दिव्यावदानम्/अवदानम् ३५१-४००

विकिस्रोतः तः
← अवदानम् ३०१-३५० दिव्यावदानम्
अवदानम् ३५१-४००
[[लेखकः :|]]
अवदानम् ४०१-४५० →

३५१.००१. <३५१>नष्टं पर्युपताप्तं वा नैतदस्तीति निर्दिशेत् ।
३५१.००२. आयुष्मान् पुण्यशीलश्च दर्शनीयोऽत्र जायत् ।१९२॥ पूर्वाषाढायाम्॥
३५१.००३. उत्तरस्यामाषाढायां वैराणि न समाचरेत् ।
३५१.००४. वाययेत्सर्ववासांसि नवं नाच्छादयेदिति॥१९३॥
३५१.००५. न संहरेद्भेदयेद्वा वास्तुकर्म न सिध्यति।
३५१.००६. शालाकर्म गवादीनां ग्रामे ग्रामणिनस्तथा।
३५१.००७. श्रेणीबन्धं च राजा तु समयं चात्र कारयेत् ॥१९४॥
३५१.००८. प्रगल्भश्च सभाशीलः कृती चात्र प्रजायत्
३५१.००९. सुहृदामभियोगी च मन्त्रभाष्ये विचक्षणः॥१९५॥
३५१.०१०. नष्टं वाप्युपतप्तं वा अस्तीत्येवं विनिर्दिशेत् ।
३५१.०११. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१९६॥ उत्तराषाढायाम्॥
३५१.०१२. अभिजिति न कुर्वीत ब्रह्मदेवस्य ह्यर्चनम्॥१९७॥ अभिजिति॥
३५१.०१३. श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।
३५१.०१४. गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥१९८॥
३५१.०१५. कर्णयोर्वेधनं कुर्याद्राजानं चाभिषिञ्चयेत् ।
३५१.०१६. द्विजातीनां तु कर्माणि सर्वाण्येव प्रयोजयेत् ॥१९९॥
३५१.०१७. बलिकृत्यानि कुर्वीत दर्शयेच्च बलान्यपि।
३५१.०१८. मेधाव्यरोगी बलवान् यज्ञशीलोऽत्र जायत् ।२००॥
३५१.०१९. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ।
३५१.०२०. नष्टं च लभ्यते तत्र श्रवणस्थे निशाकर् ।२०१॥ श्रवण् ।
३५१.०२१. धनिष्ठा लघुनक्षत्रं सर्वकर्मसु पूजितम्।
३५१.०२२. अधीत्य ब्राह्मणः स्नायाद्राजान्मभिषिञ्चयेत् ॥२०२॥
३५१.०२३. सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत् ।
३५१.०२४. श्रेष्ठिनं स्थापयेद्देशे गणाध्यक्षं गणेष्वपि॥२०३॥
३५१.०२५. मेधावी च यशस्वी च महाभोगी महाधनः।
३५१.०२६. बह्वपत्यो मृदुर्दान्तो महात्मा चात्र जायत् ।२०४॥
३५१.०२७. नष्टं दग्धं प्रविद्धं वा क्लेशेनैवात्र लभ्यत्
३५१.०२८. प्रवर्षणं च देवस्य विद्याच्चात्र सुवृष्टिताम्॥२०५॥ धनिष्ठायाम्॥
३५१.०२९. नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत् ।
३५१.०३०. कीर्तिकर्म च कुर्वीत सिध्यन्त्याथर्वणानि च् ।२०६॥

३५२.००१. <३५२>प्रसारयेच्च पण्यानि शौण्डिकं च प्रयोजयेत् ।
३५२.००२. उदधिं खानयेत्तत्र तिलमाषांश्च वापयेत् ॥२०७॥
३५२.००३. सामुद्रिकाणि पण्यानि नाविनश्च प्रयोजयेत् ।
३५२.००४. आदेयं च तदादद्याद्व्ययं चात्र न कारयेत् ॥२०८॥
३५२.००५. सांधिपालान् द्वारपालाम्ल्लेखकांश्च प्रयोजयेत् ।
३५२.००६. भिषक्कर्म च कुर्वीत्भैषज्यानि च संहरेत् ॥२०९॥
३५२.००७. निधिं वा खानयेत्तत्र निदध्यादपि वा निधिम्।
३५२.००८. धनं चात्र प्रयुञ्जीत्भिषक्कर्म च शिक्षयेत् ॥२१०॥
३५२.००९. अथात्र मृगयेन्नष्टं लभ्यते तच्चिरादपि।
३५२.०१०. अरोगी क्रोधनश्चात्र स्वप्नशीलश्च जायत्
३५२.०११. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥२११॥ शतभिषायाम्॥
३५२.०१२. पूर्वभाद्रपदायोगे क्रूराणां सिद्धिरुच्यत्
३५२.०१३. नष्टविद्धोपतप्तं वा नैतदस्तीति निर्दिशेत् ॥२१२॥
३५२.०१४. दीर्घश्रोत्रो महाभोगो ज्ञातीनां च सदा प्रियः।
३५२.०१५. महाधनोऽक्रूरकर्मा निःक्रोधश्चात्र जायत्
३५२.०१६. प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत् ॥२१३॥ पूर्वभाद्रपद् ।
३५२.०१७. उत्तरस्यां तु कुर्वीतायुष्यं पुष्टिकर्म च्
३५२.०१८. न च दक्षिणतो गच्छेत्पुरं चात्र प्रदापयेत् ॥२१४॥
३५२.०१९. आयुष्मांश्च यशस्वी च धनवांश्चात्र जायत्
३५२.०२०. अत्रापि त्रिगुणं विन्देदादानं यदि वा व्ययम्।
३५२.०२१. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥२१५॥ उत्तरभाद्रपद् ।
३५२.०२२. रेवत्यां रत्नरजतं धनधान्यं प्रयोजयेत् ।
३५२.०२३. कोष्ठागाराणि कुर्वीत्किण्वं चात्र न कारयेत् ॥२१६॥
३५२.०२४. सुराकर्म च कुर्वीद्धिरण्यं गोव्रजानि च्
३५२.०२५. गोसंघं स्थापयेच्चात्र गोशालां चात्र कारयेत् ।
३५२.०२६. आच्छादयेन्नवं वस्त्रं हिरण्यमपि धारयेत् ॥२१७॥
३५२.०२७. भिक्षुको दानशीलश्च दरिद्रश्चानसूयकः।
३५२.०२८. ज्ञातीनां सेवको नित्यं धर्मज्ञश्चात्र जायत्
३५२.०२९. सुवृष्टिं नष्टलाभं च रेवत्यामभिनिर्दिशेत् ॥२१८॥ रेवत्याम्॥
३५२.०३०. स्त्रीपुंसमश्विना युञ्जादश्वशालां च कारयेत् ।
३५२.०३१. अश्वान् प्रयोजयेदत्र रथं चात्र प्रयोजयेत् ॥२१९॥

३५३.००१. <३५३>ऋणप्रयोगः कर्तव्यो बीजान्यत्र प्रवापयेत् ।
३५३.००२. यानानि च हयान् दम्यान् दन्तिनश्च प्रयोजयेत् ॥२२०॥
३५३.००३. भैषज्यं भोजयोदत्र भिषक्कर्म च कारयेत् ।
३५३.००४. मधावी दर्शनीयश्च राजयोग्यश्च संपदा॥२२१॥
३५३.००५. आरोगी बलवांच्छूरः सुभगो ह्यत्र जायत्
३५३.००६. सुवृष्टिं नष्टलाभं च अश्विन्यामभिनिर्दिशेत् ॥२२२॥ अश्विन्याम्॥
३५३.००७. त्रितारां भरणीं विद्यात्क्रूरकर्माणि साधयेत् ।
३५३.००८. भृत्यांश्च भृतकांश्चापि वृणुयाद्दर्शयेत्तथा॥२२३॥
३५३.००९. भृतिं चोपनयेदत्र भार्यां च न विवाहयेत् ।
३५३.०१०. उत्कुटुको वञ्चनकः कूटसाक्षी च तन्द्रिजः॥२२४॥
३५३.०११. विधिज्ञः पापचारित्रः कदर्यश्चात्र जायत्
३५३.०१२. जायते चात्र दुःशीलो गुरूणामभ्यसूयकः।
३५३.०१३. परोपतापी लुब्धश्च परव्याहारगोचरः॥२२५॥ भरण्याम्॥
३५३.०१४. सप्तवींशतिनक्षत्रे कृत्तिकादि यदा भवेत् ।
३५३.०१५. भरण्यन्तानि ऋक्षाणीमां प्रतिपादयेत्क्रियाम्॥२२६॥
३५३.०१६. तेषां मध्ये यदा सर्वे शस्यान्योषधयोऽपि च्
३५३.०१७. वनस्पतयश्च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।
३५३.०१८. सर्वं प्रतिपादयितव्यमुक्तनक्षत्रकर्मसु॥२२७॥
३५३.०१९. उक्तो नक्षत्रकर्मनिर्देशो नामाध्यायः॥
३५३.०२०. चत्वारि भोः पुष्करसारिन्नक्षत्राणि ध्रुवानि भवन्ति।
३५३.०२०. तानि व्याख्यास्यामि।
३५३.०२०. तच्छृणु।
३५३.०२१. तद्यथा--त्रीणि उत्तराणि रोहिणी च्
३५३.०२१. क्षेमेऽध्यावसेत् ।
३५३.०२१. बीजानि चात्र रोपयेत् ।
३५३.०२१. निवेशनं चात्र कल्पयेत् ।
३५३.०२२. राजानं चाभिषिञ्चयेत् ।
३५३.०२२. यानि चान्यानि उक्तानि कर्माणि तानि कारयेत् ।
३५३.०२३. अथ नष्टं दग्धं वा विद्धं चापि हृतं च वा।
३५३.०२४. एवमभिनिर्दिष्टं वा स्वस्ति क्षिप्रं भविष्यति॥२२८॥
३५३.०२५. अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च्
३५३.०२६. मङ्गलीयो महाभोगी महायोगी भविष्यति॥२२९॥
३५३.०२७. चत्वारि भोः पुष्करसारिन्नक्षत्राणि क्षिप्राणि भवन्ति।
३५३.०२७. तद्यथा--पुष्यो हस्ताभिजिदश्विनी चेति।
३५३.०२८. एषु क्षिप्राणि कर्माणि कारयेच्च विचक्षणः।
३५३.०२८. स्वाध्यायं मन्त्रसमारम्भं प्रवासप्रस्थानं गाश्च तुरङ्गानप्यत्र योजयेत् ।
३५३.०२९. धूर्याणि युक्तकर्माणि चोषधीकर्माणि च्
३५३.०३०. भैषज्यानि सर्वाण्यत्र प्रयोजयेत् ॥
३५३.०३१. तत्र यज्ञसमारम्भं चातुर्मास्यं च कारयेत् ।
३५३.०३१. अथात्र नष्टं दग्धं वा विद्धं वा, स्वस्ति भविष्यतीति वक्तव्यम्॥

३५४.००१. <३५४>अथात्र जातकं विद्यान्मङ्गलीयं यशस्विनम्।
३५४.००२. महाभोगं च राजानं महायोगिनमीश्वरम्॥२३०॥
३५४.००३. महाधनं महाभोगं तथा च महदुत्तमम्।
३५४.००४. क्षत्रियं दानशीलं च ब्राह्मणं च पुरोहितम्॥२३१॥ इति॥
३५४.००५. पञ्च खलु भोः पुष्करसारिन्नक्षत्राणि दारुणानि भवन्ति।
३५४.००५. तद्यथा--
३५४.००६. मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।
३५४.००७. अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥२३२॥
३५४.००८. इति वक्तव्यम्।
३५४.००८. अर्धरात्रिकाणि षट् ।
३५४.००८. तद्यथा--आर्द्रा आश्लेषा स्वाती ज्येष्ठा शतभिषा भरणी चेति।
३५४.००९. नवांशाः षड्ग्रासा द्विक्षेत्राणि।
३५४.००९. रोहिणी पुनर्वसुर्विशाखा च्
३५४.०१०. त्रीणि उत्तराणि चेति उभयतोविभागानि।
३५४.०१०. पञ्चदश क्षेत्राणि।
३५४.०१०. कृत्तिका च मघा मूला त्रीणि पूर्वाणि।
३५४.०११. इमानि षट्पूर्वभागिकानि।
३५४.०११. मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनी चेति इमानि नव नक्षत्राणि पञ्चाद्भागीयानि त्रिंशन्मुहूर्तयोगानि क्षेत्राणि च् ।
३५४.०१४. अपि च ब्राह्मण शुभाश्च मुहूर्ता भवन्ति, अशुभाश्च मुहूर्ता भवन्ति, शुभाशुभाश्च मुहूर्ता भवन्ति।
३५४.०१५. संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभमुहूर्तसमापत्तयो भवन्ति, तदा शोभना भवन्ति।
३५४.०१६. यदा अशुभमुहूर्तसमापत्तयो भवन्ति, तदा न शोभना भवन्ति।
३५४.०१६. यदा तु पुनः शुभाश्चाशुभाश्च समापत्तयो, तदा साधारणा भवन्ति॥
३५४.०१८. अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर्वा भवतीति तदुच्यत्
३५४.०१८. वर्षाणां प्रथमे मासे पुष्यनक्षत्रममावास्यां भवति, श्रवणा पूर्णमास्याम्।
३५४.०१९. अष्टादशमुहूर्तो दिवसो भवति।
३५४.०२०. द्वादशमुहूर्ता रात्रिः।
३५४.०२०. षोडशाङ्गुलकाष्ठस्य मध्याह्नेऽर्धाङ्गुलायां छायायामादित्यः परिवर्तत्
३५४.०२१. आषाढा रात्रिं नयति।
३५४.०२१. मृगशिरसि आदित्यो गतो भवति।
३५४.०२१. वर्षाणां द्वितीये मासे मघा अमावास्यायां भवति, भाद्रपदा पूर्णमास्याम्।
३५४.०२२. सप्तदशमुहूर्तो दिवसो भवति।
३५४.०२२. त्रयोदशमुहूर्ता रात्रिः।
३५४.०२३. द्व्यङ्गुलायां छायायामादित्यः परिवर्तत्
३५४.०२३. श्रवणा रात्रिं नयति।
३५४.०२३. पुष्य आदित्यो गतो भवति।
३५४.०२४. वर्षाणां तृतीये मासे फल्गुन्यमावास्यायां भवति, अश्विनी पूर्णमास्याम्।
३५४.०२५. षोडशमुहूर्तो दिवसो भवति।
३५४.०२५. चतुर्दशमुहूर्ता रात्रिः।
३५४.०२५. चौरङ्गुलायां छायायामादित्यः परिवर्तत्
३५४.०२६. पूर्वभाद्रपदा रात्रिं नयति।
३५४.०२७. मघायामादित्यो गतो भवति।
३५४.०२७. वर्षाणां चतुर्थे मासे चित्रा अमावास्यायां भवति, कृत्तिका पूर्णमास्याम्।
३५४.०२७. पञ्चदशमुहूर्तो भवति दिवसः।
३५४.०२७. पञ्चदशमुहूर्ता रात्रिः।
३५४.०२८. षडङ्गुलायां छायायामादित्यः परिवर्तत्
३५४.०२८. अश्विनी रात्रिं नयति।
३५४.०२८. फल्गुन्यामादित्यो गतो भवति॥
३५४.०३०. हेमन्तानां प्रथमे मासेऽनुराधा अमावास्यायां भवति, मृगशिरा पूर्णमास्याम्।
३५४.०३०. चतुर्दशमुहूर्तो दिवसो भवति।
३५४.०३१. षोडशमुहूर्ता रात्रिः।
३५४.०३१. अष्टाङ्गुलायां छायायामादित्यः परिवर्तत्

३५५.००१. <३५५>कृत्तिका रात्रिं नयति।
३५५.००१. चित्रायामादित्यो गतो भवति।
३५५.००१. हेमन्तानां द्वितीये मासे अमावास्यायां ज्येष्ठा भवति, पुष्यः पूर्णमास्याम्।
३५५.००२. त्रयोदशमुहूर्तो दिवसो भवति।
३५५.००२. सप्तदशमुहूर्ता रात्रिः।
३५५.००३. दशाङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.००३. मृगशिरा रात्रिं नयति।
३५५.००३. विशाखायामादित्यो गतो भवति।
३५५.००४. हेमन्तानां तृतीये मासे पूर्वाषाढा अमावास्यायां भवति, मघा पूर्णमास्याम्।
३५५.००४. द्वादशमुहूर्तो दिवसे भवति।
३५५.००५. अष्टादशमुहूर्ता रात्रिः।
३५५.००५. द्वादशाङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.००६. पुष्यो रात्रिं नयति।
३५५.००६. ज्येष्ठायामादित्यो गतो भवति।
३५५.००६. हेमन्तानां चतुर्थे मासे श्रवणा अमावास्यायां भवति।
३५५.००७. फल्गुनी पूर्णमास्याम्।
३५५.००७. त्रयोदशमुहूर्तो दिवसे भवति।
३५५.००७. सप्तदशमुहूर्ता रात्रिः।
३५५.००८. दशाङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.००८. मघा रात्रिं नयति।
३५५.००८. आषाढायामादित्यो गतो भवति॥
३५५.०१०. ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदा अमावास्यायां भवति, चित्रा पूर्णमास्याम्।
३५५.०११. चतुर्दशमुहूर्तो दिवसो भवति।
३५५.०११. षोडशमुहूर्ता रात्रिः।
३५५.०११. अष्टाङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.०१२. फल्गुनी रात्रिं नयति।
३५५.०१२. श्रवणायामादित्यो गतो भवति।
३५५.०१२. ग्रीष्माणां दिवितीये मासेऽश्विनी अमावास्यायां भवति।
३५५.०१३. विशाखा पूर्णमास्याम्।
३५५.०१३. पञ्चदशमुहूर्तो दिवसो भवति।
३५५.०१४. पञ्चदशमुहूर्ता रात्रिः।
३५५.०१४. षडङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.०१४. चित्रा रात्रिं नयति।
३५५.०१५. उत्तरायां भाद्रपदायामादित्यो गतो भवति।
३५५.०१५. ग्रीष्माणां तृतीये मासे कृत्तिका अमावास्यायां भवति, ज्येष्ठा पूर्णमास्याम्।
३५५.०१६. षोडशमुहूर्तो दिवसो भवति।
३५५.०१६. चतुर्दशमुहूता रात्रिः।
३५५.०१७. चतुरङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.०१७. विशाखा रात्रिं नयति।
३५५.०१७. कृत्तिकायामादित्यो गतो भवति।
३५५.०१८. ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति, उत्तराषाढा पूर्णमास्याम्।
३५५.०१८. सप्तदशमुहूर्तो दिवसे भवति।
३५५.०१९. त्रयोदशमुहूर्ता रात्रिः।
३५५.०१९. मध्याह्ने द्व्यङ्गुलायां छायायामादित्यः परिवर्तत्
३५५.०२०. ज्येष्ठा रात्रिं नयति।
३५५.०२०. पुष्य आदित्यो गतो भवति॥
३५५.०२१. संवत्सरमन्वेषणतो मुहूर्तविशेषणैः सर्वाणि चैतानि (नक्षत्राणि) भागानुभागेन अमावास्यायां पूर्णमास्यां च जुज्यन्त्
३५५.०२२. ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यम्।
३५५.०२२. तत्र तृतीये वर्षेऽधिको मासो युज्यत्
३५५.०२३. षण्णां मासानामहोरात्राणि समानि भवन्ति।
३५५.०२३. अतः षण्मासाद्दिवसो वर्धत्
३५५.०२४. षण्मासाद्रात्रिर्वर्धत्
३५५.०२४. षण्मासाद्दिवसो मासे मासे सममेव हीयत्
३५५.०२४. षण्मासाद्रात्रिर्मासे मासे परिहीयत् ।
३५५.०२६. षण्मासादादित्यः परिवर्तत्
३५५.०२६. उत्तरां दिशं संचरति।
३५५.०२६. षण्मासाद्दक्षिणां दिशम्।
३५५.०२७. षण्मासात्समुद्रे उदकपरिमाणस्य ह्रासो वृद्धिश्च भवति।
३५५.०२७. सूर्यगत्या चन्द्रगत्या च समुद्रोदकवेलाभिवृद्धिर्भवति।
३५५.०२८. अत्र गणनाप्रतिजागरणास्मरमित्येवम्।
३५५.०२८. एष संवत्सरो व्याख्यातो भवति।
३५५.०२९. चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश्च इमे ग्रहाः।
३५५.०२९. एषां ग्रहणां बृहस्पतिः संवत्सरस्थायी।
३५५.०३०. एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश्चेमे मण्डलचारिणः॥
३५५.०३१. भरणी कृत्तिका रोहिणी मृगशिरा एतत्साधारणं प्रथमं मण्डलम्।
३५५.०३१. आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत्साधारणं द्वितीयं मण्डलम्।
३५५.०३२. मघा अथ फल्गुनद्वयं हस्ता चित्रा एतत्साधारणम् <३५६>तृतीयं मण्डलम्।

