३६॥
४१२.०१७. कामुका पिङ्गला चैव गौरी चैवातिकालिका।
४१२.०१८. अतिदीर्घा अतिह्रस्वा वर्जनीया विचक्षणैः॥९३७॥
४१२.०१९. यस्यास्त्रीणि प्रलम्बन्ति ललाटमुदरं स्फिचौ।
४१२.०२०. त्रींश्च सा पुरुषान् हन्ति देवरं श्वशुरं पतिम्॥९३८॥
४१२.०२१. पार्श्वतो रोमराजी तु विनता च कटिर्भवेत् ।
४१२.०२२. दीर्घमायुरवाप्नोति दीर्घकालं च दुःखिता॥९३९॥
४१२.०२३. काकजङ्घा च या नारी रक्ताक्षी घर्घरस्वरा।
४१२.०२४. निःसुखा च निराशा च वर्जिता नष्टबान्धवा॥९४०॥
४१२.०२५. अतिस्थूलोदरं यस्याः प्रलम्बो निंनसंनिभः।
४१२.०२६. अत्यन्तमवशा नारी बहुपुत्रा सुदुःखिता॥९४१॥
४१२.०२७. या तु सर्वसमाचारा मृद्वङ्गी समतां गता।
४१२.०२८. सर्वैः समैर्गुणैर्युक्ता विज्ञेया कामचारिणी॥९४२॥
४१२.०२९. यस्या रोमचिते जङ्घेमुखं च परिमण्डलम्।
४१२.०३०. पुत्रं वा भ्रातरं वापि जारमिच्छति तादृशी॥९४३॥
४१२.०३१. यस्या बाहुप्रकोष्ठौ द्वौ रोमराजीसमावृतौ।
४१२.०३२. उत्तरोष्ठे च रोमाणि सा तु भक्षयते पतिम्॥९४४॥

४१३.००१. <४१३>यस्या हस्तौ च पादौ च च्छिद्रौ दन्तान्तराणि च्
४१३.००२. पतिनोपार्जितं द्रव्यं न तस्या रमते गृह् ।९४५॥
४१३.००३. यस्यास्तु व्रजमानायाः स्फुटन्ते पर्वसंधयः।
४१३.००४. सा ज्ञेया दुःखबहुला सुखं नैवाधिगच्छति॥९४६॥
४१३.००५. यस्या कनिष्ठिका पादे भूमिं न स्पृशतेऽङ्गुलिः।
४१३.००६. कौमारं सा पतिं त्यक्त्वा आत्मनः कुरुते प्रियम्॥९४७॥
४१३.००७. अनामाङ्गुलिः पादस्य महीं न स्पृशतेऽङ्गुलिः।
४१३.००८. न सा रमति कौमारं बन्धकीत्वेन जीवति॥९४८॥
४१३.००९. यस्याः प्रदेशिनी पादेऽङ्गुष्ठं समतिक्रमेत् ।
४१३.०१०. कुमारी कुरुते जारं यौवनस्था विशेषतः॥९४९॥
४१३.०११. आवर्तः पृष्ठतो यस्या नाभी सा चानुबन्धति।
४१३.०१२. न सा रमति कौमारं द्वितीयं लभते पतिम्॥९५०॥
४१३.०१३. विकृता स्थिरजाला च रूक्षगण्डशिरोरुहा।
४१३.०१४. अपि राजकुले जाता दासीत्वमधिगच्छति॥९५१॥
४१३.०१५. यस्यास्तु हसमानाया गण्डे जायति कूपकम्।
४१३.०१६. अग्निकार्येऽपि सा गत्वा क्षिप्रं दोषं करिष्यति॥९५२॥
४१३.०१७. समासमगता सुभ्रूर्गण्डावर्ता च या भवेत् ।
४१३.०१८. प्रलम्बोष्ठी तु या नारी नैकत्र रमते चिरम्॥९५३॥
४१३.०१९. लम्बोदरी स्थूलशिरा रक्तक्षी पिङ्गलानना।
४१३.०२०. अष्टौ भक्षयते वीरान्नवमे तिष्ठते चिरम्॥९५४॥
४१३.०२१. न देविका न नदिका न च दैवतनामिका।
४१३.०२२. वृक्षगुल्मसनामा च वर्जनीया विचक्षणैः॥९५५॥
४१३.०२३. नक्षत्रनामा या नारी या च गोत्रसनामिका।
४१३.०२४. सुगुप्ता रक्षिता वापि मनसा पापमाचरेत् ॥९५६॥
४१३.०२५. दारान् विवर्जयेदेतान् या मया परिकीर्तिताः।
४१३.०२६. प्रशस्ता यास्तु पूर्वोक्तास्तादृशीयान्नरह्(?) सदा॥९५७॥
४१३.०२७. पद्माङ्कुशस्वस्तिकवर्धमानैश्चक्रध्वजाभ्यां कलशेन पाणौ।
४१३.०२९. शङ्खातपत्रोत्तमलक्षणैश्च संपत्तये साधु भवन्ति कन्याः॥९५८॥
४१३.०३१. अयं भोः पुष्करसारिन् कन्यालक्षणं नामाध्यायः॥

४१४.००१. <४१४>अथ खलु भोः पुष्करसारिन् वस्त्राध्यायं व्याख्यास्यामि।
४१४.००१. तच्छ्रूयताम्।
४१४.००१. अथ किम्।
४१४.००२. कथयतु भगवांस्त्रिशङ्कुह्--
४१४.००३. वस्त्राध्यायः।
४१४.००४. कृत्तिकासु दहत्यग्निरर्थलाभाय रोहिणी।
४१४.००५. मृगशिरा मूषीदंशा आर्द्रा प्राणविनाशिनी॥९५९॥
४१४.००६. पुनर्वसुश्च धन्या स्यात्पुष्ये वै वस्त्रवान् भवेत् ।
४१४.००७. आश्लेषासु भवेन्मोषः श्मशानं मघया व्रजेत् ॥९६०॥
४१४.००८. फाल्गुनीषु भवेद्विद्या उत्तरासु च वस्त्रवान्।
४१४.००९. हस्तासु हस्तकर्माणि चित्रायां गमनं ध्रुवम्॥९६१॥
४१४.०१०. स्वात्यां च शोभनं वस्त्रं विशाखा प्रियदर्शनम्।
४१४.०११. बहुवस्त्रा चानुराधा ज्येष्ठा वस्त्रविनाशिनी॥९६२॥
४१४.०१२. मूलेन क्लेदयेद्वास आषाढा रोगसम्भवा।
४१४.०१३. उत्तरा मृष्टभोजी स्याच्छ्रवणे चक्षुषो रुजम्॥९६३॥
४१४.०१४. धनिष्ठा धान्यबहुला विद्याच्छतभिषे भयम्।
४१४.०१५. पूर्वभाद्रपदे तोयं पुत्रलाभाय चोत्तरा॥९६४॥
४१४.०१६. रेवती धनलाभाय अश्विनी वस्त्रलाभदा।
४१४.०१७. भरणी च भयाकीर्णा चौरगम्या च सा भवेत् ॥९६५॥
४१४.०१८. अयं भोः पुष्करसारिन् वस्त्राध्यायः॥
४१४.०१९. अथ खलु भोः पुष्करसारिंल्लुङ्गाध्यायं प्रवक्ष्यामि।
४१४.०१९. तच्छ्रूयताम्।
४१४.०१९. अथ किम्।
४१४.०२०. कथयतु भगवांस्त्रिशङ्कुह्--
४१४.०२१. लुङ्गाध्यायः।
४१४.०२२. कुत्रोत्पन्ना इमे बीजाह्(?) शस्यानां च यवादयः।
४१४.०२३. यैरिदं ध्रियते विश्वं कृत्स्नं स्थावरजङ्गमम्॥९६६॥
४१४.०२४. वापयेत्तु कथं बीजं लाङ्गलं योजयेत्कथम्।
४१४.०२५. केषु नक्षत्रयोगेषु तिथियोगेषु केषु च् ।९६७॥
४१४.०२६. शारदं वाथ ग्रैष्मं तु कस्मिन्मासे तु वापयेत् ।
४१४.०२७. निमित्तं कति शस्यन्ते कानि वा परिवर्जयेत् ।
४१४.०२८. कस्य वा दापयेद्धूपं केन मन्त्रेण दापयेत् ॥९६८॥
४१४.०२९. प्रदक्षिणसमावृत्ता यदि लुङ्गा प्रजायत्
४१४.०३०. तदा नागमुखी लुङ्गा दहति चित्रमुख्यपि॥९६९॥

४१५.००१. <४१५>दर्भसूचीमुखी वापि कारणं तत्र को भवेत् ।
४१५.००२. कति सौभिक्षिको लुङ्गाः कति दौर्भिक्षिकाः स्मृताः।
४१५.००३. कतिवर्णाः समाख्याताः कतिवर्णा निदर्शिताः॥९७०॥
४१५.००४. नष्टापनष्टबीजस्य वर्षति यदि वासवः।
४१५.००५. निर्घातो वा भवेत्तीव्रोऽथवापि मेदिनी चलेत् ॥९७१॥
४१५.००६. शस्यं फलस्य किं तत्र निमित्तमुपलक्षयेत् ।
४१५.००७. सर्वमेतत्समासेन श्रोतुमिच्छामि तत्त्वतः॥९७२॥
४१५.००८. पुष्करसारिणो ब्राह्मणस्य वचनं श्रुत्वा त्रिशङ्कुर्मातङ्गाधिपतिरिदं वचनमब्रवीत्--
४१५.००९. पुरा देवासुरैर्नागैर्यक्षराक्षसकिन्नरैः।
४१५.०१०. सागरादमृतं दृष्टं मन्थिते तु समुद्भवम्॥९७३॥
४१५.०११. अमृते भक्ष्यमाणे तु भागं प्रार्थितवान् द्विजः।
४१५.०१२. ततो दत्ताः सुरैर्भागा अमृताद्दशबिन्दवह् ॥९७४॥
४१५.०१३. तत उत्पन्ना इमे बीजा भुवि लोकसुखावहाः।
४१५.०१४. यवव्रीहितिलाश्चैव गोधूमा मुद्गमाषकाः॥९७५॥
४१५.०१५. श्यामकं सप्तमं विद्यादिक्षुश्चाष्टमकः स्मृतः।
४१५.०१६. शेषास्तु संगता जाता बहवः शस्यजातयः॥९७६॥
४१५.०१७. हरितकेषु सर्वेषु ये चान्ये सत्त्वजातयः।
४१५.०१८. परितो नवमो बिन्दुः सर्वदेहेऽमृतोऽभवत् ।
४१५.०१९. मूलेषु चैव सर्वेषु बिन्दुरेकः प्रपातितः॥९७७॥
४१५.०२०. आषाढे शुक्लपक्षेऽस्य व्रीहिधान्यानि वापयेत् ।
४१५.०२१. शारदादीनि सर्वाणि मासे भाद्रपदे तथा॥९७८॥
४१५.०२२. कार्तिके मार्गशीर्षे वा ग्रीष्मधान्यानि वापयेत् ।
४१५.०२३. पञ्चम्यां शुक्लसप्तम्यां षष्ठ्यामेकादशीषु च् ।९७९॥
४१५.०२४. त्रयोदश्यां द्वितीयायां तथा हि नवमीषु च्
४१५.०२५. विशेषतस्तु निंनेषु सर्वबीजानि ह्युत्सृजेत् ॥९८०॥
४१५.०२६. भरणीपुष्यमूलेषु हस्ताश्विनीमघासु च्
४१५.०२७. कृत्तिकासु विशाखासु विशेषेण तु शारदम्॥९८१॥
४१५.०२८. सौम्ये मैत्रेऽनुराधे च धनिष्ठाश्रवणासु च्
४१५.०२९. उत्सर्गः सर्वबीजानामुत्तरेषु प्रशस्यत्
४१५.०३०. वर्जयेज्जन्मनक्षत्रं संग्रहं च विवर्जयेत् ॥९८२॥
४१५.०३१. ग्रामक्षेत्रे च यद्बीजं गृहे च गृहदेवता।
४१५.०३२. निमित्तमुपलक्षेत मङ्गलानि शुभानि च् ।९८३॥

४१६.००१. <४१६>ब्राह्मणं क्षत्रियं कन्यामर्चिष्मन्तं च पावकम्।
४१६.००२. वारणेन्द्रं वृषं चैव हयं वा स्वभ्यलंकृतम्॥९८४॥
४१६.००३. पूर्णकुम्भं ध्वजं छत्रमाममांसं सुरां तथा।
४१६.००४. उद्धृतां धारणीं चैव बद्धमेकपशुं दधि॥९८५॥
४१६.००५. चक्रारूढं च शकटं काकारूढां च सूकरीम्।
४१६.००६. परस्यारोपणं दृष्ट्वा सस्यसम्पत्तिमादिशेत् ॥९८६॥
४१६.००७. सर्वे दक्षिणतो धन्याः पुरश्च मृगपक्षिणः।
४१६.००८. दर्शनं शुक्लपुष्पाणां फलानां चैव शस्यत् ।९८७॥
४१६.००९. अजो वा वामतः शस्यो जम्बुकश्च प्रशस्यत्
४१६.०१०. विकृतं कुब्जकुष्ठिं च मुखं श्मश्रुधरं तथा॥९८८॥
४१६.०११. नरं निर्भर्त्सितं दीनं शोकार्तं व्याधिपीडितम्।
४१६.०१२. वराहवृन्दं सर्पं च गर्दभं भारहीनकम्।
४१६.०१३. दृष्ट्वा निवर्तयेद्बीजं पुनर्ग्रामं प्रवेशयेत् ॥९८९॥
४१६.०१४. तिलस्य बहुपूर्णस्य भाण्स्याद्वपनं तथा।
४१६.०१५. श्रुत्वा ह्येतानि व्रजतां सस्यसम्पत्तिमादिशेत् ॥९९०॥
४१६.०१६. राशिस्थं ग्रथितं धौतं स्वस्थमङ्कुरितं तथा।
४१६.०१७. श्रुत्वा संमार्जितं चैव इत्याशुकृतिनं विदुः॥९९१॥
४१६.०१८. श्रुत्वा म्लानं च शुष्कं च मन्दवृष्टिं च निर्दिशेत् ।
४१६.०१९. श्रुत्वा निवर्तयेद्बीजं पुनर्ग्रामं प्रवेशयेत् ॥९९२॥
४१६.०२०. नीयमानं च यद्बीजं वर्षते यदि वासवः।
४१६.०२१. स्वयमेव तु तच्छस्यं कामं कालेन भुज्यत् ।९९३॥
४१६.०२२. नीयमानं च यद्बीजं कम्पते यदि मेदिनी।
४१६.०२३. भ्रम्यते कर्षकः स्थानान्न तच्छक्यं तु वापितुम्॥९९४॥
४१६.०२४. नीयमानस्य बीजस्य निर्घातो दारुणो भवेत् ।
४१६.०२५. स्वामिनो मरणं क्षिप्रं शस्यपालस्य निर्दिशेत् ॥९९५॥
४१६.०२६. अथ वा व्याकुलं कर्याद्राजदण्डं निकृन्तति।
४१६.०२७. दृष्ट्वा निवर्तयेद्बीजं पुनर्ग्रामं निवेशयेत् ॥९९६॥
४१६.०२८. ब्राह्मणेभ्यो यथाशक्ति दत्वा तु संप्रयोजयेत् ।
४१६.०२९. कृत्वा सुविपुलां वेदीं दर्भानास्तीर्य सर्वतः॥९९७॥
४१६.०३०. समिद्भिरग्निं प्रज्वाल्य जुहुयाद्घृतसर्षपम्।
४१६.०३१. वेदशान्तिं जपेत्पूर्वं शस्यशान्तिमतः परम्॥९९८॥

४१७.००१. <४१७>जपेत्पाराशरं पूर्वं प्रियतां वाचयेद्द्विजैः।
४१७.००२. प्रथमं प्रान्मुखं बीजं प्रक्षिपेदुत्तरेऽथ वा॥९९९॥
४१७.००३. पिपीलिका यदा क्षेत्रे बीजं कुर्वन्ति संचयम्।
४१७.००४. सुवृष्टिं च सुभिक्षं च सर्वसस्येषु संपदा॥१०००॥
४१७.००५. हरन्ति चेत्तृणाद्बीजं तृणे शस्यापहा अपि।
४१७.००५. परस्परं च हिंसन्ति धान्यं च निधनं व्रजेत् ॥१००१॥
४१७.००६. स्थलेषु संचयं दृष्ट्वा महावृष्टिं विनिर्दिशेत् ।
४१७.००७. दृष्ट्वा तु संचयं निंनेऽनावृष्टिं च निर्दिशेत् ॥१००२॥
४१७.००८. यदा तु प्रेषितं बीजं सप्तरात्रेण जायत्
४१७.००९. सुवृष्टिं च सुभिक्षं च सर्वशस्येषु संपदा॥१००३॥
४१७.०१०. यदा तु प्रोषितं बीजमर्धमासेन जायत्
४१७.०११. अल्पं निष्पद्यते शस्यं दुर्भिक्षं चात्र जायत् ।१००४॥
४१७.०१२. त्रिरात्राच्चतूरात्राद्वा यदि लुङ्गः प्रजायत्
४१७.०१३. अतिवृष्टिर्भवेत्तत्र परचक्रभयं विदुः॥१००५॥
४१७.०१४. लुङ्गस्य तु ये पादाः पञ्च सप्त नव तथा।
४१७.०१५. सुवृष्टिं च सुभिक्षं च सर्वसस्येषु संपदा॥१००६॥
४१७.०१६. स्याल्लुङ्गस्य तु ये पादाश्चत्वारोऽष्टपदाथ वा।
४१७.०१७. अल्पं निष्पद्यते शस्यं दुर्भिक्षं चात्र निर्दिशेत् ॥१००७॥
४१७.०१८. लुङ्गस्य यदि पादास्तु दृश्यन्ते द्वादश क्वचित् ।
४१७.०१९. क्वचिन्निष्पद्यते शस्यं दुभिक्षं क्वचिदादिशेत् ।
४१७.०२०. वामावर्ताः प्रदृश्यन्ते दुर्भिक्षं तत्र निर्दिशेत् ॥१००८॥
४१७.०२१. यदा पूर्वमुखी लुङ्गा क्षेमं वृष्टिं च निर्दिशेत् ।
४१७.०२२. यदा पश्चान्मुखी लुङ्गा अतिवृष्टिं च निर्दिशेत् ॥१००९॥
४१७.०२३. क्षेमं सुभिक्षं चैवात्र यदा लुङ्गोत्तरामुखी।
४१७.०२४. हरितालसुवर्णाभा भद्रशोचिरिवोत्थिता॥१०१०॥
४१७.०२५. दर्भसूचीमुखी चापि दृश्यते यत्र कुत्रचित् ।
४१७.०२६. क्वचिन्निष्पद्यते शस्यं दुर्भिक्षं तत्र निर्दिशेत् ॥१०११॥
४१७.०२७. यदा नागमुखी लुङ्गा दृश्यते यत्र वा क्वचित् ।
४१७.०२८. क्वचिन्निष्पद्यते शस्यं दुर्भिक्षं चात्र निर्दिशेत् ।
४१७.०२९. तत्राशनिभयं चापि भयं मेघान्न संशयः॥१०१२॥
४१७.०३०. कृषिमूलमिदं सर्वं त्रैलोक्यं सचराचरम्।
४१७.०३१. नास्ति कृषिसमावृत्तिः स्वयमुक्तं स्वयम्भुवा॥१०१३॥

