दिव्यावदानम्/अवदानम् ३०१-३५०

विकिस्रोतः तः
← अवदानम् २५१-३०० दिव्यावदानम्
अवदानम् ३०१-३५०
[[लेखकः :|]]
अवदानम् ३५१-४०० →

अवदान ३१

३०१.००१. दिव्३१ तोयिकामहावदानम्।

३०१.००२. तत्र भगव्बानायुष्मन्तमामन्त्रयते--स्म आगमय आनन्द येन श्राअवस्तीति।
३०१.००२. एवं भदन्तेत्यायुच्मानानन्दो भगवतः प्रत्यश्रौषीत् ।
३०१.००३. अथ भगवान् येन श्रावस्ती तेन चारिकां प्रक्रान्तः।
३०१.००४. यावदन्यतमस्मिन् प्रदेशे ब्राह्मणश्छिन्नभक्तो हलं वाहयति, तस्यार्थाय दारिका पेयामादाय गता।
३०१.००५. भगवांश्च प्रदेशमनुप्राप्तः।
३०१.००५. ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्चणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्।
३०१.००७. सहदर्शनाच्चास्य भगवति प्रसाद उत्पन्नः।
३०१.००८. न तथा द्वादशवर्षाभ्यस्तः शमथश्चत्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनम्, राज्याभिनन्दनो वा राज्याभिषेकः, यथोपचितकुशलमूलस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्।
३०१.०१०. स तां पेयामादाय लघुलध्वेव येन भगवांस्तेनोपसंक्रान्तः।
३०१.०११. उपसंक्रम्य भगवन्तमेतदवोचत्--इयं भो गौतम पेया।
३०१.०११. यद्यस्ति ममान्तिकेऽनुकम्पा, पिबेद्भगवान् गौतमः पेयामिति।
३०१.०१२. ततो भगवता ब्राह्मणस्य जीर्णकूपो दर्शितह्--सचेत्ते ब्राह्मण परित्यक्ता, अस्मिञ्जीर्णकूपे प्रक्षिपेति।
३०१.०१३. तेन तस्मिञ्जीर्णकूपे प्रक्षिप्ता।
३०१.०१३. स जीर्णकूपो वाप्यायमानः पेयापूर्णः, यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन्
३०१.०१४. ततो भगवता स ब्राह्मणोऽभिहितह्--चारय महाब्राह्मण पेयामिति।
३०१.०१५. स चारयितुमारब्धः।
३०१.०१५. भगवता तथा अधिष्ठिता यथा सर्वसंघेन पीता।
३०१.०१६. स च जीर्णकूपो वाप्यायमानस्तथैव पेयापूर्णोऽवस्थितः।
३०१.०१७. ततोऽसौ ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय्
३०१.०१८. तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरायसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्।
३०१.०२०. अतिक्रान्तोऽहं भदन्त, अतिक्रान्तः।
३०१.०२०. एषोऽहं भगवन्तं बुद्धं शरणं गच्छामि धर्मं च भिक्षुसंघं च्
३०१.०२१. उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्।
३०१.०२२. अथासौ ब्राह्मणो वणिगिव लब्धलाभः शस्यसम्पन्न इव कृषीवलः शूर इव विजितसंग्रामः सर्वरोगनिर्मुक्त इवातुरो भगवतो भाषितमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तो यावत्क्षेत्रं गतः।
३०१.०२५. पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्।
३०१.०२५. दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनो गाथां भाषते--
३०१.०२७. अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।
३०१.०२८. अद्यैव वापितं बीजमद्यैव फलदायकम्॥१॥
३०१.०२९. ततोऽसौ ब्राह्मणस्त्वरितत्वरितं राज्ञः सकाशमुपसंक्रान्तः।
३०१.०२९. उपसंक्रम्य जयेनायुषा वर्धयित्वा राजानमुवाच--देव, मया यवाः प्रकीर्णाः, ते सौवर्णाः संवृत्ताः।
३०१.०३०. तस्याधिष्ठायकेन प्रसादः क्रियतामिति।
३०१.०३१. राज्ञा अधिष्ठायकोऽनुप्रेषितः।
३०१.०३१. ब्राह्मणेन राशीकृत्य भाजितः।
३०१.०३१. राजभागः स्वाभाविका यवाः संवृत्ताः।
३०१.०३२. अधिष्ठायकेन राज्ञे निवेदितम्।
३०१.०३२. राज्ञा समादिष्टम्--<३०२>पुनर्भाजयतेति।

३०२.००१. तैः पुनर्भाजितम्।
३०२.००१. तथैव राजभागः स्वाभाविका यवाः संवृत्ताः।
३०२.००१. एवं यावत्सप्तकृत्वो भाजितम्।
३०२.००२. तथैव्
३०२.००२. राजा कुतूहलजातः स्वयमेव पश्यति--तथैव्
३०२.००३. तेनासौ ब्राह्मणोऽभिहितह्--ब्राह्मण, तवैतत्पुण्यनिर्जातम्।
३०२.००३. अलं राजभागेन, यथाभिप्रेतं तन्ममानुप्रयच्छेति।
३०२.००४. ततस्तेन ब्राह्मणेन परितुष्टेन यद्दत्तम्, तत्सौवर्णाः संवृत्ताः॥
३०२.००५. ततो भगवान् संप्रस्थितः।
३०२.००५. यावदन्यतमस्मिन् प्रदेशे पञ्चकार्षशतान्युत्पाडूत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लङ्गलानि वाहयन्ति।
३०२.००६. तेऽपि बलीवर्दा बद्धैः प्रयोक्त्रैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्मुहुर्निश्वसन्तो वहन्ति।
३०२.००७. तदृशुस्ते कार्षाका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववद्यावदुपचितकुशलमूलसत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्।
३०२.००९. ततो येन भगवांस्तेनोपसंक्रान्ताः।
३०२.००९. अद्राक्षीद्भगवांस्तान् कार्षकान् दूरादेव्
३०२.०१०. दृष्ट्वा च पुनर्विनेयापेक्षया मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः।
३०२.०१०. एत कार्षका भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णाः।
३०२.०११. ततो भगवता तेषां कार्षकाणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसम्प्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोताअपत्तिफलं साक्षात्कृतम्।
३०२.०१४. ते दृष्टसत्या येन भगवांस्तेनोपसंक्रान्तः।
३०२.०१४. प्रणमय्य भगवन्तमिदमवोचत्--देशय भदन्त, स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
३०२.०१५. चरेम भगवतोऽन्तिके ब्रह्मचर्यमिति।
३०२.०१६. ते भगवता एहिभिक्षुकया प्रव्राजिताः पूर्ववद्यावत्तेऽवस्थिता बुद्धमनोरथेन्
३०२.०१७. तेषां भगवता अववादो दत्तः।
३०२.०१७. तैर्युज्यमानैः पूर्ववदभिवाद्याश्च संवृत्ताः।
३०२.०१७. तेऽपि बलीवर्दा योक्त्राणि वरत्राणि च च्छित्त्वा येन भगवांस्तेनोपसंक्रान्ताः।
३०२.०१८. उपसंक्रम्य भगवन्तं सामन्तकेन अनुपरिवार्यावस्थिताः।
३०२.०१९. तेषां भगवता त्रिभिः पदार्थैर्धर्मो देशितः पूर्ववद्यावद्यथा गङ्गावतारे हंसमत्स्यकूर्माणां यावद्दृष्टसत्याः स्वर्भवनं गताः॥
३०२.०२१. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुह्--किं नु तैः कार्षकपूर्वकैर्भिक्षुभिः कर्म कृतं येन कार्षकाः संवृत्ताः, भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? तैर्बलीवर्दपूर्वकैर्देवपुत्रैः किं कर्म कृतम्, यन बलीवर्देषूपपन्नाः, सत्यदर्शनं च कृतमिति? भगवानाह--एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसम्भाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥
३०२.०२६. भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि।
३०२.०२७. पूर्ववत् ।
३०२.०२७. स वाराणसीनगरीमुपनिश्रित्य विहरति ऋषिवदने(पतने) मृगदाव्
३०२.०२८. तस्य शासने एतानि पञ्च कर्षकशतानि प्रव्रजितान्यभूवन्।
३०२.०२८. तत्रैभिर्न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः।
३०२.०२९. किं तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनाभिनामितम्॥

३०३.००१. <३०३>किं मन्यध्वे भिक्षवो यानि तानि पञ्च भिक्षुशतानि, एतान्येव तानि पञ्च कर्षकशतानि।
३०३.००२. योऽसौ विहारस्वामी, स एवासौ गृहपतिर्यस्यैते कार्षहाः।
३०३.००२. यदेभिर्विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः, किं तु संगणिकाभिरतैः कौसीद्येनाभिनामितम्, तेन कर्मणा पञ्च जन्मशतानि तस्य विहारस्वामिनः कार्षकाः संवृत्ताः।
३०३.००५. यावदेतर्ह्यपि तस्यैव कार्षका जाताः।
३०३.००५. यदेभिः काशयपस्य सम्यक्सम्बुद्धास्य शासने प्रव्रज्य ब्रह्मचर्यं चरितम्, तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
३०३.००७. ते च बलीवर्दपूर्विणो देवपुत्राः काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजिता आसन्।
३०३.००८. तत्रैभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि।
३०३.००८. तेन कर्मणा बलीवर्देषूपपन्नाः।
३०३.००९. यन्ममान्तिके चित्तमभिप्रसादितम्, तेन देवेषूपपन्नाः।
३०३.००९. यत्काश्यपे सम्यक्सम्बुद्धे ब्रह्मचर्यं वासितम्, तेनेदानीं देवपुत्रभूतैः सत्यदर्शनं कृतम्।
३०३.०१०. इति भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, पूर्ववद्यावदाभोगः करणीयः।
३०३.०११. इत्येवं वो भिक्षवः शिक्षितव्यम्॥
३०३.०१३. तत्र भगवानायुच्मन्तमामन्त्रयते स्म--आगमय आनन्द येन तोयिका।
३०३.०१३. एवं भदन्तेत्यायुष्मानानन्दो भगवतोऽश्रौषीत् ।
३०३.०१४. भगवांस्तोयिकामनुप्राप्तः।
३०३.०१४. तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति।
३०३.०१५. अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रं पूर्ववद्यावत्समन्ततो भद्रकम्।
३०३.०१६. दृष्ट्वा संलक्षयति--यदि भगवन्तं गौतममुपेत्य अभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यति।
३०३.०१७. अथ नोपेत्याभिवादयिष्यामि, पुण्यपरिहाणिः।
३०३.०१८. तत्कोऽसावुपायः स्याद्येन मे न कर्मपरिहाणि स्यान्नापि पुण्यपरिहाणिरिति? तस्य बुद्धिरुत्पन्ना--अत्रस्थ एवाभिवादनं करोमि।
३०३.०१९. एवं न कर्मपरिहाणिर्भवति नापि पुण्यपरिहाणिरिति।
३०३.०२०. तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनाभिवादनं कृतम्--अभिवादये बुद्धं भगवन्तम्।
३०३.०२१. तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--क्षण आनन्द एष ब्राह्मणः।
३०३.०२२. सचेदस्यैवं सम्यक्प्रत्यात्मज्ञानदर्शनं प्रवर्तत्
३०३.०२२. एतस्मिन् प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितोऽस्ह्तिसंघातस्तिष्ठतीति।
३०३.०२३. अथानेनोपसंक्रम्य वन्दितो भवेयम्।
३०३.०२३. एवमनेन द्वाभ्यां सम्यक्सम्बुद्धाभ्यां वन्दना कृता भवेत् ।
३०३.०२४. तत्कस्य हेतोह्? अस्मिन्नानन्द प्रदेशे काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठतीति।
३०३.०२५. अथायुष्मानानन्दो लघुलघ्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्य भगवन्तमिदमवोचत्--निषीदतु भगवान् प्रज्ञप्त एवासन्
३०३.०२७. एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्सम्बुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्सम्बुद्धेन, यच्चैतर्हि भगवतेति।
३०३.०२८. निषण्णो भगवान् प्रज्ञप्त एवासन्
३०३.०२८. निषद्य भगवान् भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम्? एतस्य भगवन् कालः, एतस्य सुगत समयोऽयम्।
३०३.०३०. भगवान् भिक्षूणां काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितं शरीरसंघातमुपदर्शयतु, दृष्ट्वा भिक्षवश्चित्तमभिप्रसादयिष्यन्ति।
३०३.०३२. भगवता लौकिकं चित्तमुत्पादितम्।
३०३.०३२. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकम् <३०४>

३०४.००१. <३०४>चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिकादयोऽपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति।
३०४.००२. नागाः संलक्षयन्ति--किं कारणं भगवता लौकिकं चित्तमुत्पादितम्? भगवान् काश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकामः।
३०४.००३. ततस्तैः काश्यपस्य सम्यक्सम्बुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः।
३०४.००४. तत्र भगवान् भिक्षूनामन्त्रयते स्म--गृह्णीत भिक्षवो निमित्तम्।
३०४.००५. अन्तर्धास्यतीति।
३०४.००५. अन्तर्हितः॥
३०४.००६. राज्ञा प्रसेनजिता श्रुतम्--भगवता श्रावकाणां दर्शनाय अविकोपितः कश्यपस्य सम्यक्सम्बुद्धस्य शरीरसंघात उच्छ्रापित इति।
३०४.००७. श्रुत्वा च पुनः कुतूहलजातः सार्धमन्तह्--पुरेण कुमारौरमात्यैर्भटबलाग्रैर्नैगमजनपदैश्च द्रष्टुं संप्रस्थितः।
३०४.००८. एवं विरूढकोऽनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थपतिः, विशाखा मृगरमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि।
३०४.०१०. यावदसौ अन्तर्हितः।
३०४.०११. तैः श्रुतम्--अन्तर्हितोऽसौ भगवतः काश्यपस्य सम्यक्सम्बुद्धस्य शीररसंघात इति।
३०४.०१२. श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्--वृथा अस्माकमागमनं जातमिति॥
३०४.०१३. अथान्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः।
३०४.०१३. एवं चेतसा चित्तमभिसंस्कृतम्--अस्मान्मे पदाविहारात्कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषिते--
३०४.०१६. शतंसहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति।
३०४.०१८. यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान्॥२॥
३०४.०२०. अन्यतमेनाप्युपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः।
३०४.०२०. एवं चित्तमभिसंस्कृतम्--पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता।
३०४.०२१. अस्य तु मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तस्यापि चित्तमाज्ञाय गाथां भाषते--
३०४.०२३. शतंसहस्राणि सुवर्णपिण्डं जाम्बूनदा नास्य समा भवन्ति।
३०४.०२५. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मेत्तिकपिण्डमेकम्॥३॥ इति।
३०४.०२८. तच्छ्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्पिण्डसमारोपणं कृतम्।
३०४.०२८. अपरैस्तत्र मुक्तपुष्पाणि क्षिप्तानि, एवं चित्तमभिसंस्कृतम्--पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते--

३०५.००१. <३०५>शतंसहस्राणि सुवर्णमूढं जाम्बूनदा नास्य समा भवन्ति।
३०५.००३. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन्मुक्तकपुष्पराशिम्॥४॥ इति।
३०५.००५. अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्--मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्।
३०५.००६. अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते--
३०५.००८. शतसहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति।
३०५.०१०. यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्॥५॥ इति।
३०५.०१२. अपरैस्तत्र दीपमाला दत्ता, चित्तं चाभिसंस्कृतम्--मालाविहारस्य भगवता इयत्पुण्यमुक्तम्।
३०५.०१३. अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
३०५.०१५. शतंसहस्राणि सुवर्णकोट्यो जाम्बूनदा नास्य्भवन्ति।
३०५.०१७. यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्॥६॥ इति।
३०५.०१९. अपरैस्तत्र गन्धाभिषेको दत्तः, चित्तं चाभिसंस्कृतम्--प्रदीपदानस्य भगवता इयत्पुण्यमुक्तम्।
३०५.०२०. अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चेतसा चित्तमाज्ञाय गाथां भाषते--
३०५.०२२. शतसहस्राणि सुवर्णाशयो जाम्बूनदा नास्य समा भवन्ति।
३०५.०२४. यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्॥७॥ इति।
३०५.०२६. अपरैस्तत्र ध्वजपताकारोपणं कृतम्, चित्तं चाभिसंस्कृतम्--पदविहारस्य मृत्पिण्डदानस्य, मुक्तपुष्पाणां मालविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य च इयत्पुण्यमुक्तं भगवता, आस्माकं छत्रध्वजपताकारोपणस्य कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषां चित्तमाज्ञाय गाथां भाषते--

३०६.००१. <३०६>शतसहस्राणि सुवर्णपर्वता मेरोः समा नास्य भवन्ति।
३०६.००३. यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच्छत्रध्वजपताकम्॥८॥
३०६.००५. एषां हि दक्षिणा प्रोक्ता अप्रमेये तथागत्
३०६.००६. समुद्रकल्पे संबुद्धे सार्थवाहे अनुत्तर् ।९॥ इति।
३०६.००७. तेषामेतदभवत्--परिनिर्वृतस्य तावद्भगवतः पूजाकरणादि यत्पुण्यमुक्तं भगवता, तिष्ठतः कियत्पुण्यं भविष्यतीति।
३०६.००८. अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते--
३०६.००९. तिष्ठन्तं पूजयेद्यच्च यच्चापि परिनिर्वृतम्।
३०६.०१०. समं चित्तप्रसादेन नास्ति पुण्यविशेषता।
३०६.०११. एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया॥१०॥
३०६.०१२. अचिन्तियैः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम्।
३०६.०१३. सम्यक्सम्बुद्धानां नालं गुणपारमधिगन्तुम्॥११॥ इति।
३०६.०१४. ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यामनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः।
३०६.०१५. कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकबोधौ, कैश्चिदुष्मगतानि प्रतिलब्धानि, कैश्चिद्मूर्धानः, कैश्चित्सत्यानुलोमः क्षान्त्यः, कैश्चिच्छ्रोताअपत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
३०६.०१८. यद्भूयसा सा पर्षद्बुद्धनिंना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता।
३०६.०१९. सार्धं तत्र ब्राह्मणगृहपतिभिस्तस्मिन् प्रदेशे महः स्थापितह्--तोयिकामहस्तोयिकामह इति संज्ञा संवृत्ता॥


३०६.०२१. इति तोयिकामहावदानमेकत्रिंशत्तमम्॥


                    • अवदान ३२ **********


३०७.००१. दिव्३२ रूपावत्यवदानम्।

३०७.००२. एवं मया श्रुतम्।
३०७.००२. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः।
३०७.००३. सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिभिक्ण्युपासकोपासिकै राज्ञा राजमात्रैर्नानावणिक्छ्रमणब्राह्मणपरिव्राजकनैगमजनपदैर्नागैर्यक्षैर्गन्धर्वैरसुरगतुडकिन्नरमहोरगैः।
३०७.००५. लाभी च भगवान् प्रभुतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां च मनुष्याणां च, तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा।
३०७.००७. तेन खलु पुनः समयेन अयमेव भगवतोऽनुरूप उदारः कल्याणकीर्तिशब्द श्लोकोऽभ्युद्गतह्--इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च बुद्धो भगवान्।
३०७.०१०. स इमां सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुषीं स्वयमभिज्ञाय साक्षात्कृत्वोपसम्पद्य विहरति।
३०७.०११. स धर्मं देशयत्यादौ कल्याणं मध्ये कल्याणां पर्यवसाने कल्याणम्।
३०७.०१२. स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म्
३०७.०१३. तत्र भगवान् भिक्षूनामन्त्रयते स्म--एवं च भिक्षवः सत्त्वा जानीयुह्--दानं दानफलं दानसंविभागस्य च विपाकम्, अपीदानीं योऽसौ चरमः कवलः पश्चिम आलोपः, तमपि नासंविभज्य परिष्वात्मना वा परिभुञ्जीरन्, न चोत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेयुः।
३०७.०१६. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्सत्त्वा योऽसौ चरमः कवलः पश्चिम आलोपः, तमेवादत्त्वा इममसंविभज्य परेष्वात्मना वा परिभुञ्जते, उत्पन्नं चौषां मात्सर्यमलं चित्तं पर्यादाय तिष्ठति॥
३०७.०२०. भिक्षवः सर्वसंशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तमपृच्छन्--आश्चर्यं भदन्त यावच्च भगवत एतर्हि याचकाः प्रियाः।
३०७.०२१. न भिक्षव एतर्हि मम, यथा अतीतेऽप्यध्वनि याचनकाः प्रियाः।
३०७.०२२. तच्च्रूयताम्॥
३०७.०२३. भूतपूर्वं भिक्षवोऽतीतेऽध्वन्युत्तरापथेषु जनपदेषु उत्पलावती नां नगरी राजधानी बभूव ऋद्धा च स्फईता च क्षेमा च आकीर्णबहुजनमनुष्या च्
३०७.०२४. अथापरेण समयेन उत्पलावत्यां नगरराजधान्यां दुर्भिक्षमभूद्दुर्जीवं दुर्लभपिण्डं नसुकरमपताने प्रग्रहणे यापयितुम्।
३०७.०२६. तेन खलु समयेनोत्पलावत्यां राजधान्यां रूपावती नाम स्त्री बभूव अभिरूपा दर्शनीया प्रासादिका शुभवर्णपुष्कलनया समन्वागता।
३०७.०२७. अथ रूपावती स्त्री स्वान्निवेशनान्निष्क्रम्य उत्पलावत्यां राजधान्यां जङ्घाविहारमनुक्रामति।
३०७.०२८. अन्यतरदपवरकं प्राविशत् ।
३०७.०२८. तस्मिन् खलु समये तस्मिन्नपवरके स्त्री प्रसूता, दारकं प्रजाता अभिरूपं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्।
३०७.०३०. तं सा स्त्री क्षुत्क्षामपरीता रैक्षचित्ता दारकं गृह्णाति, इच्छति च स्वानि पुत्रमांसानि भिक्षयितुम्।
३०७.०३१. तां दृष्ट्वा रूपावती स्त्री एतदवोवत्--किमिदं भगिनि कर्तुकामासि? सा आह--जिघत्सितास्मि भगिनि।
३०७.०३२. इच्छामि स्वकानि पुत्रमांसानि <३०८>भक्षयितुम्।