३५६.००१. स्वाती विशाखा अनुराधा एतत्साधारणं चतुर्थं मण्डलम्।
३५६.००१. ज्येष्ठा मूलाषाढा द्वयमत्र सर्वाणि महाभयानि भवन्ति।
३५६.००२. इदं पञ्चमं मण्डलम्।
३५६.००२. अभिजिच्छ्रवणा धनिष्ठा शतभिषा उभे भाद्रपदे चैतत्साधारणं षष्ठं मण्डलम्।
३५६.००३. रेवती अश्विनी चैतत्साधारणं सप्तमं मण्डलम्।
३५६.००४. संवत्सरमेतेषु यद्यन्नक्षत्रमण्डलं पीडयति, तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या॥
३५६.००६. द्वादश मुहूर्तानि दिवसे ध्रुवाणि, द्वादश रात्रौ।
३५६.००६. षण्मुहूर्ताः संचारिणः।
३५६.००६. कतमे षट्? नैरृतो वरुणो वायवो भर्गोदेवो रौद्रो विचारी च्
३५६.००७. इतीमे संचारिणः षट् ॥
३५६.००८. अथात्र श्रावणे मासे पूर्णेऽष्टादशमुहूर्ते दिवसे सूर्योदये च चतुरोजा नाम मुहूर्तो भवति।
३५६.००९. रोहितस्य च मुहूर्तस्य बलस्य चान्तरे मध्याह्नो भवति।
३५६.००९. सूर्यावतारे तु विचारी नाम मुहूर्तो भवति।
३५६.०१०. द्वादशमुहूर्तायां रात्राववतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति।
३५६.०११. आतपाग्निरेवं नाम मुहूर्तो रात्र्यवसाने भवति।
३५६.०११. भाद्रपदे मासे पूर्णे सप्तदशमुहूर्ते दिवसे सूर्योदये च चतुरोजा एवं नाम मुहूर्तो भवति।
३५६.०१२. मध्याह्नेऽभिजितो नाम मुहूर्तो भवति।
३५६.०१३. सूर्यावतारे रौद्रो नाम मुहूर्तो भवति।
३५६.०१३. त्रयोदशमुहूर्तायां रात्राववतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति।
३५६.०१४. अर्धरात्रे महाभयो वायवो नाम मुहूर्तो भवति॥
३५६.०१५. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति।
३५६.०१५. आश्वयुजे मासे पूर्णे षोडशमुहूर्तो दिवसो भवति।
३५६.०१६. सूर्योदये चतुरोजा नाम मुहूर्तो भवति।
३५६.०१६. समुद्गतस्य च मुहूर्तस्य अभिजितस्य त्वन्तरे मध्याह्नो भवति।
३५६.०१७. सूर्यावतारे भर्गोदेवो नाम मुहूर्तो भवति॥
३५६.०१८. चतुर्दशमुहूर्तायां रात्राववतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति।
३५६.०१८. अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेणार्धरात्रं भवति।
३५६.०१९. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥
३५६.०२१. कार्तिके मासे पूर्णे दिवसः समरात्रिर्भवति।
३५६.०२१. पञ्चदशमुहूर्तो दिवसो भवति, पञ्चदशमुहूर्ता रात्रिः।
३५६.०२२. समानेऽहोरात्रे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति।
३५६.०२२. संमुखो नाम मुहूर्तो भवति मध्याह्न्
३५६.०२३. संततो नाम मुहूर्तः सूर्यावतार्
३५६.०२३. रात्राववतीर्णमात्रे सूर्ये भर्गोदेवो नाम मुहूर्तो भवति।
३५६.०२४. आर्धरात्रेऽभिजिन्मुहूर्तो भवति।
३५६.०२४. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥
३५६.०२६. मार्गशीर्षे मासे च पूर्णे चतुर्दशमुहूर्ते दिवसे सूर्योदये चतुरोजा एवं नां मुहूर्तो भवति।
३५६.०२७. विरतस्य संमुखस्य च मुहूर्तस्यान्तरे मध्याह्नो भवति।
३५६.०२७. सूर्यावतारे वरुणो नाम मुहूर्तो भवति।
३५६.०२८. षोडशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये संतापनः सम्यमो नाम मुहूर्तो भवति।
३५६.०२९. राक्षसस्याभिजितस्य च मुहूर्तस्यान्तरेऽर्धरात्रं भवति।
३५६.०२९. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥

३५७.००१. <३५७>पौषमासे पूर्णे त्रयोदशमुहूर्ते दिवसे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति।
३५७.००२. मध्याह्ने विरतो नाम मुहूर्तो भवति।
३५७.००२. सूर्यावतारे नैरृतो नाम मुहूर्तो भवति।
३५७.००२. सप्तदशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति।
३५७.००३. अर्धरात्रे राक्षसो नाम मुहूर्तो भवति।
३५७.००४. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥
३५७.००५. माघमासे पूर्णे द्वादशमुहूर्ते दिवसे सूर्योदये चतुरोजा नाम मुहूर्तो भवति।
३५७.००५. सावित्रस्य च विरतस्य च मुहूर्तस्यान्तरेण मध्याह्नो भवति।
३५७.००६. सूर्यावतारे विजयो नाम मुहूर्तो भवति।
३५७.००७. अष्टादशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति।
३५७.००७. गर्दभस्य मुहूर्तस्य च राक्षसस्य चान्तरमर्धरात्रं भवति।
३५७.००८. रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥
३५७.००८. यथा श्रावणे तथा माघ्
३५७.००९. यथा भाद्रपदे तथा फाल्गुन्
३५७.००९. यथा आश्वयुजे तथा चैत्र्
३५७.०१०. यथा कार्तिके तथा वैशाख्
३५७.०१०. यथा मार्गशीर्षे तथा ज्येष्ठ्
३५७.०१०. यथा पौषे तथा आषाढ्
३५७.०१०. एवमेतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यम्॥
३५७.०११. नक्षत्रविचरणं नाम प्रथमोऽध्यायः॥
३५७.०१२. यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन चोत्कर्षापकर्षौ कर्तव्यौ।
३५७.०१२. हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्धमासे वा।
३५७.०१३. द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्रान्तरे दिवसे कला वर्धते, रात्रौ कला हीयत् ।
३५७.०१५. चत्वारो महाराजानो ध्रियते यैर्वसुंधरा।
३५७.०१६. अतिवृद्धिर्विशुद्धश्च वर्धमानः पृथक्श्रवाः॥२३३॥
३५७.०१७. महाभूतानि चत्वारि कम्पयन्ति वसुंधराम्।
३५७.०१८. आप इन्द्रश्च वायुश्च तथाग्निर्भगवानपि॥२३४॥
३५७.०१९. त्रयस्तु ते यत्र भवन्ति पक्षे षडेकमासे तु भवन्ति वेगाः।
३५७.०२१. परस्य चक्रस्य निदर्शनं स्यात्प्रकम्पते यत्र मही त्वभीक्ष्णम्॥२३५॥
३५७.०२३. विशाखा दशरात्री स्याज्जेष्ठा द्वादशरात्रिका।
३५७.०२४. पञ्चविंशतिराषाढा श्रवणा पञ्चसप्ततिः॥२३६॥
३५७.०२५. रात्रिशतं भाद्रपदे क्रतुरश्वयुजे स्मृतः।
३५७.०२६. अध्यर्धं कार्तिके मासे क्रतुर्मार्गशिरे स्मृतः॥२३७॥
३५७.०२७. पौषे तु पञ्चपञ्चाशन्माघे रात्रिशतं स्मृतम्।
३५७.०२८. अध्यर्धं फल्गुने मासे चैत्रे त्रिंशत्तु रात्रयः।
३५७.०२९. विपाको भूमिवेगानामतः कम्पः प्रवर्तत् ।२३८॥
३५७.०३०. यदा सर्वेषु मासेषु सततं कम्पते मही।
३५७.०३१. वृक्षास्तथा चलन्ति स्म जलं यदि कम्पत्
३५७.०३२. पर्वतः पर्णवत्कम्पेद्भयमत्र विनिर्दिशेत् ॥२३९॥

३५८.००१. <३५८>नगराण्यथ वा ग्रामा घोषा ये चात्र संश्रिताः।
३५८.००२. शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥२४०॥
३५८.००३. अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च्
३५८.००४. अनावासा दिशो विद्याद्भूमिचालविचालिताः॥२४१॥
३५८.००५. कृत्तिकासु चलेद्भूमिर्ग्रामेषु नगरेषु वा।
३५८.००६. अभीष्क्णं मुच्यते ह्यग्निर्दहते स तृणालयान्॥२४२॥
३५८.००७. कृष्णाग्निरशनेः पातः कर्मारा आहिताश्रयाः।
३५८.००८. अगाराश्च निवर्तन्ते संवर्तेनेव धातवः॥२४३॥
३५८.००९. ये जाता ये च संवृद्धा ये च तं ग्राममाश्रिताः।
३५८.०१०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४४॥
३५८.०११. रोहिण्यां चलिता भूमिः सर्वबीजविनाशनम्।
३५८.०१२. प्रोप्तं शस्यं न रोहेत भवेत्फलस्य कृच्छ्रता॥२४५॥
३५८.०१३. गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशम्।
३५८.०१४. दुर्भिक्षव्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥२४६॥
३५८.०१५. महात्मानश्च राजानः श्रीमन्तश्च नरोत्तमाः।
३५८.०१६. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४७॥
३५८.०१७. मृगशीर्षे चलेद्भूमिरोषधीनां विनाशनम्।
३५८.०१८. चिकित्सकाः श्रोत्रियाश्च घटकाः सोमयाजकाः॥२४८॥
३५८.०१९. सोमपीताश्च ये विप्रा वानप्रस्थाश्च तापसाः।
३५८.०२०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४९॥
३५८.०२१. आर्द्रायां चलिता भूमिर्वृक्षा नश्यन्ति क्षीरिणः।
३५८.०२२. अन्नपानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥२५०॥
३५८.०२३. कूपखाः परिखाखाश्च पापका ये च तस्कराः।
३५८.०२४. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५१॥
३५८.०२५. पुनर्वसौ चलेद्भूमिर्मण्डलं कुण्डिकापि च्
३५८.०२६. वागुरिकाः कारण्डवाश्चक्रिणः शुकसारिकाः॥२५२॥
३५८.०२७. अर्भका भ्रमकाराश्च मांसिकाः शङ्खवाणिजाः।
३५८.०२८. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५३॥
३५८.०२९. पुष्येण च चलेद्भूमिर्ब्राह्मणा नायकास्तथा।
३५८.०३०. दूरंगमा वाणिजकाः सार्थवाहाश्च ये नराः॥२५४॥

३५९.००१. <३५९>पार्थिवाः पार्वतीयाश्च ये च तद्भक्तिगोचराः।
३५९.००२. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः।
३५९.००३. शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥२५५॥
३५९.००४. आश्लेषायां चलेद्भूमिर्नागाः सर्वे सरीसृपाः।
३५९.००५. कीटाः पिपीलिकाः श्वाना एकखुराश्च ये मृगाः॥२५६॥
३५९.००६. वैद्या विषकराश्चापि ये च सत्त्वा दरीश्रयाः।
३५९.००७. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५७॥
३५९.००८. मघासु चलिता भूमिर्महाराजोऽत्र तप्यत्
३५९.००९. ये च श्राद्धा निवर्तन्ते समाजा उत्सवास्तथा।
३५९.०१०. यज्ञाश्च देवकृत्यं च सर्वमत्र निवर्तत् ।२५८॥
३५९.०११. ये जाता ये च संवृद्धा ये चान्येऽप्यग्रपण्डिताः।
३५९.०१२. गन्धर्वाश्च विनश्यन्ति नरा ये च महाकुलाः।
३५९.०१३. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५९॥
३५९.०१४. फल्गुन्यां चलिता भूमिरृतुर्व्यावर्तते तदा।
३५९.०१५. तिर्यग्वातश्चैव वाति कृतं नश्यति शाश्वतम्।
३५९.०१६. पथिकाश्चोपतप्यन्ति माषयाच्योपजीविकाः॥२६०॥
३५९.०१७. धर्मे रता आसनिका ये च शुल्कोपजीविनः।
३५९.०१८. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६१॥
३५९.०१९. चलत्युत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।
३५९.०२०. सार्थवाहा आसनिका ये च शिल्पोपजीविनः॥२६२॥
३५९.०२१. अङ्गा विदेहमगधा नैरृताः स्त्रीपरिग्रहाः।
३५९.०२२. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६३॥
३५९.०२३. हस्तेन चलिता भूमिः कुम्भकारचिकित्सकाः।
३५९.०२४. गणमुख्या महामात्राः सेनाध्यक्षाश्च ये नराः॥२६४॥
३५९.०२५. तारमका(?) नारपटा(?) विप्सरह्(?) कौटिका अपि।
३५९.०२६. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६५॥
३५९.०२७. चित्रायां चलिता भूमिः कारुका उपकल्पकाः।
३५९.०२८. कुमार्यः सर्वरत्नं च सस्यानां बीजकैः सह् ।२६६॥
३५९.०२९. वङ्गा दशार्णकुरवश्चेदिमाहिषकास्तथा।
३५९.०३०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६७॥

३६०.००१. <३६०>स्वातौ प्रचलिता भूमिश्चौरा ये च कुशीलकाः।
३६०.००२. हिंसका ये च तत्कर्मरताभ्यर्थितमूषकाः॥२६८॥
३६०.००३. हिमवत उत्तरेण वायुभक्षास्तपस्विनः।
३६०.००४. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६९॥
३६०.००५. विशाखायां चलेद्भूमिर्महाशैलक्षयो भवेत् ।
३६०.००६. उग्रा वाताः प्रवान्त्यत्र अश्मकैरकुशलिनः॥२७०॥
३६०.००७. अनुराधे चलेद्भूमिर्दस्यूनामनयो महान्।
३६०.००८. विटा द्यूतकराश्चैव ग्रन्थिभेदाश्च ये नराः॥२७१॥
३६०.००९. अन्ध्राः पुण्ड्राः पुलिन्दाश्च भये तिष्ठन्त्यनाश्रिताः।
३६०.०१०. मित्रभेदश्च बलवांस्तदा जगति जायत् ।२७२॥
३६०.०११. ज्येष्ठायां चलिता भूमिर्महाराज प्रतप्यत्
३६०.०१२. वायसा वृषभा व्याडास्तथा चण्डमृगाश्च य् ।२७३॥
३६०.०१३. कुरवः शूरसेनाश्च मल्ला बाह्लीकनिग्रहाः।
३६०.०१४. प्रत्यर्थिकेन शीघ्रेण ये च तद्भक्तिभाजनाः।
३६०.०१५. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७४॥
३६०.०१६. मूलेन चलिता भूमिश्चतुष्पद्द्विपदास्तथा।
३६०.०१७. ग्रहाश्रयाः पिशाचाश्च ये च सत्त्वा दरीश्रयाः।
३६०.०१८. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७५॥
३६०.०१९. दुर्भिक्षं च करोत्याशु धान्यमल्पोदकं भवेत् ।
३६०.०२०. दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥२७६॥
३६०.०२१. पूर्वाषाढे चलेद्भूमिर्जलजा मत्स्यशुक्तिकाः।
३६०.०२२. शिशुमारा उद्रकाश्च नक्रा मकरकच्छपाः॥२७७॥
३६०.०२३. जातिगोत्रप्रधानाश्च धनिनोऽथ विचक्षणाः।
३६०.०२४. द्वितीयाभिजाताश्च महाविद्याकराश्च य्
३६०.०२५. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७८॥
३६०.०२६. उत्तरस्यां चलेद्भूमिः शिल्पिनामनयो महान्।
३६०.०२७. अयस्काराः स्थपतयस्त्रपुकाराश्च तक्षकाः॥२७९॥
३६०.०२८. दरिद्रा धनिनश्चापि शिल्पिनो विविधा अपि।
३६०.०२९. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः।
३६०.०३०. ग्रामकूटानि च घ्नन्ति सचलस्थावराणि च् ।२८०॥

३६१.००१. <३६१>वैष्णवे चलिता भूमिस्तदेति यदनीप्सितम्।
३६१.००२. अध्यापकाः शास्त्रविदः कवयो मन्त्रपारगाः।
३६१.००३. युगंधराः शूरसेना अभिराजाः पटच्चराः॥२८१॥
३६१.००४. कुशण्डाः शरदण्डाश्च ये नरा राजपूजिताः।
३६१.००५. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२८२॥
३६१.००६. धनिष्ठायां चलेद्भूमिर्धनिनामनयो महान्।
३६१.००७. महेश्वरास्तथा महानागराः श्रेष्ठिनस्तथा॥२८३॥
३६१.००८. प्रचण्डाः स्वस्तिमन्तश्च भद्रकारा युगंधराः।
३६१.००९. पारिकूलाश्च भोज्याश्च ह्यन्ये सन्नागरा अपि।
३६१.०१०. एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२८४॥
३६१.०११. वारुण्ये चलिता भूमिरौदकेष्वनयो महान्।
३६१.०१२. हस्तिनोऽश्वखरोष्ट्राश्च स्पर्शमर्च्छन्ति दारुणम्॥२८५॥
३६१.०१३. तदासौ वीरकान्मद्रान् बाह्लीकान् केकयानपि।
३६१.०१४. अनाश्रयांश्चक्रवाकाञ्जनस्थानपि पीडयेत् ॥२८६॥
३६१.०१५. साजेन चलिता भूमी राक्षसान् घातकांस्तथा।
३६१.०१६. औरभ्रिकान् सौकरिकान् सौवीरांश्च निपातयेत् ॥२८७॥
३६१.०१७. वणिज्यजीविनो वैश्याञ्शूद्रांश्च करीतीनपि।
३६१.०१८. यवनान्मालवाद्यांश्च गन्थिभेदांश्च नाशयेत् ॥२८८॥
३६१.०१९. अहिर्बुध्न्ये चलेद्भूमिर्वणिजामनयो महान्।
३६१.०२०. धर्मे रताश्च ये सिद्धा ये च शौक्तिककर्मिणः॥२८९॥
३६१.०२१. शिबीन् वत्साअंस्तथा वात्स्यान् क्षत्रियानार्जुनायनान्।
३६१.०२२. सिन्धुराजधनुष्पाणीन् सर्वानर्दयतेऽचिरात् ॥२९०॥
३६१.०२३. रेवत्यां चलिता भूमिः संग्रामः स्यात्सुदारुणः।
३६१.०२४. ग्रामघाताश्च वर्तन्ते ग्रामो ग्रामं च हिंसति॥२९१॥
३६१.०२५. नौचरानुदकाजीवान् रमठान् भरुकच्छकान्।
३६१.०२६. सुधन्वानभिसारांश्च सर्वसेनांश्च निर्दहेत् ॥२९२॥
३६१.०२७. अश्विन्यां चलिता भूमिरश्वानामनयो महान्।
३६१.०२८. ग्रामघातश्च वर्तन्ते भ्राता भ्रातृञ्जिघांसति॥२९३॥
३६१.०२९. या चात्र गर्भमाधत्ते ये च जाताश्च तानिह्
३६१.०३०. त्रीणि वर्षाण्यतो दुःखमुपैति च निरन्तरम्॥२९४॥