४१८.००१. <४१८>नाकृषेर्धर्ममाप्नोति नाकृषेः सुखमाप्नुयात् ।
४१८.००२. धर्ममर्थं तथा कामं सर्वं प्राप्नोति कर्षकः॥१०१४॥
४१८.००३. इति लुङ्गाध्यायः॥
४१८.००४. पुनरपि पुष्करसारी ब्राह्मणस्त्रिशङ्कुर्मातङ्गाधिपतिमेतदवोचत्--
४१८.००५. कथं पृथिव्यां नागाश्च केन वा विनिवारिताः।
४१८.००६. कुतो मूलसमुत्थानं निर्घातः कुत्र जायत् ।१०१५॥
४१८.००७. कुतश्चाभ्राणि जायन्ते नानावर्णा दिशो दश्
४१८.००८. कस्यैष महतः शब्दः श्रूयते दुन्दुभिस्वरः॥१०१६॥
४१८.००९. को हि सृजति दुर्भिक्षं सुभिक्षं चैव प्राणिनाम्।
४१८.०१०. कस्तत्र स मुनिश्रेष्ठो नाम गोत्रं ब्रवीहि म् ।१०१७॥
४१८.०११. दैवतानि च मे ब्रूहि विधानानि स्वयम्भुवः।
४१८.०१२. यज्ञं च यज्ञभागं च होतव्यश्च यथा बलिः॥१०१८॥
४१८.०१३. पृथिव्यां दैवतं ब्रूहि आश्रमे दैवतं ब्रूहि।
४१८.०१४. देवे तु दैवतं ब्रूहि केन देवी सा कल्पिता॥१०१९॥
४१८.०१५. पात्रस्य दैवतं ब्रूहि पूर्णकुम्भस्य दैवतम्।
४१८.०१६. करके दैवतं ब्रूहि तथा स्थाल्यां च दैवतम्॥१०२०॥
४१८.०१७. शस्यस्य दैवतं ब्रूहि शस्यपालस्य दैवतम्।
४१८.०१८. वायुस्कन्धैश्च कतिभिः शुक्रो वेगं प्रमुञ्चति॥१०२१॥
४१८.०१९. अथ त्रिशङ्कुर्मातङ्गाधिपतिर्ब्राह्मणं पुष्करसारिणमेतदवोचत्--
४१८.०२०. पृथ्वी वा वायुराकाशमापो ज्योतिश्च पञ्चमम्।
४१८.०२१. तत्र संवर्तते पिण्डं ततो मेघः प्रवर्तत् ।१०२२॥
४१८.०२२. एष व्याप्नोति चाकाशं वायुना जन्यते घनः।
४१८.०२३. आदित्यरश्मयो वारि समुद्रस्य नभस्तल् ।१०२३॥
४१८.०२४. तज्जलं नागसंक्षिप्तं ततो वरुणसंक्षयः।
४१८.०२५. वायुर्नभो गर्जयते अग्निर्विद्योतते दिशः॥१०२४॥
४१८.०२६. मरुता क्षिप्यते पिण्डं संनिपातश्च गर्जत्
४१८.०२७. विरोधनं तु वायोश्च अग्नेश्च अनिलस्य च् ।१०२५॥
४१८.०२८. आकाशे वर्तते पिण्डं पश्चात्पतति मेदिनीम्।
४१८.०२९. यद्ग्रहाणामधिपतिर्नक्षत्रज्योतिषामपि।
४१८.०३०. ततो मारुतसंसर्गात्पर्जन्यमपि वर्ष्षति॥१०२६॥
४१८.०३१. वर्षते शैलशिखरे यत्र संप्रस्थितो जनः।
४१८.०३२. यत्र सत्यं च धर्मश्च हविर्मेघश्च वर्तत् ।१०२७॥

४१९.००१. <४१९>तत्र बीजानि रोहन्ति अन्नपानं समृध्यति।
४१९.००२. एवं पिण्डाशनिराद्या ततो वाताशनी स्मृता।
४१९.००३. दन्ताशनी तृतीया तु अशनिस्तु चतुर्थिका॥१०२८॥
४१९.००४. पञ्चमी क्रिमयः प्रोक्ताः षष्ठी तु शलभास्तथा।
४१९.००५. सप्तमी स्यादनावृष्टिरतिवृष्टिस्तस्तथाष्टमी॥१०२९॥
४१९.००६. नवमी संबरः प्रोक्ता इत्याह भगवांस्त्रिशङ्कुः।
४१९.००७. एतास्त्वशन्यो व्याख्यातास्तासां वै देवताः शृणु।
४१९.००८. पिण्डाशनी ब्रह्मसृष्टा एषा ज्येष्ठाद्यदेवता॥१०३०॥
४१९.००९. दन्ताशनी तु सैन्यानां ग्रहा वाताशनी स्मृता।
४१९.०१०. अदेश.......................डेवताः॥१०३१॥
४१९.०११. शलभाः केतुदैवत्या आदित्या दितिदेवताः।
४१९.०१२. शंसकामतिवर्षस्य अनावृष्टेस्तु ज्योति{षह्}॥१०३२॥
४१९.०१३. {सम्ब}रस्य तु पर्जन्यमाख्याता नव देवताः।
४१९.०१३. अशन्या देवताः प्रोक्ता आकाशगमनार्थं बोधत्
४१९.०१५. पूर्वमधीन्द्रदैवत्यं दक्षिणे यमदैवतम्।
४१९.०१६. वरुणं पश्चिमे विद्यादुत्तरे धनदः स्मृतः।
४१९.०१७. ..ट्या दैवतं विष्णुराश्रमं विश्वदैवतम्॥१०३३॥
४१९.०१८. समिधादैवता देवास्तेभ्यो देवी प्रकल्पिता।
४१९.०१९. समिधादैवता...........टोग्निहुताशनम्॥१०३४॥
४१९.०२०. वेद्यां तु दैवतम् ............कारादित्यदैवतम्।
४१९.०२१. पात्रस्य देवता धर्मः पूर्णकुम्भे जनार्दनः॥१०३५॥
४१९.०२२. चरुं चेति.....ढूपस्थानस्य ज्योतिषः।
४१९.०२३. शस्य......शस्यपालो महामतिः।
४१९.०२४. वायुस्कन्धैश्चतुर्भिस्तु शुक्रो वेगं प्रमुञ्चति॥१०३६॥
४१९.०२५. अत्र मध्ये पृथिव्याप आश्रमो विश्वदैवतः।
४१९.०२६. तस्मिन् देशे......यस्मिन् प्रीतो वृषध्वजः॥१०३७॥
४१९.०२७. इत्याह भगवांस्त्रिशङ्कुः।
४१९.०२७. पुनरपि पुष्करसारी ब्राह्मणस्त्रिशङ्कुमेवमाह--
४१९.०२८. किमर्थमाश्रमे नित्यं हूयते हव्यवाहनः।
४१९.०२९. तृणकाष्ठानि संहृत्य मेघं दृष्ट्वा समुत्थितम्॥१०३८॥
४१९.०३०. अति.....ण्यते अग्निं सुदारुणम्।
४१९.०३१. सर्वलोकहितार्थाय ध्यात्वा दिव्येत चक्षुषा।
४१९.०३२. प्रशमेच्च समासेन तद्भवार्थं तु ......॥१०३९॥

४२०.००१. <४२०>एवमुक्ते त्रिशङ्कुर्मातङ्गाधिपतिर्ब्राह्मणं पुष्करसारिणमेतदवोचत्--
४२०.००२. धूमिकाध्यायः।
४२०.००३. पुरा हि खाण्डवद्वीपमर्जुनेन महात्मना।
४२०.००४. .........ज्वलितं जातवेदसा॥१०४०॥
४२०.००५. .........प्रसन्नमानान्निधिगतम्।
४२०.००६. तत्र दग्धा अनेका हि नागाः कोटिसहस्रशः॥१०४१॥
४२०.००७. पुरा महोरगगणा यक्षराक्षसपन्नगाः।
४२०.००८. पादहीनाः कृताः केचिद्बाहुहीनाः कृतापर् ।१०४२॥
४२०.००९. वैकल्यं कर्णनासाभ्यां कृतं चैवाक्षिपातनम्।
४२०.०१०. तदाप्रभृति भूतानां दृष्टं वै त्रासितं मनः॥१०४३॥
४२०.०११. अग्निना तापिताः केचिद्बाणैरन्ये च सूदिताः।
४२०.०१२. वाचाटकेनापि पुरा काद्रवेयाः प्रपातिताः॥१०४४॥
४२०.०१३. अर्चिषा हविगन्धेन मुह्यमाना नभोन्तर्
४२०.०१४. तद्विहीनाः पतन्त्यन्ये गुह्यका धरणीतल् ।१०४५॥
४२०.०१५. सहाम्पतिस्तु नांना स शस्यकाले तदाश्रम्
४२०.०१६. शस्यपालैस्तु सततं होतव्यो हव्यवाहनः॥१०४६॥
४२०.०१७. गृहमेधी ज्वालयेदग्निं निर्मलेऽपि नभोन्तर्
४२०.०१८. दिग्भागेषु च भूतानां तेषामर्थं दिने दिन् ।१०४७॥
४२०.०१९. जाग्रतं सततं वह्निमाश्रमस्थोऽपि धारयेत् ।
४२०.०२०. मेघं दृष्ट्वा विशेषेण ज्वालितव्यो हुताशनः॥१०४८॥
४२०.०२१. सधूमं ज्वलितं दृष्ट्वा दीप्यमानं तु पावकम्।
४२०.०२२. भयमापतते तेषां नागसैन्यं विमुह्यत् ।१०४९॥
४२०.०२३. अग्निं परिचरतोऽस्य शस्यपालस्य चाश्रम्
४२०.०२४. अग्निना हूयमानेन सिध्यते सर्वकर्म च् ।१०५०॥
४२०.०२५. अयं भोः पुष्करसारिन् धूमिकाध्यायः॥
४२०.०२६. अथ खलु भोः पुष्करसारिंस्तिथिकर्मनिर्देशं नामाध्यायं व्याख्यास्यामि।
४२०.०२६. तच्छ्रूयताम्।
४२०.०२७. अथ किम्।
४२०.०२७. कथयतु भगवांस्त्रिशङ्कुह्--
४२०.०२८. तिथिकर्मनिर्देशः।
४२०.०२९. नन्दां प्रतिपदामाहुः प्रशस्तां सर्वकर्मसु।
४२०.०३०. विज्ञानस्य समारम्भे प्रवासे च विगर्हिता॥१०५१॥
४२०.०३१. द्वितीया कथिता भद्रा शस्ता भूषणकर्मसु।
४२०.०३२. जया तृतीया व्याख्याता प्रशस्ता जयकर्मसु॥१०५२॥

४२१.००१. <४२१>चतुर्थी कथिता रिक्ता ग्रामसैन्यवधे हिता।
४२१.००२. चौर्याभिचारकूटाग्निदाहगोरससाधन् ।१०५३॥
४२१.००३. पूर्णा तु पञ्चमी ज्ञेया चिकित्सागमनाध्वसु।
४२१.००४. दानाध्ययनशिल्पेषु व्यायामे च प्रशस्यत् ।१०५४॥
४२१.००५. जयेति संज्ञिता षष्ठी गर्हिताध्वसु शस्यत्
४२१.००६. गृहे क्षेत्रे विवाहे वा आवाहकर्मसु मित्रेति॥१०५५॥
४२१.००७. भद्रा च सप्तमी ख्याता श्रेष्ठा सा सौकृतेऽध्वनि।
४२१.००८. नृपाणां शासने छत्रे शय्यानां करणेषु च् ।१०५६॥
४२१.००९. महाबलाष्टमी सा च प्रयोज्या परिरक्षण्
४२१.०१०. भयमन्दरबद्धेषु योगेषु हरणेषु च् ।१०५७॥
४२१.०११. उग्रसेना तु नवमी तस्यां कुर्याद्रिपुक्षयम्।
४२१.०१२. तथा विषध्नावस्कन्दविद्याबन्धवधक्रियाः॥१०५८॥
४२१.०१३. सुधर्मा दशमी शस्ता शास्त्रारम्भे धनोद्यत्
४२१.०१४. शान्तिस्वस्त्ययनारम्भे दानयज्ञोद्यतेषु च् ।१०५९॥
४२१.०१५. एकादशी पुनर्मान्या स्त्रीषु च मांसमद्ययोः।
४२१.०१६. कारयेन्नगरं गुप्तं विवाहं शास्त्रकर्म च् ।१०६०॥
४२१.०१७. यशेति द्वादशीमाहुर्वैरेऽध्वनि च गर्हिता।
४२१.०१८. विवाहे च गिरौ क्षेत्रे गृहकर्मसु पूजिता॥१०६१॥
४२१.०१९. जया त्रयोदशी साध्वी मण्डलेषु च योषिताम्।
४२१.०२०. कन्यावरणवाणिज्यविवाहादिषु चेष्यत् ।१०६२॥
४२१.०२१. उग्रा चतुर्दशी तु स्यात्कारयेदभिचारिकम्।
४२१.०२२. वधबन्धप्रयोगांश्च पूर्वं च प्रहरेदपि॥१०६३॥
४२१.०२३. सिद्धा पञ्चदशी साध्वी देवताग्निविधौ हिता।
४२१.०२४. गोसंग्रहवृषोत्सर्गबलिजप्यव्रतेषु च् ।१०६४॥
४२१.०२५. नन्दादीनां क्रिया पूर्वे षष्ठ्यादीनां तु मध्यम्
४२१.०२६. सुनन्दायाश्च संध्याभिर्दिनरात्र्योः प्रसिध्यति॥१०६५॥
४२१.०२७. अयं भोः पुष्करसारिंस्तिथिकर्मनिर्देशो नामाध्यायः॥
४२१.०२८. अपि च महाब्राह्मण इदं पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायां विद्यायां चित्तमभिनिर्णयामि निवर्तयामि, अनेकविधपूर्वनिवासं समनुस्मरामि॥
४२१.०३०. स्यात्ते ब्राह्मण काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूत् ।
४२१.०३१. नह्येवं द्रष्टव्यम्।
४२१.०३१. अहमेव स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूवम्।
४२१.०३२. सोऽहं ततश्च्युतः समान इन्द्रः कौशिकोऽभूवम्।
४२१.०३२. ततश्च्युतः समानोऽरणेमिर्गौतमोऽभूवम्<४२२>।

४२२.००१. ततश्च्युतः समानः श्वेतकेतुर्नाम महर्षिरभूवम्।
४२२.००१. ततश्च्युतः समानः शुकपण्डितोऽभूवम्।
४२२.००२. मया ते तदा ब्राह्मण चत्वारो वेदा विभक्ताः।
४२२.००२. तद्यथा पुष्यो बह्वृचानां पङ्क्तिश्छन्दोगानाम्।
४२२.००३. एकविंशतिचरणा अध्वर्यवः।
४२२.००३. क्रतुरथर्वणिकानाम्॥
४२२.००४. स्यात्तव ब्राह्मण काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन वसुर्नाम महर्षिरभूत् ।
४२२.००५. न ह्येवं द्रष्टव्यम्।
४२२.००५. अहमेव स तेन कालेन तेन समयेन वसुर्नाम महर्षिरभूवम्।
४२२.००६. मया सा तक्षकवधूकायाः कपिला नाम माणविका दुहिता आसादिता भार्यार्थाय्
४२२.००७. सोऽहं तत्र संरक्तचित्त ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः परिहीनः।
४२२.००७. सोऽहमात्मानं जुगुप्समानस्तस्यां वेलायामिमां गाथां बभाषे--ओं भूर्भुवः स्वः।
४२२.००८. तत्सवितुवरेण्यं भर्गो देवस्य धीमहि।
४२२.००९. धियो यो नः प्रचोदयात् ॥
४२२.०१०. सोऽहं ब्राह्मण त्वां ब्रवीमि--सामान्यसंज्ञामात्रकमिदं लोकस्य ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा।
४२२.०११. एकमेवेदं सर्वं सर्वमिदमेकम्।
४२२.०११. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमनुप्रयच्छ भार्यार्थाय्
४२२.०१२. यावतकं कुलशुल्कं मन्यसे तावतकमनुप्रदास्यामि।
४२२.०१३. इदं च वचनं पुनः श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी इदमवोचत्--
४२२.०१४. भगवाञ्श्रोत्रियः श्रेष्ठस्त्वत्तो भूयान्न विद्यत्
४२२.०१५. सदेवकेषु लोकेषु महाब्रह्मसमो भवान्॥१०६६॥
४२२.०१६. पुत्राय ते भोः प्रकृतिं ददामि शीलेन रूपेण गुणैरुपेतः।
४२२.०१८. शार्दूलकर्णः प्रकृतिस्तु भद्रा उभौ रमेतां रुचितं ममेदम्॥१०६७॥
४२२.०२०. तत्र तानि पञ्चमात्राणि माणवकशतानि उच्चैःशब्दानि प्रोचुर्महाशब्दानि--मा त्वं भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं संबन्धं रोचय्
४२२.०२१. नार्हसि भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं संबन्धं कर्तुम्॥
४२२.०२३. अथ ब्राह्मणः पुष्करसारी तेषां निदानं निदाय शब्दं संस्थाप्य निपत्य श्लोकेनैतानर्थानभाषत--
४२२.०२५. एवमेतद्यथा ह्येष त्रिशङ्कुर्भाषते गिरम्।
४२२.०२६. तत्त्वं ह्यवितथं भूतं सत्यं नित्यं तथा ध्रुवम्॥१०६८॥
४२२.०२७. अथ ब्राह्मणः पुष्करसारी तेषां माणवकानां तं महान्तं शब्दं संस्थाप्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्--अयं भोस्त्रिशङ्को ब्रह्मणा सहापतिना चात्रुमहाभैतिको महापुरुषः प्रज्ञप्तः।
४२२.०२९. यस्य
४२२.०३०. शिरः सतारं गगनमाकाशमुदरं तथा।
४२२.०३१. पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्॥१०६९॥

४२३.००१. <४२३>सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती।
४२३.००२. सागराश्चाप्यमेध्यं वै नद्यो मूत्रस्रवोऽस्य तु॥१०७०॥
४२३.००३. अश्रूणि वर्षणं चास्य एष ब्रह्मा सहापतिः।
४२३.००४. भवांस्तु परमज्ञोऽसि तन्मे ब्रूहि यथा तथा॥१०७१॥
४२३.००५. इह भोस्त्रिशङ्को किमाह स्वलक्षणं ब्रह्मणः प्रत्यवेक्षस्व्
४२३.००५. पित्रा च मात्रा च कृतानि कर्माणि भवन्ति।
४२३.००६. अश्वस्तनास्तेन वञ्चिताः।
४२३.००७. गच्छन्ति सत्त्वा बहुगर्भयोनिं न चैव कश्चिन्मनुजो ह्ययोनिः।
४२३.००९. समस्तजातौ प्रचरन्ति सत्त्वा न मारुताज्जायते कश्चिदेव् ।१०७२॥
४२३.०१०. स्वभावभाव्यं ह्यवगच्छ लोके के ब्राह्मणक्षत्रियवैश्यशूद्राः।
४२३.०१३. सर्वत्र काणाः कुणिनश्च खञ्जाः कुष्ठी किलासी ह्यपस्मारिणोऽपि॥१०७३॥
४२३.०१५. कृष्णाश्च गौराश्च तथैव श्यामाः सत्त्वाः प्रजा ह्यन्यतमे विशिष्टाः।
४२३.०१७. सहास्थिचर्माः सनखाः समांसा दुःखी सुखी मूत्रपुरीषयुक्ताः।
४२३.०१९. न चेन्द्रियाणां प्रविविक्तिरस्ति तस्मान्न वर्णाश्चतुरो भवन्ति॥१०७४॥
४२३.०२१. मन्त्रैर्हि यदि लभ्येत स्वर्गं तु गमनं द्विजः।
४२३.०२२. कृष्णशुक्लानि कर्माणि भवेयुर्निष्फलानि हि॥१०७५॥
४२३.०२३. यस्मात्कृष्णानि शुक्लानि कर्माणि सफलानि हि।
४२३.०२४. पच्यमानानि दृश्यन्ते गतिष्वेतानि पञ्चसु॥१०७६॥
४२३.०२५. माणवकशतेषु स तत्र विनिहतो महायशसा त्रिशङ्कुना पुष्करसारी ब्राह्मणोऽब्रवीत्--ब्राह्मणोऽसौ मातङ्गराजो हि त्रिशङ्कुर्नाम्
४२३.०२६. भवान् हि ब्रह्मा इन्द्रश्च कौशिकः।
४२३.०२६. त्वमरणेमिश्च गौतमः।
४२३.०२७. त्वं श्वेतकेतुश्च शुकपण्डितः।
४२३.०२७. वेदः समाख्यातस्त्वया चतुर्धा।
४२३.०२७. भगवान्वसू राजर्षिर्महायशा भगवान्।
४२३.०२९. ज्ञानेन हि त्वं परमेण युक्तः सर्वेषु शास्त्रेषु भवान् कृतार्थः।