३०८.००१. रूपावती आह--तेनभगिनि निवेशने किंचित्संविद्यतेऽन्नं वा पानं वा भोजनं वा स्वादनीयं वा? दुर्लभः पुत्रशब्दो लोकस्य्
३०८.००२. न मे भगिनि किंचित्संविद्यते निवेशने अन्नं वा पानं वा खाद्यं वा भोजनं वा स्वादनीयं वा लेह्यं वा।
३०८.००३. दुर्लभं जीवितं लोकस्य्
३०८.००४. रूपावत्याह--तेन हि भगिनि मुहूर्तमागमय, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि।
३०८.००५. सा आह--यत्खलु भगिनि जानीयाह्--कुक्षिर्मे लुप्यति, पृथिवी मे स्फुटति, हृदयं मे धूमायति, दिशो मे न प्रतिभान्ति।
३०८.००६. न तावत्त्वं द्वारशालाया निर्गता भविष्यसि यावन्मे वायव आक्रमिष्यन्ति।
३०८.००७. यथा रूपावत्या एतदभवत्--यदि दारकं गृहीत्वा गमिष्यामि, एषा स्त्री क्षुत्क्षामपरीता कालं करिष्यति।
३०८.००८. अथ दारकमपहाय यास्यामि, नियतं दारकं भक्षयिष्यति।
३०८.००९. यथाकथं पुनर्मम कुर्वन्त्या द्वयोर्जीवितलाभः स्यात्? तस्या एतदभवत्--अनपराध्याशयवति संसारे बहूनि दुःखान्यनुभूतानि असकृ न्नरकेष्वसकृत्तिर्यक्ष्वसकृद्यमलोकेऽसकृ न्मनुष्यलोकेषु हस्तच्छेदाः पादच्छेदाः कर्णच्छेदा कर्णनासाच्छेदा अङ्गप्रत्यङ्गच्छेदास्तथान्यानि विविधानि बहूनि दुःखन्यनुभूतानि।
३०८.०१२. को मया तेनार्थोऽनुप्राप्तो यदा आहमात्मनः स्थामं च बलं च वीर्यं च संजनयित्वा इमां स्त्रियं स्वेन रुधिरेण मांसेन संतर्प्य इमं दारकं परिमोचयेयम्।
३०८.०१४. रूपावती पृच्छति--अस्ति ते भगिनि निवेशने शस्त्रम्? सा स्त्री आह--अस्तीति।
३०८.०१५. तेन हि यत्र भवति, तदुपदर्शय्
३०८.०१५. सा तं प्रदेशमुपदर्शयामास्
३०८.०१६. ततो रूपावत्या स्वयमेव शस्त्रं तीक्ष्णं गृहीत्वा तौ स्तनौ च्छित्त्वा तां स्त्रियं स्वकेन मांसरुधिरेण संतर्पयति स्म्
३०८.०१७. संतर्प्य च तां स्त्रियमेतदवोचत्--यत्खलु भगिनि जानीयाह्--अयं दारको मया स्वकेन मांसरुधिरेण क्रीतः।
३०८.०१८. साहं तव निक्षेपमनुप्रयच्छामि--मा भूयो दारकं भक्षयिष्यसि, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि।
३०८.०१९. सा आह--अद्य तावन् भूयः।
३०८.०२०. अथ रूपावती स्त्री रुधिरेणोद्धरता येन स्वं निवेशनं तेनोपसंक्रान्ता।
३०८.०२१. अद्राक्षीद्रूपावत्याः स्त्रियाः स्वामी रूपावतीम्, स्त्रीं रुधिरेणोद्धरता प्रधरता दूरत एव अगच्छन्तीम्।
३०८.०२२. दृष्ट्वा च पुना रूपावतीमेतदवोचत्--केनेदमेवम्रूपं रूपावति विप्रकारं कृतम्? सौतां प्रकृतिं विस्तरेणारोचयति स्म्
३०८.०२३. आरोचयित्वा एतदवोचत्--प्रज्ञपय आर्यपुत्र तस्या स्त्रिया भक्तम्।
३०८.०२४. स आह--प्रज्ञपय आर्यदुहितस्तस्या भक्तम्।
३०८.०२४. अपि तु सत्यवचनं तावत्करिष्यामि।
३०८.०२४. येनार्यदुहितः सत्येन सत्यवचनेन अयमेवम्रूप आश्चर्याद्भुतो धर्मो न कदाचिद्दृष्टो वा श्रुतो वा, तेन सत्येन सत्यवचनेन उभौ तव स्तनौ यथापौराणौ प्रादुर्भवेताम्।
३०८.०२६. सहकृतेनास्मिन्नेवम्रूपे सत्यवचने तस्या अस्मिन्नेव क्षणे उभौ स्तनौ यथापौराणौ प्रादुर्भूतौ॥
३०८.०२८. अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्--अतित्यागोऽतित्यागगौरवता या रूपावत्या स्त्रिया कृतः।
३०८.०२९. मा हैव सा रूपावती स्त्री अतः शक्रभवनाच्च्यावयेत् ।
३०८.०२९. यन्न्वहमेनां मीमांसेयम्।
३०८.०३०. अथ शक्रो देवेन्द्र उदारब्राह्मणरूपमात्मानमभिनिर्माय सौवर्णदण्डकमण्डलुमादाय सुवर्णदण्डेन मणिवालव्यजनेन वीज्यमानस्तद्यथा बलवान् पुरुषः संमिञ्जितं बाहुं प्रसारयेत्प्रसारितं संमिञ्जयेत्, एवमेव शक्रो देवानामिन्द्रो देवेषु त्रायस्त्रिंशेष्वन्तर्हित उत्पलावत्याम् <३०९>राजधान्यां प्रत्यस्थात् ।

३०९.००१. अथ शक्रो देवानामिन्द्र उत्पलावत्यां राजधान्यां भैक्ष्यमन्वाहिण्डन् यन रूपावत्याः स्त्रिया निवेशनं तेनोपसंक्रम्य द्वारि स्थित्वा भैक्ष्यमुत्क्रोशत्
३०९.००२. ततो रूपावती स्त्री भैक्षमादाय येन स ब्राह्मणवेषधरः शक्रः, तेनोपसंक्रम्य भैक्षमुपनामयत्
३०९.००३. अथ स शक्रो देवानामिन्द्रो रूपावतीं स्त्रियमेतद्वोचत्--सत्यं ते रूपावरि दारकस्यार्थायोभौ स्तनौ परित्यक्तौ? सा आह--आर्य ब्राह्मण सत्यम्।
३०९.००५. स तामाह्--एवं ते रूपावती उभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा अभूच्चित्तस्य विप्रतिसारह्? सा आह--न मे उभौ स्तनौ परित्यजन्त्या अभूच्चित्तस्य विप्रतिसारः।
३०९.००७. शक्र अह--अत्र कः श्रद्धास्यति? रूपावत्याह--तेन हि ब्राह्मण सत्यवचनं करिष्यामि।
३०९.००८. येन सत्येन ब्रह्मन् सत्यवचनेनोभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा नाभूच्चित्तस्यान्यथात्वम्, नाभूच्चित्तस्य विप्रतिसारः, अपि च ब्रह्मन् येन सत्येन मया दारकस्यार्थायोभौ स्तनौ परित्यक्तौ, न राज्यार्थं न भोगार्थं न शक्रार्थं न राज्ञां चक्रवर्तिनां विषयार्थं नान्यत्राहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुध्य अदान्तान् दमयेयम्, अमुक्तान्मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मम स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवेत् ।
३०९.०१४. तस्यास्तस्मिन्नेव क्षणे स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्।
३०९.०१४. अथ खलु शक्रो देवेन्द्रस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तत एव ऋद्ध्या वैहायसमभ्युद्गम्योदानमुदानयति--रूपावत्याः स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्।
३०९.०१६. रूपावत्याः स्त्रियो रूपावतः कुमार इति संज्ञा उत्पादिता॥
३०९.०१८. अथापरेण समयेनोपलावत्यां राजधान्यां नगर्यां राजा अपुत्रः कालगतः।
३०९.०१८. तत्र पिण्डतजातीयानां महामात्राणामेतदभूत्--यन्नु वयमुत्पलावत्यां राहधान्यां राहानं स्थापयेम्
३०९.०२०. तेषामेतदभूत्--नान्यत्र रूपावतकुमारात्कृतपुण्यात्कृतकुशलात् ।
३०९.०२०. ते रूपावतं कुमारमुत्पलावत्यां राजधान्यां राजानं स्थापयन्ति।
३०९.०२१. अथ स षष्टिवर्षाणि राज्यं कारयति।
३०९.०२१. धर्मेण राज्यं कारयित्वा कालमकार्षीत् ।
३०९.०२२. कायस्य भेदात्तस्यामेवोत्पलावत्यां राजधान्यामन्यतमस्य श्रोष्ठिनो गृहपतेरग्रमहिष्याः कुक्षावुपपन्नः।
३०९.०२३. सा पूर्णानामष्टानां वा नवानां वा मासानामत्ययाद्दारकं जनयति अभिरूपं दर्शनीयं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्।
३०९.०२४. तस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया प्रभया चन्द्रस्य प्रभा निष्प्रभीकृता।
३०९.०२५. अथान्यतरा स्त्री येन स श्रेष्ठी गृहपतिस्तेनोपसंक्रान्ता।
३०९.०२६. उपसंक्रम्य श्रेष्ठिनं गृहपतिमेतदवोचत्--यत्खलु गृहपते जानीयाह्--ते दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः शुभया वर्णपुष्कलतया समन्वागतः।
३०९.०२७. तस्य जातमात्रस्य तादृशी कायात्प्रभा प्रमुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता।
३०९.०२८. अथ स श्रेष्ठी गृहपतिस्तुष्ट उदग्र आत्तमनाः प्रीतसौमनस्यजातस्तस्या एव रात्र्या अत्ययाद्ये जानन्ति ब्रह्मणा लक्षण्या नैभित्तिका वैपञ्चिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितज्ञाः, स तान् संनिपात्य दारकमुपदर्शयति--यत्खलु ब्राह्मणा जानीध्वम्--अयमग्रमहिष्या दारको जातोऽभिरूपो दर्शनीयः प्रसादिकाः शुभया वर्णपुष्कलतया समन्वागतः।
३०९.०३२. एतस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता।
३०९.०३३. तदस्य ब्राह्मणा दारकस्य लक्षणानि प्रेक्ष्य <३१०>नाम अवस्थापयति।

३१०.००१. तस्ये त ब्राह्मणा लक्षणनैमित्तिका विपञ्चिका भूम्यन्तरीक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचतितेषु कोविदा दारकमुपगताः।
३१०.००२टे संलक्ष्य वदन्ति--ते गृहपते दारको जातोऽभिरूपो दर्शनीयः प्रसादिकः शुभया वर्णपुष्कलतया समन्वागरः।
३१०.००३. अस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता यया चन्द्रप्रभा निष्प्रभीकृता।
३१०.००४. तद्भवत्वस्य चन्द्रप्रभ इति नाम्
३१०.००५. अथ श्रेष्ठी गृहपतिस्तान् ब्राह्मणान् भोजयित्वा विसर्ज्य चन्द्रप्रभस्य दारकस्य चतस्रो धात्रीरनुप्रयच्छति अङ्कधात्री मलधात्री स्तनधात्री करीडापणिला धात्री।
३१०.००६. अङ्कधात्रीत्युच्यते या दारकमङ्केन परिकर्षयति, अङ्कप्रत्यङ्गानि च संस्थापयति।
३१०.००७. मलधात्रीत्युच्यते या दारकं स्नाअपयति, चीवरकान्मलं प्रपातयति।
३१०.००८. स्तन्यधात्र्युच्यते या दारकं स्तन्यं पाययति।
३१०.००९. क्रूडापनिका धात्र्युच्यते यानि तानि दारकाणां दक्षकाणां तरुणकानां क्तीडापनिकानि भवन्ति, यद्यथा--अकायिका सकायिका वित्कोडिका(?) स्यपेटारिका वंशघटिका संधावणिका हस्तिविग्रहा अश्वविग्रहा बलीवर्दविग्रहाः कथयन्ति धनुर्ग्रहाः काण्डकटच्छुपूरकूर्चभैषज्यस्थविकाश्च पुरतः पतिकृष्यन्त्
३१०.०१२. स आभिश्चतसृभिरुन्नीयते वर्ध्यते महता श्रीसौभाग्येन्
३१०.०१२. यदा चन्द्रप्रभो दारकोऽष्टवर्षो जात्या संवृत्तः, तदैनं मातापितरौ सुस्नातं सुविलिप्तं सर्वालंकारविभूषितं कृत्वा संबहुलैर्दारकैः परिवृत्तं लिपिं प्रापयन्त्
३१०.०१४. तेन खलु समयेन तस्यां लिपिशालायां पञ्चमात्रकदारकशतानि लिपिं शिक्षन्ति।
३१०.०१५. अथ चन्द्रप्रभो दारकस्तान् दारकानेतदवोचत्--एतद्दारका वयं सर्वेऽनुत्तरां सम्यक्सम्बोधिमभिसम्बोधौ चित्तमुत्पादयेम्
३१०.०१६. ते आहुह्--किं चन्द्रप्रभ बोधिसत्त्वेन करणीयम्? स आह--षट्पारमिताः परिपूरयितव्याः।
३१०.०१७. कतमाः षट्? तद्यथा--दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता।
३१०.०१८. तदहं दानं ददामि, यन्न्वहं तिर्यग्योनिगतेभ्योऽपि दानं दद्याम्।३१०.१९. स तीक्ष्णं शस्त्रमादाय मधुसर्पिश्च येनान्यतरं महाश्मशानं तेनोपसंक्रान्तः।
३१०.०२०. शस्त्रेणात्मनः कायं क्षणित्वा मधुसर्पिषा म्रक्षयित्वा तस्मिन् स महाश्मशाने आत्मानं वधायोत्सृजति।
३१०.०२१. तेन च समयेन तस्मिन्महाश्मशाने उच्चंगमः पक्षी प्रतिवसति।
३१०.०२२. स चन्द्रप्रभस्य दारकस्याङ्गे स्थित्वा दक्षिणं नयनं गृहीत्वा उत्पाटयति, पुनर्मुञ्चति।
३१०.०२३. द्विरपि त्रिरपि उच्चंगमः प्राणी चन्द्रप्रभस्य दारकस्य दक्षिणं नयनं गृहीत्वा उत्पाटयित्वा पुनर्मुञ्चति।
३१०.०२४. अथ चन्द्रप्रभो दारक उच्चंगमं पक्षिणमिदमवोचत्--किमिदं पक्षि मम नयनं गृहीत्वा उत्पाटयित्वा उत्पाटयित्वा पुनः प्रमुञ्चसि? स आह--न मम चन्द्रप्रभ किंचिदेवामिष्ये(?) यथा मनुष्याक्षि।
३१०.०२६. तं मन्ये चन्द्रप्रभ वारयिष्यसि? चन्द्रप्रभ आह--सचेन्मम पक्षी सहस्रकृत्वो नयनं गृहीत्वा उत्पाटयतु, पुनर्मुञ्च (तु), न त्वेवाहं वारयेयम्।
३१०.०२८. इत्युक्त्वा तावन्तः पक्षिणः संनिपतिताः।
३१०.०२८. येन चन्द्रप्रभो निर्मांसोऽस्थिशकलीकृतः।
३१०.०२९. स कालमकार्षीत् ।
३१०.०२९. तस्यामेवोत्पलावत्यां राजधान्यामन्यतरस्य ब्राह्मणमहाशालस्याग्रमहिष्याः कुक्षौ उपपन्नः।
३१०.०३०. सा पूर्णानां नवानां मासानामत्ययाद्दारकं जनयति, अभिरूपं दर्शनीयं प्रासादिकां शुभया वर्णपुष्कलतया समन्वागतम्।
३१०.०३२. तस्य मातापितरौ ब्राह्मप्रभ इति नाम स्थापितवन्तौ।
३१०.०३३. यदा ब्राह्मप्रभो नाम माणवकोऽष्टवर्षजातीयः संवृत्तः, तेन सर्वे ब्राह्मणका <३११>मन्त्रा अधीताः।

३११.००१. यदा ब्रह्मप्रभो माणवको द्वादशवर्षजातीयः संवृत्तः, स पञ्चमात्राणि माणवकानि स्वयमेव मन्त्रान् वाचयति।
३११.००२. यदा ब्रह्मप्रभो माणवकः षोडशवर्षो जात्या संवृत्तः, तदैनं मातापितरौ आहतुह्--ब्रह्मप्रभ, तवार्थाय निवेशनं करिष्यावः।
३११.००३. स आह--अम्ब तात, न तावन्मम निवेशनेन प्रयोजनम्।
३११.००४. तौ आहतुह्--किं पुनस्त्वं ब्रह्मप्रभ करिष्यसि? स आह--इच्छाम्यहं सत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्।
३११.००५. तौ आहतुह्--यस्येदानीं ब्रह्मप्रभ कालं मन्यस्
३११.००६. ब्रह्मप्रभमाणवको मातापित्रोः पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य उत्पलावत्या राजधान्या निष्क्रम्य येनान्यतरद्वनषण्डं तेनोपसंक्रान्तः।
३११.००७. तेन खलु समयेन तस्मिन् वनषण्डे द्वौ ब्राह्मणर्षी प्रतिवसतः।
३११.००८. अपश्यतां ब्राह्मणर्षीं ब्रह्मप्रभं माणवकं दूरत एवागच्छन्तम्।
३११.००९. दृष्ट्वा च ब्रह्मप्रभं माणवकमेतदवोचत्--एहि ब्रह्मप्रभ, स्वागतम्, मा श्रान्तोऽसि, मा क्लान्तः।
३११.०१०. किमर्थमिदं वनषण्टमभ्यागतह्? स आह--इच्छाम्यहं सर्वसत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्।
३११.०११. तौ आहतुह्--एवमस्तु, भवतु, ऋद्ध्यन्तां संकल्पाः, परिपूर्यन्तां मनोरथाः॥
३११.०१२. अथ ब्रह्मप्रभो माणवकोऽन्यतरस्मिन् प्रदेशे कुटीं कारयित्वा चंक्रमं प्रतिष्ठाप्य सत्त्वानामर्थाय तपस्तप्तवान्।
३११.०१३. अथापरेण समयेन ब्रह्मप्रभस्य कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता।
तां ब्रह्मप्रभो माणवकोऽद्राक्षीत् ।
३११.०१४. तां दृष्ट्वा च येन पुनस्तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः।
३११.०१४. उपसंक्रम्य तौ च ब्रह्मर्षी एतदवोचत्--यत्खलु ऋषी जानीताम्--इह मे कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता।
३११.०१६. तस्याः क उत्सहते भक्तं दातुम्? तौ आहतुह्--आवां तस्या भक्तं दास्यावः।
३११.०१७. अथापरेण समयेन व्याघ्री प्रसूता क्षुत्क्षामपरीता इच्छति स्वकौ पोतकौ भक्षयितुम्।
३११.०१७. एकं पोतकं गृह्णाति द्वितीयं मुञ्चति, न भक्षयति।
३११.०१८. तां ब्रह्मप्रभो माणवकोऽपश्यत् ।
३११.०१८. दृष्ट्वा च पुनर्येन तौ ब्रह्मर्षी तेनोपसंक्रान्तः।
३११.०१९. उपसंक्रम्य पुनर्येन तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः।
३११.०२०. उपसंक्रम्य द्वौ ब्रह्मर्षी एतदवोचत्--यत्खलु ब्राह्मणौ जानीताम्--सा व्याघ्री प्रसूता क्षुत्क्षामपरीता स्वकौ पोतकौ भक्षयितुमिच्छति।
३११.०२१. एकं पोतकं गृहीत्वा द्वितीयं मुञ्चति न भक्षयति।
३११.०२२. तस्याः क उत्सहते भक्तं दातुम्? तौ आहतुह्--आवां तस्या भक्तं दास्यावः।
३११.०२२. अथ तौ ब्रह्मर्षी येन सा व्याघ्री तेनोपसंक्रान्तौ।
३११.०२३. अपश्यत्सा व्याघ्री ब्रह्मर्षी दूरत एवागच्छन्तौ।
३११.०२४. दृष्ट्वा च क्षुत्क्षामपरीता अभिद्रवितुकामा।
३११.०२४. तयोरेतदभूत्--क उत्सहते तिर्यग्योनिगरस्यार्थाय जीवितं परित्यक्तुमिति? तौ तत एव ऋद्ध्या वैहायसमभिनिर्गतौ।
३११.०२५. ब्रह्मप्रभो माणवकोऽद्राक्षीत् ।
३११.०२६. दृष्ट्वा च पुनस्तौ ब्रह्मर्षी एतदवोचत्--ननु ब्राह्मणौ, युवाभ्यामेतदुक्तम्--आवामस्या भक्तं दास्याव इति।
३११.०२७. एतत्खलु ब्राह्मणौ युवयोर्ब्राह्मणजात्योः सत्यम्? तौ आहतुह्--क उत्सहते तिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्? ब्रह्मप्रभो माणवक आह--अहमुत्सहेतिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्।
३११.०२९. अथ स ब्रह्मप्रभो माणवको येन सा व्याघ्री तेनोपसंक्रान्तः।
३११.०३०. तस्या व्याघ्र्याः पुरत आत्मानमवसृजति स्म्
३११.०३०. ब्रह्मप्रभो माणवो भैत्रीविहारी बभूव्
३११.०३१. सा तं न शक्ताभिद्रोतु(ग्धु)म्।
३११.०३१. अथ ब्रह्मप्रभस्य माणवस्यैतदभवत्--इयं मम व्याघ्री साविज्ञानकं कायं न भक्षयति।
३११.०३२. स इतश्चेतश्च विलोकितवान्।
३११.०३२. ततस्तीक्ष्णं च वेणुपेशीं तीक्ष्णां गृहीत्वा इदमेवं रूपं सत्यवचनमकरोत्--समन्वाहरन्तु मे येऽस्मिन् वनषण्डेऽध्युषिता <३१२>उदारा देवा नागा यक्षा असुरा गरुडाः किन्नरा महोरगाः, तेऽपि सर्वे समन्वाहरन्तु।