३६२.००१. <३६२>सहिताश्चित्रगर्भाश्च ये ह्यन्ये चाङ्गनाजनाः।
३६२.००२. आर्जुनायना राजन्याः सुष्ठु त्रींश्चापि हिंसति॥२९५॥
३६२.००३. भरण्यां चलिता भूमिश्चौराणामनयो महान्।
३६२.००४. विटा द्यूतकराश्चैव ग्रन्थिभेदाश्च ये नराः॥२९६॥
३६२.००५. आदर्शचक्राटा धूर्तास्तथा बन्धनरक्षकाः।
३६२.००६. अन्तावशायिनः पापाश्चरन्ति ये तु दुर्जनाः।
३६२.००७. तेऽपि तत्र विपद्यन्ते भूमिचालविचालिताः॥२९७॥
३६२.००८. वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।
३६२.००९. सप्ताहाभ्यन्तरात्तत्र मेघो भवति प्रार्थितः॥२९८॥
३६२.०१०. स्निग्धो ह्यञ्जनसंकाशो महापर्वतसन्निभः।
३६२.०११. इन्द्रश्च वषते तत्र महर्षेर्वचनं यथा।
३६२.०१२. {एव निगदितं नाथैरिन्द्रश्चात्र प्रवर्षति॥२९९॥}
३६२.०१३. स्वस्तिकाकारसंकाशा इन्द्रवज्रध्वजोपमाः।
३६२.०१४. दृश्यन्तेऽभ्रा हि संध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥३००॥
३६२.०१५. तदा नभसि जायन्ते मेघा दाडिमसंनिभाः।
३६२.०१६. लक्षणं तादृशं दृष्ट्वा विद्यात्तानिन्द्रकम्पितान्।
३६२.०१७. स निर्देशो भवेत्तत्र महर्षेर्वचनं यथा॥३०१॥
३६२.०१८. अतीव तत्र विश्वस्तः सर्वबीजानि वापयेत् ।
३६२.०१९. व्यवहारांश्च कुर्वीरन्निर्भयास्तत्र वाणिजाः।
३६२.०२०. सर्वेषां भूमिकम्पानां प्रशस्ता इन्द्रकम्पिताः॥३०२॥
३६२.०२१. वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।
३६२.०२२. सप्ताहाभ्यन्तरे तत्र मेघाः संछादयेन्नभः॥३०३॥
३६२.०२३. ततोऽनुबद्धा जायन्ते अभ्राः कौशेयसंनिभाः।
३६२.०२४. अनुलोमं च सम्यान्ति चरन्तः पश्चिमां दिशम्॥३०४॥
३६२.०२५. शिशुमारोद्रकाणां मत्स्यमकरसन्निभाः।
३६२.०२६. दृश्यन्तेऽभ्राश्च संध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥३०५॥
३६२.०२७. लक्षणं तादृशं दृष्ट्वा विद्यात्ताञ्जलकम्पितान्।
३६२.०२८. स निर्देशो भवेत्तत्र महर्षेर्वचनं यथा॥३०६॥
३६२.०२९. स्थलेषु गिरिकूटेषु क्षेत्रेषूपवनेषु च्
३६२.०३०. स्थाप्यन्ते तत्र बीजानि निंने नश्यन्ति वै तदा॥३०७॥

३६३.००१. <३६३>पङ्केनापि जलेनापि नश्येयू रजसापि वा।
३६३.००२. एतेषां भूमिकम्पानां प्रशस्ता जलकम्पिताः॥३०८॥
३६३.००३. वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।
३६३.००४. सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥३०९॥
३६३.००५. दृश्यते कपिला संध्या चन्द्रसूर्यौ तु लोहितौ।
३६३.००६. लक्षणं तादृशं दृष्ट्वा जानीयाद्वायुकम्पितान्॥३१०॥
३६३.००७. ततो भवति निर्देशो महर्षेर्वचनं यथा।
३६३.००८. न तत्र प्रवसेत्प्राज्ञ आत्मानं चात्र गोपयेत् ॥३११॥
३६३.००९. गुह्यमावरणं कुर्यात्प्राकारपरिखां खनेत् ।
३६३.०१०. प्रातिसीमा विरुध्यन्ते नराणां जायते भयम्॥३१२॥
३६३.०११. एतेषां भूमिकम्पानां सर्वेषां कीर्तिता गुणाः।
३६३.०१२. विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥३१३॥
३६३.०१३. कम्पितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।
३६३.०१४. सप्ताहाभ्यन्तरात्तत्र उल्कापाताः सुदारुणाः॥३१४॥
३६३.०१५. संध्या च लोहिता भाति चन्द्रसूर्यौ तु लोहितौ।
३६३.०१६. लक्षणं तादृशं दृष्ट्वा विज्ञेया अग्निकम्पिताः॥३१५॥
३६३.०१७. अग्निर्दहति काष्ठानि रक्षितानि धनानि च्
३६३.०१८. दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशम्॥३१६॥
३६३.०१९. वीणाश्च दिवि दृश्यन्ते नव मासान्न वर्षति।
३६३.०२०. एतेषां भूमिकम्पानां जघन्या अग्निकम्पिताः॥३१७॥
३६३.०२१. जयति अहनि पूर्वे क्षत्रियान् पार्थिवांश्च हयगजरथमुख्यान्मन्त्रिणो मध्यमाह्न्
३६३.०२३. व्यथयति अपराह्णे गोपशून् वैश्यशूद्रान् प्रदहति निशिसंध्या तस्करानन्तवासान्॥३१८॥
३६३.०२५. रजनिमिह प्रदोषे हिंसते म्लेच्छसंघान् स्त्रियमपि च नपुंसश्चार्धरात्रेष्वनन्तान्।
३६३.०२७. कृषिवणिगुपजीव्यान् हन्ति यामे तृतीये व्यथयति सुरपक्षं रौद्रकर्मान्तकृष्ण् ।३१९॥
३६३.०२९. प्रदहति शशिपक्षे याज्ञिकं ब्रह्मक्षत्र श्रपयति शुचिवृत्तानेव धर्मे प्रधानान्।
३६३.०३१. विदुषि च मृदुभावं विन्दते यो ह्यधीते स भवति नृपपूज्यो ब्राह्मणो वेददर्शी॥३२०॥

३६४.००१. <३६४>बृहस्पतेश्च चत्वारि समानि शुभकर्मणा।
३६४.००२. चत्वारि सूर्यकर्माणि तुल्यानि शुक्रकर्मणा।
३६४.००३. सोमकर्माणि चत्वारि ब्रह्मकर्म च तत्समम्॥३२१॥
३६४.००४. अयं भोः पुष्करसारिन् भूमिकम्पनिर्देशो नामाध्यायः॥
३६४.००५. अथ भोः पुष्करसारिन्नभिषामष्टाविंशतीनां नक्षत्राणां रोगोत्पत्तिं नामाध्यायं व्याख्यामि।
३६४.००६. तच्छ्रूयताम्।
३६४.००६. कथयतु भगवान्--
३६४.००७. कृत्तिकासूत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६४.००८. चतूरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२२॥
३६४.००९. अग्निर्हि देवता तत्र दध्ना ह्यस्य बलिं हरेत् ।
३६४.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३२३॥
३६४.०११. रोहिण्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६४.०१२. पञ्चरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२४॥
३६४.०१३. देवः प्रजापतिस्तत्र शुद्धमाल्यैर्बलिं हरेत् ।
३६४.०१४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३२५॥
३६४.०१५. व्याधिर्मृगशिरोभूतः स्त्रिया वा पुरुषस्य वा।
३६४.०१६. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२६॥
३६४.०१७. सोमो हि देवता तत्र मण्डेन तु बलिं हरेत् ।
३६४.०१८. अनेन बलिदानेन तस्माद्रोगाद्विमुच्यत् ।३२७॥
३६४.०१९. आर्द्रायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६४.०२०. दशरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३२८॥
३६४.०२१. रुद्रो हि देवता तत्र पायसेन बलिं हरेत् ।
३६४.०२२. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३२९॥
३६४.०२३. पुनर्वसौ भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६४.०२४. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३३०॥
३६४.०२५. आदित्यो देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६४.०२६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३३१॥
३६४.०२७. पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६४.०२८. स्तोककालं भवेत्तस्य पञ्चरात्राद्विमुच्यत् ।३३२॥
३६४.०२९. देवो बृहस्पतिस्तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६४.०३०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३३३॥

३६५.००१. <३६५>आश्लेषायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.००२. न तं वैद्याश्चिकित्सन्तु सर्पस्तत्र तु दैवतः॥३३४॥
३६५.००३. मघासमुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.००४. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३३५॥
३६५.००५. पितरो देवतास्तत्र कृसरेण बलिं हरेत् ।
३६५.००६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३३६॥
३६५.००७. पूर्वफाल्गुनिजो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.००८. सप्तरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३३७॥
३६५.००९. अर्यमा देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६५.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुचय्त् ।३३८॥
३६५.०११. उत्तरायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.०१२. न तं वैद्याश्चिकित्सन्तु भगोऽप्यत्र तु देवता॥३३९॥
३६५.०१३. हस्तेनाप्युत्थितो व्याधिः स्त्रिया वा पुरुषस्य व्
३६५.०१४. पञ्चरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३४०॥
३६५.०१५. रविर्हि देवता तत्र गन्धपुष्पैर्बलिं हरेत् ।
३६५.०१६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४१॥
३६५.०१७. चित्रायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.०१८. अष्टरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३४२॥
३६५.०१९. त्वष्टा हि देवता तत्र घृतमुद्गैर्बलिं हरेत् ।
३६५.०२०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४३॥
३६५.०२१. स्वात्यां समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य्
३६५.०२२. क्लेशितो हि भवेद्व्याधिः पञ्चविंशतिरात्रिकः॥३४४॥
३६५.०२३. देवतात्र भवेद्वायुश्चित्रमाल्यैर्बलिं हरेत् ।
३६५.०२४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४५॥
३६५.०२५. विशाखायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.०२६. गुरुकोऽसौ भवेद्व्याधिरहान्येकोनविंशतिः॥३४६॥
३६५.०२७. इन्द्राग्नी देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६५.०२८. अनेन बलिकर्मेण तस्माद्रोगाद्विमुचय्त् ।३४७॥
३६५.०२९. अनुराधोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६५.०३०. अर्धमासं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३४८॥

३६६.००१. <३६६>मित्रो हि देवता तत्र घृतपात्रं बलिं हरेत् ।
३६६.००२. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३४९॥
३६६.००३. ज्येष्ठायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.००४. क्लेशिको हि भवेद्व्याधिरहोरात्रत्रयोदश् ।३५०॥
३६६.००५. इन्द्रो हि देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६६.००६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५१॥
३६६.००७. मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.००८. मासिको हि भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३५२॥
३६६.००९. नैऋतिर्देवता तत्र मद्यमांसैर्बलिं हरेत् ।
३६६.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५३॥
३६६.०११. पूर्वाषाढे भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.०१२. सांक्लेशिको भवेद्व्याधिरष्टौ मासान्न संशयः॥३५४॥
३६६.०१३. आपो हि देवतास्तत्र कृसरेण बलिं हरेत् ।
३६६.०१४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५५॥
३६६.०१५. उत्तरायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.०१६. सप्तरात्रं भवेत्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३५६॥
३६६.०१७. विश्वो हि देवता तत्र पायसेन बलिं हरेत् ।
३६६.०१८. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५७॥
३६६.०१९. अभिजिदुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.०२०. षण्मासान् संभवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३५८॥
३६६.०२१. विष्णुश्च देवता तत्र दधिमण्डं बलिं हरेत् ।
३६६.०२२. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३५९॥
३६६.०२३. श्रवणेनोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.०२४. गुरुको हि भवेद्व्याधिः पूर्णं द्वादशमासिकम्॥३६०॥
३६६.०२५. विष्णुर्हि देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६६.०२६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६१॥
३६६.०२७. धनिष्ठायां भवेद्व्याधिः स्त्रिया वा पुरुषस्य वा।
३६६.०२८. त्रयोदशदिवस्तत्र ततश्चोर्ध्वं विमुच्यत् ।३६२॥
३६६.०२९. वरुणो देवता तत्र पायसेन बलिं हरेत् ।
३६६.०३०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६३॥

३६७.००१. <३६७>पूर्वभद्रोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६७.००२. न तं वैद्याश्चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥३६४॥
३६७.००३. उत्तराभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६७.००४. सप्तरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यत् ।३६५॥
३६७.००५. अर्यमा देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६७.००६. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६६॥
३६७.००७. रेवत्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६७.००८. मृदुको हि भवेद्व्याधिरष्टाविंशतिरात्रिकः॥३६७॥
३६७.००९. पूषा हि देवता तत्र गन्धमाल्यैर्बलिं हरेत् ।
३६७.०१०. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३६८॥
३६७.०११. अश्विन्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६७.०१२. सांक्लेशिको भवेद्व्याधिः पञ्चविंशतिरात्रिकः॥३६९॥
३६७.०१३. गन्धर्वो देवता तत्र यावकेन बलिं हरेत् ।
३६७.०१४. अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यत् ।३७०॥
३६७.०१५. भरण्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
३६७.०१६. न तं वैद्याश्चिकित्सन्तु यमस्तत्र तु दैवतः।
३६७.०१७. शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥३७०॥
३६७.०१८. अयं भोः पुष्करसारिन् व्याधिसमुत्थानो नामाध्यायः॥
३६७.०१९. अयं खलु भोः पुष्करसारिन् बन्धननिर्मोक्षं नामाध्यायं व्याख्यास्यामि।
३६७.०१९. तच्छ्रूयताम्।
३६७.०२०. कथयतु भगवान्--
३६७.०२१. कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतीति वक्तव्यः।
३६७.०२१. रोहिण्यां बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतीति।
३६७.०२२. मृगशिरसि बद्धो वा रुद्धो वा एकविंशतिरात्रेण मोक्ष्यतीति।
३६७.०२३. आर्द्रायां बद्धो वा रुद्धो वा अर्धमासेन मोक्ष्यतीति।
३६७.०२३. पुनर्वस्सौ रुद्धो वा बद्धो वा सप्तरात्रेण्
३६७.०२४. पुष्ये त्रिरात्रेण्
३६७.०२४. आश्लेषायां त्रिंशद्रात्रेण्
३६७.०२४. मघासु षोडशरात्रेण्
३६७.०२४. पूर्वफाल्गुनीषु दशरात्रेण्
३६७.०२५. विशाखायां षड्विंशद्रात्रेण्
३६७.०२६. अनुराधायामेकत्रिंशद्रात्रेण्
३६७.०२६. ज्येष्ठायामष्टादशरात्रेण्
३६७.०२७. अभिजिति षड्रात्रेण्
३६७.०२७. पूर्वाषाढायां चतुर्दशरात्रेण्
३६७.०२७. उत्तराषाढायां चतुर्दशरात्रेण्
३६७.०२८. अभिजिति षड्रात्रेण्
३६७.०२८. श्रवणे धनिष्ठायां शतभिषायां पूर्वभाद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्दशरात्रेण्
३६७.०२९. अश्विन्यां त्रिरात्रेण्
३६७.०२९. भरण्यां बद्धो वा रुद्धो वा परिक्लेशमावाप्स्यतीति वक्तव्यः॥
३६७.०३१. अयं भोः पुष्करसारिन् बन्धननिर्मोक्षो नामाध्यायः॥
३६७.०३२. अथ भोः पुष्करसारिंस्तिलकाध्यायं व्याख्यास्यामि।
३६७.०३२. तच्छ्रूयताम्।
३६७.०३२. कथयतु भगवान्--

३६८.००१. <३६८>मूर्ध्नि तु यस्यास्तिलकोऽस्ति सूक्ष्मः क्निग्धो भवेत्पद्मसमानवर्णः।
३६८.००३. राजा तु तस्या भवतीह भर्ता स्तनोपरिष्टात्प्रतिबिम्बमाहुः॥३७२॥
३६८.००५. शीर्षे तु यस्यास्तिलकालकः स्यात्सूक्ष्मो भवेदञ्जनचूर्णवर्णः।
३६८.००७. सेनापतिस्तस्या भवेद्धि भर्ता स्तनान्तरेऽस्याः प्रतिबिम्बकं स्यात् ॥३७३॥
३६८.००९. भ्रुवोन्तरेऽस्यास्तिलकालकः स्याद्दुश्चारिणीं तां प्रमदां वदन्ति।
३६८.०११. पञ्चैव तस्याः पतयो भवन्ति बह्वन्नपानं लभते नारी॥३७४॥
३६८.०१३. गण्डस्य नासादिकमध्यदेशे भवेच्च बिम्बं तिलकस्य यस्याः।
३६८.०१५. तां शोकभाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बमाहुः॥३७५॥
३६८.०१७. कर्णे तु यस्यास्तिलकालकः स्याद्बहुश्रुतां तां प्रमदां वदन्ति।
३६८.०१९. बहुश्रुतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात् ॥३७६॥
३६८.०२१. यस्योत्तरोष्ठे तिलकालकः स्यात्तां भिन्नसत्यां प्रमदां वदन्ति।
३६८.०२३. कृच्छ्रेण सा वै लभते हि वृत्तिमूरौ तु तस्यास्तिलबिम्बमाहुः॥३७७॥
३६८.०२५. यस्याधरोष्ठे तिलकालकः स्याद्दुश्चारिणीं तां प्रमदां वदन्ति।
३६८.०२७. मिष्टान्नपानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात् ॥३७८॥
३६८.०२९. चिबुके तु यस्यास्तिलकालकः स्याद्दुश्चारिणीं तां प्रमदां वदन्ति।
३६८.०३१. मिष्टान्नपानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात् ॥३७९॥
३६८.०३३. अयं भो पुष्करसारिंस्तिलकाध्यायो नामाध्यायः॥

३६९.००१. <३६९>अथ खलु भोः पुष्करसारिन्नक्षत्रजन्मगुणं नामाध्यायं व्याख्यास्यामि।
३६९.००१. तच्छ्रूयताम्।
३६९.००२. कथयतु भवांस्त्रिशङ्को--
३६९.००३. कृत्तिकासु नरो जातस्तेजस्वी प्रियसाहसः।
३६९.००४. भवेच्छूरस्तथा चण्डः प्रियवादी च मानवः॥३८०॥
३६९.००५. रोहिण्यां पुरुषो जातो धनवान् धार्मिकस्तथा।
३६९.००६. व्यवसायी स्थिरः शूरो ध्रुवं चास्य सदा सुखम्॥३८१॥
३६९.००७. जातो मृगशिरे यस्तु मृदुः सौम्यस्तु मानवः।
३६९.००८. दर्शनीयो भवेच्चासौ स्त्रीकान्तस्तु विशेषतः॥३८२॥
३६९.००९. आर्द्राजातस्तु हिंसात्मा चण्डः परमजल्पकः।
३६९.०१०. रौद्रकर्मा भवेच्चासावीश्वरश्च शतैर्महान्॥३८३॥
३६९.०११. जातः पुनर्वसौ यस्तु ह्यलोलो बुद्धिमान्नरः।
३६९.०१२. धर्मशीलो भवेच्चासौ जातक्रोधश्च मानवः॥३८४॥
३६९.०१३. पुष्येण पुरुषो जातस्तेजस्वी ब्राह्मणो भवेत् ।
३६९.०१४. क्षत्रियश्च भवेद्राजा वैश्यशूद्रौ च पूजितौ॥३८५॥
३६९.०१५. श्वसनः क्रोधनः क्रूतो ह्याश्लेषासम्भवो नरः।
३६९.०१६. दुर्मनुष्यश्च चण्डश्च इति सर्वमिहादिशेत् ॥३८६॥
३६९.०१७. बहुप्रज्ञः श्राद्धकरो बहुभाग्यस्तथैव च्
३६९.०१८. धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत् ॥३८७॥
३६९.०१९. पूर्वफाल्गुनीजातस्तु यः कश्चित्पुरुषो भवेत् ।
३६९.०२०. अधर्मबुद्धिशीलश्च गुरुदाराभिमर्दकः॥३८८॥
३६९.०२१. उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।
३६९.०२२. दिव्यज्ञानश्च विज्ञाने पुरुषः सुभगो भवेत् ॥३८९॥
३६९.०२३. हस्ते जातश्च शुद्धात्मा विक्रान्तो मृदुभोजनः।
३६९.०२४. सेनापत्यं च कुरुतेऽस्तेयकर्मा भवेदसौ॥३९०॥
३६९.०२५. चत्रासु जातश्चित्राक्षस्तथा चित्रकथाकरः।
३६९.०२६. दर्शनीयो बहुस्त्रीकश्चित्रशीलो भवेन्नरः॥३९१॥
३६९.०२७. स्वात्यां च पुरुषो जातो बन्धुश्लाघी विचक्षणः।
३६९.०२८. मृदुकः पानशौण्डश्च मित्रकारी विचारवान्॥३९२॥
३६९.०२९. विशाखासु नरो जातस्तेजस्वी द्रव्यवान्महान्।
३६९.०३०. शूरो विक्रमवान् दक्षः सुभगश्च भवेदसौ॥३९३॥
३६९.०३१. अनुराधोद्भवो मर्त्यो मित्रवान् संग्रही नरः।
३६९.०३२. शुचिश्चैव कृतज्ञश्च धर्मात्मा च भवेच्च सः॥३९४॥