४२४.००१. <४२४>श्रेष्ठो विशिष्टो परमोऽसि लोके भवान् हि विद्याचरणेन युक्तः॥१०७७॥
४२४.००३. ददामि तेऽहं प्रकृतिं ममामलां शीलेन रूपेण गुणैरुपेतः।
४२४.००५. शार्दूलकर्णः प्रकृतिश्च भद्रा उभौ रमेतां रुचितं ममेदम्॥१०७८॥
४२४.००७. प्रगृह्य भृङ्गारमुदकप्रपूर्णमावर्जितो ब्राह्मणो हृष्टचित्तः।
४२४.००८. अनुप्रदासीदुदकेन कन्यकां शार्दूलकर्णस्य इयमस्तु भार्या॥१०७९॥
४२४.०११. उदग्रचित्त आसीन्मातङ्गराजः।
४२४.०१२. कृत्वा निवेशं स तदात्मजस्य गत्वाश्रमेऽसौ नगरं यशस्वी।
४२४.०१४. धर्मेण वै कारयति स्वराज्यं क्षेमं सुभिक्षं च सदोत्सवाढ्यम्॥१०८०॥ इति।
४२४.०१६. स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा--अन्यः स तेन कालेन तेन समयेन त्रिशङ्कुर्नाम मातङ्गराजोऽभूत्? नैवं द्रष्टव्यम्।
४२४.०१७. अहमेव स तेन कालेन तेन समयेन त्रिशङ्कुर्नाम मातङ्गराजोऽभूवम्।
४२४.०१८. स्यादेवं च भिक्षवो युष्माकम्--अन्यः स तेन कालेन तेन समयेन शादूलकर्णो नाम मातङ्गराजकुमारोऽभूत् ।
४२४.०१९. नैवं द्रष्टव्यम्।
४२४.०१९. एष स आनन्दो भिक्षुः स तेन कालेन तेन समयेन शार्दूलकर्णो नाम मातङ्गराजकुमारोऽभूत् ।
४२४.०२१. स्यादेवं युष्माकम्--अन्यः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत् ।
४२४.०२१. नैवं द्रष्टव्यम्।
४२४.०२२. एष शारद्वतीपुत्रो भिक्षुः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत् ।
४२४.०२३. नान्या सा तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिताभूत् ।
४२४.०२४. नैवं द्रष्टव्यम्।
४२४.०२४. एषा सा प्रकृतिर्भिक्षुणी तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिताभूत् ।
४२४.०२५. सा एतर्हि तेनैव स्नेहेन तेनैव प्रेम्णा आनन्दं भिक्षुं गच्छन्तमनुगच्छति तिष्ठन्तमनुतिष्ठति।
४२४.०२६. यद्यदेव कुलं पिण्डाय प्रविशति, तत्र तत्रैव द्वारे तूष्णीम्भूता अस्थात् ॥
४२४.०२८. अथ खलु भगवानेतस्मिन्निदाने एतस्मिन् प्रकरणे तस्यां वेलायामिमां गाथामभाषत--
४२४.०२९. पर्वकेण निवासेन प्रत्युत्पन्नेन तेन च्
४२४.०३०. एतेन जायते प्रेम चन्द्रस्य कुमुदे यथा॥१०८१॥

४२५.००१. <४२५>तस्मात्तर्हि भिक्षवोऽनभिसमितानां चतुर्णामार्यसत्यानामभिसमयाय, अधिमात्रं वीर्यं तीव्रच्छन्दो वीर्यं शब्दापयामि।
४२५.००२. उत्साह उन्नतिरप्रतिवाणिः।
४२५.००२. स्मृत्या संप्रजन्येन अप्रमादतो योगः करणीयः।
४२५.००३. द्रुतमेषां चतुर्णां दुःखस्यार्यसत्यस्य दुःखसमुदयस्य निरोधस्य निरोधगामिन्याः प्रतिपद आर्यसत्यस्य अमीषां चतुर्णामार्यसत्यानामनभिसमितानामभिसमयाय अधिमात्रं तीव्रच्छन्दो वीर्यं व्यायाम उत्साह उन्नतिरप्रतिवाणिः स्मृत्या संप्रजन्येनाप्रमादतो योगः करणीयः॥
४२५.००७. अस्मिंश्च खलु पुनर्धर्मपर्याये भाष्यमाणे भिक्षूणां षष्टिमात्राणामनुपादाय आस्रवेभ्यश्चित्ताअनि विमुक्तानि।
४२५.००८. संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनां च विरजस्कं विगतमलं धर्मचक्षुरुदपादि विशुद्धम्॥
४२५.०१०. इदमवोचद्भगवान्।
४२५.०१०. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


४२५.०११. इति श्रीदिव्यावदाने शार्दूलकर्णावदानम्॥


                    • अवदान ३४ **********


४२६.००१. दिव्३४ दानाधिकरणमहायानसूत्रम्।

४२६.००१. एवं मया श्रुतम्।
४२६.००२. एकस्मिन् समये भगवाञ्छ्रावस्त्यां विअह्रति जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम्।
४२६.००३. तत्र {भगवान्} भिक्षूनामन्त्रयते स्म--सप्तग्त्रिंशता भिक्षव आकारैः पण्डितो दानं ददाति।
४२६.००४. काले दानं ददाति तथागतानुज्ञातम्।
४२६.००५. कल्पितं दानं ददाति त्रिवस्तुपरिशुद्धम्।
४२६.००५. सत्कुत्य दानं ददाति सर्वदोषविक्षेपविगमार्थम्।
४२६.००६. स्वहस्तेन दानं ददात्यसारात्कायात्सारसंग्रहार्थम्।
४२६.००६. स्कन्धं दानं ददाति महात्यागभोगविपाकप्रतिलाभसंवर्तनीयम्।
४२६.००७. वर्णसम्पन्नं दानं ददाति प्रासादिकविपाकप्रतिसंवर्तनीयम्।
४२६.००७. गन्धसम्पन्नं दानं ददाति गन्धविपाकप्रतिलाभसंवर्तनीयम्।
४२६.००८. रससम्पन्नं दानं ददाति रसरसाग्रव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्।
४२६.००९. प्रणीतं दानं ददाति प्रणीतभोगविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१०. विपुलं दानं ददाति विपुलभोगविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१०. अन्नदानं ददाति क्षुत्तर्षविच्छेदविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०११. पानदानं ददाति सर्वत्र जातिषु तृड्विच्छेदविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१२. वस्त्रदानं ददाति प्रणीतवस्त्रभोगविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१२. प्रतिश्रयं दानं ददाति हर्म्यकूटागारप्रासादभवनविमानोद्यानारामविशेषविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१४. शय्यादानं ददात्युच्चकुलभोगविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१४. यानं दानं ददाति ऋद्धिपादविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१५. भैषज्यदानं ददाति अजरामरणविशोकसंक्लिष्टनिरोधनिवाणविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१६. धर्मदानं ददाति जातिस्मरप्रतिलाभसंवर्तनीयम्।
४२६.०१६. पुष्पदानं ददाति बोध्यङ्गपुष्पविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१७. माल्यदानं ददाति रागद्वेषमोहविशुद्धविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१८. गन्धदानं ददाति दिव्यगन्धसुखोपपत्तिविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१९. धूपदानं ददाति संक्लेशदौर्गन्धप्रहाणविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०१९. छत्रदानं ददाति धर्मैश्वर्याधिपत्यविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२०. घण्टादानं ददाति मनोज्ञस्वरविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२१. वाद्यदानं ददाति ब्रह्मस्वरनिर्घोषविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२१. पट्टदानं ददाति देवमनुष्याभिषेकपट्टबन्धविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२२. तथाअगतचैत्येषु तथागतबिम्बेषु च सुगन्धोदकस्नानं दानं ददाति द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२३. सूत्रदानं ददाति सर्वत्र जातिषूत्पस्यता ग्राह्यकुलेषूपपद्य समन्तप्रासादिकविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२५. पञ्चसारदानं ददाति सर्वत्र जातिषु महाबलविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२५. मैत्र्यात्मकदानं ददाति व्यापादप्रहाणविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२६. करुणाश्रितदानं ददाति महासुखविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२७. मुदिताश्रितदानं ददाति सर्वथा मुदितानन्दविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२८. उपेक्षाश्रितं दानं ददाति अरतिप्रहाणविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२८. विचित्रोपचित्रं दानं ददाति नानाबहुविधविचित्रोपभोगविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०२९. सर्वार्थपरित्यागं दानं ददाति अनुत्तरसम्यक्सम्बोधिविपाकप्रतिलाभसंवर्तनीयम्।
४२६.०३०. एभिर्भिक्षवः सप्तत्रिंशत्प्रकारैः पण्डितो दानं ददाति॥
४२६.०३१. इदमवोचद्भगवान्।
४२६.०३१. आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥


४२६.०३२. इति श्रीदिव्यावदाने दानाधिकरणमहायानसूत्रं समाप्तम्॥


                    • अवदान ३५ **********

४२७.००१. दिव्३५ चूडापक्षावदानम् ।

४२७.००२. बुद्धो भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम्
४२७.००२. श्रावस्त्यामन्यतमो ब्राह्मणः प्रतिवसति।
४२७.००३. तेन सदृशात्कुलात्कलत्रमानीतम्।
४२७.००३. स तया सार्धं क्रीडति तमते परिचारयति।
४२७.००४. तस्यापत्यं जातं जातं कालं करोति।
४२७.००४. अथापरेण समयेन तस्य पत्नी आपन्नसत्त्वा।
४२७.००५. स करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः।
४२७.००५. तस्य नातिदूरे वृद्धयुवतिः प्रतिवसति।
४२७.००६. तया दृष्टः।
४२७.००६. सा कथयति--कस्मात्त्वं ब्राह्मण करे कपोलं दत्वा चिन्तापरो व्यवस्थितह्? स कथयति--ममापत्यं जातं जातं कालं करोति।
४२७.००७. मम चेदानीं पत्नी आपन्नसत्त्वा संवृत्ता।
४२७.००८. यदप्यन्यदपत्यं जनयिष्यति, तदपि कालं करिष्यति।
४२७.००८. स कथयति--यदा तव पत्व्याः प्रसवकालः स्यात्, तदा मां शब्दापयेथा इति।
४२७.००९. अथापरेण समयेन तस्य पत्न्याः प्रसवकाले जातः।
४२७.०१०. तेन सा वृद्धयुवतिः शब्दापिता।
४२७.०१०. तया सा प्रसवापिता।
४२७.०१०. पुत्रो जातः।
४२७.०११. तया स दारकः स्नापयित्वा शुक्लेन वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्तेऽनुप्रदत्तः।
४२७.०१२. सा दारिकोक्ता--इमं दारकं चतुर्महापथे धारय्
४२७.०१२. यं कंचित्पश्यसि ब्राह्मणं वा, स वक्तव्यह्--अयं दारकः पादाभिवन्दनं करोतीति।
४२७.०१३. अस्तं गते आदित्ये यदि जीवति, गृहीत्वा आगच्छ्
४२७.०१४. अथ कालं करोति, तत्रैवारोपयितव्यः।
४२७.०१४. सा तमादाय चतुर्महापथे गत्वा स्थिता।
४२७.०१५. आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शनाय गच्छन्ति।
४२७.०१६. सा दारिका सगौरवा सप्रतीशा पादभिवन्दनं कृत्वा कथयति--अयं दारक आर्याणां पादाभिवन्दनं करोति।
४२७.०१७. ते कथयन्ति--चिरं जीव, दीर्घमायुः पालयतु, मातापित्रोर्मनोरथं पूरयतु।
४२७.०१८. स्थविरस्थ्विरा भिक्षवः पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्रविशन्ति।
४२७.०१९. सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति--अयं दारक आर्याणां पादाभिवन्दनं करोतीति।
४२७.०२०. स्थविराः कथयन्ति--सुचिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु।
४२७.०२१. भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविशति स्म्
४२७.०२२. सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति--भगवान्, अयं दारको भगवतः पादाभिवन्दनं करोतीति।
४२७.०२३. भगवानाह--चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु।
४२७.०२४. विकालीभूते पश्यति--यावज्जीवति।
४२७.०२५. सा तं गृहीत्वा गृहमागता।
४२७.०२५. सा तैः पृष्टा--जीवति दारकह्? सा कथयति--जीवति।
४२७.०२६. ते कथयन्ति--कुत्र धारितह्? अस्मिन्महापथ्
४२७.०२६. ते कथयन्ति--किं भवतु दारकस्य नाम? अयं दारको महापथे धारितः।
४२७.०२७. भवतु दारक्स्य महापन्थक इति नाम्
४२७.०२७. महापन्थको दारक उन्नीतो वर्धितो महान् संवृत्तः।
४२७.०२८. स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः, संख्यायां गणनायां मुद्रायां ब्राह्मणिकायामीर्यायां शौचे समुदाचारे भस्मग्रहे औत्करे भोस्कारे ऋग्वेदे यजुर्वेदे सामवेदेऽथर्ववेदे यजने याजनेऽध्ययनेऽध्यापने दाने प्रतिग्रह्
४२७.०३०. षट्कर्मनिरतो ब्राह्मणः संवृत्तः।
४२७.०३१. स पञ्चशतगणं ब्राह्मणकर्म ओं वाचयितुमारब्धः।
४२७.०३१. तस्य भूयः क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
४२७.०३२. तस्याः प्रसवकालो जातः।
४२७.०३२. तेन सा वृद्धयुवतिह्<४२८> शब्दापिता।

४२८.००१. तया प्रसविता।
४२८.००१. तस्याः पुत्रो जातः।
४२८.००१. तया स दारकः स्नापयित्वा शुक्लेन वस्त्रेण वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्ते दत्तः।
४२८.००२. सा दारिकोक्ता--इमं त्वं दारकं चतुर्महापथे धारय्
४२८.००३. यदि कंचित्पश्यसि श्रमणं ब्राह्मणं वा, स वक्तव्यह्--अयं दारक आर्यस्य पादाभिवन्दनं करोति।
४२८.००४. अस्तं गत आदित्ये यदि जीवति, गृहीत्वा आगच्छ्
४२८.००५. अथ कालं करोति, तत्रैवारोपयित्वा आगच्छ्
४२८.००५. सा दारिका अलसजातीया तं दारकमादाय पन्थलिकायां स्थिता।
४२८.००६. आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शका गच्छन्ति।
४२८.००६. सा दारिका सगौरवा सप्रतीशा पादभिवन्दनं कृत्वा कथयति--आर्य, अयं दरक आर्याणां पादाभिवन्दनं करोति।
४२८.००८. ते कथयन्ति--चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोमनोरथं पूरयतु।
४२८.००९. सा तं विकालीभूते पश्यति--यावज्जीवति।
४२८.००९. सा तं गृहीत्वा गृहमागता।
४२८.००९. सा तैः पृष्टा--जीवति दारकह्? सा कथयति--जीवतीति।
४२८.०१०. ते कथयन्ति--कुत्र त्वयैष धारितह्? सा कथयति--अमुष्यां पन्थलिकायाम्।
४२८.०११. ते कथयन्ति--किं भवतु दारकस्य नाम? अयं दारकः पन्थलिकायां धारितः।
४२८.०१२. भवतु दारकस्य नामधेयं पन्थक इति।
४२८.०१२. पन्थको दारक उन्नीतो वर्धितो महान् संवृत्तिः।
४२८.०१३. स यदा महान् संवृत्तस्तदा लिप्यमुपन्यस्तः।
४२८.०१३. तस्य सीत्युक्ते धमिति विस्मरति।
४२८.०१४. अथ तस्याचार्यः कथयति--ब्राह्मण, मया प्रभूतदारकाः पाठयितव्याः।
४२८.०१५. न शक्ष्याम्यहं पन्थकं पाठयितुम्।
४२८.०१५. महापन्थकस्याल्पमुच्यते प्रभूतं गृह्णाति, अस्य तु पन्थकस्य सीत्युक्ते धमिति विस्मरति।
४२८.०१६. ब्राह्मणः संलक्षयति--सर्वे ब्राह्मणा लिप्यक्षरकुशला भवन्ति, वेदब्राह्मण एष भविष्यति।
४२८.०१७. स तेनाध्यापकस्य वेदं पाठयितुं समर्पितः।
४२८.०१७. तस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति।
४२८.०१८. अध्यापकः कथयति--प्रभूता माणवकाः पाठयितव्या मया।
४२८.०१९. न शक्याम्यहं पन्थकं पाठयितुम्।
४२८.०१९. अस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति।
४२८.०२०. ब्राह्मणः संलक्षयति--न सर्वे ब्राह्मणा वेदपारगा भवन्ति।
४२८.०२१. जातिब्राह्मण एवायं भविष्यतीति।
४२८.०२१. स यत्र क्वचिन्निमन्त्रितको गच्छति, तमेव पन्थकमादाय गच्छति।
४२८.०२२. अथ तेन समयेन स ब्राह्मणो ग्लानीभूतः।
४२८.०२२. स मूलगण्डपत्रफलभैषज्यैरुपस्थीयमानो हीयत एव्
४२८.०२३. स तेन महापन्थक उक्तह्--पुत्र, त्वं ममात्ययादशोच्योऽसि।
४२८.०२४. अपि तु त्वया पन्थकस्य योगोद्वहनं कर्तव्यमिति।
४२८.०२४. इत्युक्त्वा--
४२८.०२५. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।
४२८.०२६. सम्योगा विप्रयोगान्ता मरणान्तं च जीवितम्॥१॥
४२८.०२७. इति स कालधर्मेण सम्युक्तः।
४२८.०२७. ते तं नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता सत्कारेण श्मशाने ध्मापयित्वा शोकविनोदं कृत्वा अवस्थिताः॥
४२८.०२९. आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जानपदेषु चारिकां चरन्तौ श्रावस्तीमनुप्राप्तौ।
४२८.०३०. श्रावस्त्यां जनकायेन श्रुतम्--आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जानपदेषु चारिकां चरन्तौ श्रावस्तीमनुप्राप्तौ।
४२८.०३१. श्रुत्वा च पुनः स जनकायो बहिर्निर्गन्तुमारब्धः।
४२८.०३२. महापन्थकोऽपि बहिः श्रावस्त्यामन्यतमस्मिन् वृक्षमूले <४२९>पञ्चमात्राणि माणवकशतानि ब्राह्मणकान्मन्त्रान् वाचयति।