३१२.००२. अयमहं त्यागं करिष्यामि, अतित्यागं त्यागातित्यागं स्वयं गलपरित्यागम्।
३१२.००२. अपि तु येनाहं सत्येन सत्यवचनेन परित्यजामि, न राज्यार्थं न भोगार्थं न शक्राथं न राजचक्रवर्तिविषयार्थम्, अन्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिधिमभिसम्बुध्य अदान्तान् दमयेयम्, अतिर्णांस्तारयेयम्, अमुक्तान्मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मा मे परित्यागो निष्फलो भूदिति कृत्वा स्वयमेव गलं छित्त्वा तस्या व्याघ्र्या पुरत उपनिक्षिपति।
३१२.००८. व्याघ्रीनखावलिविलासविलुप्यमाना वक्षःस्थली क्षणमलक्ष्यत वीक्षयारा(?)।
३१२.०१०. रोमाञ्चचर्चिततनोस्तुहिनांशुशुभ्रसत्त्वा प्रकाशकिरणाङ्कुरपूरितेव् ।१॥
३१२.०१२टस्यामिषाहरणशोणितपानमत्तां व्याघ्रीं सहस्रमवलोकयतश्चकार्
दीर्घप्रवाससमयाकुलिता मुहूर्तं कण्ठावलम्बनधृतिं निजजीववृत्तिः॥२॥
३१२.०१६. सहपरित्यक्ते खलु भिक्षवो ब्रह्मप्रभेण माणवेन स्वके गले, अयं र्तिसाहस्रमहासाहस्रो लोकधातुः कम्पति संकम्पति संप्रकम्पति, चलति संचलति, वेधति संवेधति संप्रवेधति, पूर्वा दिगुन्नमति पश्चिमा अवनमति, पश्चिमा दिगुन्नमति पूर्वा दिगुन्नमति, दक्षिणा दिगुन्नमति उत्तरा दिगवनमति, उत्तरा दिगुन्नमति दक्षिणा दिगवनमति, मध्यमुन्नमति, अन्तोऽवनमति, अन्त उन्नमति, मध्यमवनमति, सूर्यचन्द्रमसौ न तपतो न भासतो न विराजतः॥
३१२.०२१. स्याद्युष्माकं भिक्षवोऽन्या सा तेन समयेनोत्तरापथेषु जनपदेषूत्पलावतीनां नगरीराजधानी बभूव्
३१२.०२२. न ह्येवं द्रष्टव्यम्।
३१२.०२२. पुष्कलावतं तेन कालेन तेन समयेनोत्पलावतं नाम नगरं राजधानी बभूव्
३१२.०२३. स्याद्भिक्षवो युष्माकं काङ्क्षा विमतिर्वा--अन्यः स तेन कालेन तेन समयेनोत्पलावते नगरे राजधान्यां रूपावती स्त्री बभूव्
३१२.०२४. न ह्येवं द्रष्टव्यम्।
३१२.०२४. अहं स तेन कालेन तेन समयेन रूपावती नाम स्त्री बभूव्
३१२.०२५. स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा--अन्या सा तेन कालेन तेन समयेनापवरके स्त्री प्रसूता।
३१२.०२६. न चैवं द्रष्टव्यम्।
३१२.०२६. चन्द्रप्रभमाणविका तेन कालेन तेन समयेनापवरके स्त्री प्रसूता।
३१२.०२७. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यस्तेन कालेन तेन समयेन दारको बभूव्
३१२.०२८. न ह्येवं द्रष्टव्यम्।
३१२.०२८. राहुलः कुमारः स तेन कालेन तेन समयेन दारकोऽभूत् ।
३१२.०२९. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव्
३१२.०३०. न ह्येवं द्रष्टव्यम्।
३१२.०३०. अहमेव स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव्
३१२.०३१. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतान्यभूवन्।
३१२.०३२. न ह्येवं द्रष्टव्यम्।
३१२.०३३. इमानि तानि पञ्च एतद्भद्रिकशतानि तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतानि <३१३>अभूवन्।

३१३.००१. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन तस्मिन्महाश्मशाने उच्चंगमो नाम पक्षी बभूव्
३१३.००२. न ह्येवं द्रष्टव्यम्।
३१३.००२. कौण्डिन्यो भिक्षुस्तेन कालेन तेन समयेनोञ्चंगमो नाम पक्षी बभूव्
३१३.००३. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवोऽभूत् ।
३१३.००४. न हैवं द्रष्टव्यम्।
३१३.००५. अहमेव स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवोऽभूत् ।
३१३.००५. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूताम्।
३१३.००७. न हैवं द्रष्टव्यम्।
३१३.००७. राजा शुद्धोदनो मायादेवी तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूवताम्।
३१३.००८. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन वनमभूत् ।
३१३.००९. .... स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन कालेन तेन समयेन द्वौ ब्रह्मर्षी अभूताम्।
३१३.०१०. न हैवं द्रष्टव्यम्।
३१३.०१०. मैत्रेयो बोधिसत्त्वः सुप्रभश्च बुद्धस्तेन कालेन तेन समयेन तस्मिन् वनषण्डे द्वौ ब्रह्मर्षी अभूताम्।
३१३.०११. स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन व्याघ्री बभूव्
३१३.०१२. न हैवं द्रष्टव्यम्।
३१३.०१२. कौण्डिन्यो भिक्षुः स तेन कालेन तेन समयेन द्वौ व्याघ्रपोतौ बभूवतुः।
३१३.०१५. न हैवं द्रषव्यम्।
३१३.०१५. नन्दो भिक्षू राहुलश्च तेन कालेन तेन समयेन व्याघ्रपोतकौ अभूताम्।
३१३.०१६. तदा मे भिक्षवश्चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन गलपरित्यागेन पश्चान्मुखीकृतः।
३१३.०१७. तदनेन भिक्षवः पर्यायेण वेदितव्यम्।
३१३.०१७. एवं सचेत्सर्वे सत्त्वा जानीयुह्--दानस्य फलं दानसंविभागस्य च विपाकं यथा अहं जानाभि दानस्य फलं दानसंविभागस्य च विपाकम्, योऽसौ चरमः कवलः पश्चिम आलोपः, तमापि नादत्त्वा नासंविभज्यापरेष्वात्मना नोपभुञ्जीरन्, नाप्युत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत् ।
३१३.०२०. यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च विपाकम्, तस्मात्सत्त्वा योऽसौ चरमः कवलः पश्चिम आलोपः, तमप्यदत्त्वा असंविभज्य अपरेषामात्मना परिभुञ्जते, उत्पन्नश्चैषां मात्सर्यमलश्चित्तं पर्यादाय तिष्ठति॥
३१३.०२३. पुनाकृतं न पश्यति नो शुभाशुभं न सेवितम्।
३१३.०२४. न पश्यति पण्डिते जने न नाशमेत्यार्यगण् ।३॥
३१३.०२५. शुभाशुभं कृतं कृतज्ञेषु न जातु नश्यति।
३१३.०२६. सुकृतं शोभनं कर्म दुष्कृतं चाप्यशोभनम्।
३१३.०२७. उभयस्य विपाकोऽस्ति ह्यवश्यं दास्यते फलम्॥४॥
३१३.०२८. इदमवोचद्भगवान्।
३१३.०२८. आत्तमनसो भिक्षवो भिक्षुण्य उपासका उपासिका देवनागयक्षासुरगरुडकिन्नरमहोरगाः सर्वावती च परिषद्भगवतो भाषितमभ्यनन्दन्॥


३१३.०३०. रूपावत्यवदानं द्वात्रिंशत्तमम्॥


                    • अवदान ३३ **********


३१४.००१. दिव्३३ शार्दूलकर्णावदानम्।

३१४.००२. एवं मया श्रुतम्।
३१४.००२. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्याराम्
३१४.००३. अथायुष्मानानन्दः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत् ।
३१४.००४. अथायुष्मानानन्दः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यो येनान्यतममुदपानं तेनोपसंक्रान्तः।
३१४.००५. तेन खलु समयेन तस्मिन्नुदपाने प्रकृतिर्नाम मातङ्गदारिका उदकमुद्धरते स्म्
३१४.००६. अथायुष्मानानन्दः प्रकृतिं मातङ्गदारिकामेतदवोचत्--देहि मे भगिनि पानीयम्, पास्यामि।
३१४.००७. एवमुक्ते प्रकृतिर्मातङ्गदारिका आयुष्मन्तमानन्दमिदमवोचत्--मातङ्गदारिकाहमस्मि भदन्त आनन्द्
३१४.००८. नाहं ते भगिनि कुलं वा जातिं वा पृच्छामि।
३१४.००८. अपि तु सचेत्ते परित्यक्तं पानीयम्, देहि, पास्यामि।
३१४.००९. अथ प्रकृतिर्मातङ्गदारिका आयुष्मत आनन्दाअय पानीयमदात् ।
३१४.०१०. अथायुष्मानानन्दः पानीयं पीत्वा प्रक्रान्तः॥
३१४.०११. अथ प्रकृतिर्मातङ्गदारिका अथायुष्मत आनन्दस्य शरीरे मुखे स्वरे च साधु च सुष्ठु च निमित्तमुद्गृहीत्वा योनिशोमनसिकारेणाविष्टा संरागचित्तमुत्पादयति स्म--आर्यो मे आनन्दः स्वामी स्यादिति।
३१४.०१३. माता च मे महाविद्याधरी।
३१४.०१३. सा शक्ष्यत्यार्यमानन्दमानयितुम्।
३१४.०१३. अथ प्रकृतिर्मातङ्गदारिका पानीयघटमादाय येन चण्डालगृहं तेनोपसंक्रम्य पानीयघटमेकान्ते निक्षिप्य स्वां जननीमिदमवोचत्--यत्खलु एवमम्ब जानीयाह्--आनन्दो नाम श्रमणो महाश्रमणगौतमस्य श्रावक उपस्थायकः।
३१४.०१६. तमहं स्वामिनमिच्छामि।
३१४.०१६. शक्ष्यसि तमम्ब आनयितुम्? सा तामवोचत्--शक्ताहं पुत्रि आनन्दमानयितुं स्थापयित्वा यो मृतः स्याद्यो वा वीतरागः।
३१४.०१८. अपि च्
३१४.०१८. राजा प्रसेनजित्कौशलः श्रमणगौतममतीव सेवते भजते पर्युपासन्
३१४.०१८. यदि जानीयात्, सोऽयं चण्डालकुलस्यानर्थाय प्रतिपद्येत्
३१४.०१९. श्रमणश्च गौतमो वीतरागः श्रूयत्
३१४.०२०. वीतरागस्य {मन्त्राह्} पुनः सर्वमन्त्रानभिभवन्ति।
३१४.०२०. एवमुक्ता प्रकृतिर्मातङ्गदारिका मातरमिदमवोचत्--सचेददम्ब श्रमणो गौतमो वीतरागः, तस्यान्तिकाच्छ्रमणमानन्दं न प्रतिलप्स्ये, जीवितं परित्यजेयम्।
३१४.०२२. सचेत्प्रतिलप्स्ये, जीवामि।
३१४.०२२. मा ते पुत्रि जीवितं परित्यजसि।
३१४.०२२. आनयामि श्रमणमानन्दम्॥
३१४.०२४. अथ प्रकृतेर्मातङ्गदारिका माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीमालिप्य दर्भान् संस्तीर्य अग्निं पज्वाल्य अष्टशतमर्कपुष्पाणां गृहीत्वा मन्त्रानावर्तयमाना एकैकमर्कपुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म्
३१४.०२६. तत्रेयं विद्या भवति--
३१४.०२७. अमले विमले कुङ्कुमे सुमन्
३१४.०२७. येन बद्धासि विद्युत् ।
३१४.०२७. इच्छया देवो वर्षति विद्योतति गर्जति।
३१४.०२८. विस्मयं महाराजस्य समभिवर्धयितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्यः शिखिग्रहा देवा विशिखिग्रहा देवा आनन्दस्यागमनाय संगमनाय क्रमणाय ग्राणाय जुहोमि स्वाहा॥

३१५.००१. <३१५>अथायुष्मत आनन्दस्य चित्तमक्षिप्तम्।
३१५.००१. स विहारान्निष्क्रम्य येन चण्डालगृहं तेनोपसंक्रामति स्म्
३१५.००२. अद्राक्षीच्चण्डाली आयुष्मन्तमानन्दं दूरादेवागच्छन्तम्।
३१५.००२. दृष्ट्वा च पुनः प्रकृतिं दुहितरमिदमवोचत्--अयमसौ पुत्रि श्रमण आनन्द आगच्छति।
३१५.००३. शयनं प्रज्ञपय्
३१५.००४. अथ प्रकृतिर्मातङ्गदारिका हृष्टतुष्टा प्रमुदितमना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म् ।
३१५.००५. अथायुष्मानान्दो येन चण्डालगृहं तेनोपसंक्रान्तः।
३१५.००५. उपसंक्रम्य वेदीमुपनिश्रित्यास्थात् ।
३१५.००५. एकान्तस्थितः स पुनरायुष्मानान्दः प्रारोदीत् ।
३१५.००६. अश्रूणि प्रवर्तयमान एवमाह--व्यसनप्राप्तोऽहमस्मि।
३१५.००७. न च मे भगवान् समन्वाहरति।
३१५.००७. अथ भगवानायुष्मन्तमानन्दं समन्वाहरति स्म्
३१५.००८. समन्वाहृत्य संबुद्धमन्त्रैश्चण्डालमन्त्रान् प्रतिहन्ति स्म्
३१५.००८. तत्रेयं विद्या--
३१५.००९. स्थितिरच्युतिः सुनीतिः। स्वस्ति सर्वप्राणिभ्यः॥
३१५.०१०. सरः प्रसन्नं निर्देषं प्रशान्तं सर्वतोऽभयम्।
३१५.०११. ईतयो यत्र शाम्यन्ति भयानि चलितानि च् ।१॥
३१५.०१२. तद्वै देवा नमस्यन्ति सर्वसिद्धाश्च योगिनः।
३१५.०१३. एतेन सत्यवाक्येन स्वस्त्यानन्दास्य भिक्षव् ।२॥
३१५.०१४. अथायुष्मानान्दः प्रतिहतचण्डालमन्त्रश्चण्डालगृहान्निष्क्रम्य येन स्वको विहारस्तेनोपसंक्रमितुमारब्धः॥
३१५.०१६. अद्राक्षीत्प्रकृतिर्मातङ्गदारिका आनन्दमायुष्मन्तं प्रतिगच्छन्तम्।
३१५.०१६. दृष्ट्वा च पुनः स्वां जननीमिदमवोचत्--अयमसौ मातः श्रमण आनन्दः प्रतिगच्छति।
३१५.०१७. तामाह माता--नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति।
३१५.०१८. तेन मम मन्त्राः प्रतिहता भविष्यन्ति।
३१५.०१८. प्रकृतिराह--किं पुनरम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्? तामाह माता--बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्।
३१५.०२०. ये पुत्रि मन्त्राः सर्वलोकस्य प्रभवन्ति, तान्मन्त्राञ्श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति।
३१५.०२१. न पुनर्लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुम्।
३१५.०२२. एवं बलवत्तराः श्रमणस्य गौतमस्य मन्त्राः॥
३१५.०२३. अथायुष्मानानन्दो येन भगवांस्तेनोपसंक्रान्तः।
३१५.०२३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ।
३१५.०२४. एकान्तस्थितमायुष्मन्तमानन्दं भगवानिदमवोचत्--उद्गृह्ण र्वमानन्द इमां षडक्षरीविद्याम्।
३१५.०२५. धारय वाचय पर्यवाप्नुहि आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां हिताय सुखाय्
३१५.०२६. इयमानन्द षडक्षरीविद्या षड्भिः सम्यक्सम्बुद्धैर्भाषिता, चतुर्भिश्च महाराजैः, शक्रेण देवानामिन्द्रेण, ब्रह्मणा च सहापतिना।
३१५.०२७. मया चैतर्हि शाक्यमुनिना सम्यक्सम्बुद्धेन भाषिता।
३१५.०२८. त्वमप्येतर्हि आनन्द तां धारस्य वाचय पर्यवाप्नुहि।
३१५.०२९. यदुत तद्यथा--
३१५.०३०. अण्डरे पाण्डरे कारण्डे केयूरेऽर्चिहस्ते खरग्रीवे बन्धुमति वीरमति धर विध चिलिमिले विलो:अय विषाणि लोक्
३१५.०३१. विष चल चल्
३१५.०३१. गोलमति गण्डविले चिलिमिले सातिनिंने यथासंविभक्ते गोलमति गण्डविलायै स्वाहा॥

३१६.००१. <३१६>यः कश्चिदानन्द षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात्, स यदि वधार्हो भवेत्, दण्डेन मुच्यते, दण्डार्हः प्रहारेण, प्रहारार्हः, परिभाषणया, परिभाषणार्हो रोमहर्षणेन, रोमहर्षणार्हः पुनरेव मुच्यत्
३१६.००३. नाहमानन्द तं समनुपश्यामि सदेवलोके समारलोके सब्रह्मलोके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषिकायां सासुरायां यस्त्वनया षड्क्षर्या विद्यया रक्षायां कृतायां रक्षासूत्रे बाहौ बद्धे स्वस्त्ययने कृते अभिभवितुं शक्नोति वर्जयित्वा पौराणं कर्मविपाकम्॥
३१६.००७. अथ प्रकृतिर्मारङ्गदारिका तस्या एव रात्र्या अत्ययात्शिरःस्नाता अनाहतदूष्यप्रावृता मुक्तामाल्याभरणा येन श्रावस्ती नगरी तेनोपसंक्रम्य नगरद्वारे कपाटमूले निश्रित्यास्थादायुष्मन्तमानन्दमागमयमाना--नियतमनेन मार्गेण आनन्दो आनन्दो भिक्षुरागमिष्यतीति।
३१६.००९. ददर्शायुष्मानानन्दः प्रकृतिं मातङ्गदारिकां पृष्ठतः पृष्ठतः समनुबद्धाम्।
३१६.०१०. दृष्ट्वा च पुनर्जेह्रीयमाणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तेनोपसंक्रान्तः।
३१६.०१२. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात् ।
३१६.०१२. एकान्तस्थित आयुच्मानानन्दो भगवन्तमिदमवोचत्--इयं मे भगवन् प्रकृतिर्मातङ्गदारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तमनु गच्छति, तिष्ठन्तमनु तिष्ठति।
३१६.०१४. यद्यदेव कुलं पिन्ण्डाय प्रविशामि, तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति।
३१६.०१५. त्राहि मे भगवन्, त्राहि मे सुगत्
३१६.०१५. एवमुक्ते भगवानायुष्मन्तमानन्दमिदमवोचत्--किं ते प्रकृते मातङ्गदारिके आनन्देन भिक्षुणा? प्रकृतिराह--स्वामिनं भदन्त आनन्दमिच्छामि।
३१६.०१७. भगवानाह--अनुज्ञातासि प्रकृते मातापितृभ्यामानन्दाय? अनुज्ञातास्मि भगवन्, अनुज्ञातास्मि सुगत्
३१६.०१८. भगवानाह--तेन हि संमुखं ममानुज्ञापय त्वम्।
३१६.०१९. अथ प्रकृतिर्मातङ्गदारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रान्ता।
३१६.०२०. येन स्वकौ मातापितरौ तेनोपसंक्रान्ता।
३१६.०२१. उपसंक्रम्य मातापित्रोः पादाञ्शिरसा वन्दित्वा एकान्तेऽस्थात् ।
३१६.०२१. एकान्तस्थिता स्वकौ मातापितराविदमवोचत्--संमुखं मे अम्ब तात श्रमणस्य गौतमस्य आनन्दाय उत्सृजतम्।
३१६.०२३. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ प्रकृतिमादाया येन भगवांस्तेनोपसंक्रान्तौ।
३१६.०२४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात् ।
३१६.०२५. एकान्तस्थिता भगवन्तमेतदवोचत्--इमौ तौ भगवन्मातापितरावागतौ।
३१६.०२६. अथ भगवान् प्रकृतेर्मातङ्गदारिकाया मातापितराविदमवोचत्--अनुज्ञाता युवाभ्यां प्रकृतिर्मातङ्गदारिका आनन्दायेति? तावाहतुह्--अनुज्ञाता भगवन्, अनुज्ञाता सुगत्
३१६.०२८. तेन हि यूयं प्रकृतिमपहाय गच्छत स्वगृहम्।
३१६.०२८. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रान्तौ॥
३१६.०३१. अथ प्रकृतेर्मातङ्गदारिकाया मातापितरावचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्--अर्थिकासि प्रकृते आनन्देन भिक्षूणा? प्रकृतिराह--अर्थिकास्मि भगवन्, <३१७>अर्थिकास्मि सुगत्

३१७.००१. तेन हि प्रकृते य आनन्दस्य वेषः, स त्वया धारयितव्यः।
३१७.००१. सा आह--धारयामि भगवन्, धारयामि सुगत्
३१७.००२. प्रव्रजयतु मां सुगत, प्रव्रजयतु मां भगवान्।
३१७.००२. अथ भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्--एहि त्वं भिक्षुणी, चर ब्रह्मचर्यम्।
३१७.००३. एवमुक्ते प्रकृतिर्मातङ्गदारिका भगवता मुण्डा काषायप्रवृता।
३१७.००४. अथ भगवान् प्रकृतिं मातङ्गदारिकामेहिभिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, स्मुत्तेजयति स्म, संप्रहर्षयति स्म्
३१७.००६. येयं कथा दीर्घरात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया, तद्यथा--दानकथा शीलकथा स्वर्गकथा कामेष्वादीनवं निःसरणं भयं संक्लेशव्यवदानम्, बोधिपक्षांस्तान् धर्मान् भगवान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म्
३१७.००८. अथ प्रकृतिर्भिक्षुणी भगवता धर्म्यया कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्टचित्ता कल्याणचित्ताअ मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताखिलचित्ता भव्या धर्मदेशितमाज्ञातुम्।
३१७.०१०. यदा च भगवाञ्ज्ञातः प्रकृतिं भिक्षुणीं हृष्टचित्तां कल्याणचित्तां मुदितचित्तां विनीवरणचित्तां भव्यां प्रतिबलां सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा येयं भगवतां बुद्धानां चतुरायसत्यप्रतिवेधिकी ध्र्मदेशना, यदुत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर्भिक्षुण्या विस्तरेण संप्रकाशयति स्म्
३१७.०१४. अथ प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरायसत्यान्यभिज्ञातासीत्, दुःखं समुदयं निरोधं मार्गम्।
३१७.०१५. तद्यथा वस्त्रमपगतकालकं रजनोपगतं रङ्गोदके प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णीयात्, एवमेव प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरायसत्यानि अभिसमयति स्म, तद्यथा--दुःखं समुदयं निरोधं मार्गम्॥
३१७.०१८. अथ प्रऋतिर्भिक्षुणी दृष्टधर्मा प्राप्तधर्मा विदितधर्मा अकोप्यधर्मा पर्यवसितधर्मा अधिगतार्थलाभसंवृत्ता तीर्णकाङ्क्षाविचिकित्सा विगतकथंकथा वैशारद्यप्राप्ता अपरप्रत्यया अनन्यनेया शास्तुः शासने अनुधर्मचारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तमिदमवोचत्--अत्ययो मे भग्वन्, अत्ययो मे सुगत्
३१७.०२१. यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्ट्रज्ञजातीया, याहमानन्दं भिक्षुं स्वामिवादेन समुदाचार्षम्।
३१७.०२३. साहं भदन्त अत्ययमत्ययतः पश्यामि।
३१७.०२३. अत्ययमत्ययतो दृष्ट्वा देशयामि।
३१७.०२३. अत्ययमत्ययत आविष्करोमि।
३१७.०२४. आयत्यां संवरमापद्य्
३१७.०२४. अतस्तस्या मम भगवन्नत्ययमत्ययतो जानातु प्रतिगृह्णातु अनुकम्पामुपादाय्
३१७.०२५. भगवानाह--आयत्यां संवराय स्थित्वा त्वं प्रकृते अत्ययमत्ययतोऽध्यागमः।
३१७.०२६. यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्प्रज्ञजातीया त्वमानन्दं भिक्षुं स्वामिवादेन समुदाचरसीति।
३१७.०२७. यतश्च त्वं प्रकृते अत्ययं जानासि, अत्ययं पश्यसि, आयत्यां च संवरमापद्यसे, अहमपि तेऽत्ययमत्ययतो गृह्णामि।
३१७.०२८. वृद्धिरेव ते प्रकृते प्रतिकाङ्क्षितव्या कुशलानां धर्माणाम्, न हानिः।
३१७.०२९. अथ प्रकृतिर्भिक्षुणी भगवताभिनन्दितानुशिष्टा एका व्यपकृष्टा अप्रमत्ता आतापिनी स्मृतिमती संप्रजाना प्रहितानि विविक्तानि विहरति स्म्
३१७.०३१. यदर्थं कुलदुहितरः केशानवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजन्ति, तदनुत्तरब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षाकृत्योपसम्पद्य<३१८> प्रवेदयते स्म--क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृतं करणीयम्, नापरमस्माद्भवं प्रजानामीति॥