३७०.००१. <३७०>ज्येष्ठासु पुरुषो जातो मित्रवानभिजायत्
३७०.००२. धनुर्वेदाभिरामश्च नारीषु कुरुते मनः॥३९५॥
३७०.००३. मूलेषु पुरुषो जातोऽकृतज्ञः स्यादधार्मिकः।
३७०.००४. दृढो वीरो भवेच्चासौ किल्बिषी च स मानवः॥३९६॥
३७०.००५. आषाढासु च पूर्वासु मत्सरी चलितेन्द्रियः।
३७०.००६. मत्स्यमांसप्रियश्चापि घातकः स्यात्स मानवः॥३९७॥
३७०.००७. सानुक्रोशश्च दाता च विद्यानिष्ठः सुहृज्जनः।
३७०.००८. विश्वदैवे नरो जातो भवेदपि च निश्चितः॥३९८॥
३७०.००९. आचार्यः शास्त्रकर्ता च विश्च्वासी च क्रियापरः।
३७०.०१०. श्रवणे जात आयुष्माञ्श्रीमांश्च पुरुषो भवेत् ॥३९९॥
३७०.०११. अनवस्थितचित्तश्च चित्रद्रव्यश्च मानवः।
३७०.०१२. धनिष्ठासु भवेज्जातः पुरुषः सर्वशङ्कितः॥४००॥
३७०.०१३. वारुणे यदि नक्षत्रे जातो भवति मानवः।
३७०.०१४. पुरुषो द्वेषशीलश्च परिवादी च सर्वशः॥४०१॥
३७०.०१५. जातो भाद्रपदायां तु पूर्वस्यामिह मानवः।
३७०.०१६. चारित्रगुणयुक्तश्च कृतज्ञो मुखरस्तथा॥४०२॥
३७०.०१७. उत्तरस्यां नरो जातो भविष्यति विचक्षणः।
३७०.०१८. मेधावी बह्वपत्यश्च धर्मशीलो महाधनः॥४०३॥
३७०.०१९. रेवत्यां पुरुषो जातो धर्मात्मा ज्ञातिसेवकः।
३७०.०२०. दरिद्रोऽल्पधनो नित्यं दायको नानसूयकः॥४०४॥
३७०.०२१. अश्विन्यां पुरुषो जातो भवत्यतिविचक्षणः।
३७०.०२२. महाजनप्रियश्चापि शूरश्च सुभगश्च सः॥४०५॥
३७०.०२३. भरण्यां पुरुषो जातः पापाचारोऽविचक्षणः।
३७०.०२४. कन्दर्पे दातुकामश्च परतश्चोपजीवकः॥४०६॥
३७०.०२५. अयं भोः पुष्करसारिन्नक्षत्रजन्मगुणो नामाध्यायः॥

३७१.००१. <३७१>पठ भोस्त्रिशङ्को उत्पातचक्रं नामाध्यायम्।
३७१.००१. कथयति च--
उत्पातचक्रनिर्देशः।
३७१.००२. अष्टाविंशतिपर्यन्तकृत्स्ने नक्षत्रमण्डल्
३७१.००३. दिव्या विकारा दृश्यन्ते सूर्यचन्द्रग्रहादिषु॥४०७॥
३७१.००४. माघस्य प्रथमे पक्षे शैलो वा पार्थिवो यदि।
३७१.००५. धूमवृष्टिर्हि आदित्ये उदयति प्रदृश्यत्
३७१.००६. विद्युतो वाथ दृश्यन्ते तदा विद्याज्जनक्षयम्॥४०८॥
३७१.००७. अश्विन्याअमर्कतो धूमो निर्गच्छन्नपि च्छादयेत् ।
३७१.००८. अनावृष्टिं तदा विद्यात्पूर्णवर्षाणि द्वादश् ।४०९॥
३७१.००९. भरण्यां माघमासे तु पीतसूर्योऽथ दृश्यत्
३७१.०१०. समन्ताद्वध्यते राष्ट्रं मध्ये दुर्भिक्षमादिशेत् ॥४१०॥
३७१.०११. फाल्गुने कृत्तिकायां तु आदित्ये परिखो यदि।
३७१.०१२. नश्यन्ति कर्वटास्तत्र यदि देवो न वर्षति॥४११॥
३७१.०१३. चैत्रमासे यदा पुष्ये सूर्ये कृष्णं प्रदृश्यत्
३७१.०१४. अचिरोदयकाले तु क्षितिपालोऽवरुध्यत् ।४१२॥
३७१.०१५. वैशाखमासे चार्द्रायामादित्यः प्रतिसूर्यकः।
३७१.०१६. संग्रामं तत्र जानीयादुभौ घात्येते पार्थिवौ॥४१३॥
३७१.०१७. गृह्येतां चन्द्रसूर्यौ वा ज्यैष्टे भरणिज्येष्ठयोः।
३७१.०१८. सामात्यो वध्यते राजा राष्ट्रे दुर्भिक्षमादिशेत् ॥४१४॥
३७१.०१९. आषाढे च यदादित्ये पूर्वभाद्रपदे स्थित्
३७१.०२०. सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले व्रणः॥४१५॥
३७१.०२१. परचक्रेण तद्राष्ट्रं षण्मासान् पीड्यते तदा।
३७१.०२२. क्षितिपालश्च सामात्यः पुत्रदारेण वध्यत् ।४१६॥
३७१.०२३. पूर्वायां चोत्तराषाढायामाषाढे गृह्यते शशी।
३७१.०२४. विद्याद्दुर्भिक्षकलहरोगांश्चात्र विनिर्दिशेत् ॥४१७॥
३७१.०२५. मासेऽथ श्रावणे मूले चन्द्रसूर्यौ न भासतः।
३७१.०२६. स्फुलिङ्गाश्चात्र दृश्यन्ते विद्याद्रोगभयं महत् ॥४१८॥
३७१.०२७. मासेऽश्वयुजि गृह्येतामेकपक्षेन्दुभास्करौ।
३७१.०२८. राजपुत्रसहस्राणां तदा जायेत्संक्षयः॥४१९॥
३७१.०२९. अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्तिक्
३७१.०३०. चन्द्रसूर्यावग्निवर्णौ रक्तवर्णे नभस्तल् ।४२०॥

३७२.००१. <३७२>रविवद्भाति तद्राष्ट्रं विनश्येत पुनः पुनः।
३७२.००२. राज्ञां विद्याद्धतानां वै भूमिः पास्यति शोणितम्॥४२१॥
३७२.००३. भरण्यं माघमासे तु कृष्णो वायुः समुत्थितः।
३७२.००४. छादयेच्चन्द्रसूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥४२२॥
३७२.००५. मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतम्।
३७२.००६. वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथापर् ।४२३॥
३७२.००७. सहादित्येन चन्द्रेऽथ यदा कश्चिद्ग्रहश्चरेत् ।
३७२.००८. वायुर्वा विषमो वाति विद्याद्राजवधं तदा॥४२४॥
३७२.००९. अशन्युल्के तु वैशाखे आदित्येन सहोत्थित्
३७२.०१०. षण्मासाभ्यन्तरेणाथ राष्ट्रे व्यसनमादिशेत् ॥४२५॥
३७२.०११. ज्येष्ठमासे यदादित्यो ग्रहतो निर्गतो भवेत् ।
३७२.०१२. आदित्यस्योपघातेन ग्रहाः सर्वेऽथ पीडिताः॥४२६॥
३७२.०१३. ज्येष्ठे च पांशुवर्षेत आदित्यः परिविष्यत्
३७२.०१४. क्षितिपालसहस्राणामेक एकस्तु वध्यत् ।४२७॥
३७२.०१५. आषाढे वायवो वान्ति गच्छन्तो भरणीस्थिताः।
३७२.०१६. उदपानाति शुष्यन्ते सर्वशस्यं च पुष्यति॥४२८॥
३७२.०१७. श्रावणे वायवः पीताः सदा कृष्णं नभस्तलम्।
३७२.०१८. भयं तत्र विजानीयात्समन्तात्समुपस्थितम्॥४२९॥
३७२.०१९. श्रावणे वर्षते ह्यग्निः पूर्वभाद्रपदे दिवा।
३७२.०२०. मेघाः शब्दमुत्कुर्वन्ति रोगदुर्भिक्षमादिशेत् ॥४३०॥
३७२.०२१. यदा भाद्रपदे मासे नभः स्याच्छन्नगर्जितम्।
३७२.०२२. परचक्रं तदा राष्ट्रे हरते धनसंचयम्॥४३१॥
३७२.०२३. अश्वयुजि वातवृष्टिः स्यादागत्योत्तरां दिशम्।
३७२.०२४. पातयेच्चैवमाघातं कृत्स्नं राष्ट्रं विनश्यति॥४३२॥
३७२.०२५. कार्तिके शुक्लत्रयोदश्यां यदा चन्द्रे धनुर्भवेत् ।
३७२.०२६. समन्तान्नश्यते राष्ट्रं मध्ये दुर्भिक्षमादिशेत् ॥४३३॥
३७२.०२७. उल्कापाता ह्यशनयो माघमासे भवन्ति वा।
३७२.०२८. अश्विन्यां विषये तत्र प्रजा श्वासेन वध्यत् ।४३४॥
३७२.०२९. मासे तु फाल्गुने यत्र अग्निवर्षं नभस्तलात् ।
३७२.०३०. भवेच्छब्दस्तदाकाशे तद्राष्ट्रं नश्यते लघु॥४३५॥
३७२.०३१. स्वात्यां चैत्रे यदा वर्षं निरुद्धं वातवर्षितम्।
३७२.०३२. दृश्यतेन्द्रधनुः क्षिप्रं नगरं तद्विनश्यति॥४३६॥

३७३.००१. <३७३>भरण्यां ज्येष्ठमासे तु शब्द उत्तरतो भवेत् ।
३७३.००२. पीतवर्णं तदाकाशं परचक्रभयं भवेत् ॥४३७॥
३७३.००३. आषाढे मासि पुण्येऽथ दृश्यन्ते व्योंनि विद्युतः।
३७३.००४. सतृणोदकवृष्टिभिस्त्रिभागं मुच्यते प्रजा॥४३८॥
३७३.००५. श्रावणे तु यदा मूले बहु देवः प्रवर्षति।
३७३.००६. दृश्यतेन्द्रधनुस्तत्र क्षत्रियाणां महद्भयम्॥४३९॥
३७३.००७. मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।
३७३.००८. सुकृच्छ्रा वायवो वान्ति महद्रोगभयं तदा॥४४०॥
३७३.००९. मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद्ध्वनिः।
३७३.०१०. क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु तदा प्रजा॥४४१॥
३७३.०११. भरण्यामश्वयुजे शब्द उपरिष्टाद्भवेद्यदि।
३७३.०१२. सतृणं चोत्सृजेत्पांशु तापसानां महद्भयम्॥४४२॥
३७३.०१३. कार्तिके तु यदार्द्रायां शब्दः श्रूयेत भैरवः।
३७३.०१४. चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत् ॥४४३॥
३७३.०१५. मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत् ।
३७३.०१६. वातातुरस्तदा राष्ट्रे व्याधिर्भवति दारुणः॥४४४॥
३७३.०१७. पौषमासे यदा स्वात्यां शब्दो भवति भैरवः।
३७३.०१८. अभीक्ष्णं विंद्युदाकाशे पण्डितानां महद्भयम्॥४४५॥
३७३.०१९. माघे शुक्ले तु निर्घातो नित्यं शाम्येद्वसुंधराम्।
३७३.०२०. जानीयात्तृतीये वर्षे सकलं राष्ट्रविभ्रमम्॥४४६॥
३७३.०२१. ज्येष्ठायां फाल्गुने मासे कृष्णवायुः समाकुलः।
३७३.०२२. अभीक्ष्णं कम्पते भूमिर्ब्रह्मचारिभयं तदा॥४४७॥
३७३.०२३. पूर्वभाद्रपदायां तु चैत्रे कम्पेत्क्षितिर्दिवा।
३७३.०२४. तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान्महद्भयम्॥४४८॥
३७३.०२५. पूर्वायां चेदाषाढायां रात्रौ चैत्रे च निश्चलेत् ।
३७३.०२६. असिभिर्हन्यते राजा हन्यते च महाजनः॥४४९॥
३७३.०२७. वैशाखे कम्पिता भूमिः कृष्णपक्षे ह्यभीक्ष्णशः।
३७३.०२८. अनावृष्ट्या तु दुर्भिक्षं मासान् षट्तत्र निर्दिशेत् ॥४५०॥
३७३.०२९. ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद्वसुंधरा।
३७३.०३०. विद्याद्योधसहस्राणां मही पास्यति शोणितम्॥४५१॥
३७३.०३१. ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पत्
३७३.०३२. प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत् ॥४५२॥

३७४.००१. <३७४>आषाढे कम्पते भूमिः पुष्यनक्षत्रसंस्थित्
३७४.००२. शस्यं विनश्यते तत्र कलिकर्म च जायत् ।४५३॥
३७४.००३. प्रकम्पन्ते यदा चैत्या आर्द्रायां वा मघासु वा।
३७४.००४. ज्वलेयुः प्रपतेयुर्वा नश्येद्राष्ट्रं तदा लघु॥४५४॥
३७४.००५. चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च्
३७४.००६. सराष्ट्रः क्षितिपस्तत्र नचिरान्नाशमर्च्छति॥४५५॥
३७४.००७. श्रावणे कम्पते भूमिः पूर्वभाद्रपदास्थित्
३७४.००८. सदा पराजितो राजा चौरै राष्ट्रे च वध्यत् ।४५६॥
३७४.००९. कार्तिके क्षितिकम्पेन यदा चैत्यं विशीर्यत्
३७४.०१०. द्वारं वा नगरस्याथ भूयिष्ठं नश्यते प्रजा॥४५७॥
३७४.०११. वामे वा दक्षिणे चेन्दोः शृङ्गे तिष्ठेद्बृहस्पतिः।
३७४.०१२. महाभोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः॥४५८॥
३७४.०१३. सूर्याचन्द्रमसोः शृङ्गे लोहिताङ्गो यदारुहेत् ।
३७४.०१४. श्रूराक्षमन्त्रिकात्पीडां प्रत्यन्तानां विनिर्दिशेत् ॥४५९॥
३७४.०१५. शनैश्चरो यदा शृङ्गे सोमस्याभिरुहेत्तदा।
३७४.०१६. ज्ञेयं रोगभयं घोरं दुर्भिक्षं चात्र निर्दिशेत् ॥४६०॥
३७४.०१७. राहुणा निगृहीतस्तु चोल्कया हन्यते शशी।
३७४.०१८. षण्मासाभ्यन्तरात्तत्र राज्ञो व्यसनमादिशेत् ॥४६१॥
३७४.०१९. यस्य चैवाथ नक्षरे शशी सूर्यो विगृह्यत्
३७४.०२०. राहुणा क्षितिपो राज्यैः सह पीडामवाप्नुयात् ॥४६२॥
३७४.०२१. राज्ञो वै चाथ नक्षत्रे चन्द्रं केतुर्यदा विशेत् ।
३७४.०२२. प्रत्यन्तराजभिः सार्धं शस्त्रमूर्च्छां विनिर्दिशेत् ॥४६३॥
३७४.०२३. चन्द्रमध्यगतः शुक्रः फाल्गुन्याथ मघा यदा।
३७४.०२४. सर्वधान्यानि शुष्येयुस्तदा रोगं विनिर्दिशेत् ॥४६४॥
३७४.०२५. बृहस्पतिश्च शुक्रश्च लोहिताङ्गः शनैश्चरः।
३७४.०२६. लिख्यन्ति सोमशृङ्गस्य तदा विद्यान्महद्भयम्॥४६५॥
३७४.०२७. धूमकेतुर्महाभागः पुष्यमारुह्य तिष्ठति।
३७४.०२८. चतुर्दिशं तदा विद्यात्परचक्रैः प्राभवम्॥४६६॥
३७४.०२९. मघायां लोहिताङ्गो वा श्रवणे वा बृहस्पतिः।
३७४.०३०. तिष्ठेत्संवत्सरस्त्रीणि भयं विद्यात्समागतम्॥४६७॥
३७४.०३१. तिष्ठेच्छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन्
३७४.०३२. व्याकुर्यान्नियतमत्र क्षत्रियाणां महद्भयम्॥४६८॥

३७५.००१. <३७५>विशाखायां समीपस्थौ बृहस्पतिशनैश्चरौ।
३७५.००२. सोमो वा रविणा सार्धं परचक्रभयं तदा॥४६९॥
३७५.००३. काकाः श्येनाश्च गृध्राश्च वसेयुः सहिता मुदा।
३७५.००४. मैथुनं वारितं वेयुः परैः सह रणस्तदा॥४७०॥
३७५.००५. श्येनो हस्तिनिवासे वा अभिरोहेत्पुनः पुनः।
३७५.००६. परचक्रेण युद्धं तु भवेच्चापि पुनः पुनः॥४७१॥
३७५.००७. कन्या प्रसूयते यत्र चतुर्हस्ता चतुःस्तनी।
३७५.००८. स्त्रीणामेव भवेत्तत्र मरणं ह्यतिदारुणम्॥४७२॥
३७५.००९. गर्भस्था दारका यत्र हसन्ति च वदन्ति च्
३७५.०१०. तस्य देशस्य जानीयाद्विनाशं समुपस्थितम्॥४७३॥
३७५.०११. एकपादांस्त्रिपादांश्च चतुरङ्गांस्तथैव च्
३७५.०१२. नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनमादिशेत् ॥४७४॥
३७५.०१३. सूयन्ते विकृतान् गर्भान् संतानान् भयव्यञ्जनान्।
३७५.०१४. प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥४७५॥
३७५.०१५. लघुहस्तशीर्षमुखान्मानुषं कायमाश्रितान्।
३७५.०१६. प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥४७६॥
३७५.०१७. खराश्च महिषाश्चापि पशवोऽथ तथाविधाः।
३७५.०१८. द्वित्रिशीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥४७७॥
३७५.०१९. शृगालश्वानमकरहयरूपाश्च मानवाः।
३७५.०२०. जायन्ते यत्र देशे तु स देशो लघु नश्यति॥४७८॥
३७५.०२१. पादावुभौ यदा वैश्या गुर्विणी संप्रसूयत्
३७५.०२२. देशस्य विलयं ब्रूयात्परचक्रेण दारुणम्॥४७९॥
३७५.०२३. पूर्वार्धः पक्षिनरयोर्गर्भो यत्र प्रसूयत्
३७५.०२४. राजा वा राजामात्यो वा सह देशेन नश्यति॥४८०॥
३७५.०२५. कुम्भाण्डो जायते यत्र द्विमुखोऽथ चतुर्मुखः।
३७५.०२६. त्रिनेत्रस्त्रिमुखो वापि विद्यात्तत्र महद्भयम्॥४८१॥
३७५.०२७. सौकरेण तु वक्त्रेण शरीरं मानुषं यदि।
३७५.०२८. सूतं चतुर्दिशं राष्ट्रं हन्यात्तत्र न संशयः॥४८२॥
३७५.०२९. आदित्यस्य तु रूपेण मानुषो यत्र जायत्
३७५.०३०. विभ्रमात्सकलं राष्ट्रं विनाशमुपगच्छति॥४८३॥

३७६.००१. <३७६>उत्तानशायी बालस्तु देशे यत्र द्विजोत्तमः।
३७६.००२. दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यति॥४८४॥
३७६.००३. कुक्षिं भित्त्वा यदा बालो गर्भान्निष्क्रमते स्वयम्।
३७६.००४. अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥४८५॥
३७६.००५. गर्भस्थाः सूकरा उष्ट्राः सर्पाश्च शकुनिस्तथा।
३७६.००६. स्त्रीणां गर्भात्प्रसूयन्ते देशे तु भयमादिशेत् ॥४८६॥
३७६.००७. पौरुषं गार्दभं चाथ सौकरं चार्थविग्रहम्।
३७६.००८. गावो यत्र प्रसूयन्ते निर्दिशेद्भयमागतम्॥४८७॥
३७६.००९. नारी गृह्णाति गर्भं वा अदृष्टस्तनरूपिणी।
३७६.०१०. विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत् ॥४८८॥
३७६.०११. जटी दीर्घनखो यत्र सुकृष्णः परुषच्छविः।
३७६.०१२. स जनो जायते यत्र राष्ट्रं साधिपतिं दहेत् ॥४८९॥
३७६.०१३. अग्रीवा दन्तसहिता जायन्ते यत्र बालकाः।
३७६.०१४. शुष्येत सकलं शस्यं जनश्च विलयं व्रजेत् ॥४९०॥
३७६.०१५. एकबाहुरशीर्षोऽथ गर्भो यत्र प्रसूयत्
३७६.०१६. स्वयं क्षुभ्येत तद्राष्ट्रं विनश्येत न संशयः॥४९१॥
३७६.०१७. फले फलं यदा पश्येत्पुष्पे वा पुष्पमाश्रितम्।
३७६.०१८. गर्भाः स्रवेयुर्नारीणां युवराजश्च वध्यत् ।४९२॥
३७६.०१९. अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च्
३७६.०२०. लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत् ॥४९३॥
३७६.०२१. वृक्षोपरिष्टात्पश्येद्वा स्रवन्तमात्मशोणितम्।
३७६.०२२. कूजमानं पतङ्गं वा तदा विद्यान्महद्भयम्॥४९४॥
३७६.०२३. वृक्षाणां मण्डपानां वा छाया न परिवर्तत्
३७६.०२४. चतुर्वर्णभयं तत्र कलिकर्म च जायत् ।४९५॥
३७६.०२५. पुष्प्येयुः पादपा यत्र विविधाः पुष्पजातयः।
३७६.०२६. कल्पवृक्षप्रकृतयस्ततो विद्यान्महद्भयम्॥४९६॥
३७६.०२७. अनावर्तं यदा पुष्पं फलं चापि प्रदृश्यत्
३७६.०२८. विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत् ॥४९७॥
३७६.०२९. स्थानास्थानं गता वृक्षा दृश्येयुर्यत्र कुत्रचित् ।
३७६.०३०. पूर्वप्रतिष्ठितो राजा नचिरेण विचाल्यत् ।४९८॥