४२९.००१. तेन स जनकायः श्रावस्त्या निर्गच्छन् दृष्टः।
४२९.००२. स तान्माणवकान् पृच्छति--भवन्तः, क एष महाजनकायो निर्गच्छति? ते तस्य कथयन्ति--उपाध्याय, भदन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जनपदेषु चारिकां चरित्वा इह श्रावस्तीमनुप्राप्तौ, तद्दर्शनायोपसंक्रान्तः।
४२९.००४. किं नु तौ द्रष्टव्यौ? यत्रेदानीं तदग्रं वर्णमपहाय द्वितीयवर्णस्य श्रमणस्य गौतमस्यान्तिके प्रव्रजितौ।
४२९.००५. एकस्तत्र माणवकः श्राद्धः।
४२९.००६. स कथयति--उपाध्याय, मैवं वोचः।
४२९.००६. महानुभावौ तौ।
४२९.००६. यद्युपाध्यायस्तेषां धर्मं शृणुयात्, स्थानमेतद्विद्यते यदुपाध्यायस्यापि रोचत्
४२९.००७. आचरितं तेषां माणवकानां यदा अपाठा भवन्ति, ते कदाचिन्नगरावलोकनया गच्छन्ति।
४२९.००८. कदाचित्तीर्थोपस्पर्शका गच्छन्ति।
४२९.००९. कदाचित्समिधाहारका गच्छन्ति।
४२९.००९. अपरेण समयेन ते सर्वे अपाठाः संवृत्ताः।
४२९.००९. ते समिधाहारकाः संप्रस्थिताः।
४२९.०१०. सोऽपि महापन्थकोऽन्यतमवृक्षमूले चंक्रम्य स्थितः।
४२९.०१०. तत्रैकं भिक्षुमद्राक्षीत् ।
४२९.०११. स तमुपसंक्रम्यैवमाह--भो भिक्षो, उच्यतां तावत्किंचिद्बुद्धवचनम्।
४२९.०११. तेन तस्य दश कुशलाः कर्मपथा विस्तरेण संप्रकाशिताः।
४२९.०१२. सोऽभिप्रसन्नः कथयति--भो भिक्षो, पुनरप्याख्याहि विस्तरम्।
४२९.०१३. इत्युक्त्वा प्रक्रान्तः।
४२९.०१३. अपरेण समयेन भूयस्ते अपाठाः संवृताः।
४२९.०१४. ते समिधाहातकाः संप्रस्थिताः।
४२९.०१४. महापन्थकोऽपि भिक्षुसकाशमुपसंक्रान्तः।
४२९.०१४. तेन तस्य द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमो विस्तरेण प्रकाशितः।
४२९.०१५. सोऽभिप्रसन्नः कथयति--भो भिक्षु, लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
४२९.०१६. चरेयमहं श्रमणस्य गौतमस्यान्तिके ब्रह्मचर्यम्।
४२९.०१७. स भिक्षुः संलक्षयति--प्रव्राजयामि शासने, धुरमुन्नामयतीति।
४२९.०१८. स तेनोक्तह्--ब्राह्मण, एवं कुरुष्व्
४२९.०१८. महापन्थकः कथयति--भिक्षो, वयं प्रज्ञाता ब्राह्मणाः।
४२९.०१९. न शक्ष्यामिहैव प्रव्रजितुम्।
४२९.०१९. जनपदं गत्वा प्रव्रजामः।
४२९.०१९. स तेन जनपदं नीत्वा प्रव्रजितहुपसम्पादितः, उक्तश्च्
४२९.०२०. द्वे भिक्षुकर्मणी ध्यानमध्ययनं च्
४२९.०२०. किं करिष्यसि? उभयं करिष्यामि।
४२९.०२१. तेन दिवा उद्दिशता योनिशो भावयता त्रीणि पिटकानि, रात्रौ चिन्तयता तुलयता उपपरीक्षमाणेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्।
४२९.०२२. अर्हन् संवृत्तस्त्रैधतुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराड्भुखः।
४२९.०२४. सेन्द्रोपेन्द्राणां देवानां मान्यः पूज्योऽभिवाद्यश्च संवृत्तः॥
४२९.०२६. यदा पन्थकस्य भोगास्तनुत्वं परिक्षयं पर्यादानं गताः, स कृच्छ्रेण जीविकां कल्पयितुमारब्धः।
४२९.०२७. अथ पन्थकस्यैतदभवत्--यत्तावन्मे श्रुतेन प्राप्तव्यं तन्मया...।
४२९.०२७. यन्न्वहं श्रावस्तीं गत्वा भगवन्तं पर्युपाआस्यामि।
४२९.०२८. अथायुष्मान्महापन्थकः पञ्चशतपरिवारो येन श्रावस्ती तेन चारिकां प्रक्रान्तः।
४२९.०२९. अनुपूर्वेण चारिकां चरञ्श्रावस्तीमनुप्राप्तः।
४२९.०२९. श्रावस्त्यां जनकायेन श्रुतम्--आर्यो महापन्थकः पञ्चशतपरिवारः कोसलेषु जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः।
४२९.०३१. श्रुत्वा च पुनर्निर्गन्तुमारब्धः।
४२९.०३१. पन्थकेन दृष्टः।
४२९.०३१. स पृच्छति--भवन्तः, कुत्रेषु महाजनकायो गच्छति? ते कथयन्ति--आर्यो महापन्थकः पञ्चशतपरिवातः कोसलेषु <४३०>जनपदेषु चारिकां चरञ्श्रावस्तीमनुप्राप्तः।

४३०.००१. तमेषु महाजनकायो दर्शनायोपसंक्रामति।
४३०.००२. पन्थकः संलक्षयति--एषामसौ न भ्राता न ज्ञातिः।
४३०.००२. ममासौ भ्राता भवति।
४३०.००२. अहं कस्मात्तं न दर्शनायोपसंक्रामामि? सोऽपि तद्दर्शनायोपसंक्रान्तः।
४३०.००३. स तेन दृष्टः पृष्टश्च--पन्थक, कथं यापयसि? कृच्छ्रेण यापयामि? किं न प्रव्रजसि? स कथयति--अहं चूडः परमचूडो धन्वः परमधन्वः।
४३०.००५. को मां प्रव्राजयिष्यतीति? आयुष्मान्महापन्थकः संलक्षयति--सन्त्यस्य कानिचित्कुशलमूलानि? सन्ति।
४३०.००६. केनायं न योग्यह्? आगच्छ, अहं त्वां प्रव्राजयिष्यामि।
४३०.००७. तेन प्रव्राजित उपसम्पादितः।
४३०.००७. तेन तस्योद्देशो दत्तह्--
४३०.००८. पापं न कुर्यान्मनसा न वाचा कायेन वा किंचन सर्वलोक्
४३०.०१०. रिक्तः कामैः स्मृतिमान् संप्रजानन् दुःखं न स विद्यादनर्थोपसंहितम्॥१॥
४३०.०१२. तस्यैषा गाथा त्रैमास्येनापि न वृत्ता जाता।
४३०.०१२. अन्येषां गोपालकानां पशुपालकानां श्रुत्वा प्रवृत्ता जाता।
४३०.०१३. सगौरवः सप्रतीश उपसंक्रम्य प्रष्टुं प्रवृत्तः।
४३०.०१३. ते उपसंहरन्ति।
४३०.०१३. धर्मता खलु यथा बुद्धानां भगवतां द्वौ श्रावकाणां संनिपातौ भवतः, आषाढ्यां वर्षोपनायिकायां कार्तिकपूर्णमास्याम्।
४३०.०१५. एवं महाश्राव्काणामपि।
४३०.०१५. तत्र ये आषाढीवर्षोपनायिकायामुपसंक्रामन्ति, ते तांस्तान्मनसिकारविशेषानादाय तासु तासु ग्रामनिगमराष्ट्रराजधानीषु वर्षा उपगच्छन्ति।
४३०.०१७. ये कार्तिक्यां च पूर्णमास्यामुपसंक्रमन्ति, ते स्वाध्यायनिकां परिपृच्छनिकां च याचन्ति, यथाधिगतं चारोचयन्ति।
४३०.०१८. आयुष्मतो महापन्थकस्य सार्धंविहार्यन्तेवासिका भिक्षवो जनपदे वर्षोषिताः, तेऽप्येव कार्तिक्यां पूर्णमास्यां येनायुष्मान्महापन्थकस्तेनोपसंक्रान्ताः।
४३०.०१९. तत्र केचित्स्वाध्यायिनिकां याचन्ति, केचित्परिपृच्छन्ति, केचिद्यथाधिगतमारोचयन्ति।
४३०.०२०. तत्र ये चूडा भवन्ति परमचूडा धन्वाः परमधन्वाः, ते षड्वर्गीयान् सेवन्ते भजन्ते पर्युपासन्त्
४३०.०२२. आयुष्मान् पन्थकः षड्वर्गीयान् सेवते भजते पर्युपासत्
४३०.०२२. स षड्वर्गीयैरुच्यते--आयुष्मन् पन्थक, तव समानोपाध्याया उपाध्यायस्यान्तिकात्स्वध्यायिनिकां परिपृच्छिनिकां याचन्ति।
४३०.०२४. गच्छ, त्वमपि त्वदुपाध्यायस्यान्तिकात्स्वाध्यायिनिकां परिपृच्छनिकां याचस्व्
४३०.०२४. स कथयति--मया न किंचित्पठितं त्रैमास्ये, न त्वेका गाथा मम वृत्ता जाता, किमहं स्वाध्यायिनिकां याचेयमिति? ते कथयन्ति--ननूक्तं भगवता--अस्वाध्यायमाना मत्ता इति।
४३०.०२६. किं तवास्वाध्यायमानस्य गाथा अनुप्रवृत्ता भविष्यति? गच्छ, याचाहि।
४३०.०२७. स गत्वा कथयति--उपाध्याय, स्वाध्यायिनिकां तावन्मे देहि।
४३०.०२८. आयुष्मान्महापन्थकः संलक्षयति--किमस्येदं स्वं प्रतिभानमाहोस्वित्केनचित्प्रयुक्तह्? स पश्यति--यावत्प्रयुक्तः।
४३०.०२९. आयुष्मान्महापन्थकः संलक्षयति--किं न्वयमुत्सहनाविनेय आहोस्विदवसाअदनाविनेयह्? स पश्यति--यावदवसादनाविनेयः।
४३०.०३१. स तेन ग्रीवाअयां गृहीत्वा बहिर्विहारस्य निष्कासितः।
४३०.०३१. त्वं तावच्चूडः परमचूडो धन्वः परमधन्वः।
४३०.०३२. किं त्वमस्मिञ्शासने करिष्यसि? स रोदितुमारब्धः।
४३०.०३२. इदानीमहं न <४३१>गृही न प्रव्रजितः।

४३१.००१. अद्राक्षीद्भगवानायुष्मन्तं पथकं बहिर्विहारस्य भ्रमन्तम्।
४३१.००१. दृष्ट्वा च पुनरागच्छन्तमिदमवोचत्--कस्मात्त्वं पथक वहिर्विहारस्य रोदिष्यसि, अश्रूणि वर्तयसि? अहमस्मि भदन्त उपाध्यायेन निष्कासितः।
४३१.००३. इदानीमहं न गृही न प्रव्रजितः।
४३१.००४. भगवानाह--नेदं वत्स मौनीन्द्रं वचनं तवोपाध्यायेन त्रिभिः कल्पासंख्येयैरनेइकैर्दुष्करशतसहस्रैः षट्पारमिताः परिपूर्य समुदानीतम्, अपि तु मयेदं मौनीन्द्रं प्रवचनं त्रिभिः कल्पासंख्येयैरनैकैर्दुष्करशतसहस्रैः षट्पारमिताः परिपूर्य समुदानीतम्।
४३१.००६. न शक्यसि त्वं तथागतस्यान्तिकात्पठितुम्? अहमस्मि भदन्त चूडः परमचूडो धन्वः परमधन्वः।
४३१.००७. अथ भगवानस्यामुत्पत्तौ गाथां भाषते--
४३१.००९. यो बालो बालभावेन पण्डितस्तत्र तेन सः।
४३१.०१०. बालः पण्डितमानी तु स वै बाल इहोच्यत् ।२॥
४३१.०११. अस्थानमनवकाशो यद्बुद्धा भगवन्तः पदशो धर्मं वाचयिष्यन्ति नेदं स्थानं विद्यत्
४३१.०१२. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--इमं पाठय त्वमानन्द पन्थकम्।
४३१.०१२. आयुष्मानानन्दस्तं पाठयितुमारब्धः।
४३१.०१३. स न शक्नोति पाठयितुम्।
४३१.०१३. आयुष्मानानन्दो भगवन्तमिदमवोचत्--मया तावद्भदन्त शास्तुरुपस्थानं करणीयम्, श्रुतमुद्ग्रहीतव्यम्, गणो वाचयितव्यः।
४३१.०१४. आगतगतानां ब्राह्मणगृहपतीनां धर्मो देशयितव्यम्।
४३१.०१५. नाहं शक्ष्यामि पन्थकं पाठयितुम्।
४३१.०१५. भगवता तस्य द्वे पदे दत्ते--रजो हरामि, मलं हरामीति।
४३१.०१६. तस्यैतत्पदद्वयं न लेभ्
४३१.०१६. भगवान् संलक्षयति।
४३१.०१७. कर्मापनयोऽस्य कर्तव्यमिति।
४३१.०१७. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--शक्ष्यसि त्वं पन्थक भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुम्।
४३१.०१८. परं भदन्त शक्ष्यामि।
४३१.०१८. गच्छ प्रोञ्छस्व्
४३१.०१९. स भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुमारधः।
४३१.०१९. तस्य ते भिक्षवो नानुप्रयच्छन्ति।
४३१.०१९. भगवानाह--अनुप्रयच्छत, कर्मापनयोऽस्य कर्तव्य इति।
४३१.०२०. पदद्वयस्य दास्ये स्वाध्यायनिकाम्, अनुप्रयच्छत्
४३१.०२१. स भिक्षूणामुपानहान्मूलं क्रमतश्च प्रोञ्छत्
४३१.०२१. तस्य ते भिक्षवः पदद्वय्स्य स्वाध्यायनिकामनुप्रयच्छन्ति।
४३१.०२२. तस्यैतत्पदद्वयं स्वाध्यायतः कालान्तरेण प्रवृत्तं जातम्।
४३१.०२३. अथायुष्मतः पन्थकस्य रात्र्याः प्रत्यूषसमये एतदभवत्--भगवानेवमाह--रजो हरामि, मलं हरामीति।
४३१.०२४. किं नु भगवानाध्यात्मिकं रजः संधायाह आहोस्विद्बाह्यम्? तस्यैवं चिन्तयतस्तस्यां वेलायामष्रुतपूर्वास्तिस्रो गाथा आमुखीप्रवृत्ता जाताह्--
४३१.०२६. रजोऽत्र रागो न हि रेणुरेष रजो रागस्याधिवचनं न रेणोः।
४३१.०२८. एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताः सुगतस्य शासन् ।३॥
४३१.०३०. रजोऽत्र द्वेषो न हि रेणुरेष रजो द्वेषस्याधिवचनं न रेणोः।

४३२.००१. <४३२>एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताः सुगतस्य शासन् ।४॥
४३२.००३. रजोऽत्र मोहो न हि रेणुरेष रजो मोहस्याधिवचनं न रेणोः।
४३२.००५. एतद्रजः प्रतिविनुदन्ति पण्डिता न ये प्रमत्ताअः सुगतस्य शासन् ।५॥
४३२.००७. तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
४३२.००८. अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरान्मुखः।
४३२.०१०. सेन्द्रोपेन्द्राणां देवानां मान्यश्च पूज्यश्चाभिवाद्यश्च संवृत्तः।
४३२.०१०. ध्याने निषण्ण आयुष्मता महापन्थकेन दृष्टः।
४३२.०११. असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तत्
४३२.०११. स तेन बाहौ गृहीत्वोक्तह्--आगच्छ स्वाध्यायिनिकां तावत्कुरु, ततः पश्चाद्ध्यायिष्यसीति।
४३२.०१२. अथायुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, गजभुजसदृशो बाहुरुत्सृष्टः।
४३२.०१३. आयुष्मता महापन्थकेन पृष्टतो मुखं व्यवलोकयता दृष्टः।
४३२.०१४. स कथयति--आयुष्मन् पन्थक, एवं ते त्वया गुणगणा अधिगताह्? अधिगताः॥
४३२.०१६. यदा आयुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, अन्यतीर्थिका अवध्यायन्ति ध्रियन्ति विवाचयन्ति।
४३२.०१७. श्रमणो गौतम एवमाह--गम्भीरो मे धर्मो गम्भीरावभासो दुर्दृशो दुर्नुबोधोऽतर्कोऽतर्कावचरः, सूक्षुमो निपुणपण्डितविज्ञवेदनीयः।
४३२.०१८. अत्रेदानीं किं गम्भीरोऽस्य, यस्येदानीं पन्थकप्रभृतयश्चूडाः परमचूडा धन्वाः परमधन्वाः प्रव्रजन्ति।
४३२.०२०. भगवान् संलक्षयति--सुमेरुप्रख्ये महाश्रावके महाजनकायः क्षान्तिं गृह्णाति।
४३२.०२०. गुणोद्भावना अस्य कर्तव्या।
४३२.०२१. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--गच्छ आनन्द, पन्थकस्य कथय--भिक्षुण्यस्ते अववदितव्या इति।
४३२.०२२. एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् पन्थकस्तेनोपसंक्रान्तः।
४३२.०२३. उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्--शास्ता त्वामायुष्मन् पन्थक एवमाह--भिक्षुण्यस्ते अववदितव्या इति।
४३२.०२४. आयुष्मान् पन्थकः कथयति--किमर्थं स्थविरस्थविरान् भिक्षूनपहाय मां भगवान् भिक्षुण्यववादकमाज्ञापयति? ममैव गुणोद्भावना कर्तव्येति शास्तुर्मनोरथं परिपूरयिष्यामीति।
४३२.०२६. भिक्षुण्यश्छन्दहानिसह्(?) जेतवनमागताः।
४३२.०२७. ता भिक्षून् पृच्छन्ति--भगवता कोऽस्माकमववादक आज्ञप्तह्? ते कथयन्ति--आयुष्मान् पन्थकः।
४३२.०२८. ताः कथयन्ति--भगिन्यः, पश्यत कथं मातृग्रामः परिभूतः।
४३२.०२८. येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता।
४३२.०२९. भिक्षुण्यस्त्रिपिटा धार्मकथिका युक्तमुक्तप्रतिभानाः।
४३२.०३०. स किल भिक्षुणीरववदिष्यतीति।
४३२.०३०. ताः पर्षदमागता भिक्षुणीभिः पृष्टाह्--भगिन्यः, कोऽस्माकमववदितुमागमिष्यति? ताः कथयन्ति--आर्यपन्थकः।
४३२.०३१. किमार्यो महापन्थकह्? न ह्ययम्, स त्वन्यश्चूडापन्थकः।
४३२.०३२. द्वादशवर्गीयाभिः श्रुतम्।
४३२.०३२. तावदवध्यायन्ति।

४३३.००१. <४३३>भगिन्यः पश्यत, कथं मातृग्रामः परिभूतह्? येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता।
४३३.००२. इमा भिक्षुण्यस्त्रिपिटा धर्मकथिका युक्तमुक्तप्रतिभानाः, स किल किमासामववदिष्यतीति? ताः कथयन्ति--भगिन्यः, षड्जन्यो द्वादशहस्तिकाभिर्लताभिः सिंहासनं प्रज्ञपयन्तु।
४३३.००४. षड्जन्यः श्रावस्त्यां प्रविश्य रथ्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचयन्तु--सोऽस्माकं तादृशोऽववादक आगमिष्यति, योऽस्माकं तनुसत्यानि न द्रक्ष्यति।
४३३.००५. तेन संसारे चिरं वस्तव्यं भविष्यतीति।
४३३.००६. येन न कश्चित्पुत्रमोटिकापुत्रोऽल्पश्रुत उत्सहते भिक्षुणीरववदितुम्।
४३३.००७. तासां षड्भिर्जनीभिर्द्वादशहस्तिकाभिर्लताभिः संहासनं प्रज्ञप्तम्, षड्भिक्षुणीभिः श्रावस्तीं प्रविश्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचितम्--सोऽस्माकं तादृशोऽववादक आगमिष्यति, योऽस्माकं तनुसत्यानि न द्रक्ष्यति।
४३३.००९. तेन संसारे चिरं वस्तव्यं भविष्यतीति।
४३३.०१०. आयुष्मान् पन्थकः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत् ।
४३३.०११. कृतभक्तकृत्यः पश्चाद्भक्तापिण्डपात्रप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसम्लयनाय्
४३३.०१२. अथायुष्मान् पन्थकः सायाह्ने प्रतिसम्लयनाय व्युत्थाय संघाटीमादाय अन्यतमेन भिक्षुणा पश्चाच्च्रमणेन संप्रस्थितः।
४३३.०१३. अनेकानि प्राणिशतसहस्राणि--कानि च कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमूलैः संचोद्यमानानि।
४३३.०१४. अद्राक्षीत्सा परिषतायुष्मन्तं पन्थकं दूरादेव्
४३३.०१५. दृष्ट्वा च पुनः परस्परं पृच्छति--कतरोऽत्र भिक्षुण्यववादकह्? किं पुरःश्रमणः, आहोस्वित्पश्चाच्छ्रमणह्? तत्रैके कथयन्ति--पुरःश्रमणः।
४३३.०१६. तेऽवध्यायितुमारब्धाह्--पश्यत भदन्त, संचिन्त्य वयं भिक्षुणीभिर्विहेठिताः।
४३३.०१७. येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता, स किं भिक्षुणीरववदिष्यति, धर्मं वा वाचयिष्यति? गच्छामः।
४३३.०१९. अपरे कथयन्ति--तिष्ठामो यदि धर्मं देशयिष्यति, श्रोष्यामः।
४३३.०१९. अथ न, गच्छामः।
४३३.०१९. इति सा पर्षत्समवस्थिता।
४३३.०२०. आयुष्मता पन्थकेन सिंहासनं दृष्टं प्रज्ञप्तकं दृष्ट्वा संलक्षयति--किं तावत्प्रसादजाताभिः प्रज्ञप्तमाहोस्वित्विहेठनाभिप्रायाभिह्? पश्यति--यावत्विहेठनाभिप्रयाभिः।
४३३.०२०. दृष्ट्वा संलक्षयति--किं तावत्प्रसादजाताभिः प्रज्ञप्तमाहोस्वित्विहेठनाभिप्रसायाभिह्? पश्यति--यावत्विहेठनाभिप्रायाभिः।
४३३.०२२. आयुष्मता पन्थकेन गजभुजसदृशं बाहुमभिप्रसार्य तं सिंहासनं यथास्थाने स्थापितम्।
४३३.०२३. आयुष्मान् पन्थकस्तत्र निषण्णः।
४३३.०२३. स निषीदन् कैश्चित्दृष्टह्. कैश्चित्न दृष्टः।
४३३.०२४. अथात्रस्थ आयुष्मान् पन्थकस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वे आसनेऽन्तर्हितः, पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य पूर्ववत्यावतृद्धिप्रातिहार्याणि विदर्श्य तानृद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः।
४३३.०२६. निषद्य आयुष्मान् पन्थकस्ता भिक्षुणीरामन्त्रयते--मया भगिन्यस्त्रिभिर्मासैरेका गाथा पठिता।
४३३.०२७. उत्सहेतव्यानि(?) श्रोतुमेकगाथायाः सप्तरात्रिंदिवसान्यन्यैः पदैर्व्यञ्जनैरर्थं विभक्तुम्?
४३३.०२९. पापं न कुर्यान्मनसा न वाचा कायेन वा किंचन सर्वलोक्
४३३.०३१. रिक्तः कामेइः स्मृतिमान् संप्रजानन् दुःखं न स विद्यादनर्थोपसंहितम्॥६॥िति।