३१८.००२. अश्रौषुः श्रावस्तेयका ब्राह्मणगृहपतयह्--भगवता किल चण्डालदारिका प्रव्राजितेति।
३१८.००४. श्रुत्वा च पुनरवध्यायन्ति--कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति? भिक्षुणीनामुपासकानामुपासिकानां सम्यक्चर्यां चरिष्यति? कथं हि नाम चण्डालदारिका ब्रह्मक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति?
३१८.००७. अश्रौषीद्राजा प्रसेनजित्कौशलह्--भगवता चण्डालदारिका प्रव्रजितेति।
३१८.००८. श्रुत्वा च पुनरवध्यायति--कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति? भिक्षुणीनामुपासकानामुपादिकानां सम्यक्चर्यां चरिष्यति? कथं ब्राह्मणक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति? विमृश्य च भद्रं यानं योजयित्वा भद्रं यानमभिरुह्य संबहुलैश्च श्रावस्तेयैर्ब्राह्मणगृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म्
३१८.०११. येन जेतवनमनाथपिण्डदस्यारामः, तेनोपसंक्रान्तः।
३१८.०१२. तस्य खलु यावती यानस्य भूमिः, तावद्यानेन गत्वां स यानादवतीर्य पत्तिकायपरिवृतः पत्तिकायपुरस्कृतः पद्भ्यामेवारामं प्रविक्षत् ।
३१८.०१३. प्रविश्य येन भगवांस्तेनोपस्ंक्रान्तः।
३१८.०१४. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
३१८.०१४. तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मणक्षत्रियगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः।
३१८.०१६. अप्यैकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णाः।
३१८.०१७. अप्यैकत्या भगवतः पुरतः स्वकस्वकानि मातापैतृकाणि नामगोत्राणि नामगोत्राणि अनुश्राव्य एकान्ते निषण्णाः।
३१८.०१८. अप्यैकत्या येन भगवांस्तेनाञ्जलिं प्रणम्य एकान्ते निषण्णाः।
३१८.०१९. अप्यैकत्यास्तूष्णीम्भूता एकान्ते निषण्णाः॥
३१८.०२०. अथ भगवान् राजानं प्रसेनजितं कौशलमारभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मणक्षत्रियगृहपतीनां चेतसा चित्तमाज्ञाय प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य भिक्षूनामन्त्रयते स्म--इच्छथ यूयं भिक्षवस्तथागतस्य संमुखं प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां श्रोतुम्? भिक्षवो भगवन्तमाहुह्--एतस्य भगवन् कालः, एतस्य सुगत समयः, यद्भगवान् प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां कथयेत्, यद्भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति।
३१८.०२५. भगवानाह--तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसिकुरुत, भाषिष्य्
३१८.०२५. एवं साधु भगवन्निति ते भिक्षवो भगवतः प्रत्यश्रौषुः।
३१८.०२६. भगवांस्तानिदमवोचत्--
३१८.०२७. भूतपूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गातटे अतिमुक्तकदलीपाटलकामलकीवनगहनप्रदेशे तत्र त्रिशङ्कुर्नाम मातङ्गराजाः प्रतिवसति स्म संबहुलैश्च मातङ्गसहस्रैः सार्धम्।
३१८.०२८. स पुनरिभिक्षवस्त्रिशङ्कुर्मातङ्गराजः पूर्वजन्माधीतान् वेदान् स्मनुस्मरति स्म साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्, अन्यानि च शास्त्राणि पदको{शो?} वैयाकरणो लोकायते यज्ञमन्त्रे महापुरुषलक्षणे निष्णातो निष्काङ्क्षः।
३१८.०३१. भाष्यं च यथाधर्मं वेदव्रतपदान्यनुश्रुतं च भाषते स्म्
३१८.०३२. तस्य त्रिशङ्कोर्मातङ्गराजस्य शार्दूलकर्णो नाम कुमारोऽभूदुत्पन्नः।
<३१९>रूपतश्च कुलतश्च शीलतश्च गुणतश्च सर्वगुणैश्चोपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभवर्णपुष्कलतया समन्वागतः।

३१९.००२. अथ त्रिशङ्कुर्मातङ्गराजः शार्दूलकर्णं कुमारं पूर्वजन्माधीतान् वेदानध्यापयति स्म यदुत साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्म्, अन्यानि च शास्त्राणि, भाष्यं च यथाधर्मं वेदव्रतपदानि॥
३१९.००५. अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्--अयं मम पुत्रः शार्दूलकर्णो नाम कुमारहुपेतो रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेत्प्भिरूपो दर्शनीयः प्रासादिकः, परमया च वर्णपुष्कलतया समन्वागतः।
३१९.००७. चीर्णव्रतोऽधीतमन्त्रो वेदपारगः।
३१९.००७. समयोऽयं यन्न्वहमस्य निवेशनधर्मं करिष्य्
३१९.००८. तत्कुतो न्वहं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयमिति?
३१९.०१०. तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते स्म ससप्तोत्सदं स्तृणकाष्ठोदकं धान्यसहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्।
३१९.०११. पुष्करसारी पुनर्ब्राह्मण उपेतो मातृतः पितृतः संशुद्धो गृहिण्यामना {कुले जात्यां वा} क्षिप्तो जातिवादेन गोत्रवादेन यावदासप्तममातामहपितामहम्।
३१९.०१३. युगपदुपाध्यायोऽध्यापको मन्त्रधरस्त्रयाणां वेदानां पारगः साङ्गोपाङ्गानां सरहस्यानां सनिघण्टकेइटभानां साक्षरप्रभेदानामितिहासपञ्चमानां पदको{शो} वैयाकरणः।
३१९.०१५. लोकायतयज्ञमन्त्रमहापुरुषलक्षणेषु पारगः।
३१९.०१५. स्फीतमुत्कूटं नाम द्रोणमुखं परिभुङ्क्त्
३१९.०१६. पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिता भूता।
३१९.०१६. उपेता रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती॥
३१९.०१९. अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्--अस्त्युत्तरपूर्वेणोत्कूटो नाम द्रोणमुखः।
३१९.०१९. तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति।
३१९.०२०. उपेतो मातृतः पितृतो यावत्त्रैवेदिके प्रवचने विस्तरेण्
३१९.०२१. स चोत्कूटं द्रोणमुखं परिभुङ्क्ते ससप्तोत्सदं सतृणकाष्ठोदकं धान्यभोगैः सहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्।
३१९.०२२. तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिता उपेता रूपतश्च कुलतश्च शीलतश्च स्र्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतीति।
३१९.०२५. अथ त्रिशङ्कुर्मातङ्गराज एतमेवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात्प्रत्यूषकालसमये स्र्वश्वेतं वडवारथमभिरुह्य महता श्वपाकगणेन अमात्यगणेन परिवृतश्चण्डालनगरान्निष्क्रम्योत्तरेण प्रागच्छद्येनोत्कूटं द्रोणमुखम्।
३१९.०२७. अथ त्रिशङ्कुर्मातङ्गराज उत्कूटस्योत्तरपूर्वेण सुमनस्कं नामोद्यानं नानावृक्षसंछन्नं नानावृक्षकुसुमितं नानाद्विजनिकूजितं नन्दनमिव देवानां तदुपसंक्रान्तः।
३१९.०२९. उपसंक्रम्य ब्राह्मणं पुष्करसारिणमागमयमानोऽस्थात्--ब्राह्मणः पुष्करसारी माणवकान्मन्त्रान् वाचयितुमिहागमिष्यतीति॥
३१९.०३१. अथ ब्राह्मणः पुष्करसारी तस्या र्व रात्र्या अत्ययात्स्र्वश्वेतं वडवारथमभिरुह्य शिष्यगणपरिवृतः पञ्चमत्रैर्माणवकशतैः पुरस्कृत उत्कूटान्निर्याति स्म ब्राह्मणान्मन्त्रान् <३२०>वाचयितुम्।

३२०.००१. अद्राक्षीत्त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं सूर्यमिवोदयन्तं तेजसा, ज्वलन्तमिव हुतवहम्, यज्ञमिव ब्राह्मणपरिवृतम्, शक्रमिव देवगणपरिवृतम्, हैमवन्तमिवौषधिभिः, समुद्रमिव रत्नैः, चन्द्रमिव नक्षत्रैः, वैश्रवणमिव यक्षगणैः, ब्रह्माणमिव देवर्षिगणैः परिवृतं शोभमानम्।
३२०.००४. दूरत एवागच्छन्तं दृष्ट्वा च एनं प्रत्युद्गम्य यथाधर्मं कृत्वेदमवोचत्--हं भोः पुष्करसारिन्, स्वागतम्, आयाहि।
३२०.००५. कार्यं च ते वक्ष्यामि, तच्छ्रूयताम्।
३२०.००६. एवमुक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्--न हि भोस्त्रिशङ्को शक्यं ब्राह्मणेन सह भोःकारं कर्तुम्।
३२०.००७. अहं भोः पुष्करसारिञ्शक्नोमि भोःकारं कर्तुम्।
३२०.००७. यच्छक्यं मे कर्तुं भवति, नैव तच्छक्यं ते कर्तुम्।
३२०.००८. अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यमानम्भाः पूर्वसमारब्धा भवन्ति यदुत आत्मार्थं वा परार्थं वा आत्मीयार्थं वा सर्वभूतसंग्रहार्थं वा।
३२०.०१०. इदं चात्र महत्तरं कार्यम्।
३२०.०१०. यत्ते व्याख्यास्यामि, तच्छ्रूयताअम्।
३२०.०१०. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय्
३२०.०११. यावन्तं कुलशुल्कं मन्यसे, तावन्तं दास्यामि॥
३२०.०१३. इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य भृशं ब्राह्मणः पुष्करसारी अभिषिक्तः कुपितश्चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च म्रक्षं च तत्प्रत्ययात्संजनित्वा ललाटे त्रिशिखां भृकुटीं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्--धिग्ग्राम्यविषय चण्डाल, नेदं श्वपाकवचनं युक्तम्, यस्त्वं ब्राह्मणं वेदपारगं हीनश्चण्डालयोनिजो भूत्वा इच्छस्यवमर्दितुम्।
३२०.०१७. भो दुर्मते--
३२०.०१८. प्रकृतिं त्वं न जानासि आत्मानं चाभिमन्यस्
३२०.०१९. बालाग्रे सर्षपं मा भोः स्थापय {मा} क्लेशमागमः।
३२०.०२०. मा प्रार्थयाप्रार्थनीयां वायुं पाशेन बन्धय् ।३॥
३२०.०२१. न हि चामीकरं मूढ भवेद्भस्म कदाचन्
३२०.०२२. प्रकाशे वान्धकारे किं विशेषो नोपलभ्यत् ।४॥
३२०.०२३. चण्डालयोनिजस्त्वं हि द्विजातिः पुनरप्यहम्।
३२०.०२४. हीनः श्रेष्ठेन संबन्धं मूढ प्रार्थयसे कथम्॥५॥
३२०.०२५. चण्डालयोनिभूतस्त्वमहमस्मि द्विजातिजः।
३२०.०२६. न हि श्रेष्ठः प्रहीनेन संबन्धं कर्तुमिच्छति।
३२०.०२७. श्रेष्ठाः श्रेष्ठैर्हि संबन्धं कुर्वन्तीह द्विजातयः॥६॥
३२०.०२८. विद्यया ये तु संपन्नाः संशुद्धाश्चरणेन च्
३२०.०२९. जात्या चैवानभिक्षिप्ता मन्त्रैः परमतां गताः॥७॥
३२०.०३०. अध्यापका मन्त्रधरास्त्रिषु वेदेषु पारगाः।
३२०.०३१. निघण्टकैटभान् वेदान् ब्राह्मणा ये ह्यधीयत्
३२०.०३२. तैस्तादृषैर्हि संबन्धं कुर्वन्तीह द्विजातयः॥८॥

३२१.००१. <३२१>न हि श्रेष्ठो हि हीनेन संबन्धं कर्तुमिच्छति।
३२१.००२. प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुम्।
३२१.००३. यदस्माभिश्च संबन्धमिह त्वं कर्तुमिच्छसि॥९॥
३२१.००४. जुगुप्सितः सर्वलोके कृपणः पुरुषाधमः।
३२१.००५. गच्छ त्वं वृषल क्षिप्रं किमस्मानवमन्यस्।१०॥
३२१.००६. चण्डालाः सह चण्डालैः पुक्कसाः सह पुक्कसैः।
३२१.००७. कुर्वन्तीहैव संबन्धं जातिभिर्जातिरेव च् ।११॥
३२१.००८. ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह्
३२१.००९. सार्धं वैश्यास्तथा वैश्यैः शूद्राः शूद्रैस्तथा सह् ।१२॥
३२१.०१०. सदृशाः सदृशैः सार्धमावहन्ति परस्परम्।
३२१.०११. न हि कुर्वन्ति चण्डालाः संबन्धं ब्राह्मणैः सह् ।१३॥
३२१.०१२. सर्वजातिविहीनोऽसि सर्ववर्णजुगुप्सितः।
३२१.०१३. कथं हीनश्च श्रेष्ठेन संबन्धं कर्तुमिच्छसि॥१४॥
३२१.०१४. इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस्त्रिशङ्कुर्मातङ्गराज इदमवोचत्--
३२१.०१५. यथा भस्मनि सौवर्णे विशेष उपलभ्यत्
३२१.०१६. ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥१५॥
३२१.०१७. यथा प्रकाशतमसोर्विशेष उपलभ्यत्
३२१.०१८. ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥१६॥
३२१.०१९. न हि ब्राह्मण आकाशान्मरुतो वा समुत्थितः।
३२१.०२०. भित्त्वा वा पृथिवीं जातो जातवेदा यथारणेः॥१७॥
३२१.०२१. ब्राह्मणा योनितो जाताश्चण्डाला अपि योनितः।
३२१.०२२. श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणम्॥१८॥
३२१.०२३. ब्राह्मणेऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिरुच्यत्
३२१.०२४. वर्णास्तथैव चाप्यन्ये का नु तत्र विशेषता॥१९॥
३२१.०२५. यत्किंचित्पापकं कर्म किल्बिषं कलिरेव च्
३२१.०२६. सत्त्वानामुपघाताय ब्राह्मणैस्तत्प्रकाशितम्॥२०॥
३२१.०२७. इति कर्माणि चैतानि प्रकाशितानि ब्राह्मणैः।
३२१.०२८. कर्मभिर्दारुणैश्चापि "पुण्योऽहम्" ब्रुवते द्विजाः॥२१॥
३२१.०२९. मांसं खादितुकामैस्तु ब्राह्मणैरुपकल्पितम्।
३२१.०३०. मन्त्रैर्हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्यजैडकाः॥२२॥

३२२.००१. <३२२>यदेष मार्गः स्वगार्य कस्मान्न ब्राह्मणा ह्यमी।
३२२.००२. आत्मानमथवा बन्धून्मन्त्रैः संप्रोक्षयन्ति वै॥२३॥
३२२.००३. मातरं पितरं चैव भ्रातरं भगिनीं तथा।
३२२.००४. पुत्र दुहितरं भार्यां द्विजा न प्रोक्षयन्त्यमी॥२४॥
३२२.००५. मित्रं ज्ञातिं सखीं वापि ये वा विषयवासिनः।
३२२.००६. प्रोक्षितास्तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिम्॥२५॥
३२२.००७. सर्वे यज्ञैः समाहूता गमिष्यन्ति सतां गतिम्।
३२२.००८. पशुभिः किं नु भो यष्टैरात्मानं किं न यक्ष्यस्।२६॥
३२२.००९. न प्रोक्षणैर्न मन्त्रैश्च स्वर्गं गच्छन्त्यजैटकाः।
३२२.०१०. न ह्येष मार्गः स्वर्गाय मिथ्याप्रोक्षणमुच्यत् ।२७॥
३२२.०११. ब्राह्मणै रौद्रचित्तैस्तु पर्यायो ह्येष चिन्तितः।
३२२.०१२. मांसं खादितुकामैस्तु प्रोक्षणं कल्पितं पशोः॥२८॥
३२२.०१३. अन्यच्चाहं प्रवक्ष्यामि ब्राह्मणैर्यत्प्रकल्पितम्।
३२२.०१४. पातका हि समाख्याता ब्राह्मणेषु चतुर्विधाः॥२९॥
३२२.०१५. सुवर्णचौर्यं मद्यं गुरुदाराभिमर्दनम्।
३२२.०१६. ब्रह्मघ्नता च चत्वारः पातका ब्राह्मणेष्वमी॥३०॥
३२२.०१७. सुवर्णहरणं वर्ज्यं स्तेयमन्यन्न विद्यत्
३२२.०१८. सुवर्णं यो हरेद्विप्रः स तेनाब्राह्मणो भवेत् ॥३१॥
३२२.०१९. सुरापानं न पातव्यमन्नपानं यथेष्टतः।
३२२.०२०. सुरां तु यः पिबेद्विप्रः स तेनाब्राह्मणो भवेत् ॥३२॥
३२२.०२१. गुरुदारा न गन्तव्या अन्यदारा यथेष्टतः।
३२२.०२२. गुरुदारां तु यो गच्छेत्स तेनाब्राह्मणो भवेत् ॥३३॥
३२२.०२३. न हन्याद्ब्राह्मणं ह्यकं हन्यादन्याननेकशः।
३२२.०२४. हन्यात्तु ब्राह्मणं यो वै स तेनाब्राह्मणो भवेत् ॥३४॥
३२२.०२५. इत्येते पातका ह्युक्ता ब्राह्मणेषु चतुर्विधाः।
३२२.०२६. भवत्यब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥३५॥
३२२.०२७. कृत्वा चतुर्णामेकैकं भवेदब्राह्मणस्तु सः।
३२२.०२८. लभते न च सामीचीं ब्राह्मणानां समागम्
३२२.०२९. आसनं चोदकं चैव व्युत्थानं स न चार्हति॥३६॥
३२२.०३०. तस्य्निःसरणं दृष्टं ब्राह्मणैः पतितस्य तु।
३२२.०३१. व्रतं वै स समादाय पुनर्ब्राह्मणतां व्रजेत् ॥३७॥

३२३.००१. <३२३>असौ द्वादशवर्षाणि धारयित्वा खराजिनम्।
३२३.००२. खट्वाङ्गमुच्छ्रितं कृत्वा मृतशीर्षे च भिजनम्॥३८॥
३२३.००३. एतद्व्रतं समादाय निश्चयेन निरन्तरम्।
३२३.००४. पूर्णे द्वादशमे वर्षे पुनर्ब्राह्मणतां व्रजेत् ॥३९॥
३२३.००५. इति निःसरणं दृष्टं ब्राह्मणैस्तु तपस्विभिः।
३२३.००६. कुमार्गगामिभिर्मूढैरनिःसरणदर्शाभिः॥४०॥
३२३.००७. तदित्दं ब्राह्मण ते ब्रवीमि--संज्ञामात्रकमिदं लोकस्य यदिदमुच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा।
३२३.००८. सर्वमिदमेकमेवेति विज्ञाय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्यार्थाय्
३२३.००९. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥
३२३.०१०. इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश्चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च तत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्--
३२३.०१३. असमीक्ष्यैतत्त्वया हि कृता संज्ञेयमीदृशी।
३२३.०१४. एकैव जातिर्लोकेऽस्मिन् सामान्या न पृथग्विधा॥४१॥
३२३.०१५. कथं श्वपाकजातीयो ब्राह्मणं वेदपारगम्।
३२३.०१६. निहीनयोनिजो भूत्वा विमर्दितुमिहेच्छसि॥४२॥
३२३.०१७. राजानः खलु वृषल प्रति{वि}भागज्ञा भवन्ति।
३२३.०१७. तद्यथा देशधर्मे वा नगरधर्मे वा ग्रामधर्मे वा निगमधर्मे वा शुल्कधर्मे वा आवाहधर्मे वा विवाहधर्मे वा पूर्वकर्मसु वा।
३२३.०१९. चत्वार इमे वृषल वर्णाः।
३२३.०१९. यदुत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति।
३२३.०१९. तेषां विवाहधर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति।
३२३.०२०. तद्यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति।
३२३.०२०. तिस्रः क्षत्रियस्य भार्या भवन्ति।
३२३.०२१. क्षत्रिया वैश्या शूद्री चेति।
३२३.०२१. वैश्यस्य द्वे भार्ये भवतः।
३२३.०२१. वैश्या शूद्री चेति।
३२३.०२२. शूद्रस्य त्वेका भार्या भवति शूद्री एव्
३२३.०२२. एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति।
३२३.०२३. तद्यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति।
३२३.०२३. क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति।
३२३.०२४. वैश्यस्य्द्वौ पुत्रौ, वैश्यः शूद्र इति।
३२३.०२४. शूद्रस्य त्वेक एव पुत्रो भवति यदुत शूद्र एव्
३२३.०२४. ते ब्राह्मणाः पुनर्वृषल ब्राह्मणः पुत्राः।
३२३.०२५. औरसा मुखतो जाताः।
३२३.०२५. उरस्तो बाहुतः क्षत्रियाः।
३२३.०२६. नाभितो वैश्याः।
३२३.०२६. पद्भ्यां शूद्राः।
३२३.०२६. ब्रह्मणायं खलु वृषल लोकः सर्वभूतानि निर्मितानि।
३२३.०२७. तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास्तदनन्तरम्।
३२३.०२८. वैश्यास्तृतीयका वर्णाः शूद्रनांना चतुर्थकः॥४३॥ इति॥
३२३.०२९. स त्वं वृषल चतुर्थेऽपि वर्णे न संदृशस्
३२३.०२९. अहं चाग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्ण्
३२३.०३०. परमार्थं च सम्योगमाकाङ्क्षसि।
३२३.०३०. प्रणश्य त्वं वृषल क्षिप्रम्।
३२३.०३०. मा चास्माकमवमंस्थाः॥
३२३.०३१. इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस्त्रिशङ्कुर्मातङ्गराज इदमवोचत्--इदमत्र ब्राह्मण शृणु यद्ब्रवीमि।
३२३.०३२. ब्रह्मणायं लोकः, सर्वभूतानि निर्मितानि।