३७७.००१. <३७७>दैवासुरं च संग्रामं पश्येदद्भुतदर्शनम्।
३७७.००२. शस्त्रं मूर्च्छयते तत्र तस्करैश्चापि पूर्ववत् ॥४९९॥
३७७.००३. कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यत्
३७७.००४. परचक्रात्तदा विद्यादत्यर्थं तत्पराजयम्॥५००॥
३७७.००५. देवता यत्र देशे तु नृत्यन्ति च हसन्ति च्
३७७.००६. अश्रूणि पातयेयुर्वा तदा विद्यान्महद्भयम्॥५०१॥
३७७.००७. देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।
३७७.००८. चलेयुरथवा यत्र क्षितिपोऽन्यो भवेत्तदा॥५०२॥
३७७.००९. शिवलिङ्गं यदा कम्पेद्गगने वाथ दृश्यत्
३७७.०१०. निमज्जते धरण्यां वा ध्रुवं राजवधो भवेत् ॥५०३॥
३७७.०११. प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च्
३७७.०१२. प्रस्विद्येयुः प्रधावेयुरन्यो राजा भविष्यति॥५०४॥
३७७.०१३. अचलो वा चलेत्स्थानाच्चलं वाप्यचलं भवेत् ।
३७७.०१४. अमात्यो हन्ति राजानं कलहं चात्र निर्दिशेत् ॥५०५॥
३७७.०१५. वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश्
३७७.०१६. अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्भयम्॥५०६॥
३७७.०१७. वर्षते कुसुमं यत्र रक्तबिन्दुमथापि वा।
३७७.०१८. प्राणिनो विविधान् वापि विद्याच्चौरभयं तदा॥५०७॥
३७७.०१९. यूपाः पुराणा निगमा देवागाराणि चेतियाः।
३७७.०२०. नगराण्यथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥५०८॥
३७७.०२१. इन्दुर्वा दीपवृक्षो वा दीपो यत्र न दीप्यत्
३७७.०२२. राज्यकामः कुमारो वा क्षुभ्येद्विटपकोऽपि वा॥५०९॥
३७७.०२३. अन्तःपुरे यदा नीडं कुर्वते मधुमक्षिकाः।
३७७.०२४. अस्त्रं वापि गृहं दह्याद्राज्ञो व्यसनमादिशेत् ॥५१०॥
३७७.०२५. पतेदन्तःपुरे विद्युद्वृक्षो वाप्याश्रमे तथा।
३७७.०२६. पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥५११॥
३७७.०२७. प्राकारे वायुधागारे गोपुरास्थानकेषु वा।
३७७.०२८. वायसः कुरुते नीडं सामात्यो ध्वंसते नृपः॥५१२॥
३७७.०२९. अनाहतेभ्यस्तूर्येभ्यः स्वयं शब्दो विनिश्चरेत् ।
३७७.०३०. स्वचक्रक्षोभदोषेण सर्वं राष्ट्रं विलुप्यत् ।५१३॥

३७८.००१. <३७८>मासशोणितवर्षं वा पत्रपुष्पफलानि वा।
३७८.००२. यदाभिवर्षेत्तद्वर्षं चक्रै राष्ट्रं विलुप्यत् ।५१४॥
३७८.००३. मधुफाणितपुष्पाणि गन्धवर्षाण्यथापि वा।
३७८.००४. दिशो दाहाश्च दृश्येयुर्मारदुर्भिक्षलक्षणम्॥५१५॥
३७८.००५. मेघः समन्ततो गर्जेदुपवर्षेत्सचातकम्।
३७८.००६. शोणितं सकरकं स्यात्तदा विद्यात्पराद्भयम्॥५१६॥
३७८.००७. विद्युच्च पतते घोरा करकाणां च वर्षणम्।
३७८.००८. गन्धर्वनगरं चाथ दृष्ट्वा विद्यान्महद्भयम्॥५१७॥
३७८.००९. शशी शोणितसंकाशो मध्ये कृष्णो विवर्णवान्।
३७८.०१०. सामन्तकेन पीड्यते विद्याद्राष्ट्रे महद्भयम्॥५१८॥
३७८.०११. प्रदीपिताग्निसंकाशो यदा दृश्येत चन्द्रमाः।
३७८.०१२. गगनं दह्यते तत्र लोकपीडा ज्वरेण च् ।५१९॥
३७८.०१३. यदा गैरिकसंकाशः क्षिप्रमेवोपशाम्यति।
३७८.०१४. वर्षणस्यागमो विद्याद्यदि वायुः प्रवायत् ।५२०॥
३७८.०१५. संध्यायां धूम्रवार्णायां दृश्येतेन्दुश्च भास्करः।
३७८.०१६. विच्छिन्नो ब्रह्मरूपेण वर्षं तत्र विनिर्दिशेत् ॥५२१॥
३७८.०१७. नाप्सु मज्जति नाप्यग्नौ पूर्ववच्च न दृश्यत्
३७८.०१८. अग्निरुत्पत्स्यते तत्र कोष्ठागारं दहेत सः॥५२२॥
३७८.०१९. ध्वजाग्रे वायसो यत्र लम्बपक्षो विधावत्
३७८.०२०. उदकं संहरेत्क्षिप्रमग्नितः सुमहद्भयम्॥५२३॥
३७८.०२१. जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयम्।
३७८.०२२. अनावृष्टिं तदा ब्रूयाद्दुर्भिक्षं च महद्भयम्॥५२४॥
३७८.०२३. पुरद्वारे यदागच्छेत्स्वयमारण्यको मृगः।
३७८.०२४. चक्रद्वयेऽपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत् ॥५२५॥
३७८.०२५. त्रिशीर्षः पञ्चशीर्षो वा यदा सर्पोऽथ दृश्यत्
३७८.०२६. अनावृष्ट्या तदा विद्यात्सर्वशस्यं विनश्यति॥५२६॥
३७८.०२७. कुशूलो यत्र दृश्येत कम्पयस्तु वसुंधराम्।
३७८.०२८. कोष्ठागाराणि नश्येयुर्ये चान्ये धनसंचयाः॥५२७॥
३७८.०२९. सर्प उद्यतशीर्षस्तु युध्यते पुरुषैः सह्
३७८.०३०. चक्रद्वयाद्रोगतश्च विद्यात्तत्र महद्भयम्॥५२८॥

३७९.००१. <३७९>बिल एकत्र बहवः सर्पाः सुपरिवेष्टिताः।
३७९.००२. शस्त्रमृत्युं तदा विद्यात्क्षत्रियाणां महद्भयम्॥५२९॥
३७९.००३. निश्चरन्त्यवधानेन खड्गाः प्रज्वलिता यदा।
३७९.००४. ततस्तं नचिरात्पश्येत्संग्रामं प्रत्युपस्थितम्॥५३०॥
३७९.००५. काकः श्येनश्च गृध्रो वा यस्य नीयेत मूर्धनि।
३७९.००६. षण्मासाभ्यन्तरे राजा म्रियते सपुरोहितः॥५३१॥
३७९.००७. प्रासादाश्च प्रकम्पन्ते शरणानि गृहाणि च्
३७९.००८. महाबलं च वध्येत राष्ट्रस्य राजपालकः॥५३२॥
३७९.००९. वज्रोद्धृता दिशः सर्वाः कृष्णपक्षे चतुर्दिशम्।
३७९.०१०. वर्षेयुः शोणितं यत्र क्षितिपालोऽत्र वध्यत् ।५३३॥
३७९.०११. सूर्यस्योदयकाले तु महोल्का निपतेद्यदा।
३७९.०१२. राजपुत्रास्हस्राणां भूमिः पास्यति शोणितम्॥५३४॥
३७९.०१३. वृक्षाः सर्पाः प्रकम्पेयुर्मुच्येयुस्त्वचो वा तथा।
३७९.०१४. सर्वस्मिन्नेव राष्ट्रे तु विद्याच्छत्रुभयं महत् ॥५३५॥
३७९.०१५. दिने ह्युल्काप्रयुक्तिर्वा ज्वलन्ती यदि दृश्यत्
३७९.०१६. रक्तोत्पादं तदा विद्यात्संग्रामं भीमदर्शनम्॥५३६॥
३७९.०१७. असिं प्रज्वलितं प्रश्येत्तोमरं चक्रमेव च्
३७९.०१८. विद्यात्पश्यन्ति शस्त्राणि संग्रामं भीमदर्शनम्॥५३७॥
३७९.०१९. दीर्घमुच्छ्वसते वाश्वहश्रूणि च निपातयेत् ।
३७९.०२०. पादेन कर्षते शीघ्रं युद्धे राजवधो ध्रुवम्॥५३८॥
३७९.०२१. काकश्चेद्गृहमारुह्य हा पुत्र इति वाशति।
३७९.०२२. सर्वः प्रणश्यते देशो नगरग्रामकर्वटः॥५३९॥
३७९.०२३. अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।
३७९.०२४. विनाशं तस्य देशस्य नियमाच्छीघ्रमादिशेत् ॥५४०॥
३७९.०२५. आरवन्ति यदा घोरं मेघा वृकमृगास्तथा।
३७९.०२६. विनाशं तस्य देशस्य विद्याच्छीघ्रमुपस्थितम्॥५४१॥
३७९.०२७. छिन्नस्रोता भवेन्नद्यश्चिरकालवहा अपि।
३७९.०२८. गृहाः शून्योदकेनापि शुष्कास्तत्र भयं भवेत् ॥५४२॥
३७९.०२९. प्रतिस्रोता यदा नद्यो वहन्त्यप्रतिवारिताः।
३७९.०३०. नित्योद्विग्ना जनपदा निर्दिशेच्च जनक्षयम्॥५४३॥

३८०.००१. <३८०>धनूंष्याकृष्यमाणानि धूमायन्ति ज्वलन्ति च्
३८०.००२. अन्यद्वापि प्रहरणं परेभ्यो जायते भयम्॥५४४॥
३८०.००३. मयूरग्रीवसंकाशः परिवेशो निशाकर्
३८०.००४. विद्याद्राजसहस्राणां मही पास्यति शोणितम्॥५४५॥
३८०.००५. नराणां प्रमदानां च रतिहर्षो न जायत्
३८०.००६. सर्वत्र शोकचिन्ता वा महत्तत्र भयं भवेत् ॥५४६॥
३८०.००७. निर्ग्रन्था ऋषयः सन्तो देशात्प्रक्रमेयुर्यतः।
३८०.००८. नदीं भित्त्वा निकुञ्जान् वा स देशो नश्यतेऽचिरात् ॥५४७॥
३८०.००९. यत्रौषध्यश्च विरसा जलं च परिहीयत्
३८०.०१०. विद्याद्देशं तमुत्सृष्टं देवतर्षिसाधुभिः॥५४८॥
३८०.०११. मत्स्याः कूर्माश्च सर्पाश्च म्रियन्ते यत्र जाङ्गलाः।
३८०.०१२. धनस्कन्धः स्त्रियास्तत्र सपत्नैर्विप्रलोप्स्यत् ।५४९॥
३८०.०१३. अपूर्वाः पक्षिणो यत्र स्थले वारिणि एव वा।
३८०.०१४. दृश्येयुः परचक्रेण धनस्कन्धो विलोप्स्यत् ।५५०॥
३८०.०१५. महापथो यदा कक्षैः प्रसृतैरपथो भवेत् ।
३८०.०१६. सग्रामकर्वटं राष्ट्रं पुत्रेण सह नश्यति॥५५१॥
३८०.०१७. नानोत्पातचक्रनिर्देशो नामाध्यायः।
३८०.०१८. पठ भोस्त्रिशङ्को पुरुषपिन्याध्यायम्।
३८०.०१८. अथ किम्।
३८०.०१८. कथयतु भगवान्--अथ खलु भोः पुष्करसारिन् पुरुषपिन्याध्यायं व्याख्यामि।
३८०.०१९. तच्छ्रूयताम्।
३८०.०१९. कथयतु भगवान्--
३८०.०२०. अष्टाविंशतिः पुष्करसारिन्नक्षत्राणि प्रकीर्तितानि, यानि चन्द्रसूर्यनिःसृतान्यनुवहन्ति।
३८०.०२१. तत्र सुकुगृष्ट्या अष्टाङ्गलप्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं दैर्ध्येण ज्ञातव्यम्॥
३८०.०२२. एकाक्षगृष्टिः शीर्षमूर्ध्नि एकपादतलं भवेत् ।
३८०.०२२. चतुर्दशगृष्टयो नक्षत्राणां पदं यत्र संदृश्यन्ते, तदन्यथा न भवति।
३८०.०२३. नक्षत्रे यत्र यो जातस्तत्र तत्र संदृश्यत् ।
३८०.०२४. पुरुषपिन्यः।
३८०.०२५. कृत्तिकायां हि जातस्य मुखे वै चतुरङ्गलः।
३८०.०२६. पिन्यो दक्षिणतो यस्य लोमशः कृष्णलोहितः॥५५२॥
३८०.०२७. भोगवान् यशसा युक्तः पिण्डतो ज्वलति श्रिया।
३८०.०२८. कृत्तिकास्वथ जातस्य भवत्येतद्धि लक्षणम्॥५५३॥
३८०.०२९. दृश्यते व्रण एवायं यस्य वै चतुरङ्गलः।
३८०.०३०. रोहिण्यां जातकः सोऽपि विद्वान् धर्मरतः सदा॥५५४॥
३८०.०३१. मण्डितो भोगसम्पन्नो ह्रीयुक्तश्चापि सर्वतः।
३८०.०३२. शूरो विजयसम्पन्नो नित्यं शत्रुप्रमर्दकः॥५५५॥

३८१.००१. <३८१>ग्रीवायामर्धगृष्ट्या तु दाहो यस्य प्रदृश्यत्
३८१.००२. मृगशीर्षे ह्यसौ जातः शूरो भोगसमर्पितः॥५५६॥
३८१.००३. अर्धद्वितीयगृष्ट्या तु पिन्यो वामे हि यस्य तु।
३८१.००४. आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश्च सः॥५५७॥
३८१.००५. वामे कक्षे व्रणो यस्य कृष्णश्चैव पुनर्वसौ।
३८१.००६. धनधान्यसमृद्धो हि जायते स्वल्पमेधसः॥५५८॥
३८१.००७. तथैव पुष्ये जातोऽसौ दृश्यते वरलकणः।
३८१.००८. चक्रमध्ये च हस्ते च सूर्यश्चन्द्रो विराजत् ।५५९॥
३८१.००९. अर्धप्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।
३८१.०१०. परिमण्डलश्च कायेन जितक्लेशोऽपि नायकः॥५६०॥
३८१.०११. हृदये यस्य दाहः स्यादाश्लेषायां कलिप्रियः।
३८१.०१२. दुःशीलो दुःखसंवासो मैथुनाभिरतश्च सः॥५६१॥
३८१.०१३. अध उरसि पृष्ठे वा यस्य व्रणः प्रदृश्यत्
३८१.०१४. मघायां धनवाञ्जातो महात्मा धारिमिको नरः॥५६२॥
३८१.०१५. नाभ्यां दक्षिणवामाभ्यां व्रणो यस्य प्रदृश्यत्
३८१.०१६. पूर्वफाल्गुनीजातेऽसौ मत्सरी चाल्पजीवितः॥५६३॥
३८१.०१७. चतुरङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यत्
३८१.०१८. उत्तरफाल्गुनीजातो भोगशीलः श्रुतोद्यतः॥५६४॥
३८१.०१९. श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यत्
३८१.०२०. चौरः शठश्च मायावी मन्दपुण्योऽल्पमेधसः॥५६५॥
३८१.०२१. व्यञ्जने यस्य पिन्यस्तु दृश्यते नियमेन हि।
३८१.०२२. चित्राजातः स चेद्रोगी नृत्यगीतरतस्तथा॥५६६॥
३८१.०२३. व्यञ्जनेऽपि च ऊर्ध्वे वा पीतः पिन्यः प्रदृश्यत्
३८१.०२४. जातः स्वात्यामसौ लुब्धो गुणद्विष्टो ह्यपण्डितः॥५६७॥
३८१.०२५. कुगृष्ट्या यस्य ऊरुभ्यां पिन्यो लोहित एव हि।
३८१.०२६. आकीर्णो नरनारीभिर्विशाखायां भटोऽग्रणीः॥५६८॥
३८१.०२७. विद्वाञ्शूरो जितामित्रो नित्यं सौख्यपरायणः।
३८१.०२८. श्रिया धृत्या च संपन्नोऽच्युतः स्वरुपपद्यत् ।५६९॥
३८१.०२९. द्वितीयगृष्ट्यामूरुभ्यामङ्गे यस्य प्रदृश्यत्
३८१.०३०. शीलवाननुराधायां धर्मभोगसमन्वितः॥५७०॥

३८२.००१. <३८२>अधो यस्येह चोरुभ्यां पिन्यो ज्येष्ठे स जायत्
३८२.००२. अल्पायुरप्रियो दुःखी दुःशीलः कृपणस्तथा॥५७१॥
३८२.००३. जानुभ्यामूर्ध्वतः सूक्ष्मो व्रणो यस्येह दृश्यत्
३८२.००४. मूलेन भाग्यवाञ्जातः स्वगृहं नाशयेल्लघु॥५७२॥
३८२.००५. पूर्वाषाढासु जातस्य पिन्यः स्याज्जानुमण्डल्
३८२.००६. दायको धर्म आसङ्ग्यच्युतः स्वर्गपरायणः॥५७३॥
३८२.००७. उत्तरायामाषाढायां जातस्य तिलकस्त्रिक्
३८२.००८. यदि दृश्येत्स मेधावी भोगवान्स्याज्जनप्रियः॥५७४॥
३८२.००९. द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।
३८२.०१०. सत्यप्रियस्तथारोगोऽच्युतः स्वर्गं च गच्छति॥५७५॥
३८२.०११. धनिष्ठायां च जङ्घायां यस्य पिन्यः प्रदृश्यत्
३८२.०१२. क्रोधनो मन्दरागश्च प्राज्ञो भोगविवर्जितः॥५७६॥
३८२.०१३. द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यत्
३८२.०१४. मूर्खः शतभिषायां तु म्रियते ह्युदकेन सः॥५७७॥
३८२.०१५. अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।
३८२.०१६. परोपतापको मूर्खो दरिद्रश्चौर इत्यपि॥५७८॥
३८२.०१७. कुगृष्ट्या यस्य पिन्यः स्याज्जातो भाद्रपदोत्तर्
३८२.०१८. दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥५७९॥
३८२.०१९. उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यत्
३८२.०२०. रेवत्यां जायते नीचो नापितः स भवत्यपि॥५८०॥
३८२.०२१. अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यत्
३८२.०२२. अरोगो बलवान्नित्यमश्विन्यां जात एव सः॥५८१॥
३८२.०२३. अथ पाणितले पिन्यो भरण्यामक्षयः स्मृतः।
३८२.०२४. वध्यघातश्च दुःशीलः स्यान्नरकपरायणः॥५८२॥
३८२.०२५. नक्षत्राणां पदं ह्येतद्येन चर्या प्रजायत्
३८२.०२६. एतद्धि लोकप्रज्ञानं लोको यत्र समाश्रितः॥५८३॥
३८२.०२७. इति पिन्याध्यायः॥
३८२.०२८. अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नामाध्यायं व्याख्यास्यामि।
३८२.०२८. तच्छ्रूयताम्।
३८२.०२९. कथयतु भगवांस्त्रिशङ्कुह्--
३८२.०३०. पिटकाध्यायः।
३८२.०३१. अत ऊर्ध्वं प्रवक्ष्यामि सर्वस्थानगतं पुनः।
३८२.०३२. स्त्रीणां च पुरुषाणां च पिटकं सर्वकर्मकम्॥५८४॥