४३४.००१. <४३४>सर्वपापस्य भगवान् कारणमाह--यावद्गाथार्थस्यार्थमधीतं याति, तावद्द्वादशभिः प्राणिसहस्रैः सत्यानि दृष्टानि।
४३४.००२. कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्सम्बोधौ चित्तान्युत्पादितानि।
४३४.००५. यद्भूयसा सा परिषद्बुद्धनिंनाधर्मप्रवणा संघप्राग्भारा व्यवस्थिता।
४३४.००६. अथायुष्मान् पन्थकस्तां परिषदं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः।
४३४.००७. स भिक्षुभिरागच्छन् दृष्टः।
४३४.००७. ते संलक्षयन्ति--अद्यायुष्मता पन्थकेन महाजनकायः प्रसादितो भविष्यति।
४३४.००८. ते न षक्नुवन्त्यायुष्मन्तं पन्थकं संमुखमप्रियं प्रष्टुम्।
४३४.००८. तैः पश्चाच्छ्रमणः पृष्टः।
४३४.००९. आयुष्मन्, अद्य आयुष्मता पन्थकेन किं महाजनकायो न प्रसादितो वा प्रसादितह्? आयुष्मता न कश्चितप्रसादितः।
४३४.०१०. भगवता वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं चक्रं प्रवर्तितम्, तदद्यायुष्मता पन्थकेनानुप्रवर्तितम्।
४३४.०११. यावद्गाथार्थं न विभजति, तावद्द्वादशभिः प्रणिसहस्रैः सत्यानि दृष्टानि॥
४३४.०१३. तत्र भगवाअन् भिक्षूनामन्त्रयते स्म--एषोऽग्रो मे भिक्षवो भिक्चूणां मम श्रावकाणां चेतोविवर्तकुशलानां यदुत पन्थको भिक्षुः।
४३४.०१४. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त द्वादशवर्गीयाभिरायुष्मतः पन्थकस्यानर्थं करिष्यामि इत्यथ एव कृतः।
४३४.०१५. भगवानाह--न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि आभिरनर्थं करिष्याम इत्यर्थ एव कृतः।
४३४.०१६. तच्छ्रूयताम्॥
४३४.०१७. भूतपूर्वमेवं भिक्षवोऽन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति।
४३४.०१७. तेन सदृशात्कुलात्कलत्रमानीतम्।
४३४.०१८. स तया सर्धं क्रीडति रमते परिचारयति।
४३४.०१८. तस्य क्रीडतो रममाणस्य परिचारयतो भूयः क्रीडति रमते परिचारयति यावर्द्वादश पुत्रा जाताः।
४३४.०१९. तेन तेषां निवेशः कृतः।
४३४.०२०. अपरेण समयेन तस्य पत्नी कालगता।
४३४.०२०. सोऽपि ब्राह्मणो वृद्धावस्थायां जातः।
४३४.०२०. अन्धीभूतस्य स्नषा दुश्चारिण्यः।
४३४.०२१. यदा तासां स्वामिनो बहिर्निर्गता भवन्ति, तदा ताः परपुरुषैः सार्धं परिचारयन्ति।
४३४.०२२. स ब्राह्मणः शब्दे कृतावी।
४३४.०२२. स जानाति--अयं मम पुत्रस्य शब्दः, अयं परपुरुषयेति।
४३४.०२३. स पुरुषाणां पदशब्दाञ्श्रुत्वा ताः स्नुषा गर्जयति.
४३४.०२३. ताः संलक्षयन्ति--अयं ब्राह्मण्प्स्माकमनर्थाय प्रतिपन्नः।
४३४.०२४. तास्तस्य चकट्योदनं काञ्जितकच्छिटिं चानुप्रयच्छन्ति।
४३४.०२६. तैस्ता उक्ताह्--किं कारणं यूयं तातस्य चकट्योदनं काञ्जिकच्छिटिं चानुप्रयच्छत? ताः कथयन्ति--तस्य पुण्यानि परिक्षीणानि, अस्यार्थे पिपरीकायां त:डुलाः प्रक्षिप्ता भवन्ति, चकट्योदनं परिवर्तते, दधि प्रक्षिप्तं काञ्जिकं परिवर्तत्
४३४.०२८. ते कथयन्ति--किमेतदेवं भविष्यति? ताः कथयन्ति--वयं युष्माकं प्रत्यक्षीकरिष्यामः।
४३४.०२९. ताः कथयन्ति--अस्माभिः प्रतिज्ञातमिदानीं निर्वोढव्यम्।
४३४.०३०. ताभिः कुम्भकाअर उक्तह्--शक्ष्यसि त्वं भद्रमुखमेकमुखिके द्वे स्थाल्यौ कर्तुम्? स कथयति--शक्ष्यामि।
४३४.०३१. तेनैकमुखिके द्वे स्थाल्यौ कृत्
४३४.०३१. ताभिरेकस्यां स्थाल्यां चकटितण्डुलाः प्रक्षिप्ताः, द्वितीयायां काञ्जिकम्।
४३४.०३२. ताभिः स्वामिनां पुरस्तादेकस्य <४३५>स्थाल्यां तण्डुलाः प्रक्षिप्ता एकस्यां दधि।

४३५.००१. ताभिः साधितम्।
४३५.००१. कथयन्ति--आर्यपुत्रस्य किं तावत्तातस्तत्प्रथमतः परिभुक्तामाहोस्वित्यूयम्।
४३५.००२. ते कथयन्ति--तातस्तावत्परिभुक्ताम्।
४३५.००३. ताभिस्तेषां पुरस्तात्तस्यौकस्याः स्थाल्या उद्धृत्य चकट्योदनं दत्तं द्वितीयायाः कञ्जिकम्।
४३५.००४. तत एवं ताभिस्तेषामेकस्याः स्थाल्या उद्धृत्य शाल्योदनं दत्तं द्वितीयाया दधि उद्धृतम्।
४३५.००४. ते तस्य कथयन्ति--तात, तव पुण्यानि परिक्षीणानि।
४३५.००५. यत एकस्यां स्थाल्यां शालितण्डुलाः प्रक्षिप्ताः, द्वितीयस्यां दधि, तच्चकट्योदनं काञ्जिकं च परिवृत्तम्।
४३५.००६. ब्राह्मणः संलक्षयति--मया हस्तोच्छ्रयशतैर्भोगाः समुदानीताः।
४३५.००७. किं कारणं मम पुण्यानि परिक्षीणानि? तेन तासामप्रत्यक्षं महानसं प्रविश्य पर्येषमाणेन हस्तसंस्पत्शेनैकमुखे द्वे स्थाल्यौ लब्ध्
४३५.००८. तेन गोपायित्
४३५.००९. तेन एत्षां पुत्राणामागतानां ते प्रदर्शिते--पश्यत, मम पुण्यानि परिक्षीणानि।
४३५.०१०. गत्वा पश्यध्वमस्माकं गृह एव एकमुखी स्थाली।
४३५.०१०. पुत्रक, अन्येषु गेहेषु न स्हालीद्वयं त्वकमुखमस्माकं मन्दभाग्यानाम्।
४३५.०११. तैस्ताः पत्न्यः सुताडिताः।
४३५.०११. ताः संलक्षयन्ति--अयं ब्राह्मणोऽस्माकमनर्थाय प्रतिपन्नकः॥
४३५.०१२. प्रघातयाम इति।
४३५.०१२. तेन च प्रदेशेनाहितुण्डिक आगतः।
४३५.०१३. ताः पृच्छन्ति--अस्ति सर्प इति? स कथयति--कीदृशं सर्पं मृगयथ जीवन्तमाहोस्वित्मृतकमिति? ताः कथयन्ति--मृतकम्।
४३५.०१४. स संलक्षयति--केमेता मृतकेन सर्पेण करिष्यन्ति? नूनमेता एतं वृद्धं मारयितुकामा भविष्यन्ति।
४३५.०१५. धर्मता खलु सर्पस्य रुषितस्य द्वयोः स्थानयोर्विषं संक्रामति--शिरसि पुच्छे च्
४३५.०१६. तेन रोषित्वा शिरः पुच्छं स्वयं छित्त्वा तासां मध्ये सर्पा दत्तः।
४३५.०१७. ताभिर्जोमां साधयित्वा स ब्राह्मण उक्तह्--तात, हिलिमां जोम पास्यसि? स ब्राह्मणः संलक्षयति--किमेता मे हिलिमां जोमां दास्यन्ति? नूनं किंचितभैषज्यं दत्तं भविष्यति।
४३५.०१९. स संलक्षयति--पिबामि, यथा च तथा मरामि।
४३५.०१९. ताभिस्तस्य हिलिमा जोमा दत्ता।
४३५.०२०. तेन पीता।
४३५.०२०. तस्य बाष्पेण पटले स्फुटित्
४३५.०२०. स द्रष्टुमारब्धः।
४३५.०२०. स निपत्यावस्थितः।
४३५.०२१. कथयति च--मरामि मरामीति।
४३५.०२१. ताः कथयन्ति--शीघ्रं मा पातु।
४३५.०२१. ताः कथयन्ति--तात, भूयः पास्यसि? स कथयति--पास्यामीति।
४३५.०२२. ताभिस्तस्य भूयो हिलिमा जोमा दत्ता।
४३५.०२३. तेन भूयः पीता।
४३५.०२३. तस्य तेन बाष्पेण भूयस्या मात्रया पटले स्फुटित्
४३५.०२३. स स्पष्टतरं द्रष्टुमारब्धः।
४३५.०२४. ताः पूर्वं यथा तस्यान्धस्य ततो विश्वस्ता विहृतवन्त्यस्तथैव विहर्तुमारब्धाः।
४३५.०२५. स दण्डं गृहीत्वा उत्थितः।
४३५.०२५. कथयति च--किं यूयं जानीथ इदानीमप्यहं न पश्यामि? पश्याम्यहमिदानीमिति।
४३५.०२६. ताः सलज्जा निष्पलायिताः॥
४३५.०२७. किं मन्यध्वे भिक्षवः।
४३५.०२७. योऽसौ ब्राह्मणः, एष एवासौ पन्थकस्तेन कालेन तेन समयेन्
४३५.०२८. यास्तास्तस्य द्वादश स्नुषाः, एता एव ता द्वादशवर्गीयाः।
४३५.०२८. तदाप्याभिरस्यानर्थं करिष्याम इत्यर्थ एव कृतः।
४३५.०२९. एतर्ह्यपि आभिरस्यानर्थं करिष्याम इत्यर्थमेव कृतः॥
४३५.०३०. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त भगवता आयुष्मान् पन्थकः परीत्तेनाववादेनाचोद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठे अनुत्तरे योगक्षेमे निर्वाणे प्रतिष्टापितः।
४३५.०३२. भगवानाह--न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्येषो मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्याधिपत्ये प्रतिष्ठापिताः।
४३५.०३३. तच्छ्रयताम्॥

४३६.००१. <४३६>भूतभूतं भिक्षवोऽन्यतमस्मिन् कर्तवटके गृहपरिः प्रतिवसति आड्यो सहाधनो महाभोगः।
४३६.००२. तेन सदृशात्कुलात्कलत्रमानीतम्।
४३६.००२. स तया सार्धं त्रीटति रमते पतिचारयति।
४३६.००२. तस्य पुत्रो जातः।
४३६.००३. स पर्नीमामन्त्रयते--भद्रे, जातोऽस्माकमृणहरः।
४३६.००३. गच्छामि, अहं पण्यमादाय महासमुद्रमवतरामि।
४३६.००४. सा आह--एवं कुरुष्व्
४३६.००४. स गृहपतिः संलक्षयति--यदहमस्यै प्रभूतानं कार्षापणान् दास्यामि, परपुरुषैः सार्धं विहरिष्यति।
४३६.००५. तेन तस्याः कार्षापणा न दत्ताः।
४३६.००६. तस्मिन् कर्पटके श्रेष्ठी प्रतिवसति तस्य गृहपतेर्वयस्यः।
४३६.००६. तस्य हस्ते प्रभूताः कार्षापणाः स्थापिताह्--यदि मम पत्न्या भक्ताच्छादेन योगोद्वहनं कुर्याः।
४३६.००७. स पण्यमादाय महासमुद्रमवतीर्णः।
४३६.००८. तर्रैवानयेन व्यसनमापन्नह्.
४३६.००८. तया स दारको ज्ञातिबकेन स्वहस्तबलेन वा आयापिता(पयित्वा) पालितो वर्धितः।
४३६.००९. स मातरं पृच्छति--अम्ब, किमस्माकं पिता पितामहाश्च कर्माकार्षुह्? सा संलक्षयति--यद्यस्य वक्ष्यामि महासमुद्रे पोतसंव्यवहारिण आसन्निति, स्थानमेतद्विद्यते यदेषोऽपि महासमुद्रमवतरिष्यतीति, तत्रैव अनयेन व्यसनमापत्स्यत्
४३६.०११. श्रुतमाहितस्तव पुता च पितामहाश्च इहैव वाणिज्यमकार्षुः।
४३६.०१२. स कथयति--कार्षापणान्ममानुप्रयच्छ, यैरिहैव वाणिज्यं करिष्यामि।
४३६.०१३. माता कथयति--कुतो मम कार्षापणाह्? त्वं मया कथंचित्ज्ञातिबलेन स्वहस्तबकेन आयापितः पोषितः संवर्धितः।
४३६.०१४. कुतो मे कार्षापणानां विभवह्? अपि त्वयं श्रोष्टी तव पितृवयस्यो भवति।
४३६.०१५. अस्य सकाशात्कार्षापणान् गृहीत्वा कर्म कुरु।
४३६.०१६. स तस्य गृहं गतः।
४३६.०१६. तस्यान्यतमेन पुरुषेण यावत्द्विरपि विनाशितः।
४३६.०१७. स तमवसादयति।
४३६.०१७. तस्य च गृहात्प्रेष्यदारिकायाः संकारतलस्योपरि मृतमूषिकां दृष्ट्वा प्रयच्छति च्छोरयितुम्।
४३६.०१८. स श्रेष्ठी तस्य पुरुषस्य कथयति--यः पुरुषः स्यात्, शक्यते अनया मृतमूषिकया आत्मानमुद्धर्तुम्।
४३६.०१९. तेन दारकेण श्रुतम्।
४३६.०१९. स संलक्षयति--महात्मैषः।
४३६.०१९. न शक्यमनेन यद्वा तद्वा वक्तुम्।
४३६.०२०. नूनं शक्यमनया मृतमूषिकया आत्मानमुद्धर्तुम्।
४३६.०२०. स तस्या दारिकायाः पृष्ठतो निर्गतः।
४३६.०२१. तया दातिकया संकारे छोरिता।
४३६.०२१. स तां मृतमूषिकामादाय वीथीं गतः।
४३६.०२२. तत्र वाणिजको बिडाकेन क्रीडित्वा स्थितः।
४३६.०२२. तेन तस्य बिडालस्य मृतमूषिका दर्शिता।
४३६.०२३. स तांदृष्ट्वा उत्पतितुमारब्धः।
४३६.०२३. तेन वाणिजकेन दारक उच्यते--अनुप्रयच्छ अस्य बिडालस्य मृतमूषिकाम्।
४३६.०२४. स कथयति--किमयं कलिकया दीयते? मूल्यमनुप्रयच्छ्
४३६.०२५. तेन तस्य कलायानामञ्जलिपूरोओ दत्तः।
४३६.०२५. स संलक्षयति--यद्येतान् भक्षयिष्यामि, मूलमेव ब्भिक्षितं भविष्यति।
४३६.०२६. स तान् भ्राष्ट्रे भर्जयित्वा शीतलस्य पानीयस्य वर्धनीयस्य पूर्णं कृत्वा तद्गृह्य तस्मात्स्थानकान्निष्क्रम्य यस्मिन् प्रदेशे काष्ठहारका विश्राम्यन्ति, तस्मिन् प्रदेशे गत्वावस्थितः।
४३६.०२८. काष्ठहारका आगताः।
४३६.०२८. तेनोक्ताह्--मातुलाः, अर्पयत काष्ठभारकाः, मुहूर्तं विश्राम्यताम्।
४३६.०२९. तैः काष्ठभाराः स्थिपिताः।
४३६.०२९. तेन तेषां कलायानां स्तोक्तं दत्तं शीतलं च पानीयं पातम्।
४३६.०३०. ते कथयन्ति--भागिनेय, क्व यास्यसि? काष्ठानाम्।
४३६.०३०. भागिनेय, वयं तावत्कल्यमेवोत्थाय गत्वा इदानीमागच्छामः।
४३६.०३१. त्वमिदानीं गच्छन् कियता आगमिष्यसि? तैस्तस्यैकैकं काष्ठमनुप्रदत्तम्।
४३६.०३२. तस्य काष्ठमूलिका संपन्ना।
४३६.०३२. स तां गृहीत्वा प्रतिनिवृत्तः।
४३६.०३२. स तां विक्रीय <४३७>कलायानां गृहीत्वा भर्जयित्वा उदकस्य कुम्भं पूरयित्वा तस्मिन्नेव प्रवेशे गत्वावस्थितः।