३२४.००१. <३२४>तस्य ज्येष्ठो वयं पुत्राः क्षत्रियास्तदनन्तरम्।
३२४.००२. वैश्यास्तृतीयका वर्णाः शूद्रनांना चत्रुथकः॥४४॥ इति॥
३२४.००३. सपादजङ्घाः सनखाः समांसाः सपार्श्वपऋष्ठाश्च नरा भवन्ति।
३२४.००५. एकांशतो नास्ति यतो विशेषो वर्णाश्च चत्वार इतो न सन्ति॥४५॥
३२४.००७. अथो विशेषः प्रवरोऽस्ति कश्चित्तद्ब्रूहि यच्चानुमतं यथा त्
३२४.००९. अथो विशेषः प्रवरो हि नास्ति वर्णाश्च चत्वार इतो न सन्ति॥४६॥
३२४.०११. यथा हि दारका बालाः क्रीडमाना महापथ्
३२४.०१२. पांशुपुञ्जानि संपण्ड्य स्वयं नामानि कुर्वत् ।४७॥
३२४.०१३. इदं क्षीरमिदं दधि इदं मांसमिदं घृतम्।
३२४.०१४. न च बालस्य वचनात्पांशवोऽन्नं भवन्ति हि॥४८॥
३२४.०१५. वर्णास्तथैव चत्वारो यथा ब्राह्मण भाषस्
३२४.०१६. पांशुपुञ्जाभिधानेन योगोऽ{यः को}प्येष न विद्यत् ।४९॥
३२४.०१७. न केशेन न कर्णाभ्यां न शीर्षेण न चक्षुषा।
३२४.०१८. न मुखेन न नासया न ग्रीवया न बाहुना॥५०॥
३२४.०१९. नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेनोदरेण च्
३२४.०२०. नोरुभ्यामथ जङ्घाभ्यां पाणिपादनखेन च् ।५१॥
३२४.०२१. न स्वरेण न वर्णेन न सर्वांशैर्न मैथुनैः।
३२४.०२२. नानाविशेषः सर्वेषु मनुष्येषु हि विद्यत् ।५२॥
३२४.०२३. यथा हि जातिष्वन्यासु लिङ्गं योनिः पृथक्पृथक् ।
३२४.०२४. सामान्यं कारणं तत्र किं वा जातिषु मन्यस्।५३॥
३२४.०२५. सशीर्षकाश्चाथ नरास्थियुक्ताः सचर्मकाः सेन्द्रियसोदराश्च्
३२४.०२७. वर्णा न युक्ताश्चतुरोऽभिधातुम्॥५४॥
३२४.०२९. दोषो ह्ययं चात्र भवेदयुक्तो यद्यत्त्वया चाभिहितं निदान्
३२४.०३१. श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच्चात्र मन्ये शृणु चोद्यमानम्॥५५॥

३२५.००१. <३२५>यच्चात्र युक्तं विषमं समं वा तत्ते प्रवक्ष्यामि नियुज्यमानः।
३२५.००३. दोषो हि यश्चापि भवेदयुक्तो वक्ष्यामि ते ह्युत्तरतोत्तरं च्
३२५.००५. श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्माधिपत्यप्रभवा मनुष्याः॥५६॥
३२५.००७. अनुमानमपि ते ब्राह्मण यदि प्रमाणम्, तत्र यद्ब्रवीषि--ब्रह्मा एक इति तस्मात्प्रजा अपि एकजात्या एव्
३२५.००८. वयमप्येकजात्या भवामः।
३२५.००८. यच्च ब्रवीषि--ब्रह्मणायं लोकः सर्वभूतानि च निर्मितानीति।
३२५.००९. सचेत्ते ब्राह्मण इदं प्रमणम्, तदिदं ते ब्राह्मण अयुक्तं यद्ब्रवीषि चत्वारो वर्णाह्--ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चेति।
३२५.०१०. अपि तु ब्राह्मण मिथ्या मम वचो भवेत्, यदि ब्राह्मण संवादेन मनुष्यजातेर्नानाकरणं प्रज्ञायत्
३२५.०११. यदुत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वा आकारतो वा योनितो वा आहारतो वा संभवतो वा नानाकरणं प्रज्ञायत् ।
३२५.०१४. तद्यथापि भोः पुष्करसारिन् गवाश्वगर्दभोष्ट्रमृगपक्ष्यजैडकानामण्डजजरायुजसंस्वेदजौपपादुकानां नानाकरणं प्रज्ञायत्
३२५.०१५. यदुत पादतोऽपि मुखतोऽपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसम्भवतोऽपि नानाकरणं प्रज्ञायत्
३२५.०१६. न चैवं तेषां चतुर्णां वर्णानां नानाकरणं प्रज्ञायत्
३२५.०१७. तत्तस्मात्सर्वमिदमेकमिति॥
३२५.०१८. अपि च ब्राह्मण अमीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीजपूरककपित्थाक्षोडनारिकेलतिनिशकरञ्जादीनां नानाकरणं प्रज्ञायत्
३२५.०१९. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायत्
३२५.०२०. न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ।
३२५.०२२. तद्यथा ब्राह्मण अमीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारसप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिरादीनां नानाकरणं प्रज्ञायत्
३२५.०२३. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च गुल्मतश्च सारतश्च पत्रतश्च फलतश्च विशेष उपलभ्यत्
३२५.०२४. न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ।
३२५.०२६. तद्यथा भोः पुष्करसारिन्, अमीषां क्षीरवृक्षाणामुदुम्बरप्लक्षाश्वत्थनयग्रोधवल्गुकेत्येवमादीनां नानाकरणं प्रज्ञायत्
३२५.०२७. यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायत्
३२५.०२८. न त्वेन चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ।
३२५.०२९. तद्यथा पुष्करसारिन्, अमीषामपि फलभैषज्यवृक्षाणामामलकीहरीतकीविभीतकीफरसकादीनामन्यासामपि विविधानामोषधीनां ग्रामजानां पार्वतीयानां तृणवनस्पतीनां नानाकरणं प्रज्ञायत्
३२५.०३१. यदुत मूलतश्च स्कन्धतश्च गुल्मतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रजायत्
३२५.०३२. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ।

३२६.००१. <३२६>तद्यथा स्थलजानां पुष्पवृक्षाणामतिमुक्तकचम्पकपाटलानां सुमनावार्षिकाधनुष्कारिकादीनां नानाकरणं प्रज्ञायत्
३२६.००२. यदुत रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नानाकरणं प्रज्ञायत्
३२६.००३. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायत् ।
३२६.००४. तद्यथा ब्राह्मण अमीषामपि जलजानां पुष्पाणां पद्मोत्पलसौगन्धकमृदुगन्धिकादीनां नानाकरणं प्रज्ञायत्
३२६.००५. यदुत रूपतश्च गन्धतश्च संस्थानतश्च वर्णतश्च नानाकरणं पर्ज्ञायत्
३२६.००६. न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायत्
३२६.००६. तद्यथा पुष्करसारिन्नमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति।
३२६.००७. तस्मादेकमेवेदं सर्वमिति॥
३२६.००८. अप्यन्यत्ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथा।
३२६.००९. शिरः सतारं गगनमाकाशमुदरं तथा॥५७॥
३२६.०१०. पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्।
३२६.०११. सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती॥५८॥
३२६.०१२. अश्रूण्यवोचद्वर्षास्य नद्यः प्रस्रावमेव च्
३२६.०१३. सागराश्चाप्यमेध्यं वै एवं ब्रंहा प्रजापतिः॥५९॥
३२६.०१४. परीक्षस्व त्वं ब्रह्मणः स्वलक्षणम्।
३२६.०१४. यस्माद्ब्रह्मणो ब्राह्मणा उत्पन्नाः, तस्मात्क्षत्रिया अपि वैश्या अपि शूद्रा अप्युत्पन्नाः॥
३२६.०१६. एवं प्रसूतिर्यदि तत्त्वतः स्यात्ततो हि स्याद्वर्णकृतो विशेषः।
३२६.०१८. यदि ब्राह्मणा ब्रह्मलोकं व्रजेयुस्त्रयश्च वर्णा न व्रजेयुः स्वर्गम्।
३२६.०२०. एवं भवेद्वर्णकृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥६०॥
३२६.०२२. यस्माद्धि वर्णश्चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा।
३२६.०२४. यतस्तपश्चार्षमिह प्रशस्तं तस्माद्द्विजातेर्न विशेषणं स्या ।६१॥
३२६.०२६. यदि ब्राह्मणः स्यादिहैक एव द्विजिह्वश्चतुःश्रवणस्तथैव्
३२६.०२८. चतुर्विषाणो बहुपाद्द्विशीर्ष एवं कृते वर्णकृतो विशेषः॥६२॥

३२७.००१. <३२७>रागैश्च नाम परघातनं च एवम्प्रकारं च विहेठनं च्
३२७.००३. सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्यकल्याणकृतानि विप्रैः॥६३॥
३२७.००५. युद्धं विवादं कलहान्यभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर्हि।
३२७.००७. अथर्वणं कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥६४॥
३२७.००९. पापेच्छता बहुजनवञ्चनं च शाठ्यं च धौर्यं च तथैव कल्पम्।
३२७.०११. एवं परेषामहितं विचिन्त्य कदा च ते स्वर्गमितो व्रजेयुः॥६५॥
३२७.०१३. ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्युपेताः।
३२७.०१५. अहिंसका ये दमसम्यमे रतास्ते ब्राह्मणा ब्रह्मपुरं व्रजन्ति॥६६॥
३२७.०१७. सहास्थिमांसः सनखः सचर्मा दुःखं सुखं मूत्रपुरीषमेकम्।
३२७.०१९. पञ्चेन्द्रियैर्नास्ति यतो विशेषस्तस्मान्न वै वर्णचतुष्क एषः॥६७॥
३२७.०२१. तद्यथा नाम ब्राह्मण कस्यचित्पुरुषस्य चत्वारः पुत्रा भवेयुः।
३२७.०२१. स तेषां नामानि कुर्यात्--नन्दक इति वा जीवक इति वा अशोक इति वा शतायुरिति वा।
३२७.०२२. इष्टाश्च पुनर्भो एतस्य पुरुषस्य पुत्रा भवेयुः।
३२७.०२३. तत्र यो नन्दकः स नन्देत् ।
३२७.०२३. यो जीवकः स जीवेत् ।
३२७.०२४. योऽशोकः स न शोचेत् ।
३२७.०२४. यः शतायुः स वर्षशतं जीवेत् ॥
३२७.०२५. नामतः पुनर्ब्राह्मण तेषां नानाकरणं प्रज्ञायते न जातितः।
३२७.०२५. तत्कस्य हेतोह्? इह खलु पुनर्ब्रह्मण पितृतः पुत्रो जायत्
३२७.०२६. तस्माच्च तत्रेदं व्याकरणं भवति--
३२७.०२७. माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
३२७.०२८. यद्येवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित् ॥६८॥
३२७.०२९. परीक्षस्व ब्राह्मण सम्यगेव--कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति।
३२७.०३०. सर्वे काणाश्च कुब्जाश्च सर्वेऽपस्मारिणोऽपि वा।
३२७.०३१. किलासिनः कुष्ठिनश्च गौराः कृष्णाः पृथक्पृथक् ॥६९॥

३२८.००१. <३२८>प्रतिष्ठिताः॥
३२८.००२. सममज्जानखत्वचपार्श्चोदरवक्त्राः प्रजा हि ताः स्वकर्मणा।
३२८.००३. एवं गते ब्राह्मण नैव भवति विशेषः को जातिकृतो विशेषः।
३२८.००४. यस्मान्न जातेर्विशेषणोऽस्ति तस्मान्न वै वर्णचतुष्क एव् ।६९॥(अ)
३२८.००५. तस्मात्ते ब्राह्मण ब्रवीमि--संज्ञामात्रमिदं लोकस्य यदिदं ब्रांहण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाक इति वा।
३२८.००६. एकमिदं सर्वमिदमेकम्।
३२८.००६. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय्
३२८.००७. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥
३२८.००८. इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजास्य ब्राह्मणः पुष्करसारी इदमवोचत्--किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अर्थववेदोऽधीतः, आयुर्वेदोऽधीतः, कल्पाध्यायोऽपि, अध्यात्ममपि, मृगचक्रं वा, नक्षत्रगणो वा, तिथिक्रमगणो वा त्वयाधीतह्? कर्मचक्रं वा त्वयाधिगतम्? अथवा अङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता? अथवा राहुचरितं वा शुक्रचरितं वा ग्रहचरितं त्वयाधीतम्? अथवा लोकायतं भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतह्?
३२८.०१४. एवमुक्ते त्रिशङ्कुर्मातङ्गराजः पुष्करसारिणं ब्राह्मणमेतदवोचत्--एतच्च मया ब्राह्मणा अधीतं भूयश्चोत्तरम्।
३२८.०१५. भूयश्चोत्तरम्।
३२८.०१५. यदपि ते ब्राह्मण एवं स्यात्--अहमस्मि मन्त्रेषु पारं प्राप्त इति, तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि।
३२८.०१६. न खल्वेवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानामेतदभवत्--यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा।
३२८.०१७. एकमिदं सर्वमिदमेकम्॥
३२८.०१९. अथ ब्राह्मण सत्त्वानामसदृशानां चोभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा, तेऽमी क्षत्रिया इति संज्ञा उदपादि।
३२८.०२०. अथात्र ब्राह्मण तदन्यतमानां सत्त्वानामेतदभवत्--परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः।
३२८.०२१. यन्नु वयं स्वपरिग्रहमपहाय अरण्यायतनं गत्वा तृणकाष्ठशाखापर्णपलाशकानुपसंहृत्य तृणकुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेम इति।
३२८.०२३. अथ ते सत्त्वास्तं परिग्रहमपहाया अरण्यायतनं गत्वा तृणकाष्ठशाखापत्रपर्णपालाशकैस्तृणकुटिं वा पर्णकुटिकां वा कृत्वा तत्रैव प्रविश्य ध्यायन्ति स्म्
३२८.०२५. ते तत्र सायमासनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश्च ग्रामं पिण्डाय प्रविशन्ति स्म् ।
३२८.०२७. अथ तेषां ग्रामवासिनां सत्वानामेतदभवत्--दुष्करकारका बत भोः सत्त्वा ये स्वकं परिग्रहमुत्सृज्य ग्रामनिगमजनपदेभ्यो बहिर्निर्गताः।
३२८.०२८. तेषां बहिर्मनस्का ब्राह्मणा इति संज्ञा उदपादि।
३२८.०२९. ते च पुनर्ग्रामवासिनः सत्त्वास्तानतीव सत्कुर्वन्ति स्म्
३२८.०२९. तेषां च दातव्यं मन्यन्ते स्म् ।

३२९.००१. <३२९>अथ एत्षामेव सत्त्वानामन्यतमे सत्त्वास्तानि ध्यानान्यसम्भावयन्तो ग्रामेष्ववतीर्य मन्त्रपदान् स्वाध्यायन्ति स्म्
३२९.००२. तांस्ते ग्रामनिवासिन आहुह्--न केवलमिमे सत्त्वाः, इमेऽध्यापकाः, तेषामध्यापका इति लोके संज्ञा उदपादि।
३२९.००३. अयं हेतुरयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय् ।
३२९.००५. अथान्यतमे सत्त्वा विवेककालप्रतिसम्युक्तान् कार्मान्तान् विविधानर्थप्रतिसम्युक्तान् कुर्वन्ति स्म्
३२९.००६. तेषां वैश्या इति संज्ञा उदपादि॥
३२९.००७. अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म्
३२९.००७. तेषां शूद्रा इति संज्ञा उदपादि॥
३२९.००९. भूतपूर्वं ब्राह्मण अन्यतमः सत्त्वो वधूमादाय रथमारुह्य अन्यतमस्मिन्नरण्यप्रदेशे गतः।
३२९.०१०. तत्र च रथो भग्नः।
३२९.०१०. तस्मान्मातङ्गम् {मा त्वं गामह्} इति संज्ञा उदपादि॥
३२९.०११. क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्रवृत्ता॥
३२९.०१२. भाष्येण च पर्षदं रञ्जयति धर्मेण शीलव्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाभूत् ॥
३२९.०१४. ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति, तेषां वणिज इति संज्ञा उदपादि॥
३२९.०१५. ततश्चान्ये सत्त्वाः प्रव्रजन्ति स्म्
३२९.०१५. प्रव्रजित्वा पराञ्जयन्ति क्लेशाञ्जयन्तीति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि॥
३२९.०१७. अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि।
३२९.०१७. तां ते प्रवक्ष्यामि--
३२९.०१८. ब्रह्मा लोकेऽस्मिन्निमान् वेदान् वाचयति।
३२९.०१८. ब्रह्मा देवानां परमतापसः।
३२९.०१८. इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म्
३२९.०१९. इन्द्रः कौशिकोऽरणेमि--गौतमं वेदान् वाचयति।
३२९.०१९. अरणेमि--गौतमः श्वेतकेतुं वेदान् वाचयति।
३२९.०२०. श्वेतकेतुः शुकं पण्डितं वाचयति।
३२९.०२०. शुकः पण्डितश्च वेदान् विभजति स्म्
३२९.०२१. तद्यथा पुष्यो बह्वृचानां पङ्क्तिश्छन्दोगानामेकविंशतिरध्वर्यवः।
३२९.०२२. क्रतुरथर्वाणिकानाम्।
३२९.०२२. ब ऋ??? चानामेते ब्राह्मण्
३२९.०२२. सर्वे ते व्याख्यायन्त्
३२९.०२२. पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः।
३२९.०२३. तद्यथा शुक्ला वल्कला माण्डव्या इति।
३२९.०२३. तत्र दश शुक्लाः।
३२९.०२३. अष्टौ वल्कलाः।
३२९.०२४. सप्त माण्डव्याः।
३२९.०२४. इतीयं ब्राह्मण बह्वृचानां शाखा।
३२९.०२४. पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः॥
३२९.०२६. अनुमानमपि ब्राह्मण प्रमाणं छन्दोगानाम्।
३२९.०२६. ब्राह्मणाः सर्व एते छन्दोगाः।
३२९.०२६. पङ्क्तिरित्येका भूत्वा साशीतिसहस्रधा भिन्ना।
३२९.०२७. तद्यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्मसमा महासमा महायागिकाः सात्यमुग्राः समन्तवेदाः॥
३२९.०२९. तत्र शीलवल्का विंशतिः।
३२९.०२९. अरणेमिका विंशतिः।
३२९.०२९. लौकाक्षाश्चत्वारिंशत् ।
३२९.०२९. कौथुमानां शतम्।
३२९.०३०. ब्रह्मसमानां शतम्।
३२९.०३०. सात्यमुग्राणां शतम्।
३२९.०३१. समन्तवेदानां शतम्।
३२९.०३१. इतीयं ब्राह्मण च्छन्दोगनां शाखा।
३२९.०३१. पङ्क्तिरित्येका भूत्वा साशीतिसहस्रधा भिन्ना॥

३३०.००१. <३३०>अनुमानमपि प्रमाणमध्वर्यूणाम्।
३३०.००१. एते ब्राह्मणा एकविंशत्यध्वर्यवो भूत्वा एकोत्तरशतधा भिन्नाः।
३३०.००२. तद्यथा कठाः कणिमा वाजसनेयिनो जातुकर्णाः प्रष्ठपदा ऋषयः।
३३०.००२. तत्र दश कठाः।
३३०.००३. दश कणिमाः।
३३०.००३. एकादश वाजसनेयिनः।
३३०.००३. त्रयोदश जातुकर्णाः।
३३०.००३. षोडश षोष्ठपदाः।
३३०.००४. एकचत्वारिंशदृषयः।
३३०.००४. इतीयं ब्राह्मण अध्वर्यूणां शाखा।
३३०.००४. एकविंशत्यध्वर्यवो भूत्वा एकोत्तरशतधा भिन्नाः॥
३३०.००६. अनुमानमपि ब्राह्मण प्रमाणमथर्वणिकानाम्।
३३०.००६. एते मन्त्राः सर्वे तेऽथर्वणिकाः।
३३०.००७. क्रतुरेको भूत्वा द्विधा भिन्नः।
३३०.००७. चतुर्धा भूत्वा अष्टधा भिन्नः।
३३०.००८. अष्टधा भूत्वा {नव}दशधा भिन्नः।
३३०.००८. इतीयं ब्रह्मण अर्हर्वणिकानां शाखा।
३३०.००८. क्रतुरेकः षोडशोत्तरद्वादशशतधा भिन्नः॥
३३०.०१०. अनुमानमपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादशभेदशतानि षोडशभेदाश्च ये ब्राह्मणैः पौरणैः सम्यग्दृष्टाः।
३३०.०११. छन्दसि वा व्याकरणे वा लोकयते वा पदमीमांसायां वा।
३३०.०१२. न चैषामूहापोहः प्रज्ञायत्
३३०.०१२. यदुत एकजात्यो नामेति विदित्वा बन्धुर्भवितुमर्हति।
३३०.०१२. तत्ते ब्राह्मण ब्रवीमि--संज्ञामात्रकमेतल्लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वश्य इति वा शूद्र इति वा।
३३०.०१४. एकमिदं सर्वमिदमेकम्।
३३०.०१४. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितमुत्सृज भार्यार्थाय्
३३०.०१५. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥
३३०.०१६. इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी तूष्णीम्भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात् ॥
३३०.०१८. ददर्श त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं तूष्णीम्भूतं मद्गुभूतं स्रस्तस्कन्धमधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितम्।
३३०.०१९. दृष्ट्वा च पुनरिदमब्रवीत्--यदपि ते ब्राह्मण एवं स्यादसदृशेन सह संबन्धो भविष्यतीति।
३३०.०२०. न पुनस्त्वया ब्राह्मण एवं द्रष्टव्यम्।
३३०.०२०. तत्कस्य हेतोह्? ये प्रमाणश्रुतिशीलप्रज्ञादयो गुणा अग्र्या लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्त्
३३०.०२२. यदपि ते ब्राह्मण एवं स्यात्--ये वाजपेयं यज्ञं यजन्ति, अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्त इति।
३३०.०२४. न पुनर्ब्राह्मण त्वयैवं द्रष्टव्यम्।
३३०.०२४. तत्कस्य हेतोह्? वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञ च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति।
३३०.०२६. तस्मात्ते ब्राह्मण ब्रवीमि--न ह्येष मार्गः स्वर्गाय्
३३०.०२६. अहं ते ब्राह्मण मार्गं स्वर्गाय व्याख्यामि।
३३०.०२७. तच्छृणु--
३३०.०२८. शीलं रक्षेत मेधावी प्रार्थयानः सुखत्रयम्।
३३०.०२९. प्रशंसां वित्तलाभं च प्रत्य स्वर्गे च मोदनम्॥७०॥
३३०.०३०. यैर्ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः, यैरश्वमेधो यैः पुरुषमेधो यैः शाम्यप्राशो यैर्निरर्गडो यज्ञ इष्टः, परिगृहीतस्तैर्निरर्गलं च कामैः कामः।
३३०.०३१. इतो नाकः पर्येष्यत्
३३०.०३१. ये <३३१>ब्राह्मण इतः पश्चाद्वाजपेयं यज्ञं यक्ष्यन्ति, येऽश्वमेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति, ते निरर्थकं महाविघातं सम्योक्ष्यन्ति।