३८३.००१. <३८३>लाभालाभं सुखं दुःखं जीवितं मरणं तथा।
३८३.००२. प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधताम्॥५८५॥
३८३.००३. तत्राभिघातदग्धा वा तिलास्तद्रूपका अपि।
३८३.००४. विस्फोटवर्णभेदाश्च पिटकाभिहिताः स्मृताः॥५८६॥
३८३.००५. श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत् ।
३८३.००६. क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥५८७॥
३८३.००७. शूद्राणामसितः श्रेष्ठो विवर्णो म्लेच्छजातिषु।
३८३.००८. यदा सवर्णपिटको मूर्ध्नि राजा महान् स्मृतः॥५८८॥
३८३.००९. शीर्षे तु धनधान्याभ्यां कान्तये सुभगाय च्
३८३.०१०. उपघातं भ्रुवोर्विद्यात्स्त्रीलाभो भ्रुवसंगम् ।५८९॥
३८३.०११. अक्षिस्थाने तु पिटकः करोति प्रियदर्शनम्।
३८३.०१२. अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवम्॥५९०॥
३८३.०१३. अश्रुपातो ध्रुवं शोकः श्रवणे गोषु नाशकः।
३८३.०१४. कर्णपीठे विभूषाय नासावंशे तु जातय् ।५९१॥
३८३.०१५. नासागण्डे पुत्रलाभं वस्त्रलाभं ध्रुवं वदेत् ।
३८३.०१६. नासाग्रे जाते नाप्नोति गन्धभोगानभीप्सितान्॥५९२॥
३८३.०१७. उत्तरोष्ठे तथाधरे चान्नपानं शुभाशुभम्।
३८३.०१८. चिबुके हनुदेशे च धनं गावः सतां श्रियः॥५९३॥
३८३.०१९. गले तु दानमाप्नोति पानमाभरणानि च्
३८३.०२०. शिरःसंधौ च ग्रीवायां शिरश्छेदनमादिशेत् ॥५९४॥
३८३.०२१. जातोऽयं शिरसो मूले हनुनि च धनक्षयः।
३८३.०२२. भैक्षचर्या भवेत्संधौ हृदये प्रियसंगमः॥५९५॥
३८३.०२३. पृष्ठे तु दुःखशय्यायै अन्नपानक्षयाय च्
३८३.०२४. पार्श्वे तु सुखशय्यायै स्तने तु सुतजन्यता॥५९६॥
३८३.०२५. जातेन शिवमाप्नोति न चाप्रियसमागमः।
३८३.०२६. बाह्वोः शत्रुविनाशाय युक्तं स्त्रीलाभ एव च् ।५९७॥
३८३.०२७. ददात्याभरणं जातः प्रबाह्वोः कूर्परे क्षुधा।
३८३.०२८. मणिबन्धे नियमनमंसाभ्यां हर्ष एव च् ।५९८॥
३८३.०२९. सौभगं धनलाभं च जातः पाणौ ददाति च्
३८३.०३०. पुष्पितो ह्येकदेशे तु दशनेषु नखेषु च् ।५९९॥

३८४.००१. <३८४>जातेन हृदि जानीयाद्भ्रातृपुत्रसमागमम्।
३८४.००२. जठरे सोमदानाय नाभ्यां स्त्रीलाभमादिशेत् ॥६००॥
३८४.००३. जघने व्यसनं विद्यान्नार्या दौःशील्यमेव च्
३८४.००४. पुत्रोत्पत्तिस्तु वृषणे लिङ्गे भार्या तु शोभना॥६०१॥
३८४.००५. पृष्ठान्ते सुखभागित्वं स्फिचि चापि धनक्षयः।
३८४.००६. ऊरुजाताश्च पिटका धनसौभाग्यदायकाः॥६०२॥
३८४.००७. जानौ शत्रुभयं विद्यात्तथैव च धनक्षयम्।
३८४.००८. जानुसंधौ विजानीयान्मेढ्रके ह्यथ जातकैः।
३८४.००९. विजयं ज्ञानलाभं च पुत्रजन्म विनिर्दिशेत् ॥६०३॥
३८४.०१०. स्त्रीलाभं वक्षसि चैव भवेदन्यो निरर्थकः।
३८४.०११. जङ्घायां परसेवा तु परदेशात्तु भुज्यत् ।६०४॥
३८४.०१२. मणिबन्धे तु पिटको बन्धनं निर्दिशेद्ध्रुवम्।
३८४.०१३. परिबाधं स लभते बन्धनं च न संशयः॥६०५॥
३८४.०१४. पार्श्वे गुल्फे च जानीयाच्छस्त्रेण मरणं ध्रुवम्।
३८४.०१५. अङ्गुलीषु ध्रुवं शोको व्याधिश्चाङ्गुलिपर्वसु।
३८४.०१६. प्रवासं प्रवसेन्नित्यं तथैवोत्तरपादक् ।६०६॥
३८४.०१७. यस्य पादतले जातस्तथा हस्तलेऽपि च्
३८४.०१८. धनं धान्यं सुता गावः स्त्रियो यानानि चाप्नुयात् ॥६०७॥
३८४.०१९. स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलम्।
३८४.०२०. स्थानस्थे विपुलं दद्यात्फलं नृणां शुभोदयम्॥६०८॥
३८४.०२१. विवर्णो विपरीतश्च फलं सर्वं प्रयच्छति।
३८४.०२२. पुंसां मध्ये ये स्निग्धाश्च देशे दक्षिणतश्च य्
३८४.०२३. तथा चाभ्यन्तरे चैव स्थाने तु प्रतिपूजिताः॥६०९॥
३८४.०२४. स्त्रीणां मृदुषु देशेषु वक्त्रान्तेषु च पर्वतः।
३८४.०२५. तत्त्वं विज्ञाय पिन्यानां स्थानं वर्णं च जन्म च् ।६१०॥
३८४.०२६. स्थानास्थानं च मतिमान् विकारं गतिमेव च्
३८४.०२७. आदिशेत्तु नरः पश्चाद्यथैवं समुदाहृतम्॥६११॥
३८४.०२८. वामभागे तु नारीणां विज्ञेयाः पिटकाः शुभाः।
३८४.०२९. दक्षिणे तु मनुष्याणां भवन्ति ह्यर्थसाधकाः॥६१२॥
३८४.०३०. विपरीतास्तु पिटका मोघास्तु बहवः स्मृताः।
३८४.०३१. यथोक्तानां च संधिस्थाः सर्वे विफलदाः स्मृताः॥६१३॥

३८५.००१. <३८५>सिद्धा ध्रुवा व्रणा भिद्यास्तथा सद्यःकृताश्च य्
३८५.००२. धर्मकीलसमाश्चैव सर्वे ते पिटकाः स्मृताः॥६१४॥
३८५.००३. गुणदोषाश्च सर्वेषां तथाप्यन्ये प्रकीर्तिताः।
३८५.००४. इत्याह भगवांस्त्रिशङ्कुः शिष्येभ्यो नित्यदर्शनम्॥६१५॥
३८५.००५. न नखेन न शस्त्रेण नायसेन कथंचन्
३८५.००६. काञ्चनेन सुवर्णेन दहेद्विप्रांश्च भोजयेत् ॥६१६॥
३८५.००७. अयं भोः पुष्करसारिन् पिटकाध्यायनामाध्यायः॥
३८५.००८. अथ खलु भोः पुष्करसारिन् स्वप्नाध्यायं व्याख्यास्यामि।
३८५.००८. तच्छ्रूयताम्।
३८५.००८. अथ किम्।
३८५.००९. कथयतु भगवान्--
३८५.०१०. स्वप्नाध्यायः।
३८५.०११. शुभाशुभं च स्वप्नानां यत्फलं समुदाहृतम्।
३८५.०१२. देवताब्राह्मणौ गावौ वह्निं प्रज्वलितं तथा।
३८५.०१३. यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धत् ।६१७॥
३८५.०१४. यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम्।
३८५.०१५. सुवर्णं वृषभं चैव कुटुम्बं तस्य वर्धत् ।६१८॥
३८५.०१६. सारसांश्च शुकान् हंसान् क्रौञ्जाञ्श्वेतांश्च पक्षिणः।
३८५.०१७. यस्तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धत् ।६१९॥
३८५.०१८. समृद्धानि च शस्यानि नवानि सुरभीणि च्
३८५.०१९. पद्मिनीं पुष्पितां चापि पूर्णकुम्भांस्तथैव च् ।६२०॥
३८५.०२०. प्रसन्नमुदकं चैव पुष्पाणि विविधानि च्
३८५.०२१. यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धत् ।६२१॥
३८५.०२२. पाणौ पादेऽथ वा जानौ शस्त्रेण धनुषापि वा।
३८५.०२३. प्रहारा यस्य दीयन्ते तस्याम्बरोऽभिवर्धत् ।६२२॥
३८५.०२४. ताराचन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस्तथा।
३८५.०२५. यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धत् ।६२३॥
३८५.०२६. अश्वपृष्ठं गजस्कन्धं यानानि शयनानि च्
३८५.०२७. योऽभिरोहति स्वप्नान्ते महदैश्वर्यमाप्नुयात् ॥६२४॥
३८५.०२८. पतितश्चारुहेद्भूयस्तत्रस्थश्च विबुध्यत्
३८५.०२९. एश्वर्यधनलाभाय नष्टलाभाय निर्दिशेत् ॥६२५॥
३८५.०३०. गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति।
३८५.०३१. तत्रस्थश्च विबुध्येत एश्वर्यमधिगच्छति॥६२६॥

३८६.००१. <३८६>प्रपातं पर्वतं चैव योऽभिरोहति मानवः।
३८६.००२. तत्रस्थश्च विबुध्येत एश्वर्यमधिगच्छति॥६२७॥
३८६.००३. आसने शयने याने तेषामारोहणात्क्षयः।
३८६.००४. येषामारोहणं शस्तं तेषामारोहणात्क्षयः॥६२८॥
३८६.००५. येषामारोहणाद्दोषास्तेषामारोहणाद्गुणाः।
३८६.००६. त्रिसाहस्रं भवेत्कण्ठे दश शीर्षस्य च्छेदन्
३८६.००७. राज्यं शतसहस्रं वा लभते शीर्षभक्षण् ।६२९॥
३८६.००८. शुष्कां नदीं ह्रदं वापि शून्यागारप्रवेशनम्।
३८६.००९. शुष्कोदपानं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयम्॥६३०॥
३८६.०१०. शृगालं मानुषं नग्नं गोधावृश्चिकसूकरम्।
३८६.०११. अजां वा पश्यतः स्वप्ने व्याधिक्लेशं विनिर्दिशेत् ॥६३१॥
३८६.०१२. काकं श्येनमुलूकं वा गृध्रं वाप्यथ वर्तकम्।
३८६.०१३. मयूरं पश्यतः स्वप्ने तस्य व्यसनमादिशेत् ॥६३२॥
३८६.०१४. नग्नं पश्यति ह्यात्मानं पांशुना ध्वस्तमेव वा।
३८६.०१५. कर्दमेनोपलिप्तं वा व्याधिक्लेशमवाप्नुयात् ॥६३३॥
३८६.०१६. कुष्ठाः स्त्रियोऽथ संलोक्य चौरान् द्यूतकरांस्तथा।
३८६.०१७. कुशीलांश्चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयम्॥६३४॥
३८६.०१८. वमिमूत्रपुरीषाणि विरेकं वसानो जनः।
३८६.०१९. उद्वर्तनं वा कुर्वाणः स्वप्नान्ते रोगमर्च्छति॥६३५॥
३८६.०२०. ध्वजं छत्रं वितानं वा स्वप्नान्ते यस्य धार्यत्
३८६.०२१. तत्रस्थोऽपि विबुध्येत महदैश्वर्यमादिशेत् ॥६३६॥
३८६.०२२. अन्त्रैस्तु यस्य नगरं समन्तात्परिवार्यत्
३८६.०२३. ग्रसते चन्द्रसूर्यौ तु महदैश्वर्यमादिशेत् ॥६३७॥
३८६.०२४. मनुष्यं भूमिभागं वा स्वप्नान्ते ग्रसते यदि।
३८६.०२५. ह्रदश्च वा समुद्रोऽयं महदैश्वर्यमाप्नुयात् ॥६३८॥
३८६.०२६. धनुः प्रहरणं शस्त्रं रक्तमाभरणं ध्वजम्।
३८६.०२७. कवचं वा लभेत्स्वप्ने धनलाभं विनिर्दिशेत् ॥६३९॥
३८६.०२८. प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयम्।
३८६.०२९. तोरणं नगरं द्वारं चन्द्रादित्यौ सतारकौ।
३८६.०३०. स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनमादिशेत् ॥६४०॥
३८६.०३१. उदयं चन्द्रसूर्याणां स्वप्ने दृष्टं प्रशस्यत्
३८६.०३२. तयोरस्तं गतं दृष्ट्वा राज्ञो व्यसनमादिशेत् ॥६४१॥

३८७.००१. <३८७>श्मशानवृक्षयूपं वा नरो यद्यभिरोहति।
३८७.००२. वल्मीकं भस्मराशिं वा स्वप्ने व्यसनमादिशेत् ॥६४२॥
३८७.००३. कृष्णवस्त्रा तु या नारी काली कामयते नरम्।
३८७.००४. करवीरस्रजा स्वप्ने तदन्तं तस्य जीवितम्॥६४३॥
३८७.००५. तमसि प्रविशेत्स्वप्ने शम्भोर्वा चामरं तथा।
३८७.००६. वृक्षाद्वा प्रपतेत्स्वप्ने मरणं तस्य निर्दिशेत् ॥६४४॥
३८७.००७. वृक्षं काष्ठं तृणं वापि विरुचं यस्तु पश्यति।
३८७.००८. स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत् ॥६४५॥
३८७.००९. देवो वा वर्षते यत्र यत्र चैवाशनिः पतेत् ।
३८७.०१०. भूमिर्वा कम्पते यत्र स्वप्ने व्यसनमादिशेत् ॥६४६॥
३८७.०११. चन्द्रदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।
३८७.०१२. पतितौ पतमानौ वा चक्षुस्तस्य विनश्यति॥६४७॥
३८७.०१३. काषायप्रावृतां मुण्डां नारीं मलिनवाससम्।
३८७.०१४. नीलरक्ताम्बरां दृष्ट्वा आयासमधिगच्छति॥६४८॥
३८७.०१५. त्रपुसीसे अयस्ताम्रलोहरजतमञ्जनम्।
३८७.०१६. लब्ध्वा तु पुरुषः स्वप्ने धननाशं समर्च्छति॥६४९॥
३८७.०१७. गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यत्
३८७.०१८. वादित्रवाद्यमानैर्वा आयासं तत्र निर्दिशेत् ॥६५०॥
३८७.०१९. कर्दमे यदि वा पङ्के सिकतास्ववसीदति।
३८७.०२०. तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥६५१॥
३८७.०२१. अष्टापदैरथान्यैर्वा क्रीडेज्जयपराजय्
३८७.०२२. क्रीडेदकुशलाङ्कैर्वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥६५२॥
३८७.०२३. आसने शयने याने वस्त्रे साभरणे गृह्
३८७.०२४. नष्टे भ्रष्टे विशीर्णे वा आयासमधिगच्छति॥६५३॥
३८७.०२५. सुरामैरेयपानानि शार्करमासवं मधु।
३८७.०२६. पिबते पुरुषः स्वप्ने आयासमधिगच्छति॥६५४॥
३८७.०२७. प्रसन्नेऽम्भसि चादर्शे छायां पश्यति नात्मनः।
३८७.०२८. उत्पद्यते ध्रुवं तस्य स्कन्धन्यासो न संशयः॥६५५॥
३८७.०२९. अभीक्ष्णं वर्षते देवो जलं पांशुमथापि वा।
३८७.०३०. अङ्गारं वापि वर्षेत मरणं तत्र निर्दिशेत् ॥६५६॥
३८७.०३१. जनघातं विजानीयात्तत्र देशे महाभयम्।
३८७.०३२. रज्जुजालेन वा स्वप्ने परचक्राद्विनिर्दिशेत् ॥६५७॥

३८८.००१. <३८८>उदकेन समन्ताद्वै नगरं परिवार्यत्
३८८.००२. जालेनान्येन वा स्वप्ने परचक्रोद्गमो भवेत् ॥६५८॥
३८८.००३. तैलकर्दमलिप्ताङ्गो रक्तकण्ठगुणो नरः।
३८८.००४. गायते हसते चैव प्रहारं तस्य निर्दिशेत् ॥६५९॥
३८८.००५. यं कृष्णवसना नारी आर्द्रा वा मलिनाथ वा।
३८८.००६. परिष्वजेन्नरं स्वप्ने बन्धनं तस्य निर्दिशेत् ॥६६०॥
३८८.००७. कृष्णसार्पो यदि स्वप्ने ह्यभिरोहति यं नरम्।
३८८.००८. गात्राणि वेष्टयेद्वापि बन्धनं तस्य निर्दिशेत् ॥६६१॥
३८८.००९. लताभिः स्थाणुवृन्दैर्वा यन्त्रैर्वा परिवार्यत्
३८८.०१०. स्वप्नान्ते पुरुषो यस्तु बन्धनं तस्य निर्दिशेत् ॥६६२॥
३८८.०११. यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।
३८८.०१२. यस्य च्छिद्येरन् स्वप्नान्ते बन्धनात्स विमुच्यत् ।६६३॥
३८८.०१३. विषमाणि च निंनानि पर्वतान्नगराणि च्
३८८.०१४. यस्तु पश्यति स्वप्नान्ते क्षिप्रं क्लेशाद्विमुच्यत् ।६६४॥
३८८.०१५. पूतना वा पिशाचा वा दुश्चला मलिनाथ वा।
३८८.०१६. एवम्रूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥६६५॥
३८८.०१७. सुस्नातं च सुवेशं च सुगन्धं शुक्लवाससम्।
३८८.०१८. पुरुषं वाथ नारीं वा दृष्ट्वा स्वप्ने महत्सुखम्।
३८८.०१९. तृणं वृक्षमथो काष्ठं विरूढं यत्र दृश्यत्
३८८.०२०. गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्यक्षयो भवेत् ॥६६७॥
३८८.०२१. भद्रासने वाभ्यासीनो शयने वा सुसंस्कृत्
३८८.०२२. नरो वा लभते नारीं नारी वा लभते नरम्॥६६८॥
३८८.०२३. नरः शुक्लमथो वस्त्रं शुक्लगन्धानुलेपितम्।
३८८.०२४. स्वप्नान्ते यस्तु पश्येत स्त्रीलाभं तस्य निर्दिशेत् ॥६६९॥
३८८.०२५. यस्तु ह्यन्नानि पश्येत भूषणं निगडैस्तथा।
३८८.०२६. नरस्तु लभते भार्यां नारी वा लभते पतिम्॥६७०॥
३८८.०२७. मेखलां कर्णिकां मालां स्त्रीणामाभरणानि च्
३८८.०२८. लब्ध्वा नरो लभेद्भार्यां नारी च लभते पतिम्॥६७१॥
३८८.०२९. कुञ्जरं वृषभं नागं चन्द्रादित्यौ सतारकौ।
३८८.०३०. अभिवन्देत या नारी पतिं सा लभतेऽचिरात् ॥६७२॥
३८८.०३१. एषामन्यतमः कुक्षौ प्रविशेच्च यदि स्त्रियाः।
३८८.०३२. सा काले सर्वपूर्णाङ्गं श्रीमत्पुत्रं प्रसूयत् ।६७३॥

३८९.००१. <३८९>फलानि च समग्राणि वनानि हरितानि च्
३८९.००२. स्वप्नान्ते लभते नारी श्रीमत्पुत्रं प्रसूयत् ।६७४॥
३८९.००३. उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलम्।
३८९.००४. लब्ध्वा नारी तु स्वप्नान्ते श्रीमत्पुत्रं प्रसूयत् ।६७५॥
३८९.००५. उपायनसूत्रयोरन्तः सज्जं तत्र तु पिण्डकम्।
३८९.००६. स्वप्ने या लभते नारी सापि पुत्रं प्रसूयत्
३८९.००७. यमं तु भाजनं चापि यमं तु सा प्रसूयत् ॥६७६॥
३८९.००८. म्लायन्तीमथ ग्रीष्मान्ते तरुणीमात्मिकामपि।
३८९.००९. शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्षमरणं भवेत् ॥६७७॥
३८९.०१०. बाहवो यस्य वर्धन्ते चक्षुरङ्गुलयोपि वा।
३८९.०११. ज्ञातयस्तस्य वर्धन्ते शत्रूणां मरणं भवेत् ॥६७८॥
३८९.०१२. बध्यन्ते बाहवो यस्य चक्षुश्च व्याकुलं भवेत् ।
३८९.०१३. बाहुर्वा प्रपतेद्यस्य स्वपक्षमरणं भवेत् ॥६७९॥
३८९.०१४. देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।
३८९.०१५. स्वप्ने प्रयच्छते यस्याः पुत्रस्तस्याः प्रजायत् ।६८०॥
३८९.०१६. अपकृष्टो रुदन् यो वा नग्नोऽथ मलिनः कृशः।
३८९.०१७. क्रोधं वा .................. विनिर्दिशेत् ॥६८१॥
३८९.०१८. चर्म यन्त्रं गणितं वा कीलं वाथ किलाटकम्।
३८९.०१९. स्वप्ने लब्ध्वा च प्राप्नु{जानी}याद्ध्रुवं वस्त्रागमो भवेत् ॥६८२॥
३८९.०२०. अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः।
३८९.०२१. स्वप्ने यथा ते जल्पन्ते स तथार्थो भविष्यति॥६८३॥
३८९.०२२. .................. पूर्वविचिन्तितम्।
३८९.०२३. यच्चानुस्मरते दृष्ट्वा यच्चापि बहु पश्यति॥६८४॥
३८९.०२४. अभ्युत्थितो यथा मार्गे स्वप्नान्ते प्रतिबुध्यत्
३८९.०२५. विषमं वा तथाध्वानं छिद्रं वा प्रतिपद्यत् ।६८५॥
३८९.०२६. अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यत्
३८९.०२७. गृहाणां करणं शस्तं भेदनं न प्रशस्यत् ।६८६॥
३८९.०२८. निर्मलं गगनं शस्तं समेधं न प्रशस्यत्
३८९.०२९. प्रसन्नमुदकं शस्तं कलुषं न प्रशस्यत् ।६८७॥
३८९.०३०. अध्वानं गमनं शस्तं न क्वचित्संनिवर्तनम्।
३८९.०३१. सुवर्णदर्शनं शस्तं धारणं न प्रशस्यत् ।६८८॥