४३७.००२. ते काष्ठहारकास्तथैव तेन कलायैः संविभक्ताः, शीतलेन पानीयेन संतर्पिताः।
४३७.००२. ते तस्य कथयति--भागिनेय, दिवसे दिवसे त्वं कलायान् पानीयं च गृहीत्वा आगम्य अत्रैव तिष्ठम्।
४३७.००४. वयं तवोपरि काष्ठमूलिकामानयिष्यामः।
४३७.००४. स दिवसे दिवसे तयैव कर्तुमारब्धः।
४३७.००४. स तेषां कथयति--मातुल, मा यूयं काष्ठभारान् वीर्थां नयथ्
४३७.००५. मम गृहे स्थापयत्
४३७.००५. युष्माकमेवं पिण्डितमूल्यं दास्यामि।
४३७.००६. तैस्तस्य गृहे काष्ठभारकाणि स्थापिताः।
४३७.००६. अपरेण समयेन सप्ताहवर्दलिका जाताः।
४३७.००७. तेन तानि काष्ठभारकाणि विक्रीतानि।
४३७.००७. तस्य प्रभूतो लाभः संपन्नः।
४३७.००८. स संलक्षयति--एतत्प्रतिक्रुष्टतरं वाणिज्यानां यदुत काष्ठवाणिज्यम्।
४३७.००८. स संलक्षयति--अपि चन्दनकाष्ठेन काष्ठवाणिज्यमेव्
४३७.००९. यन्न्वहमुक्करिकापणं प्रसारयेयम्।
४३७.००९. तेन उक्करिकापणः प्रसारितः।
४३७.०१०. स धर्मेण व्यवहरति।
४३७.०१०. तस्य तत्प्रभूतो लाभः स संलक्षयति--एतत्प्रतिक्रुष्टतरं वाणिज्यानां यदुत उक्करिकापणः।
४३७.०११. यन्न्वहं गान्धिकापणं प्रसारयेयम्।
४३७.०१२. तेन गान्धिकापणः प्रसारितः।
४३७.०१२. तस्य प्रभूतो लाभः संपन्नः।
४३७.०१२. स संलक्षयति--एतदपि प्रतिक्रष्टतरं च तद्वाणिज्यानां पूर्ववत् ।
४३७.०१३. तेन सर्वे हैरण्यका अभिभूताः।
४३७.०१३. तस्य मूषिकाहैरण्यको मूषिकाहैरण्यक इति संज्ञा संवृत्ता।
४३७.०१४. ते हैरण्यकाः कथयन्ति--भवन्तः, सर्वे वयमनेन मूषिकाहैरण्यकेनाभिभूताः।
४३७.०१५. वयमेनं मानं प्राहयामः, यथा महासमुद्रमवतरेत्तत्रैवानयेन व्यसनमापत्स्यते तथा करिष्याम इति।
४३७.०१६. ते तस्य नातिदूरे स्थित्वा स्वैः कथासम्लापेन तिष्ठन्ति--यथापि नाम भवन्तः पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्, अश्वपृठेन गत्वा शिबिकायां गच्छेत्, शिबिकायां गत्वा पद्भ्यां गच्छेत्, एवमेवास्य मूष्किकाहैरण्यिकस्य पिता च पितामहाश्च समुद्रे पोतसंव्यवहातिण आसन्।
४३७.०१९. एष इदानीं कुऋच्छ्रेण जीविकां कल्पयति हैरण्यिकापणं वाहयतीति।
४३७.०२०. श्रुत्वा स कथयति--किं कथयत? ते कथयन्ति--तव पिता च पितामहाश्च पोतसंव्यवहारिण आसन्।
४३७.०२१. स त्वमिदानीं कृच्छ्रेण जीविकां कल्पयसि, हैरण्यिकापणं वाहयसि? स गृहं गत्वा मातरं पृच्छति--अम्ब, सत्यमस्माकं पिता च पितामहाश्च महासमुद्रे पेतसंव्यवहारिण आसन्? सा संलक्षयति--नूनमनेन किंचित्कुतश्चित्श्रुतं स्यात् ।
४३७.०२४. तदप्रतिरूपं स्यात्, यदहं मृषावादेन वञ्चयेयम्।
४३७.०२४. सत्यं पुत्र्
४३७.०२४. स कथयति--अनुजानीष्व, अहमपि महासमुद्रमवतरिष्यामि।
४३७.०२५. सा कथयति--पुत्र, इहैव तिष्ठ्
४३७.०२५. स भूयो भूयः कथयति--गच्छामि।
४३७.०२६. तस्य निर्बन्धं ज्ञात्वा अनुज्ञातः।
४३७.०२६. तेन घण्टावधोषणं कृतम्--यो युष्माकमुत्सहते मूषिकाहैरण्येन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतरितुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु।
४३७.०२८. पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्।
४३७.०२८. अथ मूषिलाहैरण्यिकः कृतमङ्गलकैतूहलस्वस्त्ययनः शकटैर्भारैर्मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः पण्यमारोप्य महासमुद्रं संप्रस्थितः।
४३७.०३०. सोऽनुपूर्वेण महासमुद्रमवतरन्ननुप्राप्तः।
४३७.०३०. ते वणिजो महासमुद्रं दृष्ट्वा भईतः।
४३७.०३१. नोत्सहन्ते वहनमभिरोडुम्।
४३७.०३१. सार्थवाहः कर्णधारस्य कथयति--कथय कथय भोः पुरुष यथाभूतं महासमुद्रस्य वर्णम्।
४३७.०३२टतः कर्णधार उद्धोषयितुमारब्धह्--सन्त्येतस्मिन् <४३८>महासमुद्रे इमान्येवम्रूपाणि रत्नानि तद्यथा--मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवाल रजतजातरूपमश्मगर्भो मुसारगल्वो लोहितका दक्षिणावर्तः।

४३८.००२. यो युष्माकमुत्सहते एवम्रूपै रत्नैरात्मानं सम्यक्सुखेन प्रतिणयितुम्, मातापितरौ पुत्रदारान् दासीदासकर्मकरपौरुषेयं मोत्रामात्यज्ञातिसालोहितं कालेन कालं श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुम्, मूर्धगामिनीं सौभासिकीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, स महासमुद्रमवतरतु।
सम्पत्तिकामो लोकः।
४३८.००६. महाजनकायोऽभिरूढो यतस्तद्वहनमसह्यं जातम्।
४३८.००६. सार्थवाहः संलक्षयति--किमिदानीं वक्ष्यामि अवतरतेति? स कर्णधारस्य कथयति--घोषय भोः पुरुष महासमुद्रस्य यथाभूतं वर्णम्।
४३८.००८. ततः कर्णधार उद्धोषितुमारव्धह्--शृण्वन्तु भवन्तो जम्बुद्वीपका वणिजः।
४३८.००९. सन्त्यस्मिन्महासमुद्रे इमान्येवंतूपाणि महान्ति महाभयानि, तद्यधा तिमिभयं तिमिंगलभयं तिमितिमिंगलभयमावर्तभयं कुम्भीरभयं शिशुमारभयमन्तर्जलगतानां पर्वतानामाघातभयम्।
४३८.०११. चौरा अप्यत्रागव्व्हन्ति नीलैः सितैर्वनचारिणः, अस्माकं सर्वेण सर्वं जीविताद्व्यवरोपयिष्यन्ति।
४३८.०१२. येन युष्माकं प्रियमात्मानं परित्यक्त्वा मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यञ्जातिसालोहितं महासमुद्रमवतरतु।
४३८.०१३. अल्पाः शूरा बहवः कातराः।
४३८.०१३. महाजनकायोऽवतीर्णः, यतस्तद्वहनं सह्यं संवृतम्।
४३८.०१४. ततः कर्णधारस्त्रिरुद्द्ःप्षणावघोषणं कृत्वा ततः पश्चादेकां वस्त्रां मुञ्चति, द्वित्रिवस्त्रां मुञ्जति, यतस्तद्वहनं महाकर्णधारसंधानबलवद्वायुसम्प्रेरितं महामेघ इव संप्रस्थितोऽनुगुणेन वायुना यावद्रत्नद्वीपमनुप्राप्तम्।
४३८.०१६. ततः कर्णधार उद्धोषयितुमारब्धह्--शृण्वन्तु भवन्तो जम्बुद्वीपका वणिजः, सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः।
४३८.०१८. ते भवद्भिरुपपरीक्ष्योपपरिक्ष्य ग्रहीतव्याः।
४३८.०१८. मा वः पश्चाज्जम्बुद्वीपप्राप्तानां पश्चात्तापो भविष्यति।
४३८.०१९. अस्मिन्नेव च रत्नद्वीपे क्रोञ्जकुमारिका नाम राक्षस्यः प्रतिवसन्ति।
४३८.०२०. ताः पुरुषं तथा उपलालयन्ति यथा तत्रैवानयेन व्यसनमापद्यन्त्
४३८.०२०. अस्मिन्नेव रत्नद्वीपे मदनीयानि फणानि सन्ति।
४३८.०२१. तानि यः परिभुङ्क्ते, स सप्तरात्रं मूर्च्छितस्तिष्ठति।
४३८.०२१. तानि भवद्भिर्न परिभोक्तव्यानि।
४३८.०२२. अस्मिन्नेव च रत्नद्वीपेऽमनुष्याः प्रतिवसन्ति।
४३८.०२२. ते मुष्याणां सप्ताहं मर्षयन्ति।
४३८.०२३. सप्ताअहस्यात्ययात्तादृशं वायुमुत्सृजन्ति येन वहनमपह्रियते यथापि तद्कृतकार्याणाम्।
४३८.०२४. यं श्रुत्वा ते वणिजोऽवहिता अप्रमत्ता अवस्थिताः।
४३८.०२४. तैस्तद्वहनं रत्नानमुपपरीक्ष्योपपरीक्ष्य पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्।
४३८.०२५. ते अनुगुणेन वायुना जम्बुद्वीपमनुप्राप्ताअः।
४३८.०२६. एवं यावत्सप्तकृत्वः संसिद्धयाअनपात्र आगतः।
४३८.०२६. स मात्राभिहितह्--पुत्र, अत्र निवेशस्त्रियतामिति।
४३८.०२७. स कथयति--अग्रधनिकं तावच्छिनद्भि, ततः पश्चान्निवेशं करिष्यामि।
४३८.०२८. स तथा उक्तह्--पुत्र न तव पुता न पुतामहो धनिकः कृतः, कुतस्तव धनिको जातह्? स कथयति--अम्ब, अहमेव जानामि।
४३८.०२९. तेन चातुरत्नमय्यश्चतस्रो मूषिकाः कारिताः।
४३८.०३०. तेन सुवर्णस्य फेलां पूरयित्वा चतस्नो मूषिकाश्चतुर्षु पार्श्वेषु स्थापयित्वा श्रोष्ठिगृहं गतः।
४३८.०३१. स श्रेष्ठी तदा तस्यैव तद्वर्णं भाषमाणस्तिष्ठति--पश्यत भवन्तो मूषिकाहैरण्यिकः कथं पुण्यमहेशाख्यो यं यमेव गृह्णाति तृणं वा लोष्टं वा सर्वं तत्सुवर्णं संपद्यत्
४३८.०३२. स च <४३९>तथा कथासम्लापेन तिष्ठति।

४३९.००१. दैवारिकेण चास्य गत्वा आरोचितम्--मूषिकाहैरण्यिको द्वारितिष्ठति।
४३९.००२. स कथयति--प्रविशतु, मूषिकाहैरण्यकं वा आनयेति।
४३९.००२. स प्रविश्य कथयति--इदं ते मूलम्, अयं लाभः।
४३९.००३. प्रतिगृह्यताम्।
४३९.००३. स आह--विस्मरामि, सत्यं यत्त्व किंचिद्दत्तकमिति।
४३९.००३. अहं ते स्मारयिष्यामि।
४३९.००४. तेन स्मारितम्।
४३९.००४. स पृच्छति--कस्य त्वं पुत्र इति।
४३९.००४. अमुकस्य गृहपतेः।
४३९.००४. श्रेष्ठी कथयति--त्वं मम वयस्यपुत्रो भवसि।
४३९.००५. मयैव तव दातव्यम्।
४३९.००५. तव पित्रा गच्छता मम हस्तो कार्षापणाः स्थापिताः।
४३९.००६. तेन श्रेष्ठिना दुहिता सर्व्लम्लारविभूषिता तस्य भार्यार्थमनुप्रदत्ता॥
४३९.००७. किं मन्यध्वे भिक्षवो योऽसौ श्रेष्ठी, अहमेव तेन कालेन तेन समयेन्
४३९.००७. योऽसौ मूषिकाहैरण्यकः, एष एव पन्थकस्तेन कालेन तेन समयेन्
४३९.००८. तदाप्येष मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्ये प्रतिष्ठपितः।
४३९.००९. एतर्ह्यप्येष मया परित्तेनाववादेनाववाद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापिताः॥
४३९.०११. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--किं भदन्त पन्थकेन कर्म कृतं यस्य कर्मणो विपाकेन धन्वः परमधन्वश्चूडः परमचूडो जातह्? पन्थकेनैव भिक्षवः कर्माणि कृतानि।
४३९.०१२. न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु विपच्यन्ते शुभान्यशुभानि च्
४३९.०१५. न प्रणश्यन्ति कर्मणि कल्पकोटिशतैरपि।
४३९.०१६. सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७॥
४३९.०१७. भूतपूर्वं भिक्षवो विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शस्ता लोक उत्पन्नस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचिरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्।
४३९.०१९. स विंशतिभिर्भिक्षुसहस्रैः परिवारो वाराणसीमुपनिश्रित्य विहरति स्म्
४३९.०२०. तस्यैव प्रवचने भिक्षुरासीत्त्रिपिटः।
४३९.०२०. अनेन तत्र मात्सर्येण न कस्यचिच्चतुष्पदिकापि गाथा उद्दिष्टो।
४३९.०२१. भूयोऽन्यस्मिन् कर्पटके सौकरिक आसीत् ।
४३९.०२२. तस्मात्कर्पटकान्नदीपारे द्वितीयं कर्पटकम्।
४३९.०२२. तत्र पर्वणी प्रत्युपस्थिता।
४३९.०२२. स संलक्षयति--यदि सूकरान् प्रघात्य नयिष्यामि, मांसस्य क्रयिको न भविष्यति, क्लेदं गमिष्यति।
४३९.०२३. जीवन्तमेव गृहीत्वा गच्छामि।
४३९.०२४. तत्र तत्र प्रघात्य नेष्यामि, यत्र यत्र क्रायिकोऽस्ति।
४३९.०२५. स प्रभूतान् सूकराञ्जानुषु बुद्ध्वा नावमारोप्य संप्रस्थितः।
४३९.०२५. सा नैस्तैः परिस्पन्दमानैर्बाडिता।
४३९.०२५. तत्रैवानयेन व्यसनमापन्नः।
४३९.०२६. सोऽपि सौकरिकोऽत्र स्नोतेनोह्यमानः।
४३९.०२६. तस्या नद्यास्तीरे पञ्चप्रत्येकबुद्धशतानि प्रतिवसन्ति।
४३९.०२७. तेषामेकः प्रत्येकबुद्धः पानीयस्यार्थे नदीं गतः।
४३९.०२७. तेन स दृष्टः।
४३९.०२८. स संलक्षयति--किं तावदयं मृतहाहोस्विज्जीवतीति? पश्यति यावज्जीवति।
४३९.०२८. स तेन गजमुजसदृशं बाहुमभिप्रसार्य उद्धृत्य वालुकायाः स्हलं कृत्वा तत्रावमूर्धकः स्थापिताः।
४३९.०३०. तस्य कायात्पानीयं निःसृतम्।
४३९.०३०. स व्युत्थितः।
४३९.०३०. मनुष्यपदानि पश्यति।
४३९.०३०. स तेन पादानुसारेण गतो यावत्पश्यति पञ्चमात्राणि प्रत्येकबुद्धशतानि।
४३९.०३१. स तेषां पत्रेण पुष्पेण फलेन दन्तकाष्ठेन चोपस्थानं कर्तुमारब्धः।
४३९.०३२. ते तस्य पात्रशोषमनुप्रयच्छन्ति।
४३९.०३२. तेन भुक्तम्।
४३९.०३२. अथ <४४०>ते प्रत्येकबुद्धाः पर्यङ्क बुद्ध्वा ध्यायन्ति।

४४०.००१. तदा सोऽप्येकान्ते स्थित्वा पर्यङ्कं बुद्ध्चा ध्यायति।
४४०.००२. स तत्रासंज्ञिकमुत्पाद्य असंज्ञिसत्त्वेषु देवेषूपपन्नः॥
४४०.००३. किं मन्यध्वे भिक्षवः।
४४०.००३. योऽसौ काश्यपस्य सम्यक्सम्बुद्धस्य प्रवचने भिक्षस्त्रिपिटहासीत्, पश्चादसौ सौकरिकः, एष एव पन्थको भिक्षुः।
४४०.००४. यदनेन मात्सर्येण न कस्यचिच्चतुष्पदिका गाथा उद्दिष्टा, यच्च सूकरान् प्रघात्य यच्चासंज्ञिसत्त्वेभ्य इहोपपन्नः, तस्य कर्मणो विपाकेन चूडः परमचूडो धन्वः परमधन्वः संवृत्तः॥
४४०.००७. यदा आयुष्मान् पन्थकः स्वाख्याते धर्मविनये प्रव्रजितः, जीवकेन श्रुतम्--पन्थकः स्वाख्याते धर्मविनये प्रव्रजित इति।
४४०.००८. स संलक्षयति--यदि भगवान् राजगृहमागमिष्यति, अहं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि स्थापयित्वा भदन्तं पन्थकम्।
४४०.००९. भगवान् यथाभिरम्यं श्रावस्तीं विहृत्य येन राजगृहे तेन चारिकां प्रक्रान्तः।
४४०.०१०. अनुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः।
४४०.०११. राजगृहे विहरति वेणुवने कलन्दकनिवाप्
४४०.०११. अश्रौषीज्जीवकः कुमारभूतह्--भगवान्मगधेषु जनपदचारिकां चरन् राजगृहे विहरति वेणुवने कलन्दकनिवाप्
४४०.०१२. श्रुत्वा पुनर्येन भगवांस्तेनोपसंक्रान्तः।
४४०.०१३. अपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तो निषण्णः।
४४०.०१३. एकान्तनिषण्णं जीवकं कुमारभूतं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति।
४४०.०१५. अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्।
४४०.०१५. अथ जीवकः कुमारभूतहुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतद्वोचत्--अधिवासयतु मे भगवाञ्छ्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन्
४४०.०१७. दूरासदा बुद्धा भगवन्तो दुष्प्रसहाः।
४४०.०१८. स न शक्नोति भगवन्तं वक्तुं स्थापयित्वा भदन्तं पन्थकम्।
४४०.०१८. अथ जीवकः कुमारभूतो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्तो येनायुष्मानान्दस्तेनोपसंक्रान्तः।
४४०.०२०. उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा विन्दित्वा एकान्ते निषण्णः।
४४०.०२१. एकान्तनिषण्णो जीवकः कुमारभूत आयुच्मन्तमानन्दिमदमवोचत्--यत्खलु भदन्त आनन्द जानीयाह्--मया बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गेहे भक्तेनोपनिमन्त्रितः स्थापयित्वा भदन्तं पन्थकम्।
४४०.०२३. यथा ते जीवक कुशलानां धर्माणां वृद्धिर्भवति।
४४०.०२३. अथ जीवकः कुमारभूत आयुष्मत आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः।
४४०.०२५. अथायुष्मानानन्दोऽचिरप्रक्रान्तं जीवकं कुमारभूतं विदित्वा येनायुष्मान् पथकस्तेनोपसंक्रान्तः।
४४०.०२६. उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्--यत्खल्वायुष्मन् पन्थक जानीयाह्--जीवकेन कुमारभूतेन बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेनोपपनिमन्त्रितः स्हाप्यित्वा आयुष्मन्तं पन्थकम्।
४४०.०२८. यथास्य भ्दन्तानन्द कुशलानां धर्माणां वृद्धिर्भवति।
४४०.०२८. स जीवकः कुमारभूतस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय कल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति--समये भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत्
४४०.०३१. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन जीवकस्य कुमारभूतस्य निवेशनं तेनोपसंक्रान्तः।