३३१.००२. तस्मात्ते ब्राह्मण ब्रवीमि--एहि त्वं मया सार्धं संबन्धं योजनयस्व्
३३१.००३. तत्कस्य हेतोह्? धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति।
३३१.००४. अपि च्
३३१.००५. श्रद्धा शीलं तपस्त्यागः श्रुतिर्ज्ञानं दयैव च् ।
३३१.००६. दर्शनं सर्ववेदानां स्वर्गव्रतपदानि वै॥७१॥
३३१.००७. प्रमाणमष्टप्रकारं स्वर्गाय्
३३१.००८. तदेभिरष्टाभिः प्रकारैर्द्वर्गगमनमिष्यत्
३३१.००८. ये प्रायेण जानन्ति विशेषेण खल्वप्यनेकैर्विविधैर्यज्ञैः।
३३१.००८. अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्त्
३३१.००९. तद्यथा--अदितिर्देवानां माता।
३३१.००९. दुतुर्दानवानाम्।
३३१.००९. मनुर्मानवानाम्।
३३१.०१०. सुरभिः सौरभेयानाम्।
३३१.०१०. विनता सुपर्णानाम्।
३३१.०१०. कद्रुनागानाम्।
३३१.०१०. पृथिवी भूतानां माता सर्वबीजानाम्।
३३१.०११. मरुतां महामह्
३३१.०११. महाकाश्यपं मनसा विदन्ति ऋषयः॥
३३१.०१२. अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्त गौत्राणि स्वाख्यास्यामि, तानि श्रूयन्ताम्--तद्यथा गौतमा वात्स्याः कौत्साः काश्यपा वासिष्ठा माण्डव्या इत्येतानि ब्राह्मण सप्त गोत्राणि।
३३१.०१४. एषामेकैकं गोत्रं सप्तधा भिन्नम्।
३३१.०१४. अत्र ये गौतमास्ते कौथुमास्ते गगर्स्ते भारद्वाजास्त आर्ष्टिषेणास्ते वैखानसास्ते वज्रपादाः।
३३१.०१५. तत्र ये वात्स्यास्त आत्रेयास्ते मैत्रेयास्ते भार्गवास्ते सावर्ण्यास्ते बहुजाताः।
३३१.०१६. तत्र ये वात्स्यास्त आत्रेयास्त मैत्रेयास्ते भार्गवास्ते सावर्ण्यास्ते सलीलास्ते बहुजाताः।
३३१.०१६. तत्र ये कौत्सास्ते मौद्गल्यायनास्ते गौणायनास्ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोमभुवाह्{वह्}।
३३१.०१७. तत्र ये कौशिकास्ते कात्यायनास्ते दर्भकात्यायनास्ते वल्कलिनस्ते पक्षिणस्ते लौकाक्षास्ते लोहितायनाह्(लोहित्यायनाः।)।
३३१.०१८. तत्र ये काश्यपास्ते मण्डनास्त इष्टास्ते शौण्डायनास्ते रोचनेयास्तेऽनपेक्षास्तेऽग्निवेश्याः।
३३१.०१९. तत्र ये काश्यपास्ते जातुकर्ण्यास्ते धान्यायनास्ते पाराशरास्ते व्याघ्रनखास्ते आण्डायनास्त औपमन्यवाः।
३३१.०२१. तत्र ये माण्डव्यास्ते भाण्डायनास्ते धोम्रायणास्ते कात्यायनास्ते खल्ववाअहनास्ते सुगन्धारायणास्ते कापिष्ठलायनाः।
३३१.०२२. इत्येतानि ब्राह्मण एवमेकोनपञ्चाशद्गोत्राणि ब्राह्मणैः पौराणैः सम्यग्दृष्टानि च्छन्दसि व्याकरणे पदमीमांसायाम्।
३३१.०२३. अन्यानि च गोत्राणि विस्तरतो मया वाचितानि।
३३१.०२४. तानि अन्यैर्न ज्ञायन्त् ।
३३१.०२५. यदुतैकत्वमिति विदित्वा भवान् बन्धुर्भवितुमर्हति।
३३१.०२५. तस्मात्ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकमिदं लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा।
३३१.०२७. एकमिदं सर्वमिदमेकम्।
३३१.०२७. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय्
३३१.०२८. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥
३३१.०२९. इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी तूष्णीम्भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत् ।
३३१.०३०. अद्राक्षीत्त्रिशङ्कुर्मातङ्गराजह्<३३२>पुस्करसारिणं ब्राह्मणं तूष्णीम्भूतं मद्गुभूतं स्रस्तस्कन्धमधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितम्। दृष्ट्वा च पुनरिदमवोचत्--

३३२.००३. यादृशं वाप्यते बीजं तादृशं लभ्यते फलम्।
३३२.००४. प्रजापतेर्हि चैकत्वे निर्विशेषो भवत्यतः॥७२॥
३३२.००५. न चेन्द्रियाणां नानात्वं क्रियाभेदश्च दृश्यत्
३३२.००६. ब्राह्मणे वान्यजातौ वा नैषां किंचिद्विशिष्यत् ।७३॥
३३२.००७. न ह्यात्मनः समुत्लर्षः श्रेष्ठत्वमिह युज्यत्
३३२.००८. शुक्रशोणितसम्भूतं योनितो ह्युभयं समम्॥७४॥
३३२.००९. चातुर्वर्ण्यं प्रवक्ष्यामि पशुधर्मकथां तव्
३३२.०१०. भवेत्ते भविनी भार्या नैतद्ब्राह्मण युज्यत् ।७५॥
३३२.०११. यदि तावदयं लोको ब्रह्मणा जनितः स्वयम्।
३३२.०१२. ब्राह्मणी ब्राह्मणस्वसा क्षत्रिया क्षत्रियस्वसा ।७६॥
३३२.०१३. अथ वैश्यस्य वैश्या वै शूद्रा वा पुनः।
३३२.०१४. न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥७७॥
३३२.०१५. न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।
३३२.०१६. नीचैश्चोच्चैश्च दृश्यन्ते सत्त्वा नानाश्रयाः पृथक् ॥७८॥
३३२.०१७. तेषां च जातिसामान्याद्ब्राह्मणे क्षत्रिये तथा।
३३२.०१८. अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तत् ।७९॥
३३२.०१९. ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणम्।
३३२.०२०. इतिहासो निघण्टश्च कुतश्छन्दो निरर्थकम्॥८०॥
३३२.०२१. अस्माकमप्यध्ययने मैत्री विद्या तथा शिखी।
३३२.०२२. संक्रामणी प्रक्रामणी स्तम्भनी कामरूपिणी॥८१॥
३३२.०२३. मनोजवा च गान्धारी घोरी विद्या वशंकरी।
३३२.०२४. काकवाणी च मन्त्रं च इन्द्रजालं च भञ्जनी॥८२॥
३३२.०२५. अस्माकमासीत्पुरुषा विद्यास्वाख्यातपण्डिताः।
३३२.०२६. मणिपुष्पाश्च ऋषयो भास्वराश्च महर्षयः॥८३॥
३३२.०२७. संल्प्राप्ता देवताऋद्धिं किं चिकित्ससि विद्यया।
३३२.०२८. अशिक्षिताश्च चण्डाला ब्राह्मणा वेदपारगाः॥८४॥
३३२.०२९. किपिंजलाद्यो जनितो मन्त्राणां पारमिं गतः।
३३२.०३०. न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यस्।८५॥

३३३.००१. <३३३>निषद्यजनयत्काली पुत्रं द्वैपायनं मुनिम्।
३३३.००२. उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महातपम्।
३३३.००३. न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥८६॥
३३३.००४. क्षत्रिया रेणुका नाम जज्ञे रामं महामुनिम्।
३३३.००५. पण्डितं च विनीतं च सर्वशास्त्रविशारदम्।
३३३.००६. न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥८७॥
३३३.००७. ये च ते मनुजा आसंस्तेजसा तपसा युताः।
३३३.००८. पण्डिताश्च विनीताश्च लोके च ऋषिसंमताः।
३३३.००९. न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥८८॥
३३३.०१०. संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास्तथा।
३३३.०११. वैश्याश्चैव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥८९॥
३३३.०१२. तस्मात्ते ब्राह्मण ब्रवीमि संज्ञामात्रकमिदं लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा।
३३३.०१३. एकमिदं सर्वमिदमेकम्।
३३३.०१३. पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमनुप्रयच्छ भार्यार्थाय्
३३३.०१४. यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥
३३३.०१५. इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्--किंगोत्रो भवान्? आह--आत्रेयगोत्रोऽस्मि।
३३३.०१६. किम्पूर्वह्? आह--आत्रेयः।
३३३.०१७. किंचरणम्? आह--कालेय--मैत्रायणीयः।
३३३.०१७. कति प्रवराह्? आह--त्रयः प्रवराः।
३३३.०१७. तद्यथा वात्स्याः कौत्स्या भरद्वाजाश्च्
३३३.०१८. के भवन्तः सब्रह्मचारिणह्? छन्दोगाः।
३३३.०१८. कति च्छन्दोगानां भेदाह्? षट् ।
३३३.०१९. ते कतमे? आह--तद्यथा।
३३३.०१९. कौथुमाः।
३३३.०१९. चारायणीयाः।
३३३.०१९. लाङ्गलाः।
३३३.०१९. सौवर्चसाः।
३३३.०२०. कापिंजलेयाः।
३३३.०२०. आर्ष्टिषेणा इति॥
३३३.०२१. किं भवतो मातृजं गोत्रम्? आह--पाराशरीयम्।
३३३.०२१. पठतु भवान् सावित्रीम्।
३३३.०२१. कथं भवति? कत्यक्षरा सावित्री? कतिगण्डा? कतिपदा?
३३३.०२३. चतुर्विंशत्यक्षरा सावित्री।
३३३.०२३. त्रिगण्डा।
३३३.०२३. अष्टाक्षरपदा।
३३३.०२३. उच्चारयतु भवान् सावित्रीम्।
३३३.०२४. अथ खलु भोः पुष्करसारिन्, सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि।
३३३.०२४. तच्छ्रूयताम्।
३३३.०२४. कथयतु भवान्।
३३३.०२५. भूतपूर्वं ब्राह्मण अतीतेऽध्वनि वसुर्नाम ऋषिर्बभूव्
३३३.०२६. पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी।
३३३.०२६. तेन तत्र तक्षकदुहिता कपिला नाम आसदिता भार्यार्थम्।
३३३.०२६. स तत्र संरक्तचित्तस्तया कन्यया सार्धं मैथुनमगच्छत् ।
३३३.०२७. स ऋषिरृद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः।
३३३.०२८. ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हाणस्तस्यां वेलायां सावित्रीं भाषते स्म्
३३३.०२९. तद्यथा--
३३३.०३०. भूर्भुवः स्वः।
३३३.०३०. तत्सवितुर्विरेण्यं भर्गो देवस्य धीमहि।
३३३.०३०. धियो यो नः प्रचोदयात् ।
३३३.०३१. इति हि ब्राह्मण अज्ञानशोधनार्थमिममेव मन्त्रं स ब्राह्मणो दिवारात्रं जपति स्म्
३३३.०३२. इयं ब्राह्मणानां सावित्री।
३३३.०३२. पूर्वजः प्रजापतिह्--

३३४.००१. <३३४>जटिलस्तापसो भूत्वा गहनं वनमाश्रितः।
३३४.००२. गम्भीरावभासे तत्र ह्यात्मस्तपोरतः॥९०॥
३३४.००३. देवस्य श्रेष्टकं भोजनमुपनाम्योपविष्ट इमं मन्त्रमजपत् ।
३३४.००३. इयं क्षत्रियाणां सावित्री।
३३४.००४. चित्रं हि वैश्यकन्यका।
३३४.००४. अथ सा कन्या अर्थतः प्रवीणा।
३३४.००४. इयं वैश्यानां सावित्री।
३३४.००५. अतपः सुतपः।
३३४.००५. जीवेम शरदां शतम्।
३३४.००५. पश्येम शरदां शतम्।
३३४.००५. इयं शूद्राणां सावित्री।
३३४.००६. भूर्भुवः स्वः।
३३४.००७. कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः।
३३४.००९. तस्माद्भवन्तः प्रजहन्तु कामांस्ततोऽतुलं प्राप्स्यथ ब्रह्मलोकम्॥९१॥
३३४.०११. इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश्च सम्यक्सम्बुद्धैरभ्यनुमोदिता॥
३३४.०१३. पठ भोस्त्रिशङ्को नक्षत्रवंशम्।
३३४.०१३. अथ किम्? भोः कथयतु भवान्।
३३४.०१३. श्रूयताम्।
३३४.०१४. भोः पुष्करसारिन्, नक्षत्रवंशं कथयिष्यामि।
३३४.०१४. तद्यथा--
३३४.०१५. कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसुः पुष्यहाश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा अनुराधा ज्येष्टा मूला पूर्वाषाढा उत्तराषाढा अभिजित्श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी।
३३४.०१७. इत्येतानि भोः पुष्करसारिन्नष्टाविंशतिनक्षत्राणि॥
३३४.०१९. कतितारकाणि कतिसंस्थानानि कतिमुहूर्तयोगानि किमाहाराणि किंदैवतानि किंगोत्राणि?
३३४.०२१. कृत्तिका भोः पुष्करसारिन्नक्षत्रं षट्तारं क्षुरसंस्थानं त्रिंशन्मुहूर्तयोगं दध्याहारमग्निदैवतं वैश्यायनीयं गोत्रेण्
३३४.०२२. रोहिणीनक्षत्रं पञ्चतारकं शकटाकृतिसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मृगमांसाहारं प्रजापतिदैवतं भारद्वाजं गोत्रेण्
३३४.०२३. मृगाशिरानक्षत्रं त्रितारं मृगशीर्षसंस्थानं त्रिंशन्मुहूर्तयोगं फलमूलाहारं सोमदैवतं मृगायणीयं गोत्रेण्
३३४.०२४. आर्द्रानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं सर्पिर्मण्डाहारं सूर्यदैवतं हारीतायनीयं गोत्रेण्
३३४.०२६. पुनर्वसुनक्षत्रं द्वितारं पदसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मध्याहारमदितिदैवतं वासिष्ठं गोत्रेण्
३३४.०२७. पुष्यनक्षत्रं त्रितारं वर्धमानसंस्थानं त्रिंशन्मुहूर्तयोगं मधुमण्डाहारं बृहस्पतिदैवतमौपमन्यवीयं गोत्रेण्
३३४.०२८. आश्लेषानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं पायसभोजनं सर्पदैवतं मैत्रायणीयं गोत्रेण्
३३४.०२९. इतीमानि भोः पुष्करसारिन् सप्त नक्षत्राणि पूर्वद्वारकाणि॥
३३४.०३१. मघानक्षत्रं पञ्चतारं नदीकुब्जसंस्थानं त्रिंशन्मुहूर्तयोगं तिलकृसराहारं तितृदैवतम् <३३५>पिङ्गलायनीयं गोत्रेण्

३३५.००१. पूर्वफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं बिल्वभोजनं भवदैवतं गौतमीयं गोत्रेण्
३३५.००२. उत्तरफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं गोधूममत्स्याहारमर्यमादैवतं कौशिकं गोत्रेण्
३३५.००३. हस्तनक्षत्रं पञ्चतारं हस्तसंस्थानं त्रिंशन्मुहूर्तयोगं श्यामाकभोजनं सूर्यदैवतं काश्यपं गोत्रेण्
३३५.००४. चित्रानक्षत्रमेकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मुद्गकृसरघृतपूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण्
३३५.००५. स्वातीनक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण्
३३५.००७. विशाखानक्षत्रं द्वितारं विषाणसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं तिलपुष्पाहारमिन्द्राग्निदैवतं शाखायनीयं गोत्रेण्
३३५.००८. इत्येतानि भोः पुष्करसारिन् सप्तनक्षत्राणि दक्षिणद्वारकाणि॥
३३५.००९. अनुराधानक्षत्रं चतुस्तारं रत्नावलीसंस्थानं त्रिंशन्मुहूर्तयोगं सुरामांसाहारं मित्रदैवतमालम्बायनीयं गोत्रेण्
३३५.०१०. ज्येष्ठानक्षत्रं त्रितारं यवमध्यसंस्थानं पञ्चदशमुहूर्तयोगं शालियवागूभोजनमिन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण्
३३५.०११. मूलनक्षत्रं सप्ततारं वृश्चिकसंस्थानं त्रिंशन्मुहूर्तयोगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण्
३३५.०१२. पूर्वाषाढानक्षत्रं चतुस्तारं गोविक्रमसंस्थानं त्रिंशन्मुहूर्तयोगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण्
३३५.०१३. उत्तराषाढानक्षत्रं चतुस्तारं गजविक्रमसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मधुलाजाहारं विश्वदैवतं मौद्गलायनीयं गोत्रेण्
३३५.०१५. अभिजिन्नक्षत्रं त्रितारं गोशीर्षसंस्थानं षण्मुहूर्तयोगं वाय्वाहारं ब्रह्मदैवतं ब्रह्मावतीयं गोत्रेण्
३३५.०१६. श्रवणानक्षत्रं त्रितारं यवमध्यसंस्थानं त्रिंशन्मुहूर्तयोगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण्
३३५.०१७. इत्येतानि भोः पुष्करसारिन् सप्त नक्षत्राणि पश्चिमद्वारकाणि॥
३३५.०१९. धनिष्ठानक्षत्रं चतुस्तारं शकुनसंस्थानं त्रिंशन्मुहूर्तयोगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण्
३३५.०२०. शतभिषानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण्
३३५.०२१. पूर्वभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं मांसरुधिराहारमहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण्
३३५.०२२. उत्तरभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मांसाहारमर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण्
३३५.०२४. रेवतीनक्षत्रमेकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मधुपायसभोजनं गन्धर्वदैवतं मैत्रायणीयं गोत्रेण्
३३५.०२६. भरणीनक्षत्रं त्रितारं भगसंस्थानं त्रिंशन्मुहूर्तयोगं तिलतण्डुलाहारं यमदैवतं भार्गवीयं गोत्रेण्
३३५.०२७. इत्येतानि भोः पुष्करसारिन् सप्त नक्षत्राणि उत्तरद्वारकाणि॥
३३५.०२८. अमीषां भोः पुष्करसारिन्नष्टविंशतीनां नक्षत्राणां षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तयोगानि।
३३५.०२९. तद्यथा--रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति।
३३५.०३०. पञ्चनक्षत्राणि पञ्चदशमुहूर्तयोगानि।
३३५.०३०. तद्यथा--आर्द्रा आश्लेषा स्वाती ज्येष्ठा शतभिषा चेति।
३३५.०३१. एकोऽभिजित्षण्मुहूर्तयोगम्।
३३५.०३१. अवशिष्टानि त्रिंशन्मुहूर्तयोगानि॥