३९०.००१. <३९०>मांसस्य दर्शनं साधु भक्षणं न प्रशस्यत्
३९०.००२. मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यत् ।६८९॥
३९०.००३. पृथिवी हरिता शस्ता विवर्णा न प्रशस्यत्
३९०.००४. यानस्यारोहणं शास्तं पतनं न प्रशस्यत् ।६९०॥
३९०.००५. स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यत्
३९०.००६. प्रच्छन्नदर्शनं शस्तं नग्नं नैव प्रशस्यत् ।६९१॥
३९०.००७. माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यत्
३९०.००८. गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यत् ।६९२॥
३९०.००९. मृदुः प्रशस्यते वातो नातिवातः प्रशस्यत्
३९०.०१०. व्याधितो मलिनः शस्तो भूषितो न प्रशस्यत्
३९०.०११. पर्वतारोहणं शस्तं न तु तत्रावतारणम्॥६९३॥
३९०.०१२. धूम्रा घना दुन्दुभिशङ्खशब्दो वातोऽभ्रवृष्टिश्च तथा समन्तात् ।
३९०.०१४. सर्वस्थिराणां च चलश्च यः स्याद्ये चान्तरे दोषकृता विकाराः॥६९४॥
३९०.०१६. पूर्वेषु रूपेषु यथावदिष्टा राजर्षयो देवगणाश्च सर्व्
३९०.०१८. यद्ब्राह्मण गात्रविकर्तनं च एतानि सर्वाण्यपि शोभनानि॥६९५॥
३९०.०२०. यत्पूर्वरूपेषु भवेत्प्रशस्तं दुःस्वप्नमेतानि शमं नयन्ति।
३९०.०२२. गावः प्रदानं द्विजपूजनं च दुःस्वप्नमेतेन पराजितं स्यात् ॥६९६॥
३९०.०२४. देवं च यं भक्तिगतो मनुष्यस्तं तु परांश्चार्चयितुं यतेन्
३९०.०२६. स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सरान्तेऽस्य विपाकमाहुः॥६९७॥
३९०.०२८. षण्मासिकं यच्च भवेद्द्वितीये षट्पाक्षिकं यत्तु भवेत्तृतीय्
३९०.०३०. अध्यर्धमासेतरमेव यत्स्यात्फलेच्चतुर्थे रजनीप्रभात् ।६९८॥

३९१.००१. <३९१>द्विजोत्तमे वा तिलपात्रदानं शान्तिक्रियाः स्वस्त्ययनप्रयोगाः।
३९१.००३. पूजा गुरूणां परिमिष्टमन्नं दुःस्वप्नमेतानि विनाशयन्ति॥६९९॥
३९१.००५. अयं भोः पुष्करसारिन् स्वप्नाध्यायनामाध्यायः।
३९१.००६. अथ खलु भो पुष्करसारिन्नपरमपि स्वप्नाध्यायं व्याख्यास्यामि।
३९१.००६. तच्छ्रूयताम्।
३९१.००७. अथ किम्।
३९१.००७. कथयतु भगवांस्त्रिशङ्कुह्--
३९१.००८. अपरः स्वप्नाध्यायः।
३९१.००९. शुभाशुभानां स्वप्नानां यत्फलं समुदाहृतम्।
३९१.०१०. निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्त्वतः॥७००॥
३९१.०११. जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।
३९१.०१२. न तु भयं भवेत्तस्य जानीयादेव बुद्धिमान्॥७०१॥
३९१.०१३. यस्य तु यो भवेच्छत्रुर्यस्य विधेयमिच्छति।
३९१.०१४. स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर्भविष्यति॥७०२॥
३९१.०१५. रजन्यां पुरिमे यामे योऽद्राक्षीत्सुखदुःखदम्।
३९१.०१६. अध्वानं चिरकालेन तथा ह्येष निवर्तत् ।७०३॥
३९१.०१७. मध्यमे भवते नैव क्षिप्रं भवति पश्चिम्
३९१.०१८. वैमार्गं त्वरितं दृष्ट्वा स्त्रीलाभमभिनिर्दिशेत् ॥७०४॥
३९१.०१९. दृष्ट्वा जलचरान्मत्स्यानेवं जानीत बुद्धिमान्।
३९१.०२०. यत्किंचिदारभिष्यामि क्षिप्रमेव भविष्यति॥७०५॥
३९१.०२१. चम्पायां वृषणं हस्ते घृषेत्स्वप्नान्तरेषु वा।
३९१.०२२. प्रतिबुद्धो विजानीयाद्वर्णमेवं भविष्यति॥७०६॥
३९१.०२३. सर्वाणि खलु पानानि मधुराणि सुखानि च्
३९१.०२४. यस्तु पिबति स्वप्नान्ते स च लाभैः प्रयुज्यत् ।७०७॥
३९१.०२५. श्वशृगालैर्भक्ष्यतेऽत्र स्वप्ने संपरिवार्यत्
३९१.०२६. प्रतिबुद्धस्तु जानीयात्शत्रुरेव प्रमूर्च्छति॥७०८॥
३९१.०२७. उपरि काका गृध्राश्च धावन्त्युपरि यान्ति च्
३९१.०२८. प्रतिबुद्धो विजानीयाच्छत्रुर्मा वधयिष्यति॥७०९॥
३९१.०२९. यस्य परगृहश्वानो द्वारे मूत्रं प्रकुर्वत्
३९१.०३०. प्रतिबुद्धो विजानीयाद्भार्या मे जारमिच्छति॥७१०॥
३९१.०३१. एकश्च धरणौ पादो द्वितीयः शिरसि स्थितः।
३९१.०३२. प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७११॥

३९२.००१. <३९२>समुद्रं यदि पश्येद्वा पातुमिच्छति तज्जलम्।
३९२.००२. प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७१२॥
३९२.००३. वृक्षं पर्वतमारुह्य नागं च तुरगं तथा।
३९२.००४. प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७१३॥
३९२.००५. यस्तु स्वप्नान्तरे पश्येत्पितृर्न् यानिह चान्यथा।
३९२.००६. तथा माता पिता चैव तस्य जीवन्ति ते चिरम्॥७१४॥
३९२.००७. यस्तु स्वप्नान्तरे पश्येत्केशश्मश्रु विकर्तितम्।
३९२.००८. प्रतिबुद्धो विजानीयादर्थसिद्धिर्भविष्यति॥७१५॥
३९२.००९. अनानं चोदके दृष्ट्वा मध्येऽग्नौ च विधावितम्।
३९२.०१०. प्रतिबुद्धो विजानीयात्कुलवृद्धिर्भविष्यति॥७१६॥
३९२.०११. धावनं लङ्घनं चैव ग्रामाणां परिवर्तनम्।
३९२.०१२. प्रतिबुद्धो विजानीयादात्मानं शातितमिति॥७१७॥
३९२.०१३. चौराणामपि सामग्रीं स्वप्नान्ते यस्तु पश्यति।
३९२.०१४. प्रतिबुद्धो विजानीयादात्मानं शातितमिति॥७१८॥
३९२.०१५. कृष्णसर्पगृहीतं तु स्वप्नान्ते यस्तु पश्यति।
३९२.०१६. प्रतिबुद्धो विजानीयाच्छत्रुपीडा भविष्यति॥७१९॥
३९२.०१७. कटकान् कर्णिकाश्चैव हंसकेयूरकुण्डलम्।
३९२.०१८. यस्तु चाभरणं पश्येद्बन्धुवर्गो भविष्यति॥७२०॥
३९२.०१९. कुड्ये च गृहप्राकारे धावतीह परस्परम्।
३९२.०२०. नाविके धनसम्योगे अङ्गते क्षणयम्(?) खजः॥७२१॥
३९२.०२१. यस्तु स्वप्नान्तरे पश्येच्चात्मानमग्नितापितम्।
३९२.०२२. प्रतिबुद्धो विजानीयाज्ज्वरं क्षिप्रं भविष्यति॥७२२॥
३९२.०२३. राजानं कुपितं दृष्ट्वा आत्मानं मलिनीकृतम्।
३९२.०२४. प्रतिबुद्धो विजानीयात्कुटुम्बं तस्य नश्यति॥७२३॥
३९२.०२५. काष्ठभारं तृणं चैव बहुभारमभीक्ष्णशः।
३९२.०२६. आत्मनः शिरसो दृष्ट्वा गुरुव्याधिर्भविष्यति॥७२४॥
३९२.०२७. यस्तु वानरयुक्तेन गच्छते पुरिमां दिशम्।
३९२.०२८. प्रतिबुद्धो विजानीयाद्रात्रिरेषा ह्यपश्चिमा॥७२५॥
३९२.०२९. चन्द्रसूर्यौ च संगृह्य पाणिना परिमार्जति।
३९२.०३०. प्रतिबुद्धो विजानीयादायधर्मागमो हि सः॥७२६॥
३९२.०३१. सुमनां वार्षिकम् {कीम्} चैव कुमुदान्युत्पलानि च्
३९२.०३२. यस्तु पश्यति स्वप्नान्ते दक्षिणीयसमागमः॥७२७॥

३९३.००१. <३९३>ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकम्।
३९३.००२. प्रतिबुद्धो विजानीयाद्यक्षा मे ह्यनुकम्पकाः॥७२८॥
३९३.००३. रुधिरेण विलुप्तस्य स्नात्वा चैवात्मलोहितैः।
३९३.००४. प्रतिबुद्धो विजानीयादैश्वर्याधिसमागमः॥७२९॥
३९३.००५. मुद्गमाषयवांश्चैव धान्यं ज्वलनदर्शनम्।
३९३.००६. यस्तु स्वप्नानतरे पश्येत्सुभिक्षं तत्र निर्दिशेत् ॥७३०॥
३९३.००७. सुवर्णं च तथा रूप्यं मुक्ताहारं तथैव च्
३९३.००८. यस्तु स्वप्नान्तरे पश्येन्निधिं तत्र विनिर्दिशेत् ॥७३१॥
३९३.००९. बन्धनं बहु दृष्ट्वा तु च्छेदनं कुट्टनं तथा।
३९३.०१०. प्रतिबुद्धो विजानीयादर्थसिद्धिर्भविष्यति॥७३२॥
३९३.०११. अयं भोः पुष्करसारिन्नपरः स्वप्नाध्यायः॥
३९३.०१२. अथ खलु पुष्करसारिन्मासपरीक्षानामाध्यायं व्याख्यास्यामि।
३९३.०१२. तच्छ्रूयताम्।
३९३.०१३. कथयतु भगवांस्त्रिशङ्कुह्--
३९३.०१४. मासपरीक्षा।
३९३.०१५. यदि फाल्गुने मासे निर्घोष उपरि भवेत्, मनुष्याणां मरणं चोदयति।
३९३.०१५. नवचन्द्रो लोहिताभासो दृश्यते, सर्वसस्यानुत्पत्तिं चोदयति।
३९३.०१६. यदि देवो गर्जति, प्रथमं महासस्यानि भवन्ति।
३९३.०१७. पश्चिमसस्यं न भवेत् ।
३९३.०१७. कलहं चोदयति॥
३९३.०१८. यदि चैत्रे मासे देवो गर्जति, तदा सर्वसस्यमुत्पत्तिं चोदयति।
३९३.०१८. यदि चन्द्रग्रहो भवति, महान् संनिपातो भवति।
३९३.०१९. शून्यानि ग्रामक्षेत्राणि भविष्यन्ति।
३९३.०१९. यदि नीहारं भूमिं छादयति, सुभिक्षं चोदयति॥
३९३.०२१. यदि वैशाखे माअसे देवो गर्जति, सुभिक्षं चोदयति।
३९३.०२१. यदि पूर्वे पश्चिमे शङ्खे चन्द्रग्रहो भवति, क्षेमं चोदयति।
३९३.०२२. यदि चोल्कापातो भवति, यस्मिंश्च जनपदे निपतति, तत्र देशे प्रधानपुरुषस्य विनाशो भवति।
३९३.०२३. यदि भूमिचालो भवति, सुभिक्षं चोदयति॥
३९३.०२४. यदि ज्येष्ठे मासे देवो गर्जति, रोगं चोदयति।
३९३.०२४. यदि सूर्यग्रहो भवति, मनुष्याणां विनाशं चोदयति।
३९३.०२५. पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किंचिन्निमित्तं लक्ष्यते, तदा क्षेमं चोदयति।
३९३.०२६. यदि मध्यरात्रौ चन्द्रग्रहो भवति, मनुष्याणामन्योन्यघातं चोदयति।
३९३.०२६. यदि चोपरि निर्घोषो भवति, अध्यक्षपुरुषस्य पीडां चोदयति, परचक्रागमं चेति॥
३९३.०२८. आषाढे मासे यदि सूर्यग्रहो रुचिराभासो भवति, सुभिक्षं चोदयति॥
३९३.०२८. यदि चन्द्रग्रहो भवति, रोगं चोदयति।
३९३.०२९. यदि विद्युन्निश्चरति, कल्याणं चोदयति।
३९३.०२९. यदि नीहारं भूमिं छादयति, सुभिक्षं चोदयति॥
३९३.०३१. श्रावणमासे यदि सूर्यग्रहो भवति, राज्यं परिवर्तत्
३९३.०३१. यदि चन्द्रग्रहो भवति, प्रथमे मासे दुर्भिक्षं चोदयति।
३९३.०३२. शरभैः शोभनशस्यनाशो भविष्यति।
३९३.०३२. यदि तारका यत्र देशे पतन्ति, <३९४>तत्र युद्धं चोदयति।

३९४.००१. यदि चातिशयं भूमिचालो भवति, रोगं चोदयति।
३९४.००१. यदि निर्घोषो भवति, तत्र गृहे यो गृहस्वामी भवति तस्य विनाशं चोदयति।
३९४.००२. अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यम्।
३९४.००३. आवाहो विवाहो न कर्तव्यः।
३९४.००३. परिभूतो भवति॥
३९४.००४. यद्याश्वयुजे मासे देवो गर्जति, मनुष्याणां विनाशं चोदयति।
३९४.००४. यदि सूर्योपरागो भवति, महापुरुषविनाशं चोदयति।
३९४.००५. यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते, सुभिक्षं चोदयति।
३९४.००६. यदि भूमिचालो भवति, आकुलं चोदयति।
३९४.००६. परराजा देशं हनिष्यति।
३९४.००६. तत्र च मनुष्या अन्योन्यं वधयिष्यन्तीति चोदयति॥
३९४.००८. यदि कार्तिके मासे देवो वर्षति, महदाकुलं चोदयति।
३९४.००८. प्राणकाश्च धान्यं खादिष्यन्ति।
३९४.००९. यद्येकान्तरूपं वातो वाति, तत्र च मनुष्या जलेन विभ्रमिष्यन्ति।
३९४.००९. महात्मनः पुरुषस्य विनाशं चोदयति।
३९४.०१०. यदि पूर्वे यामे उत्पातो भवति, महावर्षं भवति।
३९४.०१०. महापुरुषस्य च मरणं भवति।
३९४.०११. यदि निर्घोषो भवति रोगं चोदयति॥
३९४.०१२. यदि मार्गशीर्षे मासि देवो गर्जति, शस्यविनाशो भवति।
३९४.०१२. अन्यश्च तत्र स्वामी भवति।
३९४.०१३. यदि चाकाशे निर्घोषो भवति, यत्पूर्वभागीया मनुष्यास्तेषामामयं चोदयति।
३९४.०१३. यदि भूमिचालो भवति, यस्तत्र जनपदे प्रधानपुरुषः स वधान्मोक्ष्यति॥
३९४.०१५. यदि पौषे मासे देवो गर्जति, प्रथमे जनपदनाशो भवति।
३९४.०१५. द्वितीये महात्मनः पुरुषस्य बन्धनं चोदयति।
३९४.०१६. प्रथमे यामे च यदि चन्द्रोपरागो भवति लोहितवर्णश्च दृश्यते, उदकागमं चोदयति।
३९४.०१७. महात्ममनुष्यं चोदय्ति।
३९४.०१७. यदि सूर्यग्रहो भवति, शुद्धपुरुषाणां रणम्।
३९४.०१८. यदि तारकाः पतन्त्यो विदृश्यन्ते, तत्र जनपदे आकुलं चोदयति।
३९४.०१८. यद्याकाशे निर्घोषो भवति, मनुष्याणां मरणं चोदयति।
३९४.०१९. यदि द्वितीये निर्घोषो भवति, मनुष्याश्चौरैर्हन्यन्त्
३९४.०२०. यद्यत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृश्यते, सस्यं संचोदयति।
३९४.०२०. यदि भूमिचालो भवति, महामनुष्यस्य मरणं भवति।
३९४.०२१. अत्रैव मासे देवस्थानं कर्तव्यम्।
३९४.०२१. वृक्षा रोपयितव्याः।
३९४.०२२. मूलवास्तु प्रतिष्ठापयितव्यम्।
३९४.०२३. अयं भोः पुष्करसारिन्मासपरीक्षानामाध्यायः॥
३९४.०२४. अथ खलु भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामाध्यायं व्याख्यास्यामि।
३९४.०२४. तच्छ्रूयताम्।
३९४.०२५. अथ किम्।
३९४.०२५. कथयतु भगवांस्त्रिशङ्कुह्--
३९४.०२६. खञ्जरीटकज्ञानम्।
३९४.०२७. खञ्जरीटकशास्त्रं वै पर्वते गन्धमादन्
३९४.०२८. कुचरैर्दृश्यते सौम्य कुचरस्य महाभयम्॥७३३॥
३९४.०२९. यानि तानि निमित्तानि दर्शयेत्खञ्जरीटकः।
३९४.०३०. प्रचरतो भवेद्दृष्ट्वा पञ्चोत्तरपदो द्विजः॥७३४॥

३९५.००१. <३९५>तत्र सर्वे प्रवर्तेयुर्यत्र येषु भवेद्भवेत् ।
३९५.००२. शाद्वले बहुचेलत्वं गोमयेषु प्रबन्धता॥७३५॥
३९५.००३. कञ्चारे बहुचेलत्वं कर्दमे बहुभक्षता।
३९५.००४. कृकरे स्वल्पचेलत्वं पुरीषे तु कृशं श्रवः॥७३६॥
३९५.००५. भस्मे विवादमफलं वालुकायां तु संभ्रमः।
३९५.००६. देवद्वारे तु संमानं पद्मेषु बहुवित्तता।
३९५.००७. फलेऽर्थानुगुणं प्रोक्तं पुष्पेषु प्रियसंगमः॥७३७॥
३९५.००८. भयं प्राकारशृङ्गेषु कटकेष्वरिदर्शनम्।
३९५.००९. पक्षया चरते व्याधिः पतितो मृत्युमादिशेत् ॥७३८॥
३९५.०१०. सुगन्धतैलभूतानि मैथुने निधिदर्शनम्।
३९५.०११. वृक्षाग्रे विद्यते पानं गृहेष्वथ ........ लसः॥७३९॥
३९५.०१२. देशभङ्गप्रवादे च बन्धनं विग्रहीकृत्
३९५.०१३. अमृतं च स्थितं दृष्ट्वा ओदनं नात्र संशयः॥७४०॥
३९५.०१४. गवां पृष्ठे ध्रुवं सिद्धिरश्वपृष्ठे ध्रुवं जयः।
३९५.०१५. अविकानामजानां च पृष्ठे सर्वत्र शस्यत् ।७४१॥
३९५.०१६. उष्ट्रपृष्ठे ध्रुवं क्लेशः श्वानपृष्ठे च विद्रवः।
३९५.०१७. पृष्ठे च गर्दभस्येह मरणं नात्र संशयः॥७४२॥
३९५.०१८. कीले तु मरणं विद्याद्यूपाग्रे च न संशयः।
३९५.०१९. कुम्भस्थाने श्मशाने वा मृतो वा यत्र दृश्यत् ।७४३॥
३९५.०२०. अन्तरीक्षे प्रडीनं तु अफलं तु विनिर्दिशेत् ।
३९५.०२१. दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकम्॥७४४॥
३९५.०२२. यथास्थानं यथावर्णं मनुष्याणां विनिर्दिशेत् ।
३९५.०२३. विषमे स्वल्पकक्षेषु प्रसक्तः कलहो भवेत् ।
३९५.०२४. समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत् ।
३९५.०२५. नद्यां तु शैलवाहिन्यां प्रवासमभिनिर्दिशेत् ॥७४५॥
३९५.०२६. काष्ठेषु नातिका चिन्ता तथास्थिषु धनक्षयः।
३९५.०२७. यां दिशं समुदागच्छत्पञ्चोत्तरपदः खगः।
३९५.०२८. तां दिशं गमनं विद्याद्यथा तस्य तथा पुनः॥७४६॥
३९५.०२९. कीटा वाथ पतङ्गा वा भयं यदिह दृश्यत्
३९५.०३०. प्रचुरापि यदाज्ञेया नरस्यास्थीनि निर्दिशेत् ॥७४७॥