४४१.००१. <४४१>उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
४४१.००१. निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते--पन्थकस्यानुगन्ती मोक्तव्या।
४४१.००२. जीवकः कुमारभूतः सौवर्णभृङ्गारं गृहीत्वा वृद्धान्ते तिष्ठति।
४४१.००३. भगवान् वारिधारां न प्रतिगृह्णाति।
४४१.००३. जीविकः कुमारभूतः कथयति--किं कारणं भगवन् वारिधारां न प्रतिगृह्णाति।
४४१.००४. भगवानाह--न तावद्भिक्षुसंघमिति समग्र इति।
४४१.००५. जीवकः कथयति--भगवान्, कोऽनागत इति।
४४१.००५. भगवानाह--न पन्थको भिक्षुः संघः।
४४१.००६. जीवकः कथयति--भगवन्, नासौ मया निमन्त्रित इति।
४४१.००६. भगवानाह--न त्वया जीवक बुद्धप्रमुखो भिक्षुसंघो निमन्त्रितह्? भगवन्, निमन्त्रितः।
४४१.००७. किमसौ भिक्षुसंघाद्बहिर्न वा? भगवान् कथयति जीवकम्--गच्छ त्वं शब्दापय्
४४१.००८. जीवकः कुमारभूतः संलक्षयति--किं चाप्यहं भगवतो गौरवेण शब्दापयामि, न सत्कृत्य परिवेषयिष्यामि।
४४१.००९. तेन दूतोऽनुप्रेषितह्--गच्छ, शब्दापयस्व्
४४१.०१०. आयुष्मानपि पन्थकश्च त्रयोदशभिक्षुशतानि निर्मायावस्थितः।
४४१.०१०. तेन दूतेन गत्वा पन्थक इति शब्दो मुक्तः।
४४१.०११. अनुकैर्भिक्षुभिः प्रतिवचनं दत्तम्।
४४१.०११. स दूत आगत्य जीवकस्य कथयति--तथैव वेणुवनं कलन्दकनिवापो भिक्षूणां पूर्णस्तिष्ठति।
४४१.०१२. भगवानाह--गच्छ त्वं कथय यो भूतपन्थकः स आगच्छतु।
४४१.०१३. स गत्वा कथयति--यो भूतपन्थकः स आगच्छतु।
४४१.०१४. आयुष्मान् पन्थकस्तत्र गत्वा स्वस्यां गत्यां निषण्णाः।
४४१.०१४. जीवकः कुमारभूतो बुद्धप्रमुखं भिक्षुसंघं परिवेषयितुमारब्धः।
४४१.०१५. आयुष्मन्तं पन्थकं न सत्कृत्य पतिवेषयति।
४४१.०१५. भगवान् संलक्षयति--सुमेरुप्रख्ये महाश्रावके जीवकः कुमारभूतः क्षान्तिं गृह्णाति।
४४१.०१६. गुणोद्भावना अस्य कर्तव्या।
४४१.०१६. भगवता आयुष्मतानन्दस्य पात्रं नानुप्रदत्तम्।
४४१.०१७. धर्मता खलु न तावत्स्थबिरस्ह्तविराणां भिक्षूणां पात्राणि प्रतिगृह्यन्ते, यावद्भगवतः पात्रप्रतिग्रही न भविष्यति।
४४१.०१८. आयुष्मान् पन्थकः संलक्षयति--किं कारणं भगवतः स्थविरस्थविराणां भिक्षूणां पात्राणि न गृह्यन्ते? मया अत्र गुणोद्भावना कर्तव्या।
४४१.०२०. आयुष्मता पन्थकेनाधर्मासनं कृत्वा गजभुजसदृशं बाहुमभिप्रसार्य भगवतः पात्रं गृहीतम्।
४४१.०२१. कुमारभूतेन जीवकेन वृद्धान्ते स्थितेन दृष्ठम्।
४४१.०२१. स संलक्षयति--कोऽप्ययं स्थविरो भिक्षुः।
४४१.०२२. ऋद्धिप्रातिहार्यं विदर्शयति।
४४१.०२२. स पात्रानुसारेण गतो यावत्पश्यत्यायुष्मतं पन्थकम्।
४४१.०२३. स दृष्ट्वा मूर्छितकस्तिष्ठति।
४४१.०२३. स जलपरिषेकप्रत्यागतप्राण आयुष्मतः पन्थकस्य पादयोर्निपत्य क्षमापयति, गाथां च भाषते--
४४१.०२५. नित्यं चैत्यगुणो हि चन्दनरसो नित्यं सुगन्धयुत्पलं नित्यं भासति काञ्चनस्य विमलं वैडूर्यशुद्धम्।
४४१.०२७. नित्यं पापजने हि क्रोधमतुलं पाषाणरेखोपमं नित्यं चार्यजनेषु प्रातिर्वसते क्षान्तिर्ध्रुवा ह्यर्हताम्॥८॥
४४१.०२९. आयुष्मान् पन्थकः कथयति--क्षान्तं जीवक् ।
४४१.०३०. भिक्षवो बुद्धं भगवन्तं पृच्छन्ति--पश्य भदन्त, यदा जीवकः कुमारभूत आयुष्मतः पन्थकस्य गुणानामनभिज्ञस्तदा असत्कारः प्रयुक्तः, यदा गुणानामभिज्ञस्तदा पादयोर्निपत्य <४४२>क्षमापयति।

४४२.००१. भगवानाह्--न भिक्षव एतर्हि यथातीतेऽध्वन्येषोऽस्य गुणानामनभिज्ञह्,तदा असत्कारं प्रयुक्तवान्।
४४२.००२. यदा गुणानामभिज्ञस्तदा पादयोर्निपत्य क्षमापितवान्।
४४२.००२. तच्छ्रूयताम्॥
४४२.००३. भूतपूर्वं भिक्षव उत्तरापथात्सार्थवाः पञ्चशतमश्वपण्यमादाय मध्यदेशमागतः।
४४२.००४. तस्य च वडवायाः कुक्षावश्वाजानेयोऽवक्रान्तः।
४४२.००४. स यमेव दिवसमवक्रान्तस्तमेव दिवसमुपादाय तेऽश्वा न भूयो हेषन्त्
४४२.००५. सार्थवहः संलक्षयति--किं च ममाश्वानां कश्चिद्रोगः प्रादुर्भूतो भविष्यति येन ते न हेषन्ते? अपरेण समयेनाश्वा वडवा प्रसूता।
४४२.००६. तस्याः किशोरको जातः।
४४२.००७. स यमेव दिवसमुपादाय तेऽश्वाः संचर्तुमपि नारब्धाः।
४४२.००७. सार्थवाहः संलक्षयति--नूनमयं दौर्भाग्यसत्त्वो जातहस्य दोषण ममाश्वानां रोगः प्रादुर्भूतः।
४४२.००८. स तां वटवां नित्यमेव वाहयति।
४४२.००९. तस्या नवयवसम्पन्नयोग्याशनमनुप्रयच्छति।
४४२.००९. सोऽनुपूर्वेण पूजितं नामाधिष्ठानमनुप्राप्तः।
४४२.०१०. तस्य तत्र वार्षारत्र्यः प्रत्युपस्थिताः।
४४२.०१०. स संलक्षयति--यदि गमिष्यामि, अश्वानां खुराः क्लेदं गमिष्यन्ति, अपण्योओभविष्यन्ति।
४४२.०११. इहैव वर्षां तिष्ठामि।
४४२.०११. स तस्यैव वर्षामुषितस्य तद्वासिनो यो शिल्पिनस्ते स्वेन शिल्पेनोपस्थानं कुर्वान्ति।
४४२.०१२. तस्य गमनकाले शिल्पिन्नुपसंक्रान्ताः।
४४२.०१३. तेषां तेन संविभागः कृतः।
४४२.०१३. तत्रैकः कुम्भकारः प्रतिवसति।
४४२.०१३. तेनापि तस्य स्वेन शिल्पेनोपस्थानं कृतम्।
४४२.०१४. स पत्न्याभिहितह्--आर्यपुत्र, स सार्थवाहो गच्छति।
४४२.०१४. गच्छ, त्वं गत्वा किंचिद्याचस्व्
४४२.०१५. तस्माच्चलितस्य मृत्पिण्डं गृहीत्वोपस्थितः।
४४२.०१५. स तेन सार्थवाहेन दृष्टः।
४४२.०१५. स तस्य कथयति--भोः पुरुष, अतिचिरेण त्वमागतः।
४४२.०१६. मम किंचिद्दातव्यम्।
४४२.०१६. स आह--सर्वं गतम्।
४४२.०१७. तस्यापि सार्थवाहस्य तस्य किशोरस्यान्तिकेऽमङ्गलबुद्धिः।
४४२.०१७. स कथयति--अपि त्वयमेकः किशोरस्तिष्ठति, यदि प्रयोऽसि, गृहीत्वा गच्छ्
४४२.०१८. कुम्भकारः कथयति--शोभनम्।
४४२.०१८. अहं भाण्डानि करिष्यामि, एष भेत्स्यत्
४४२.०१९. स किशोरकस्तस्य पादौ जिह्वया लेढुमारब्धः।
४४२.०२०. तस्याश्वस्यान्तिकेऽनुनय उत्पन्नः।
४४२.०२०. स तं गृहीत्वा गतः।
४४२.०२०. स पत्न्या उक्तह्--अस्ति किंचित्त्वया तस्य सकाशाल्लब्धम्? लब्धम्।
४४२.०२१. अयं किशोरकः।
४४२.०२१. त्वं भाण्डानि करिष्यसि, एष भेत्स्यत्
४४२.०२१. स किशोरकोऽस्याः पादानि लेढुमारब्धः।
४४२.०२२. तस्या अपि तस्यान्तिकेऽनुनय उत्पन्नः।
४४२.०२३. स पक्कमानानां भाण्डानां मध्ये परिसर्पन्न किंचिद्भाण्डं भिनत्ति।
४४२.०२३. सा तस्य पत्नी कथयति--शोभनम्।
४४२.०२४. अयं किशोरकः संप्रजानन् परिसर्पति।
४४२.०२४. अपरेण समयेन कुम्भकारो मृत्तिकार्थमागतः।
४४२.०२५. स किशोरकस्तस्य पृष्ठतोऽनुसरन्ननुबद्धः।
४४२.०२५. तेन कुम्भकारेण मृत्तिकाप्रसेवकः पूरितः।
४४२.०२६. तेन किशोरकेन पृष्ठमवनामितम्।
४४२.०२६. तेन तस्य मृत्तिकायाः प्रसेवकः पृष्ठमारोपितः।
४४२.०२७. स तं गृहीत्वा गृहमागतः।
४४२.०२७. तेन कुम्भकारेण पत्नी उक्ता--भद्रे, शोभनः किशोरकः।
४४२.०२८. न भूयो मया मृत्तिका वोढव्या भविष्यति।
४४२.०२८. अहमस्य तत्रारोपयिष्यामि, त्वमिहावतारयिष्यसि।
४४२.०२९. स तस्य तुषान् कुटिं चानुप्रयच्छति॥
४४२.०३०. तेन कालेन तेन समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च बहुजनमनुष्यं च्
४४२.०३१. तस्याश्वाजानेयः कालगतः।
४४२.०३१. सामन्तराज्यैः श्रुतम्--ब्रह्मदत्तस्य राज्ञोऽश्वाजानेयः कालगत इति।
४४२.०३२. तैस्तस्य संदिष्टम्--करप्रत्यायान् वा अनुप्रयच्छ उद्यानम् <४४३>वा।

४४३.००१. ते निर्गतकण्टकेऽनुवरोध्य आनयिष्यामः।
४४३.००१. स तेषां करप्रत्यायान्नानुप्रयच्छति, नापि तं स उद्यानं समागतः।
४४३.००२. सार्थवाहोऽश्वपण्यमादाय वाराणसीमनुप्राप्त्
४४३.००२. ब्रह्मदत्तेन राज्ञा श्रुतम्--उत्तरापथात्सार्थवाहोऽश्वपण्यमादाय वाराणसीमनुप्राप्त इति।
४४३.००३. सोऽमात्यानामन्त्रयते स्म--भवन्तः, कियच्चिरं मयेहं प्रविष्टेन स्थातव्यम्? गच्छत, अश्वाजानेयं पर्येषध्वम्।
४४३.००५. ते सार्थवाहस्य सकाशं गताः।
४४३.००६. तैस्तेऽश्वाः।
४४३.००६. न चात्र कश्चिदश्वाजानेयो विद्यत्
४४३.००६. सार्थवाहं दृष्ट्वा ते कथयन्ति--भवन्तोऽश्वावडवाया अश्वाजानेयो जातः।
४४३.००७. स च न दृश्यत्
४४३.००७. सार्थवाहमुपसंक्रम्य पृच्छन्ति--अस्ति कश्चिदश्वस्त्वया विक्रीतः कस्यचिद्वा दत्त इति? स कथयति--नास्ति कश्चिद्विक्रीतः।
४४३.००८. अपि त्वस्ति मया पूजितकेऽधिष्ठानेऽमङ्गलकः किशोरकः कुम्भकारस्य दत्त इति।
४४३.००९. तेऽन्योन्यं कथयन्ति--भवन्तः, महामूर्खोऽयं सार्थवाहः, योऽयं मङ्गलमपहायामङ्गलानेवादायागत इति।
४४३.०१०. ते राजानमवलोक्य पूजितकं गताः।
४४३.०११. ते तं कुम्भकारमुपसंक्रान्ताः।
४४३.०११. उपसंक्रम्य कथयन्ति--किमनेन किशोरकेन करोषि? स आह--एष मम मृत्तिकां वहति।
४४३.०१२. ते कथयति--वयं ते तथा गर्दभमनुप्रयच्छामः, त्वमस्माकममुमनुप्रयच्छस्व्
४४३.०१३. कथयति--एष मे शोभन इति।
४४३.०१३. चतुर्गवयुक्तं शकटमनुप्रयच्छामः।
४४३.०१४. स कथयति--एष मम शोभन इति।
४४३.०१४. ते कथयन्ति--एवं चेत्संप्रधारय वयं श्वो भूय आगमिष्यामः।
४४३.०१५. इत्युक्त्वा प्रक्रान्ताः।
४४३.०१५. स किशोरकः कथयति--किमर्थं नानुप्रयच्छसि? किं त्वं जानासि मया मृत्तिका वोढव्या तुषाश्च कुटिसकण्टं भक्षितव्यम्।
४४३.०१७. मया राजा क्षत्रियो मूर्धाभिषिक्तो वाढव्यः, सौवर्णस्थाले मधुम्राक्षितका मूलका भक्षितव्याः।
४४३.०१८. ते यदि संकथयन्ति केशोरक इति, वक्तव्याह्--किं लज्जध्वं वक्तुमश्वाजानेय इति? श्वः पुनरागत्वा ते कथयिष्यन्ति मूल्येनानुप्रयच्छेति।
४४३.०२०. वक्तव्याह्--सुवर्णलक्षं वानुप्रयच्छथ यावद्वा दक्षिणेन सक्थ्ना करिष्यति तावदनुप्रयच्छति।
४४३.०२१. तेऽपरस्मिन् दिवसे उपसंक्रम्य पृच्छन्ति--भोः पुरुष, संप्रधारितं त्वया? संप्रधारितम्--किं लज्जध्वं वक्तुमश्वाजानेय इति? ते कथयन्ति--मूर्खः स एषः।
४४३.०२२. किमेष ज्ञास्यति? एष अश्वाजानेयो धारयति।
४४३.०२३. एतदेव तेन सार्थवाहेनास्यारोचितं भविष्यति।
४४३.०२३. ते कथयन्ति--अश्वाजानेयो भवतु।
४४३.०२४. मूल्येनानुप्रयच्छ्
४४३.०२४. स कथयति--सुवर्णलक्षं वानुप्रयच्च्ः, यावद्वा सुवर्णलक्षं दक्षिणेन सक्थ्ना करिष्यति।
४४३.०२५. ते संलक्षयन्ति--बलवानेषः।
४४३.०२५. स्थानमेतद्विद्यते यत्प्रभूततरमाकर्षयति।
४४३.०२६. सुवर्णलक्षमनुप्रयच्छामः।
४४३.०२६. तैर्ब्रह्मदत्तस्य राज्ञः संदिष्टं सुवर्णलक्षेण अश्वाजानेयो लभ्यत्
४४३.०२७. राज्ञापि संदिष्टम्--यूयं यावता मूल्येन तावता गृह्णीत्
४४३.०२७. तैः सुवर्णलक्षेण गृहीतः।
४४३.०२८. ते तमादाय वारणसीमागताः।
४४३.०२८. स तैश्च मन्दुरायां प्रतिष्ठापितः।
४४३.०२८. तस्य परमयोग्याशनं दीयत्
४४३.०२९. स तं न परिभुङ्क्त्
४४३.०२९. किं सरोगो भवद्भिरश्वाजानेय आनीतह्? अपि तु समनुयुञ्ज्यामहे तावदेनम्।
४४३.०३०. अथ सूतो गाथां भाषते--
४४३.०३२. स्मरसि तुरग घटिकरस्य शालां किमिह विधैर्य विप्रयुक्रः।

४४४.००१. <४४४>परिशिथिलशिरास्थिचर्मगात्रः स्वदशानचूर्णितघासस्य चारी॥९॥
४४४.००३. न चरसि बहुमतस्तदर्थे मासिदिह हि चर यानसहस्रपूर्णयायी।
४४४.००५. ह्यवसनमिदं तृषापनीतं न चरसि किं वद मेऽद्य साधु पृष्टः॥१०॥
४४४.००७. तमकथयदमर्षितः सकोपं परमयवार्जवधैर्यसम्प्रयुक्तः।
४४४.००९. उपशममथ संप्रचिन्त्य तस्मात्तुरगवरो नरसूतमैत्रबुद्धिः॥११॥
४४४.०११. त्वमिह विधिहितप्रदाभिमानी न च विहितो भवतो यथावदस्मि।
४४४.०१३. निधनमहमिह प्रयायमाशु न च बिदुषाय तरय पूर्व्याम्॥१२॥
४४४.०१५. सुचिरमपि हि न सज्जनावमानो यदि गुणवानसि सौम्य नावमानः।
४४४.०१७. क्षणमापि खलु सज्जनावमानो यदि गुणवानसि नावमानः॥१३॥
४४४.०१९. सूतो राज्ञः कथयति--देवस्यानुपूर्वी न कृता यनैष यवसयोग्याशनं न गृह्णाति।
४४४.०२०. कास्यानुपूर्वी कृता? अस्यायमुपचारः।
४४४.०२०. सार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या।
४४४.०२०. राजाभिषिक्तश्चतुरङ्गेन बलकायेन सार्धं प्रत्युद्गच्छति।
४४४.०२१. यस्मिन् प्रदेशे स्थाप्यते, स प्रदेशस्ताम्रपट्टैर्बध्यत्
४४४.०२२. राज्ञो ज्येष्ठपुत्रः।
४४४.०२२. स तस्य शतशलाकं छत्रं मूर्ध्नि धारयति।
४४४.०२२. राज्ञो ज्येष्ठा दुहिता सौवर्णेन मणिव्यजनेन मक्षिकान् वारयति।
४४४.०२३. राज्ञोऽग्रमहिषी सौवर्गस्थाले मधुम्रक्षितकान्मूलान् भक्षयतो धारयति।
४४४.०२४. राज्ञोऽग्रामात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति।
४४४.०२४. राजा कथयति--एष नाम राजा, नाहं स राजेति।
४४४.०२५. सूतः कथयति--देव, नास्य सर्वकालमेष उपचारः क्रियत्
४४४.०२६. अपि तु सप्ताहस्यात्ययाद्विधेयो भवति।
४४४.०२६. राजा कथयति--यत्तावदतीतं न शक्यं तत्पुनः कर्तुम्, यदवशिष्टं तत्क्रियताम्।
४४४.०२७. यस्मिन् प्रदेशे ताम्रपड्डैर्बद्धः, तस्य राज्ञो ज्येष्ठः पुत्रः शतशलाकां धारयति, राज्ञो ज्येष्ठा दुहिता सौवर्णमणिमयवालव्यजनेन मक्षिकान् वारयति, राज्ञोऽग्रमाहिषी सौवर्णेन स्थालेन मधुम्रक्षितकान्मूलान् भक्षयतो धारयति, राज्ञोऽमात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति।
४४४.०३०. तमनुनयति पार्थिवः।
४४४.०३०. ससृतपरमसुगन्धिविलेपनानुधारी मधुरमधुरकृतान्तरानुरागा नृपमहिषी तुरगोत्तमाय दत्ता राज्ञा।
४४४.०३१. उद्यानभूमिं निर्गन्तुकामोऽस्याश्चाजानेय उपगम्य पृष्ठमुन्नामयति।
४४४.०३१. राजा सूतं पृच्छति--राजा अस्य पृष्ठं दुःखयति।
४४४.०३१. स कथयति--किं तु राजा <४४५>दुःखमधिरोक्ष्यतीति।