३३६.००१. <३३६>अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्वद्वारिकाणां कृत्तिका प्रथमा नामा, आश्लेषा पश्चिमा नाम्
३३६.००२. अमीषां सप्तानां नक्षत्राणां दक्षिणद्वारीकाणां मघा प्रथमा नाम, विशाखा पश्चिमाअ नाम्
३३६.००३. अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणामनुराधा प्रथमा नाम, श्रवणा पश्चिमा नाम्
३३६.००४. अमीषां सप्तानां नक्षत्राणामुत्तरद्वारिकाणां धनिष्ठा प्रथमा नाम, भरणी पश्चिमा नाम् ।
३३६.००६. अमीषां भोः पुष्करसारिन्नष्टाविंशतीनां नक्षत्राणां सप्त बलानि।
३३६.००६. कतमानि सप्त? यदुत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वसुः पुनर्वसुः स्वातिश्च्
३३६.००७. त्रिणि दारुणानि।
३३६.००७. आर्द्रा आश्लेषा भरणी चेति।
३३६.००८. चत्वारि संमाननीयानि।
३३६.००८. यदुत त्रीणि उत्तराणि रोहिणी चेति।
३३६.००८. पञ्च मृदुकानि।
३३६.००९. श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति।
३३६.००९. पञ्च धारणीयानि।
३३६.००९. हस्ता चित्रा आश्लेषा मघा अभिजिच्चेति।
३३६.०१०. चत्वारि क्षिप्रकरणीयानि।
३३६.०१०. यदुत कृत्तिका मृगशिरा पुष्या अश्विनी चेति॥
३३६.०११. अमीषां भोः पुष्करसारिन्नष्ठाविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति--ऋषभानुसारी योगः।
३३६.०१२. वत्सानुसारी योगः।
३३६.०१२. युगनद्धो योगः।
३३६.०१२. तत्र नक्षत्रं यदि पुरस्ताद्गच्छति चन्द्रश्च पृष्ठतः, अयमुच्यते ऋषभानुसारी योग इति।
३३६.०१३. यदुत चन्द्रः पुरस्ताद्गच्छति नक्षत्रं च पृष्ठतः, तदा भवति वत्सानुसारी योगः।
३३६.०१४. यदि पुनश्चन्द्रो नक्षत्रं चोभौ समौ युगपद्गच्छतः, तदायमुच्यते योग इति॥
३३६.०१६. अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि।
३३६.०१६. तच्छ्रूयताम्।
३३६.०१६. तद्यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस्ताराधिपतिश्चेति॥
३३६.०१८. एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश्च भवति? तदुच्यत्
३३६.०१९. हेमन्तानां द्वितीये मासि रोहिण्यामष्टभ्यां द्वादशमुहूर्तो दिवसो भवति।
३३६.०२०. अष्टादशमुहूर्ता रात्रिः।
३३६.०२०. ग्रीष्माणां पश्चिमे मासे रोहिण्यामष्टभ्यामष्टादशमुहूर्तो दिवसो भवति।
३३६.०२१. द्वादशमुहूर्तो रात्रिः।
३३६.०२१. वर्षाणां पश्चिमे मासे रोहिण्यामष्टभ्यां चतुर्दशमुहूर्तो दिवसे भवति।
३३६.०२२. षोडशमुहूर्ता रात्रिः॥
३३६.०२३. किं भोस्त्रिशङ्को रात्रिदिवसानां प्रस्थानम्? दिवसानुदिवसम्।
३३६.०२३. किं पक्षस्य प्रस्थानम्? प्रतिप
३३६.०२४. किं संवत्सरस्य प्रस्थानम्? पौषः।
३३६.०२४. किमृतूनां प्रस्थानम्? प्रावृट् ॥
३३६.०२५. किं भोस्त्रिशङ्को क्षणस्य परिमाणम्? किं लवास्य? किं मुहूर्तस्य? तद्यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः।
३३६.०२६. एवं दीर्घस्तत्क्षणम्।
३३६.०२६. विंशत्यधिकं तत्क्षणशतमेकः क्षणः।
३३६.०२७. त्रिंशल्लवा एको मुहूर्तः।
३३६.०२७. एतेन क्रमसम्बन्धेन त्रिंशन्मुहूर्तमेकं रात्रिदिवसमनुमीयत्
३३६.०२८. तेषां मुहूर्तानामिमानि नामानि भवन्ति--
३३६.०२९. आदित्य उदयति षण्णवतिपौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति।
३३६.०२९. षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति।
३३६.०३०. द्वादशपौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति।
३३६.०३१. षट्पौरुषायां छायायां शरपथे नाम मुहूर्तो भवति।
३३६.०३१. पञ्चपौरुषायां छायायामतिसमृद्धो<३३७> नाम मुहूर्तो भवति।

३३७.००१. चतुःपौरुषायां छायायामुद्गतो नाम मुहूर्तो भवति।
३३७.००२. त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति।
३३७.००२. स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति।
३३७.००३. परिवृतो मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति।
३३७.००३. चतुःपौरुषायां छायायां बलो मुहूर्तः।
३३७.००४. पञ्चपौरुषायां छायायां विजयो नाम मुहूर्तः।
३३७.००४. षट्पौरुषायां छायायां सर्वरसो नाम मुहूर्तः।
३३७.००५. द्वादशपौरुषायां छायायां वसुर्नाम मुहूर्तः।
३३७.००५. षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः।
३३७.००६. अवतरमाण आदित्ये षण्णवतिपौरुषायां छायायां परभयो नाम मुहूर्तो भवति।
३३७.००७. इत्येतानि दिवसस्य मुहूर्तानि॥
३३७.००८. अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि।
३३७.००८. अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः।
३३७.००९. ततस्तारावचरो नाम मुहूर्तः।
३३७.००९. सम्यमो नाम मुहूर्तः।
३३७.००९. साम्प्रैयको नाम मुहूर्तः।
३३७.०१०. अनन्तो नाम मुहूर्तः।
३३७.०१०. गर्दभो नाम मुहूर्तः।
३३७.०१०. राक्षसो नाम मुहूर्तः।
३३७.०१०. स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः।
३३७.०११. अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः।
३३७.०११. दितिर्नाम मुहूर्तः।
३३७.०११. अर्को नाम मुहूर्तः।
३३७.०१२. विधमनो नाम मुहूर्तः।
३३७.०१२. आग्नेयो नाम मुहूर्तः।
३३७.०१२. आतपाग्निर्नाम मुहूर्तः।
३३७.०१३. अभिजिन्नाम मुहूर्तः।
३३७.०१३. इत्येतानि रात्रेर्मुहूर्तनामानि।
३३७.०१३. इति भोः पुष्करसारिन्निमानि त्रिंशन्मुहूर्तानि यैरहोरात्रं प्रज्ञायत् ।
३३७.०१५. तत्क्षणः क्षणो लवो मुहूर्तः।
३३७.०१५. तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः।
३३७.०१५. षष्टितमो भागो लवस्य क्षणः।
३३७.०१६. विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः।
३३७.०१६. तद्यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः।
३३७.०१७. एवं दीर्घस्तत्क्षणः।
३३७.०१७. विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः।
३३७.०१७. षष्टिः क्षणा एको लवः।
३३७.०१८. त्रिंशल्लवा एको मुहूर्तः।
३३७.०१८. एतेन क्रमयोगेन त्रिंशन्मुहूर्तमेकमहोरात्रम्।
३३७.०१९. त्रिंशदहोरात्राण्येको मासः।
३३७.०१९. द्वादश मासाः संवत्सरः।
३३७.०१९. चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः सुमुखो वज्रको रोहितो बलो विजयः सर्वरसो वसुः सुन्दरः परभयः।
३३७.०२०. रौद्रस्तारावचरः सम्यमः साम्प्रैयकोऽनन्तो गर्दभो राक्षसोऽवयवो ब्रह्मा दितिरर्को विधमनो आग्नेय आतपाग्निरभिजित् ।
३३७.०२२. इतीमानि मुहूर्तानां नामानि॥
३३७.०२३. कालोत्पत्तिमपि ते ब्राह्मण वक्ष्यामि, शृणु--
३३७.०२४. कालस्य किं प्रमाणमिति तदुच्यत्
३३७.०२४. द्वावक्षिनिमेषावेको लवः।
३३७.०२४. अष्टौ लवा एका काष्ठा।
३३७.०२५. षोडश काष्ठा एका कला।
३३७.०२५. कलानां त्रिंशदेका नाडिका।
३३७.०२५. तत्र द्वे नाडिके एको मुहूर्तः॥
३३७.०२६. नाडिकायाः पुनः किं प्रमाणम्? तदुच्यते--
३३७.०२७. द्रोणं सलिलस्यैकम्।
३३७.०२७. तद्वरणतो द्वे पलशते भवतः।
३३७.०२७. नालिकाछिद्रस्य किं प्रमाणम्? सुवर्णमात्रम्।
३३७.०२८. उपरि चतुरङ्गला सुवर्णशलाका कर्तव्या।
३३७.०२८. वृत्तपरिमण्डला समन्ताच्चतुरस्रा आयता।
३३७.०२९. यदा चैवं शीर्येत तत्तोयं घटस्य तदैका नाडिका।
३३७.०२९. एतेन नाडिकाप्रमाणेन विभक्ते द्वे नाडिके एको मुहूर्तः।
३३७.०३०. एतेन भो ब्राह्मण त्रिंशन्ंहूर्ताः, यै रात्रिदिवसा अनुमीयन्त इति॥

३३८.००१. <३३८>ततः षोडश निमेषा एका काष्ठा।
३३८.००१. षोडश काष्ठा एका कला।
३३८.००१. षष्टिः कला एको मुहूर्तः।
३३८.००२. त्रिंशन्मुहूर्ता एकमहोरात्रम्।
३३८.००२. त्रिंशदहोरात्राण्येको मासः।
३३८.००२. द्वादश मासाः संवत्सरः॥
३३८.००३. एतेन पुनरक्षिनिमेषेण षोडशकोट्योऽष्टपञ्चाशञ्च शतसहस्राणि अष्टाशीतिसहस्राणि स एवं मापितः।
३३८.००४. तच्च ब्राह्मण कालोत्पत्तिर्व्याख्याता॥
३३८.००५. शृणु ब्राह्मण त्रोशयोजनानामुत्पत्तिम्।
३३८.००६. वातायनरजांसि सप्त, शशक्रजः।
३३८.००६. सप्त शशकरजांसि एडकरजः।
३३८.००७. सप्त एडकरजांसि एकं गोरजः।
३३८.००७. सप्त गोरजांसि एका यूका।
३३८.००७. सप्त यूका एका लिक्षा।
३३८.००८. सप्त लिक्षा एको यवः।
३३८.००८. सप्त यवा एकाङ्गुलिः।
३३८.००८. द्वादशाङ्गुलयो वितस्तिः।
३३८.००८. द्वे वितस्ती एको हस्तः।
३३८.००९. चत्वारो हस्ता एकं धनुः।
३३८.००९. धनुःसहस्रमेकः क्रोशः।
३३८.००९. चत्वारः क्रोशा एको मागधयोजनः।
३३८.०१०. योजनस्य प्रमाणं पिण्डितम्।
३३८.०१०. परमाणूनां कोटिशतसहस्राणि चतुर्विंशतिश्चैकोनत्रिंशत्कोटिसहस्राणि द्वादश च शतसहस्राणि।
३३८.०११. एवं मापितं योजनमिति॥
३३८.०१२. शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिम्।
३३८.०१२. तत्कथयतु भवान्--
३३८.०१३. द्वादश यवा माषकः।
३३८.०१३. षोडश माषका एकः कर्षः।
३३८.०१३. सुवर्णस्य परिमाणं पिण्डितमिति।
३३८.०१४. द्वे कोटी पञ्चविंशतिश्च सहस्राणि पञ्चशतान्यष्टौ च परमाणवः।
३३८.०१४. एवं मापिता ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिः॥
३३८.०१६. शृणु ब्राह्मण पलप्रमाणम्।
३३८.०१६. चतुःषष्टिमाषकाः पलं मागधकम्।
३३८.०१६. मागधकया तुलया पलस्य परिमाणं पिण्डितम्।
३३८.०१७. परमाणूनामष्टकोटयः सप्तचत्वारिंशच्च शतसहस्राणि सप्त च सहस्राणि द्वे शते अशीतिश्च परमाणवः।
३३८.०१८. एवं मापितं ब्राह्मण पलस्य परिमाणमिति।
३३८.०१९. शृणु ब्राह्मण रसपरिमाणस्योत्पत्तिम्।
३३८.०१९. चतुर्विंशतिपलानि मागधकः प्रस्थः।
३३८.०१९. तत्रसपरिमाणम्।
३३८.०२०. मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितम्।
३३८.०२०. द्वे कोटिशते तिस्रश्च कोटय एकोनत्रिंशच्च शतसहस्राणि चतुःसप्ततिसहस्राणि सप्त च शतानि विंशतिश्च परमाणवः।
३३८.०२२. एवं मापिता ब्राह्मण रसमानस्योत्पत्तिरिति॥
३३८.०२३. शृणु ब्राह्मण धान्यपरिमाणस्योत्पत्तिम्।
३३८.०२३. एकोनत्रिंशतिपलान्येककर्षेणोनानि मागधः प्रस्थः।
३३८.०२४. मापितं धान्यपरिमाणम्।
३३८.०२४. मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितम्।
३३८.०२४. कोटिशतमष्टपञ्चाशच्च कोटयो द्विरशीतिश्च शतास्हस्राणि एकषष्टिश्च सहस्राणि पञ्चशतानि त्रिंशच्च परमाणवः।
३३८.०२६. एवं मापितं ब्राह्मण धान्यस्य परिमाणमिति॥
३३८.०२७. पठ भोस्त्रिशङ्को नक्षत्रव्याकरणं नामाध्यायम्।
३३८.०२७. अथ खलु भो ब्राह्मण नक्षत्रव्याकरणं नामाध्यायं व्याख्यास्यामि तच्छ्रूयताम्।
३३८.०२८. कथयतु भवान्--
३३८.०२९. कृत्तिकासु जातो मानवो यशस्वी भवति।
३३८.०२९. रोहिण्यां जातः सुभगो भवति भोगवांश्च्
३३८.०३०. मृगशिरसि जातो युद्धार्थी भवति।
३३८.०३०. आर्द्रायां जात उत्सोऽन्नपानानां भवति।
३३८.०३१. पुनर्वसौ जातो भवति गोरक्षश्च्
३३८.०३१. पुष्ये जातः शीलवान् भवति।
३३८.०३१. आश्लेषायाम् <३३९>जातः कामुको भवति।

३३९.००१. मघायां जातो मतिमान् भवति, महात्मा च्
३३९.००१. पूर्वफल्गुन्यां जातोऽल्पायुष्को भवति।
३३९.००२. उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश्च्
३३९.००३. हस्ते जातश्चौरो भवति।
३३९.००३. चित्रायां जातो नृत्यगीतकुशलो भवति, आभरणविधिज्ञश्च्
३३९.००४. स्वात्यां जातो गणको भवति, गणकमहामात्रो वा।
३३९.००४. विशाखायां जातो राजभटो भवति।
३३९.००५. अनुराधायां जातो वाणिजको भवति सार्थिकः।
३३९.००५. ज्येष्ठायां जातोऽल्पायुष्को भवति, अल्पभोगश्च्
३३९.००६. मूले जातः पुत्रवान् भवति, यशस्वी च्
३३९.००६. पूर्वाषाढायां जातो योगाचारो भवति।
३३९.००७. उत्तराषाढायां जातो भक्तेश्वरः कुलीनश्च भवति।
३३९.००७. अभिजिति जातः कीर्तिमान् पुरुषो भवति।
३३९.००८. श्रवणे जातो राजपूर्जितो भवति।
३३९.००८. धनिष्ठायां जातो धनाढ्यो भवति।
३३९.००८. शतभिषायां जातो मूलिको भवति।
३३९.००९. पूर्वभाद्रपदायां जातश्चौरसेनापतिर्भवति।
३३९.००९. उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश्च्
३३९.०१०. रेवत्यां जातो नाविको भवति।
३३९.०१०. अश्विन्यां जातोऽश्ववाणिजको भवति।
३३९.०११. भरण्यां जातो वध्यघातको भवति।
३३९.०११. अयं भोः पुष्करसारिन्नक्षत्रव्याकरणो नाम् ।
३३९.०१२. पठ भोस्त्रिशङ्को नक्षत्रनिर्देशं नामाध्यायम्।
३३९.०१२. अथ भोः पुष्करसारिन्नक्षत्रनिर्देशं नामाध्यायं व्याख्यास्यामि।
३३९.०१३. तच्छ्रूयताम्।
३३९.०१३. कथयतु भवान्--
३३९.०१४. कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।
३३९.०१५. प्रभूतरत्नोज्ज्वलं चैवं तन्नगरं विनिर्दिशेत् ॥९२॥
३३९.०१६. रोहिण्यां तु निविष्टं वै नगरं तद्विनिर्दिशेत् ।
३३९.०१७. धार्मिकोऽत्र जनो भूयात्प्रभूतधनसंचयः।
३३९.०१८. विद्याप्रकृतिसम्पन्नः स्वदाराभिरतोऽपि च् ।९३॥
३३९.०१९. मृगशीर्षे निविष्टं तु स्त्रीभिर्गोभिर्धनैस्तथा।
३३९.०२०. माल्यभोगैश्च संकीर्णमद्भुतैश्च पुरस्कृतम्॥९४॥
३३९.०२१. आर्द्रायां मत्स्यमांसानि भक्ष्यभोज्यधनानि च्
३३९.०२२. भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुर् ।९५॥
३३९.०२३. पुनर्वसौ निविष्डे तु नगरं दीप्यते श्रिया।
३३९.०२४. प्रभूतधनधान्यं च भूत्वा चापि विनिश्यति॥९६॥
३३९.०२५. श्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।
३३९.०२६. युक्ताः श्रिया च धर्मिष्ढास्तथैव चिरजीविनः॥९७॥
३३९.०२७. तेजस्विनश्च दीर्घायुर्धनधान्यरसान्विताः।
३३९.०२८. वनस्पतिस्तथा क्षिप्रं पुष्येत्तत्र पुनः पुनः॥९८॥
३३९.०२९. आश्लेषायां निविष्टे तु दुर्भगाः कलहप्रियाः।
३३९.०३०. दुःशीला दुःखभाजश्च निवसन्ति नराधमाः॥९९॥
३३९.०३१. मघायां च निविष्टे तु विद्यावन्तो महाधनाः।
३३९.०३२. स्वदाराभिरता मर्त्या जायन्ते सुपराक्रमाः॥१००॥

३४०.००१. <३४०>फाल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभम्।
३४०.००२. गन्धोपेतानि धान्यानि निविष्टे नगरे भवेत् ॥१०१॥
३४०.००३. उत्तरायां तु फल्गुन्यां धान्यानि च धनानि च्
३४०.००४. मूर्खा जना स्त्रीभिर्निविष्टे नगरे भवेत् ॥१०२॥
३४०.००५. हस्ते च विनिविष्टे तु विद्यावन्तो महाधनाः।
३४०.००६. परस्परं च रुचितं शयनं नगरे भवेत् ॥१०३॥
३४०.००७. चित्रायां च निविष्टे तु स्त्रीजिताः सर्वमानवाः।
३४०.००८. श्रीमत्कान्तं च नगरं ज्वलन्तं तद्विनिर्दिशेत् ॥१०४॥
३४०.००९. स्वात्यां पुरे निविष्टे तु प्रभूतधनसंचयाः।
३४०.०१०. लुब्धाः क्रूराश्च मूर्खाश्च प्रभूता नगरे भवेत् ॥१०५॥
३४०.०११. विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।
३४०.०१२. यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेत् ॥१०६॥
३४०.०१३. अनुराधानिविष्टे तु धर्मशीला जितेन्द्रियाः।
३४०.०१४. स्वदारनिरताः पुण्या जपहोमपरायणाः॥१०७॥
३४०.०१५. ज्येष्ठायां संनिविष्टं तु बहुरत्नधनान्वितैः।
३४०.०१६. सत्त्वैर्वेदविदैः पूर्णं शश्वत्समभिवर्धत् ।१०८॥
३४०.०१७. मूलेन संनिविष्टं तु पुरं धान्यधनान्वितम्।
३४०.०१८. दुःशीलजनसंकीर्णं पांसुना च विनश्यति॥१०९॥
३४०.०१९. पूर्वाषाढानिविष्टं तु पुरं स्याद्धनधान्यभाक् ।
३४०.०२०. लुब्धाः क्रूराश्च मूर्खाश्च निवसन्ति नराधमाः॥११०॥
३४०.०२१. निविष्टे तूत्तरायां च धनधान्यसमुच्चयः।
३४०.०२२. विद्याप्रकृतिसम्पन्नो जनश्च कलहप्रियः॥१११॥
३४०.०२३. अभिजिति निविष्टे तु नगरे तत्र मोदिताः।
३४०.०२४. नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥११२॥
३४०.०२५. श्रवणायां निविष्टं तु परं धान्यधनान्वितम्।
३४०.०२६. अरोगिजनभूयिष्ठसहितं तद्विनिर्दिशेत् ॥११३॥
३४०.०२७. धनिष्ठायां निविष्टं तु स्त्रीजितं पुरमादिशेत् ।
३४०.०२८. प्रभूतवस्त्रमाल्यं च कामभोगविवर्जितम्॥११४॥
३४०.०२९. पुरे शतभिषायुक्ते मूर्खशाठ्यप्रिया जनाः।
३४०.०३०. स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥११५॥

३४१.००१. <३४१>पुरे प्रोष्ठपदाध्यक्षे नरास्तत्र सुखप्रियाः।
३४१.००२. परोपतापिनो मूर्खा मानकामविवर्जिताः॥११६॥
३४१.००३. उत्तरायां निविष्टे तु शश्वद्वृद्धिरनुत्तरा।
३४१.००४. पूर्णं च धनधान्याभ्यां रत्नाढ्यं च विनिर्दिशेत् ॥११७॥
३४१.००५. पुरे निविष्टे रेवत्यां सुन्दरी जनता भवेत् ।
३४१.००६. खरोष्ट्रं चैव गावश्च प्रभूतधनधान्यता॥११८॥
३४१.००७. अश्विन्यां विनिविष्टं तु नगरं शिवमादिशेत् ।
३४१.००८. अरोगिजनसम्पूर्णं दर्शनीयजनाकुलम्॥११९॥
३४१.००९. भरण्यां संनिविष्टे तु दुर्भगाः कलहप्रियाः।
३४१.०१०. दुःशीला दुःखभाजश्च वसन्ति पुरुषाधमाः॥१२०॥
३४१.०११. पुराणि राष्ट्राणि तथा गृहाणि नक्षत्रयोगं प्रसमीक्ष्य विद्वान्।
३४१.०१३. इष्टे प्रशस्ते च निवेशयेत्तु पूर्वे च जन्मेऽधिगतं मयेदम्॥१२१॥
३४१.०१५. अयं भोः पुष्करसारिन्नक्षत्रनिर्देशो नामाध्यायः॥
३४१.०१६. अथ खलु भोः पुष्करसारिन्नष्टाविंशतीनां नक्षत्राणां स्थाननिर्देशं नामाध्यायं प्रवक्ष्यामि।
३४१.०१७. तच्छ्रूयताम्।
३४१.०१७. कथयतु भगवान्--
३४१.०१८. कृत्तिका भोः पुष्करसारिन्नक्षत्रं कलिङ्गमगधानाम्।
३४१.०१८. रोहिणी सर्वप्रजायाः।
३४१.०१९. मृगशिरा विदेहानां राजोपसेवकानां च्
३४१.०१९. एवमार्द्रा क्षत्रियाणां ब्राह्मणानां च्
३४१.०१९. पुनर्वसुः सौपर्णानाम्।
३४१.०२०. पुष्यनक्षत्रं सर्वेषामवदातवसनानां राजपदसेवकानां च्
३४१.०२०. आश्लेषा नागानां हैमवतानां च्
३४१.०२१. मघानक्षत्रं गौडिकानाम्।
३४१.०२१. पूर्वफल्गुनी चौराणाम्।
३४१.०२१. उत्तरफल्गुनी अवन्तीनाम्।
३४१.०२२. हस्ता सौराष्ट्रिकाणाम्।
३४१.०२२. चित्रा पक्षिणां द्विपदानाम्।
३४१.०२२. स्वाती सर्वेषां प्रवरज्यासमापन्नानाम्।
३४१.०२३. विशाखा औदकानाम्।
३४१.०२३. अनुराधा वाणिजकानां शाकटिकानां च्
३४१.०२३. ज्येष्ठा दौवालिकानाम्।
३४१.०२४. मूला पथिकानाम्।
३४१.०२४. पूर्वाषाढा बाह्लीकानां च्
३४१.०२४. उत्तराषाढा काम्बोजानाम्।
३४१.०२५. अभिजित्सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च्
३४१.०२५. श्रवणा घातकानां चौराणां च्
३४१.०२५. धनिष्ठा कुरुपाञ्चालानाम्।
३४१.०२६. शतभिषा मौलिकानामाथर्वणिकानां च्
३४१.०२६. पूर्वभाद्रपदा गन्धिकानां यवनकाम्बोजानां च्
३४१.०२७. उत्तरभाद्रपदा गन्धर्वाणाम्।
३४१.०२७. रेवती नाविकानां च्
३४१.०२७. अश्विनी अश्ववाणिजानां च्
३४१.०२८. भरणी भद्रपदकर्मणां भद्रकायकानां च् ।
३४१.०२८. अयं भोः पुष्करसारिन्नक्षत्राणां स्थाननिर्देशव्याकरणो नामाध्यायः॥
३४१.०३०. पठ भोस्त्रिशङ्को ऋतुवष नामाध्यायम्।
३४१.०३०. तदहं वक्ष्ये श्रूयताम्।
३४१.०३०. कथयतु भगवान्--