३९६.००१. <३९६>अपां समीपे गजमस्तके वा सूर्योदये ब्राह्मणसंनिधौ वा।
३९६.००३. मुख्यप्रकाशेऽप्यहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥७४८॥
३९६.००५. मातङ्गराजो मतिमांस्त्रिशङ्कः प्रोवाच तत्त्वं खञ्जनं च शास्त्रम्।
३९६.००७. स्निग्धे सरूक्षे विषमे समे च ओदेशयेद्दोषगुणैर्यथोक्तैः।
३९६.००९. तमादिशेत्तत्र समीक्ष्य विद्वाञ्शुभाशुभं तत्फलमादिशेच्च् ।७४९॥
३९६.०११. अयं भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामाध्यायः॥
३९६.०११. अथ खलु भोः पुष्करसारिञ्शिवारुतं नामाध्यायं व्याख्यास्यामि।
३९६.०१२. तच्छ्रूयता।
३९६.०१२. अथ किम्।
३९६.०१३. कथयतु भगवांस्त्रिशङ्कुह्--
३९६.०१४. शिवारुतम्।
३९६.०१५. नमः सर्वेषामार्याणाम्।
३९६.०१५. नमः सर्वेषां सत्यवादिनाम्।
३९६.०१५. तेषां सर्वेषां तपसा वीर्येण च इमं शिवारुतं नामाध्यायं व्याख्यास्यामि।
३९६.०१६. इत्याह भगवांस्त्रिशङ्कुः।
३९६.०१६. शाण्डिल्यमिदमब्रवीत् ।
३९६.०१७. यादृशं च यथा वाशेत्तेषां सर्वेषां वाशाञ्शृणोथ म्
३९६.०१७. पूर्वस्यां दिशि यदि वाशेत्, शिवा पूर्वमुखं स्थित्वा त्रीन् वारान् वाशेत्, वृद्धिं निवेदयति।
३९६.०१८. चतुरो वारान् यदि वाशेत्, अत्र मङ्गलं निवेदयति।
३९६.०१९. पञ्च वारान् वाशेत्, वर्षां निवेदयति।
३९६.०१९. षड्वारान् वाशेत्, परचक्रभयं निवेदयति।
३९६.०२०. सप्तवारान् वाशेत्, बन्धनं निवेदयति।
३९६.०२०. अष्ट वारान् वाशेत्, प्रियसमागमं निवेदयति।
३९६.०२१. अभीक्ष्णं वाशेत्, परचक्रभयं निवेदयति।
३९६.०२१. इत्याह भगवांस्त्रिशङ्कुः॥
३९६.०२२. दक्षिणायां दक्षिणमुखं स्थित्वा त्रिवारान् वाशेत्,ऽअतृ अतृऽ कुरुते मरणं तत्र निवेदयति।
३९६.०२३. चतुरो वारान् वाशति, दक्षिणमुखं स्थित्वा दक्षिणाया एव दिशायाः प्रियसमागमं निवेदयति।
३९६.०२४. अर्थलाभं च निवेदयति।
३९६.०२४. पञ्चवारान् वाशेत्, अर्थं निवेदयति।
३९६.०२४. षड्वारान् वाशेत्, सिद्धिं निवेदयति।
३९६.०२५. सप्तवारान् वाशेत्विवादकलहं निवेदयति।
३९६.०२५. अष्टवारान् वाशेत्, भयं निवेदयति।
३९६.०२६. अभीक्ष्णं वाशेत्, आकुलं निवेदयति।
३९६.०२६. इत्याह भगवांस्त्रिशङ्कुः॥
३९६.०२७. पश्चिमायां पश्चिमाभिमुखं स्थित्वा शिवा त्रिवारान् वाशति, मरणं निवदयति।
३९६.०२८. चतुर्वारान् वाशति, बन्धनं निवेदयति।
३९६.०२८. पञ्चवारान् वाशति, वर्षं निवेदयति।
३९६.०२८. षड्वारान् वाशति, अन्नपानं निवेदयति।
३९६.०२९. सप्तवारान् वाशति, मैथुनं निवेदयति।
३९६.०२९. अष्टवारान् वाशति, अर्थसिद्धिं निवेदयति।
३९६.०३०. अभीक्ष्णं वाशति, महामेघं निवेदयति।
३९६.०३०. इत्याह भगवांस्त्रिशङ्कुः॥

३९७.००१. <३९७>उत्तरस्यां दिशि उत्तराभिमुखं स्थित्वा त्रिवारान् वाशति, पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति।
३९७.००२. चतुर्वारान् वाशति, राजप्रतिभयं निवेदयति।
३९७.००२. पञ्चवारान् वाशति, विवादं निवेदयति।
३९७.००३. षड्वारान् वाशति, कुशलं निवेदयति।
३९७.००३. सप्तवारान् वाशति, वर्षां निवेदयति।
३९७.००४. अष्टवारान् वाशति, राजकुलदण्डं निवेदयति।
३९७.००४. अभीक्ष्णं वाशति, यक्षराक्षसपिशाचकुम्भाण्डभयं निवेदयति।
३९७.००५. इत्याह भगवांस्त्रिशङ्कुः॥
३९७.००६. दिशि विदिशि चैव गिरिप्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ म्
३९७.००६. "अमूं तुष्येत्पिपासार्तां विद्यासिद्ध्यै तथैव च"।
३९७.००८. विद्यालम्भं धनलम्भं निर्दिशेच्च विचक्षणः।
३९७.००९. तीर्थाकारवृक्षमूले वाशती यदि दृश्यत् ।७५०॥
३९७.०१०. सर्वत्र सिद्धिं निर्दिशेत् ।
३९७.०१०. न च शृगालभये शिवा (वा)मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यम्।
३९७.०११. गन्धपुष्पोपहारेण शुश्रूषा कर्तव्या।
३९७.०११. एवमर्च्यमाना सर्वसिद्धिं निवेदयिष्यति।
३९७.०१२. एवम् "सर्वेऽर्थास्तस्य सिध्यन्ति त्रिशङ्कोर्वचनं यथा"।
३९७.०१२. क्रौष्ट्रिको यदि वाशति, अर्थलम्भं निवेदयति।
३९७.०१३. अधोमुखो यदि वाशति, निधानं तत्र निवेदयति।
३९७.०१३. ऊर्ध्वमुखो यदि वाशति, वर्षां तत्र निवेदयति।
३९७.०१४. द्विपथे यदि वाशति, पूर्वमुखं स्थित्वा अर्थलाभं निवेदयति।
३९७.०१५. दक्षिणाभिमुखो यदि वाशति, यथाप्रियसमागमनं निवेदयति।
३९७.०१५. द्विपथे पञ्चिमाभिमुखो यदि वाशति, कलहं विवादं विग्रहं मरणं च न्विएदयति।
३९७.०१६. कूपकणठके यदि वाशति, अर्थं तत्र निवेदयति।
३९७.०१७. शाद्वले यदि वाशति, अर्थसिद्धिं निवेदयति।
३९७.०१७. अतिमृदुकं यदि वाशति, व्याधिकं तत्र निवेदयति।
३९७.०१८. गीतहारेण यदि वाशति, अर्थमनर्थं च निवेदयति।
३९७.०१९. त्रिभिर्वारैरर्थं चतुर्भिरनर्थं पञ्चभिः प्रियसमागमं षड्भिर्भोजनं सप्तभिर्भयमष्टभिर्विग्रहं विवादं च्
३९७.०२०. इत्याह भगवांस्त्रिशङ्कुः॥
३९७.०२१. "अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे"।
३९७.०२१. नानाहारे यदि वाशति, मार्गे संस्थितस्यापि सर्वं वक्ष्यामि तं शृणोथ म्
३९७.०२२. संप्रस्थितस्य पुरुषस्य शिवा वाशति वा, या पूर्वमुखं स्थित्वा क्षिप्रगमनमर्थसिद्धिं निवेदयति।
३९७.०२३. अथ दक्षिणमुखं वाशति, या अर्थसिद्धिं निवेदयति।
३९७.०२४. पश्चान्मुखं वाशति, भयं निवेदयति।
३९७.०२४. अथोत्तरमुखं वाशति, अर्थलाभं निवेदयति।
३९७.०२५. अथ संप्रस्थितस्य वाशति, या पुरतः स्थित्वा उपक्लेशं निवेदयति।
३९७.०२५. अथ दक्षिणे वाशति, यदि दक्षिणामुखा एव दिशः कर्मसिद्धिं च निवेदयति।
३९७.०२६. पश्चिमतो यदि वाशति, चौरतोऽहितमस्य दुःखदौर्मनस्यं निवेदयति।
३९७.०२७. अथ मार्गे व्रजतो दक्षिणतो वाशति, महाव्याधिमनर्थं चौरा मुषन्ति तन्निवेदयति।
३९७.०२८. ग्लानस्य यदि वाशति, दक्षिणमुखम्, "न स चिकित्सितुं शक्यो मृत्युदूतेन चोदितह्"।
३९७.०२९. ग्लानस्य यदि वाशति, उत्तरमुखं स्थित्वा आरोग्यधनलाभं च निवेदयति।
३९७.०३०. अथ मूर्ध्ना वाशति, या उपक्लेशं निवेदयति।
३९७.०३०. अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते, यमशासनम् {निवेदयति}।
३९७.०३१. नानाहारे यदि वाशति, या संक्षोभं निवेदयति।
३९७.०३२. इत्याह भगवांस्त्रिशङ्कुः॥

३९८.००१. <३९८>शिवा पुरतः पुरुषस्य मार्गप्रयातस्य यदि वाशति, या अग्रतः क्षेममार्गं विज्ञापयति।
३९८.००२. अर्थसिद्धिं निवेदयति।
३९८.००२. मार्गं व्रजतोऽस्य शिवा वामेनागत्य गच्छते, दक्षिणमुखं क्षेममार्गं विजानीयादर्थसिद्धिं च निवेदयति।
३९८.००३. मार्गे व्रजतः पुरुषस्य शिवा वामेनागत्य पुरतो वाशति, या तथा सभयं मार्गं विज्ञापयति।
३९८.००४. निवर्तेत विचक्षणः।
३९८.००४. दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत "न तन्मार्गेण गन्तव्यं त्रिशङ्कुवचनं यथा"।
३९८.००५. पुरतः शिवा गत्वा अग्रतश्च निषीदति, सभयं मार्गं विजानीयात् ।
३९८.००६. निवर्तेत विचक्षणः।
३९८.००६. शिवा पुरत आगत्य वामेन परिवर्तते,ऽभयमेतीहऽ तेनापि भयं जानीयाद्विचक्षणः।
३९८.००७. सेनायामावाहितायां शिवा वाशति, पश्चिमं निवर्तनं निवेदयति।
३९८.००८. यदि गच्छेत्पराजयः।
३९८.००८. सेना न गच्छेत् ।
३९८.००८. सेनायां व्रजमानायां शिवा आगच्छेदग्रतः सेनाजयं निवेदयति।
३९८.००९. परचक्रपराजयं च निवेदयति।
३९८.००९. सार्थस्य व्रजमानस्य शिवा गच्छत्यग्रतः क्षेममार्गं निवेदयति।
३९८.०१०. अर्थसिद्धिं तथैव च्
३९८.०११. पुरुषस्य पथि व्रजतो वामतो वाशति, मार्गं निवेदयति।
३९८.०११. "तन्मागेण {हि} गन्तव्यं त्रिशङ्कुवचनं यथा"॥
३९८.०१२. "ग्रामस्य नगरस्यापि चैत्यस्थाने तथैव च"।
३९८.०१२. पूर्वेणोत्तरेणापि शिवा वाशति, क्षेमं तत्र निवेदयति।
३९८.०१३. दक्षिणे पश्चिमे यदि वाशति, या भयं तत्र निवेदयति।
३९८.०१४. वामतो न प्रशंसन्ति तथैव विदिशासु च्
३९८.०१५. अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा।
३९८.०१६. अधरां तु भयं वक्ष्ये त्रिशङ्कुवचनं यथा॥७५१॥
३९८.०१७. मधुस्वरां शिवां ज्ञात्वा काले वेले उपस्थित्
३९८.०१८. क्षेमं चैवार्थसिद्धिश्च चिन्तितव्यं विचक्षणैः॥७५२॥
३९८.०१९. व्याधिरुपद्रवाश्च, "सर्वं तु प्रशमं यान्ति त्रिशङ्कुवचनं यथा"।
३९८.०२०. शिवारुतस्योपचारो दिग्विदिशासु निमित्ता ग्रहीतव्याः।
३९८.०२०. यः शिवाया दिवसो भवति, स दिवसो ज्ञातव्यः।
३९८.०२१. पुष्पगन्धमाल्योपहारस्तद्दिवसे उपपादयितव्यः।
३९८.०२१. नित्यं देवतागुरुकेण भवितव्यम्।
३९८.०२१. देव्या गुरुकेण भवितव्यम्।
३९८.०२२. देव्यै शुश्रूषा कर्तव्या।
३९८.०२२. सर्वार्थान् संपादयिष्यति।
३९८.०२२. सर्वकार्याणि निवेदयति॥
३९८.०२४. यत्किंचित्कार्यमारभिष्यति, तत्सर्वं निवेदयति।
३९८.०२४. देव्यै सर्जरसो गुग्गुलु च धूपयितव्यम्।
३९८.०२५. पुष्पबलिश्च यथाकाले दापयितव्यः।
३९८.०२५. इत्याह भगवांस्त्रिशङ्कुः॥
३९८.०२६. शिवारुतकथनेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।
३९८.०२७. नम आरण्यायै।
३९८.०२७. चीरिण्यै स्वाहा सर्जरसधूपम्।
३९८.०२८. अयं भोः पुष्करसारिञ्शिवारुतनामाध्यायः॥

३९९.००१. <३९९>अथातः पुष्करसारिन् पाणिलेखानामाध्यायं व्याख्यास्यामि।
३९९.००१. तच्छ्रूयताम्।
३९९.००१. अथ किम्।
३९९.००२. कथयतु भगवांस्त्रिशङ्कुह्--
३९९.००३. पाणिलेखा।
३९९.००४. अथातः संप्रवक्ष्यामि नराणां करसांस्थितम्।
३९९.००५. लक्षणं सुखदुःखानां जीवितं मरणं तथा॥७५३॥
३९९.००६. अङ्गुष्ठमूलमाश्रित्य ऊर्ध्वरेखा प्रवर्तत्
३९९.००७. तत्र जातं सुखतरं द्वितीया ज्ञानमन्तर् ।७५४॥
३९९.००८. तृतीय सा लेखा यत्र प्रदेशिन्या प्रवर्तत्
३९९.००९. तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्विधाः॥७५५॥
३९९.०१०. अपर्वसु च पर्वाणि नक्षत्राणामुपद्रवः।
३९९.०११. द्विनिःसृतो विशुद्धात्मा जीवेद्वर्षशतं हि सः॥७५६॥
३९९.०१२. त्रिंशत्ग्त्रिभागेन जानीयादर्धे पञ्चाशदायुषः।
३९९.०१३. सप्ततिस्त्र्यंशभागेषु अत्यन्तानुगते शतम्॥७५७॥
३९९.०१४. आयुर्लेखा प्रदृश्यैव व्यन्तरायः प्रकाश्यत्
३९९.०१५. नक्षत्रसंज्ञया ज्ञेया मनुजैरर्थशस्तथा॥७५८॥
३९९.०१६. अङ्गुष्ठोदरमार्गे तु यावत्यो यस्य राजयः।
३९९.०१७. तस्यापत्यानि जानीयात्तावन्ति नात्र संशयः॥७५९॥
३९९.०१८. दीर्घायुषं विजानीयाद्दीर्घलेखा तु या भवेत् ।
३९९.०१९. ह्रस्वायुषं विजानीयाद्ध्रस्वलेखा तु या भवेत् ॥७६०॥
३९९.०२०. अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेत् ।
३९९.०२१. दिवा तु जन्म निर्दिष्टमङ्गुष्ठयवके ध्रुवम्॥७६१॥
३९९.०२२. अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत् ।
३९९.०२३. लग्नं पुंसंज्ञको ज्ञेयोऽहोरात्रं विनिर्दिशेत् ॥७६२॥
३९९.०२४. दिवसं जन्म निर्दिशेद्रात्रौ स्त्रीसंज्ञको भवेत् ।
३९९.०२५. रात्रिः संध्या समाख्याता भागैरन्यैर्न संशयः।
३९९.०२६. पुंसंज्ञादुदयं तेषामहोरात्रान्तिकं वदेत् ॥७६३॥
३९९.०२७. अङ्गुष्ढमूले यवके शले सौख्यं विधीयत्
३९९.०२८. अश्वाद्भद्रं विजानीयादङ्गुष्ठयवकेष्विह् ।७६४॥
३९९.०२९. यवमाला च मत्स्यः स्यादङ्गुष्ठयवको रतौ।
३९९.०३०. बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत् ॥७६५॥
३९९.०३१. यस्य स्याद्यवकश्चापि चापो वा स्वस्तिकस्तथा।
३९९.०३२. तलेषु येषु दृश्यन्ते धन्यन्ते धन्यास्ते पुरुषा ह्यमी॥७६६॥

४००.००१. <४००>मत्स्यो धान्यं भवेद्भोगायामिषादौ यवे धनम्।
४००.००२. भोगसौभाग्यं जानीयान्मीनादौ नात्र संशयः॥७६७॥
४००.००३. पताकाभिर्ध्वजैर्वापि शक्तिभिस्तोमरैस्तथा।
४००.००४. तलस्थैरङ्कुशैश्चापि विज्ञेयः पृथिवीपतिः।
४००.००५. राजवंशप्रसूतं च राजमात्रं विनिर्दिशेत् ॥७६८॥
४००.००६. प्रेष्क्यन्ते शाखया पञ्च हस्ते चत्वार एव च्
४००.००७. क्षत्रियो वा भवेद्भोगी राजभिश्चापि सत्कृतः॥७६९॥
४००.००८. वैश्योऽथ क्षत्रियो वाग्मी धनधान्यं न संशयः।
४००.००९. शूद्रो विपुलभागी स्यात्पर्वशीलोऽथ नैष्ठिकः॥७७०॥
४००.०१०. सततमभिपूज्यः स्यात्सर्वेषां च प्रियंवदः।
४००.०११. विशीलः शीलकुञ्चो वा बहुभिर्न बहुस्तथा॥७७१॥
४००.०१२. श्यामवर्णाथ भिन्ना वा सा लेखा दुःखभागिनी।
४००.०१३. त्रिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करस्थिताः।
४००.०१४. महाभोगो महाविद्वाञ्जीवेद्वर्षशतं च सः॥७७२॥
४००.०१५. अजपदं राजच्छत्रं शङ्खचक्रपुरस्कृतम्।
४००.०१६. तलेषु यस्य दृश्यन्ते तं विद्यात्पृथिवीपतिम्॥७७३॥
४००.०१७. भगस्तु भाग्याय ध्वजैः पताकैर्हस्त्यश्वमालाङ्कुशतश्च राजा।
४००.०१९. मत्स्यो नु पानाय यवो धनाय वेदिस्तु यज्ञाय गवां च गोष्ठः॥७७४॥
४००.०२१. अनामिकापर्व अतिक्रमेद्यदि कनिष्ठिका वर्षशतं स जीवति।
४००.०२३. समे त्वशीतिर्वर्षाणि सप्तभिर्यथा नदीनां भरिताय निर्दिशे ।७७५॥
४००.०२५. शरीरवर्णप्रभवां तु लेखां सवैशिखां वर्णविहीनकां च्
४००.०२७. समीक्ष्य नीचोत्तममध्यमानां दारिद्र्यमध्ये चरतां विजानताम्॥७७६॥
४००.०२९. अभ्यञ्जनोद्वर्तनसत्करी{षै}रध्यक्षचुर्णैश्च विमृज्य पाणिम्।
४००.०३१. प्रक्षाल्य चैकान्तरघृष्टलेखामेकाग्रचित्तस्तु करं परीक्षेत् ॥७७७॥