४४५.००१. यतोऽनेनावनामितं स राजा तमभिरुह्य संप्रस्थितः।
४४५.००१. तस्य गच्छतः पानीयमागतम्।
४४५.००२. स तत्र नावतरति।
४४५.००२. राजा सूतं पृच्छति--एषो बिभेति? देव, नैष बिभेति।
४४५.००२. अपि तु मा राजानं पुच्छोदकेन सेक्ष्यामीति।
४४५.००३. तस्य तत्पुच्छं सौवर्णायां नालिकायां प्रक्षिप्तम्।
४४५.००३. स तं पानीयमुत्तीर्णः।
४४५.००४. स उद्यानं गत्वा प्रमत्तोऽवस्थितः।
४४५.००४. सामन्तराजैः श्रुतम्--यथा राजा ब्रह्मदत्त उद्यानं गत इति।
४४५.००५. तैरागत्य नगरस्य द्वाराणि बन्धयन्ति।
४४५.००५. राज्ञा ब्रह्मदत्तेन श्रुतं सामन्तराजैर्नगरद्वाराणि निगृहीतानीति।
४४५.००६. सोऽश्वाजानेयमभिरूढः।
४४५.००६. अन्तरा च वाराणस्यन्तरा चोद्यानमत्रान्तरा ब्रह्मवती नाम पुष्किरिण्युत्पलकुंदपुण्डरीकसंछन्ना।
४४५.००७. सोऽश्वाजानेयः पद्मोपरि सरन् वाराणसीं प्रविष्टः।
४४५.००८. राजा तुष्टोऽमत्यानां कथयति--भवन्तः, योराज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जीवितमनुप्रयच्छति, किं तस्य कर्तव्यम्? देव, उपार्धराज्यं दातव्यम्।
४४५.००९. राजा कथयति--तिर्यगेषः।
४४५.०१०. किमस्योपार्धराज्येन? अपि त्वेनमागम्य सप्ताहं दानानि दीयन्ताम्, पुण्यानि क्रियन्ताम्, अकालकौमुदी च क्रियताम्।
४४५.०११. अमात्यैः सप्ताअहं दानानि दातुमारब्धानि, पुण्यानि कर्तुमारब्धानि, सप्ताहमकालकौमुदी प्रस्थापिता।
४४५.०१२. सार्थवाहः पुरुषान् पृच्छति--भवन्तः, किमकालकौमुदी वर्तते? तेऽस्य कथयन्ति--पूजितं नामाधिष्ठानम्।
४४५.०१३. ततः कुम्भकारस्य सकाशात्सुवर्णलक्षेणाश्वाजानेयं गृहीत्वा इहानीतम्।
४४५.०१४. तेनाद्य राज्ञो जीवितं दत्तम्।
४४५.०१४. तमागम्य सप्ताहं दानानि दातुमारब्धानि, पुण्यानि क्रियन्ते, अकालकौमुदी च प्रस्थापिता।
४४५.०१५. सार्थवाहः संलक्षयति--यो मया छोरितो नाम, स एष किशोरकोऽश्वाजानेयः स्यात्? तत्तावद्गत्वा पश्यामि।
४४५.०१७. स तस्य सकाशं गतः।
४४५.०१७. स तेनाश्वाजानेयेनोक्तह्--भोः पुरुष, किं त्वया तेषामश्वानां सकाशाल्लब्धम्? मयैकाकिनैव तस्य कुम्भकारस्य सुवर्णलक्षं दत्तम्।
४४५.०१८. स मूर्छितकः पृथिव्यां निपतितः।
४४५.०१९. जलपरिषेकेन प्रत्यागतप्राणः पादयोर्निपत्य क्षमापितवान्॥
४४५.०२०. किं मन्यध्वे ब्ःक्षवो योऽसौ सार्थवाहः, एष एव जीवकस्तेन कालेन तेन समयेन्
४४५.०२१. योऽश्वाजानेयः, एष एव पन्थकस्तेन कालेन तेन समयेन्
४४५.०२१. तदापि यदा अस्यैष गुणानामनभिज्ञः, तदास्यासत्कारं प्रयुक्तवान्।
४४५.०२२. यदा तु गुणानामभिज्ञः, तदा पादयोर्निपत्य क्षमापितवान्।
४४५.०२३. एतर्ह्यप्येष यदा गुणानामनभिज्ञः, तदा असत्कारं प्रयुक्तवान्।
४४५.०२३. यदा गुणानामभिज्ञः, तदा पादयोर्निपत्य क्षमपयति॥


४४५.०२५. इति श्रीदिव्यावदाने चूडापक्षावदानं समाप्तम्॥


                    • अवदान ३६ **********


४४६.००१. दिव्३६ माकन्दिकावदानम्।

४४६.००२. बुद्धो भगवान् कुरुषु जनपदचारिकां चरत्कल्माषदम्यमनुप्राप्तः।
४४६.००२. तेन खलु पुनः समयेन कल्माषदम्ये माकन्दिको नाम परिव्राजकः प्रतिवसति।
४४६.००३. तस्य साकलिर्नाम पत्नी।
४४६.००४. तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता।
४४६.००४. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यत उपमा कर्तुम्।
४४६.००५. तस्यास्त्रीणि सप्ताहान्येकविंशतिं दिवसान् विस्तरेण जातिमही संवृत्ता यावज्जातमहं कृत्वा नामधेयं व्यवस्थाप्यते--किं भवतु दारिकाया नामेति? ज्ञातय ऊचुह्--इयं दारिका अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता।
४४६.००८. तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यते उपमा कर्तुम्।
४४६.००८. भवतु दारिकाया अनुपमेति नाम्
४४६.००९. तस्या अनुपमेति नामधेयं व्यवस्थापितम्।
४४६.००९. सोन्नीता वर्धिता।
४४६.००९. माकन्दिकः संलक्षयति--इयं दारिका न मया कस्यचित्कुलेन दातव्या न धनेन नापि श्रुतेन, किं तु योऽस्या रूपेण समो वाप्यधिको वा, तस्य मया दातव्येति॥
४४६.०१२. अत्रान्तरे भगवान् कुरुषु जनपदेषु चारिकां चरन् कल्माषदम्यमनुप्राप्तः।
४४६.०१२. कल्माषदम्ये विहरति कुरूणां निगमे विहरति।
४४६.०१३. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय कल्माषदम्यं पिण्डाय प्राविक्षत् ।
४४६.०१४. कल्माषदम्यं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः।
४४६.०१५. पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाम्य अन्यतमवृक्षमूलं निश्रित्य निषण्णः सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा।
४४६.०१६. तेन खलु समयेन माकन्दिकः परिव्रजकः पुष्पसमिधस्यार्थे निर्गतोऽभुत् ।
४४६.०१७. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं दूरदेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्क बद्ध्वा निषण्णं भगवन्तं दूरादेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीलृतं पर्यङ्कं बद्ध्वा निषण्णं प्रासादिकं प्रदर्शनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तव्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्।
४४६.०२०. दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः।
४४६.०२०. स संलक्षयति--यादृशोऽयं श्रमणः प्रासादिकः प्रदर्शनीयः सकलजनमनोहारी, दुर्लभस्तु सर्वस्त्रीजनस्य पतिः प्रतिरूपः प्रागेव अनुपमायाः।
४४६.०२२. लब्धो मे जामातेति।
४४६.०२२. येन स्वं निवेशनं तेनोपसंक्रान्तः।
४४६.०२२. उपसंक्रम्य पत्नीमामन्त्रयते--यत्खलु भद्रे जानीयाह्--लब्धो मे दुहितुर्जामाता।
४४६.०२३. अलंकुरुष्व, अनुपमां ददामीति।
४४६.०२४. सा कथ्यति--कस्य प्रयच्छसीति? स कथयति--श्रमणस्य गौतमस्येति।
४४६.०२४. सा कथयति--गच्छावस्तावत्पश्याव इति।
४४६.०२५. माकन्दिकस्तया सार्धं गतः।
४४६.०२५. दूरात्तया दृष्टः।
४४६.०२५. तस्या अन्तर्मार्गे स्मृतिरुपपन्ना।
४४६.०२६. गाथां भाषते--
४४६.०२७. दृष्टो मया विप्र स पिण्डहेतोः कल्माषदम्ये विचरन्महर्षिः।
४४६.०२९. भूरत्नभा सन्ति तस्य प्रगच्छतोऽत्युन्नमते न चैव(?)॥१॥
४४६.०३१. नासौ भक्तां भजते कुमारिकाम्।
४४६.०३१. निवर्त, यास्यामः स्वकं निवेशनम्।
४४६.०३१. सोऽपि गाथां भासते--

४४७.००१. <४४७>अमङ्गले साकलिके त्वं मांगलयकाले वदसे ह्यमङ्गलम्।
४४७.००३. सचेद्द्रुत समधिकृतं भविष्यति पुनरप्यसौ कामगुण्येषु रंस्यत् ।२॥ इति।
४४७.००५. सा आनुपमां वस्त्राम्लकारैरलंकृत्य संप्रस्थिता।
४४७.००५. भगवानपि तस्नाद्वनषण्डादन्यवनषण्डं संप्रस्ह्तितः।
४४७.००६. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं तृणसंस्तरणकम्।
४४७.००६. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--यत्खलु भवति जानीयाह्--एष ते दुहितुस्तृणसंस्तरक इति।
४४७.००७. सा गाथां भाषते--
४४७.००९. रक्तस्य शय्या भवततिविकोपिता द्विष्टस्य शय्या सहसा निपीडिता।
४४७.०११. सूढस्य शय्या खलु पादतो गता सुवीतरागेण निसेविता न्वियम्।
४४७.०१३. नासौ भर्ता भजते कुमारिकां निर्वत, यास्यामः स्वं निवेशनम्॥३॥
४४७.०१५. अमङ्गले साकलिके त्वं मङ्गल्यकाले वदसे ह्यमङ्गलम्।
४४७.०१७. साचेद्द्रुतं समधिकृतं भविष्यति पुनरप्यसौ कामगुणेषु रंस्यत् ।४॥
४४७.०१९. अद्राक्षीन्माकन्दिकः परिव्राजकः।
४४७.०१९. भगवतः पदानि दृष्ट्वा पुनः पत्नीमामन्त्रयते--इमानि ते भवन्ति भद्रे दुहितुर्जामातुः पदानि।
४४७.०२०. गाथां भाषते--
४४७.०२१. रक्तस्य पुंसः पदमुत्पटं स्यान्निपीडितं द्वेषवतः पदं च्
४४७.०२३. पदं हि मूढस्य विसृष्टदेहं सुवीतरागस्य पदं त्विहेदृशम्।
४४७.०२५. नासौ भर्ता भजते कुमारिकाम्।
४४७.०२६. निवर्त, यास्यामः स्वकं निवेशनम्॥५॥
४४७.०२७. अमङ्गले साकलिके पूर्ववत् ।
४४७.०२८. भगवतोत्कशशब्दः कृतः।
४४७.०२८. अश्रौषीन्माकन्दिकः परिव्राजको भगवत उत्काशनशब्दं शुश्राव्
४४७.०२९. श्रुत्वा च पुनः पुनः पत्नीमामन्त्रयते--एष ते भवति हुहितुर्जामातुरुत्काशनशब्द इति।
४४७.०३०. सा गाथां भाषते--
४४७.०३१. रक्तो नरो भवति हि गददस्वरो द्विष्टो नरो भवति हि खक्खटास्वरः।

४४८.००१. <४४८>मूढो नरो हि भवति समाकुलस्वरो बुद्धो ह्ययं ब्राह्मणदुन्दुभिस्वरः।
४४८.००३. नासौ भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्॥३॥
४४८.००५. अमङ्गले साकलिके पूर्ववत् ।
४४८.००६. भगवता माकन्दिकः परिव्राजको दूरादिवलोकितः।
४४८.००६. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तमवलोकयन्तम्।
४४८.००७. दृष्ट्वा च पुनः पत्नीमामन्त्रयते स्म--एष ते भवति दुहितुर्जामाता निरीक्षत इति।
४४८.००८. स गाथां भाषते--
४४८.००९. रक्तो नरो भवति हि चञ्चलेक्षणो द्विष्टो भुजगघोरविषो यथेक्षत्
४४८.०११. मूडो नरः संतमसीव पश्यति द्विजवीतरागो युगमात्रदर्शी।
४४८.०१३. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्॥७॥
४४८.०१५. अमङ्गले साकलिके पूर्ववत् ।
४४८.०१६. भगवांश्चक्रम्यत्
४४८.०१६. अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं चंक्रम्यमाणम्।
४४८.०१७. दृष्ट्वा च पुनः पत्नीमामन्त्रयते--एष दुहितुर्जामाता चंक्रम्यत इति।
४४८.०१७. सा गाथां भाषते--
४४८.०१८. यथास्य तेत्रे च यथावलेकितं यथास्य काले स्थित एव गच्छतः।
४४८.०२०. यथैव पद्मं स्तिमिते जलेऽस्य नेत्रं विशिष्टे वदने विराजत्
४४८.०२२. न एष भर्ता भजते कुमारिकां निवर्त यास्यामः स्वकं निवेशनम्॥८॥
४४८.०२४. अमङ्गले साकलिके त्वं मङ्गलकाले वदसे ह्यमङ्गलम्।
४४८.०२६. सचेद्द्रुतं समधिकृतं भविष्यति पुनरप्ययं कामगुणेषु रंस्यत् ।९॥
४४८.०२८. वशिष्ठोशीरमौनलायना(?) अपत्यहेतोरतत्काममोहिताः।
४४८.०३०. धर्मो मुनीनां हि सनातनो ह्ययमपत्यमुत्पादितवान् सनातनः॥१०॥

४४९.००१. अथ माकन्दिकः परिव्राजको येन भगवांस्तेनोपसंक्रान्तः।
४४९.००१. उपसंक्रम्य भगवन्तमिदमवोचत्--
४४९.००३. इमां भगवान् पश्यतु मे सूतां सतीं रूपोपपन्नां प्रमदामलंकृताम्।
४४९.००५. कामार्थिनीं यद्भवते प्रदीयते सहानया साधुरिवाचरतां भवान्।
४४९.००७. समेत्य चन्द्रो नभसीव रोहिणीम्॥११॥
४४९.००८. भगवान् संलक्षयति--यद्यहमनुपमाया अनुनयवचनं ब्रूयाम्, स्थानमेतद्विद्यते यदनुपमा रागेण स्विन्ना कालं कुर्वाणा भविष्यति।
४४९.००९. तत्तस्याः प्रतिघवचनं ब्रूयामिति विदित्वा गाथां भाषते--
४४९.०११. दृष्टा मया मारसुता हि विप्र तृष्णा न मे नापि तथा रतिश्च्
४४९.०१३. छन्दो न मे कामगुणेषु कश्चित् ।
४४९.०१४. तस्मादिमां मूत्रपुरीषपूर्णां प्रष्टुं हि यत्तामपि नोत्सहेयम्॥१२॥
४४९.०१६. माकन्दिको गाथां भाषते--
४४९.०१७. सुतामिमां पश्यसि किं मदीयां हीनाङ्गिनीं रूपगुणैर्वियुक्ताम्।
४४९.०१९. छन्दं न येनात्र करोषि चारौ विविक्तभावेष्विव कामभोगी॥१३॥ इति।
४४९.०२१. भगवानपि गाथां भाषते--
४४९.०२२. यस्मादिहार्थी विषयेषु मूटः स प्रार्थयेद्विप्र सुतां तवेमाम्।
४४९.०२४. रूपोपपन्नां विषयेषु सक्तामवीतरागोऽत्र जनः प्रमूडः॥१४॥
४४९.०२६. अहं तु बुद्धो मुनिसत्तमः कृती प्राप्ता मया बोधिरनुत्तरा शिवा।
४४९.०२८. पद्मं यथा वारिकणैरलिप्तं चरामि लोकेऽनुपलिप्त एव् ।१५॥
४४९.०३०. नीलाम्बुजं कर्दमवारिमध्ये यथा च पङ्केन व नोपलिप्तम्।
४४९.०३२. तथा ह्यहं ब्राह्मण लोकमध्ये चरामि कामेषु विविक्तह्{एव}॥१६॥ इति।

४५०.००१. अथानुपमा भगवता मूत्रपुरीषवादेन समुदाचरिता वीतहर्षा दुर्मनाः संवृत्ता।
४५०.००१. तस्या यद्रागपर्यवस्थानं तद्विगतम्, द्वेषपर्यवस्थानमुत्पन्नम्, स्थूलीभूतार्यस्थीतिकावरीभूतेक्षिणी(?)।
४५०.००३. तेन स खलु समयेनान्यतमो महल्लो, भगवतः पृष्ठतः स्थितोऽभूत् ।
४५०.००३. अथ महल्लो भगवन्तमिदमवोचत्--
४५०.००५. समन्तदृष्टे प्रतिगृह्य नारीमस्मत्समेतां भगवन् प्रयच्छ्
४५०.००७. रता वयं हि प्रमदामलंकृतां भोक्ष्यामहे घीर यथानुलोमम्॥१७॥ इति।
४५०.००९. एवमुक्ते भगनांस्तं महल्लमिदमवोचत्--अपेहि पुरुष, मा मे पुरतस्तिष्ठेति।
४५०.००९. स रुषितो गाथां भाषते--
४५०.०११. इदं च ते पात्रमिदं च चीवरं यष्टिश्च कुण्डी च व्रजन्तु निष्ठाम्।
४५०.०१३. इमां च शिक्षां स्वयमेव धारय धात्री यथा ह्यङ्कगतं कुमारकम्॥१८॥ इति।
४५०.०१५. एवमुक्ते स महल्लः शिक्षां प्रत्याख्याय महाननार्योऽयमिति मत्वा येन माकन्दिकः परिव्राजकस्तेनोपसंक्रान्तः।
४५०.०१६. उपसंक्रम्य माकन्दिकं परिव्राजकमिदमवोचत्--अनुप्रयच्छममान्तिकेऽनुपमामिति।
४५०.०१७. स पर्यवस्थितः कथयति--महल्ल, द्रष्टमपि ते न प्रयच्छामि, प्रागेव स्पर्च्टुमिति।
४५०.०१८. एवमुक्तस्य माकन्दिकस्य परिव्राजकस्यान्तिके तादृशं पर्यवस्थानमुपन्नं येनोष्णं शोणितं छर्दयित्वा कालगतो नरकेषूपपन्नः॥
४५०.०२०. ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--पश्य भदन्त, भगवता अनुपमा लभ्यमाना न प्रतिगृहीतेति।
४५०.०२१. भगवानाह--न भिक्षव एतर्हि, यथा अतीतेऽप्यध्वन्येषा मया लभ्यमाना न प्रतिगृहीता।
४५०.०२२. तच्छ्रूयताम्॥
४५०.०२३. भूतपूर्वं भिक्षवोऽन्यतमस्मिङ्कर्वटकेऽयस्कारः प्रतिवसति।
४५०.०२३. तेन सदृशात्कुलात्कलत्रमानीतम्।
४५०.०२४. पूर्ववद्यावद्दुहिता जाता अभिरूपा दर्शनीया प्रासादिका।
४५०.०२४. उन्नीता वर्धिता महानीतं संवृत्ता।
४५०.०२५. अयस्कारः संलक्षयति--मयैषा दुहिता न कस्यचित्कुलेन दातव्या, न रूपेण न धनेन, अपि तु यो मम शिल्पेन समोऽभ्यधिको वा, तस्याहमेनां दास्यामीति।
४५०.०२७. याअवदन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः।
४५०.०२७. सा दारिका भैक्षमादाय निर्गता।
४५०.०२७. स माणवस्तां दृष्ट्वा कथयति--दारिके, त्वं कस्यचिद्दत्ता आहोस्विन्न दत्तेति? सा कथयति--यदा जाताहं तदैव मत्पितैवाङ्गीकृत्य वदति--दुष्करमसौ मां कस्यचिद्दास्यति।
४५०.०२९. किं तव पिता वदति? यो मम शिल्पेन समोऽभ्यधिको वा, अस्याहमेनां दास्यामीति।
४५०.०३०. तव पिता कीदृशं शिल्पं जानीते? सूचीमीदृशां करोति यावदुदके प्लवत्
४५०.०३१. स माणवः संलक्षयति--किं चाप्यहमनयानर्थी, मदापनयोऽस्य कर्तव्य इति।
४५०.०३२. कुशलोऽसौ तेषु तेषु शिल्पस्थानकर्मस्थानेषु।