३४२.००१. <३४२>कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति।
३४२.००२. वर्षो दशरात्रिकः।
३४२.००२. श्रवणायुक्तप्रोष्ठपदायामग्रोदको वर्षारात्रो भवति।
३४२.००३. अग्निभयं शस्त्रभयं चोदकभयं च भवति।
३४२.००४. उक्तं कृत्तिकासु॥
३४२.००५. रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति।
३४२.००६. तत्र निंनानि कृषिकर्तव्यानि।
३४२.००६. स्थलानि परिवर्जयितव्यानि।
३४२.००६. एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति।
३४२.००७. द्वौ चात्र रोगौ प्रबलौ भवतः।
३४२.००७. कुक्षिरोगश्चक्षूरोगश्च्
३४२.००७. चौरबहुलाश्चात्र दिशो भवन्ति।
३४२.००८. उक्तं च रोहिण्याम्॥
३४२.००९. मृगशीर्षे ग्रीष्माणां पश्चिमे मासे देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति।
३४२.०१०. सारोपरोधो वर्षारात्रः।
३४२.०१०. पश्चाद्वर्षं संजनयति।
३४२.०१०. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति।
३४२.०१०. क्षेमिणः सुनीतिकाश्च दिशो भवन्ति।
३४२.०११. मुदिताश्चात्र जनपदा भवन्ति।
३४२.०११. उक्तं मृगशिरसि॥
३४२.०१२. आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अष्टादशाढकानि प्रवर्षति।
३४२.०१३. तत्र निंनानि कृषिकर्तव्यानि।
३४२.०१३. स्थलानि परिवर्जयितव्यानि।
३४२.०१३. निधयश्च रक्षयितव्याः।
३४२.०१४. चौरबहुलाश्चात्र दिशो भवन्ति।
३४२.०१४. निक्षिप्तशस्त्राश्च रजानो भवन्ति।
३४२.०१४. त्रयश्चात्र रोगाः प्रबला भवन्ति--ज्वरः श्वासो गलग्रहश्च्
३४२.०१५. बालानां दारकदारिकाणां च मरणं भवति।
३४२.०१५. इत्युक्तमार्द्रायाम्॥
३४२.०१६. पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, नवत्याढकानि प्रवर्षति।
३४२.०१७. महामेघानुत्पादयति।
३४२.०१७. आषाढायां प्रविष्टायां मृदूनि प्रवर्षति।
३४२.०१७. अनन्तरं च निरन्तरेण प्रवर्षति।
३४२.०१८. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति।
३४२.०१८. उक्तं पुनर्वसौ॥
३४२.०१९. पुष्ये ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, द्वात्रिंशदाढकानि प्रवर्षति।
३४२.०१९. अत्र निंनानि कृषिकर्तव्यानि।
३४२.०२०. स्थलानि परिवर्जयितव्यानि।
३४२.०२०. व्यक्तं प्रधानवर्षाणि भवन्ति।
३४२.०२०. सस्यं च निष्पादयति।
३४२.०२१. ब्राह्मणक्षत्रियाणां च विरोधो भवति।
३४२.०२१. दंष्ट्रिणश्चात्र प्रबला भवन्ति।
३४२.०२१. तत्र त्रयो रोगाश्च भवन्ति--गाण्डाः पिटकाः पामानि च्
३४२.०२२. इत्युक्तं पुष्य् ।
३४२.०२३. आश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति।
३४२.०२४. तत्र निंनानि कृषिकर्तव्यानि।
३४२.०२४. स्थलानि परिवर्जयितव्यानि।
३४२.०२४. विषमाश्च वायवो वान्ति।
३४२.०२५. संविग्नाश्चात्र ज्ञानिनो राजानश्च भवन्ति।
३४२.०२५. एषो वर्षः सर्वसस्यानि संपादयति।
३४२.०२५. जायापतिकानां राजामात्यानां च विरोधो भवति।
३४२.०२६. उक्तमाश्लेषायाम्॥
३४२.०२७. मघायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति चतुःषष्ट्याढकानि प्रवर्षति।
३४२.०२८. एषो वर्षः सर्वसस्यानि संपादयति।
३४२.०२८. मृगपक्षिपशुमनुष्याणां चात्र गर्भा विनश्यन्ति।
३४२.०२९. जनमरणं चात्र भविष्यतीति।
३४२.०२९. उक्तं मघायाम्॥
३४२.०३०. पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति।
३४२.०३१. एषो वर्षः सर्वसस्यानि संपादयति।
३४२.०३१. तच्च सस्यं जनयित्वा परचक्रपीडिता मनुष्या न सुखेनोपभुञ्जत्
३४२.०३२. पशूनां मनुष्याणां चात्र गर्भाः सुखिनो भवन्ति।
३४२.०३२. उक्तं पूर्वफल्गुन्याम्॥

३४३.००१. <३४३>उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अशीत्याडकानि प्रवर्षति।
३४३.००२. एको वर्षः सर्वस्यानि च संपादयति।
३४३.००२. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति।
३४३.००३. ब्रह्मक्षत्रिययोश्च विरोधो भवति।
३४३.००३. क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति।
३४३.००३. उक्तमुत्तरफल्गुन्याम्॥
३४३.००५. हस्ते ग्रीष्माणां पश्चिमे मासे देवः प्रवर्षति, एकोनपञ्चाशदाडकानि प्रवर्षति।
३४३.००६. देवश्च तद्यथा परिक्षिप्ति।
३४३.००६. पतितानि च सस्यारसाग्राणि अनुदग्राणि अल्पसारण्यल्पोदकानि।
३४३.००७. दुर्भिक्षश्चात्र भविष्यति।
३४३.००७. उक्तं हस्त् ।
३४३.००८. चित्रायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याडकानि प्रवर्षति।
३४३.००९. सारोपरोधास्ततः पश्चाद्वर्षं संजनयति।
३४३.००९. निक्षिप्तशस्त्राश्च राजानो भवन्ति।
३४३.००९. मुदिताश्चात्र जनपदा भवन्ति।
३४३.०१०. उक्तं चित्रायाम्॥
३४३.०११. स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याडकानि प्रवर्षति।
३४३.०१२. निक्षिप्तशस्त्राश्च राजानो भवन्ति।
३४३.०१२. चौराश्चात्र बलवत्तरा भवन्ति।
३४३.०१२. उक्तं स्वात्याम्॥
३४३.०१३. विशाखायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अशीत्याडकानि प्रवर्षति।
३४३.०१४. एको वर्षः सर्वस्यानि संपादयति।
३४३.०१४. राजानश्चात्र च्छिद्रयुक्ता भवन्ति।
३४३.०१४. अग्निदाहाश्चात्र प्रबला भवन्ति।
३४३.०१५. दंष्ट्रिणश्चात्र बलवन्तोऽपि क्षयं गच्छन्ति।
३४३.०१५. उक्तं विशाखायाम्॥
३४३.०१६. अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षष्ट्याडकानि प्रवर्षति।
३४३.०१७. ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे चात्र दृडानि भवन्ति।
३४३.०१७. उक्तमनुराधायाम्॥
३४३.०१८. ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षोडशाढकानि प्रवर्षति।
३४३.०१९. तत्र कृषिकर्मान्तानि प्रतिसंहर्तव्यानि।
३४३.०१९. युगवरत्राणि वर्जयितव्यानि।
३४३.०१९. स्वधान्यानि उपसंहर्तव्यानि।
३४३.०२०. अग्नयः प्रतिसंहर्तव्याः।
३४३.०२०. ला.ङ्गलानि प्रतिसंहर्तव्यानि।
३४३.०२०. अवश्यमनेन जनपदेन विनष्टव्यं भवति।
३४३.०२१. परचक्रपीडितो भवति।
३४३.०२१. उक्तं ज्येष्ठायाम्॥
३४३.०२२. मूले ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति।
३४३.०२२. एकः सस्यं संपादयति।
३४३.०२२. चौरबहुलाश्चात्र दिशो भवन्ति।
३४३.०२३. त्रयश्चात्र व्याधयो बलवन्तो भवन्ति--वातगण्डः पार्श्वशूलमक्षिरोगश्च्
३४३.०२४. पुष्पफलानि चात्र समृद्धानि भवन्ति।
३४३.०२४. निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति।
३४३.०२५. उक्तं मूल् ।
३४३.०२६. पूर्वस्यामाषाढायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षष्ट्याढकानि प्रवर्षति।
३४३.०२७. द्वौ चात्र ग्राहौ भवतः।
३४३.०२७. प्रोष्ठपदे वा आश्वयुजौ वा पक्ष्
३४३.०२७. एको वर्षः सर्वसस्यानि संपादयति।
३४३.०२८. द्वौ चात्र रोगौ प्रबलौ भवतह्--कुक्षिरोगोऽक्षिरोगश्च्
३४३.०२८. उक्तं पूर्वाषाढायाम्॥
३४३.०२९. उत्तरस्यामाषाढायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति।
३४३.०३०. तत्र स्थलानि कृषिकर्तव्यानि।
३४३.०३०. निंनानि परिवर्जयितव्यानि।
३४३.०३०. महास्रोतांसि चात्र प्रवहन्ति।
३४३.०३१. अग्रोदका चात्र भवन्ति।
३४३.०३१. सर्वसस्यानि निष्पादयति।
३४३.०३१. त्रयश्चात्र रोगाः प्रबला भवन्ति--गण्डः कच्छः कण्ठरोग इति।
३४३.०३२. उक्तमुत्तराषाढायाम्॥

३४४.००१. <३४४>अभिजिति ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकनि प्रवर्षति।
३४४.००२. मण्डलवर्षं च देवः प्रवर्षति।
३४४.००२. पश्चाद्वर्षः सस्यं जनयति।
३४४.००२. औदकानां भूतानामुत्सर्गो भवति।
३४४.००३. उक्तमभिजिति॥
३४४.००४. श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति।
३४४.००५. मण्डलवर्षं च देवो वर्षति।
३४४.००५. पश्चाद्वर्षा सस्यं संपादयति।
३४४.००५. औदकानां भूतानामुत्सर्गो भवति।
३४४.००६. व्याधिबहुलाश्च नरा भवन्ति।
३४४.००६. राजानश्च तीव्रदण्डा भवन्ति।
३४४.००६. उक्तं श्रवण् ।
३४४.००७. धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकपञ्चादाढकानि प्रवर्षति।
३४४.००८. विभक्ताश्चात्र वर्षा भवन्ति।
३४४.००८. तत्र निंनानि कृषिकर्तव्यानि।
३४४.००८. स्थलानि परिवर्जयितव्यानि।
३४४.००९. दुर्मुखो रात्रौ वर्षो भवति।
३४४.००९. सस्यानि संपादयति।
३४४.००९. एकश्चात्र रोगो भवति--गण्डविकारः।
३४४.०१०. शस्त्रसमादानाश्च राजानो भवन्ति।
३४४.०१०. उक्तं धनिष्ठायाम्॥
३४४.०११. शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्यत्र प्रवर्षति, षोडशाढकानि प्रवर्षति।
३४४.०१२. तत्र निंनानि कृषिकर्तव्यानि।
३४४.०१२. स्थलानि परिवर्जयितव्यानि।
३४४.०१२. एको वर्षः सर्वसस्यानि संपादयति।
३४४.०१३. चक्रसमारूढा जनपदा भवन्ति।
३४४.०१३. मनुष्या दारकदारिकाश्च स्कन्धे कृत्वा देशान्तरं गच्छन्ति।
३४४.०१४. उक्तं शतभिषायाम्॥
३४४.०१५. पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति।
३४४.०१६. वर्षामुखे चात्र एकोनविंशतिरात्रिकोऽवग्रहो भवति।
३४४.०१६. पुष्पसस्यं च नाशयति।
३४४.०१७. एताश्चाद्वर्षा बहुचौरा भवन्ति।
३४४.०१७. द्वौ चात्र महाव्याधी भवतह्--प्रथमं पित्ततापज्वरो भवति, पश्चाद्बलवान्महाग्रहो भवति।
३४४.०१८. मर्त्यानां नारीणां च मरणं भवति।
३४४.०१९. उक्तं पूर्वभाद्रपदायाम्॥
३४४.०२०. उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति।
३४४.०२१. महास्रोतांसि प्रवहन्ति।
३४४.०२१. ग्रामनगरनिगमाः स्रोतसा उह्यन्त्
३४४.०२१. चत्वारश्चात्र व्याधयः प्रबला भवन्ति।
३४४.०२२. तद्यथा--कुक्षिरोगोऽक्षिरोगः कासो ज्वरश्चेति।
३४४.०२२. बालानां दारकदारिकाणां मरणं भवति।
३४४.०२३. अत्र स्थलानि कृषिकर्तव्यानि।
३४४.०२३. निंनानि परिवर्जयितव्यानि।
३४४.०२४. एताश्च वर्षाः पुष्पाणि फलानि च संपादयन्ति।
३४४.०२४. उक्तमुत्तरभाद्रपदायाम्॥
३४४.०२५. रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवो प्रवर्षति, एकषष्ट्याढकानि प्रवर्षति।
३४४.०२६. तत्र निंनानि कृषिकर्तव्यानि।
३४४.०२६. स्थलानि परिवर्जयितव्यानि।
३४४.०२६. एका च वर्षा सर्वसस्यानि संपादयति।
३४४.०२७. तच्च सस्यं मित्रबान्धवा मनुष्याश्च परिभुञ्जत्
३४४.०२७. निक्षिप्तशस्त्रदण्डाश्च राजानो भवन्ति।
३४४.०२८. अनुद्विग्नाश्च जनपदा भवन्ति।
३४४.०२८. उद्विग्नाश्च भवन्ति।
३४४.०२८. उक्तं रेवत्याम्॥
३४४.०३०. अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अष्टचत्वारिंशदाढकानि प्रवर्षति।
३४४.०३१. यच्च मध्ये वर्षा भवति, तत्र निंनानि कृषिकर्तव्यानि।
३४४.०३१. स्थलानि परिवर्जयितव्यानि।
३४४.०३२. एका वर्षा सर्वसस्यानि संपादयति।
३४४.०३२. भयसमायुक्ताश्च जनपदा भवन्ति।
३४४.०३२. चौराश्च प्रबला भवन्ति।
३४४.०३३. उक्तमश्विन्याम्॥

३४५.००१. <३४५>भरण्यां ग्रीष्माणां पश्चिमे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति।
३४५.००१. तत्र स्थलानि कृषिकर्तव्यानि।
३४५.००२. निंनानि परिवर्जयितव्यानि।
३४५.००२. दुर्भिक्षश्चात्र भवति।
३४५.००२. जरामरणं जनानां भवति।
३४५.००३. राजानश्चात्र अन्योन्यघातका भवन्ति।
३४५.००३. पुत्रपौत्राणां च कलहो भवति।
३४५.००४. उक्तं भरण्याम्॥
३४५.००५. अयं भोः पुष्करसारिन्नक्षत्रर्तुवर्षाध्यायः॥
३४५.००६. अमीषां भोः पुष्करसारिन्नष्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।
३४५.००७. कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्रग्रहो भवति, कलिङ्गमगधानामुपपीडा भवति।
३४५.००८. यदि रोहिण्यां चन्द्रग्रहो भवति, प्रजानामुपपीडा भवति।
३४५.००८. यदि मृगशिरसि चन्द्रग्रहो भवति, विदेहानां जनपदानामुपपीडा भवति राजोपसेवकानां च्
३४५.००९. एवमार्द्रायां पुनर्वसौ पुष्ये च वक्तव्यम्।
३४५.०१०. आश्लेषायां यदि चन्द्रग्रहो भवति, नागानां हैमवतानां च पीडा भवति।
३४५.०११. यदि मधासु चन्द्रग्रहो भवति, गौडिकानामुपपीडा भवति।
३४५.०११. यदि पूर्वफल्गुन्यां सोमो गृह्यते, चौराणामुपपीडा भवति।
३४५.०१२. यद्युत्तरफल्गुन्यां सोमो गृह्यते, अवन्तीनामुपपीडा भवति।
३४५.०१३. यदि हस्तेषु सोमो गृह्यते, सौराष्ट्रिकाणामुपपीडा भवति।
३४५.०१३. यदि चित्रायां सोमो गृह्यते, पक्षिणां द्विपदानां च पीडा भवति।
३४५.०१४. यदि स्वात्यां सोमो गृह्यते, सर्वेषां प्रव्रज्यासमापन्नानामुपपीडा भवति।
३४५.०१५. यदि विशाखायां सोमो गृह्यते, औदकानां सत्त्वानामुपपीडा भवति।
३४५.०१६. यद्यनुराधासु सोमो गृह्यते, वणिजानामुपपीडा भवति शाकटिकानां च्
३४५.०१७. यदि ज्येष्ठायां सोमो गृह्यते, दौवालिकानां पीडा भवति।
३४५.०१७. यदि मूले सोमो गृह्यते, अध्वगानां पीडा भवति।
३४५.०१८. यदि पूर्वाषाढायां सोमो गृह्यते, अवन्तीनां पीडा भवति।
३४५.०१९. यद्युत्तराषाढायां सोमो गृह्यते, काम्बोजकानां पीडा भवति वाह्लीकानां च्
३४५.०१९. यद्यभिजिति सोमो गृह्यते, दक्षिणापथिकानां पीडा भवति ताम्रपर्णिकानां च्
३४५.०२०. यदि श्रवणेषु सोमो गृह्यते, चौराणां घातकानां चोपपीडा भवति।
३४५.०२१. यदि धनिष्ठायां सोमो गृह्यते, कुरुपाञ्चालानां पीडा भवति।
३४५.०२२. यदि शतभिषायां सोमो गृह्यते, मौलिकानामाथर्वणिकानां च पीडा भवति।
३४५.०२३. यदि पूर्वभाद्रपदायां सोमो गृह्यते, गान्धिकानां यवनकाम्बोजकानां च पीडा भवति।
३४५.०२४. यद्युत्तरभाद्रपदायां सोमो गृह्यते, गन्धर्वाणां पीडा भवति।
३४५.०२४. यदि रेवत्यां सोमो गृह्यते, नाविकानां पीडा भवति।
३४५.०२५. यद्यश्विन्यां सोमो गृह्यते, अश्ववणिजानां पीडा भवति।
३४५.०२५. यदि भरण्यां सोमो गृह्यते, भरुकच्छानां पीडा भवति॥
३४५.०२७. एवं भोः पुष्करसारिन् यस्मिन्नक्षत्रे चन्द्रग्रहो भवति तस्य तस्य देशस्य पीडा भवति।
३४५.०२८. इत्युक्तो राहुग्रहफलविपाकाध्यायः॥
३४५.०२९. प्रतिनक्षत्रवंशशास्त्रे यथोक्तं कर्म तच्छृणु।
३४५.०३०. उच्यमानमिदं विप्र ऋषीणां वचनं यथा॥१२२॥
३४५.०३१. षट्तारां कृत्तिकां विद्यादाश्रयं तासु कारयेत् ।
३४५.०३२. अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश्च यः॥१२२ ।

३४६.००१. <३४६>सर्पिर्विलोडयेत्तत्र गवां वेश्म च कारयेत् ।
३४६.००२. अजैडकाश्च क्रेतव्या गवां च वृषमुत्सृजेत् ॥१२३॥
३४६.००३. अश्मसारमयं भाण्डं सर्वमत्र तु कारयेत् ।
३४६.००४. हिरण्यकारकर्मान्तमिष्वस्त्रं चोपकारयेत् ॥१२४॥
३४६.००५. मेतृको मापयेदत्र कुटिकाग्निनिवेशनम्।
३४६.००६. पीतलोहितपुष्पाणां बीजान्यत्र तु वापयेत् ॥१२५॥
३४६.००७. गृहं च मापयेदत्र तथावासं प्रकल्पयेत् ।
३४६.००८. नवं च च्छादयेद्वस्त्रं क्रयणं नात्र कारयेत् ॥१२६॥
३४६.००९. क्रूरकर्माणि सिध्यन्ति युद्धसम्रोधबन्धनम्।
३४६.०१०. परपीडामथात्रैव विद्वान्नैव प्रयोजयेत् ॥१२७॥
३४६.०११. शस्त्राणि क्षुरकर्माणि सर्वाण्यत्र तु कारयेत् ।
३४६.०१२. तैजसानि च भाण्डानि कारयेच्च क्रीणीत च् ।१२८॥
३४६.०१३. आयुष्यं च शिरःस्नानं स्त्रीणां विष्कम्भणानि च्
३४६.०१४. प्रवर्षणं चेद्देवस्य नात्र वैरं प्रशाम्यति॥१२९॥
३४६.०१५. क्रोधनो हर्षणः शूरस्तेजस्वी साहसप्रियः।
३४६.०१६. आयुष्मांश्च यशस्वी च यज्ञशीलोऽत्र जायत् ।१३०॥ कृत्तिकासु॥
३४६.०१७. सर्वं कृषिपदं कर्म रोहिण्यां संप्रयोजयेत् ।
३४६.०१८. क्षेत्रवस्तुविहारांश्च नवं वेश्म च कारयेत् ॥१३१॥
३४६.०१९. प्रयोजयेच्चक्रान् वारान् दासांश्चैव गृहे पशून्।
३४६.०२०. वापयेत्सर्वबीजानि ध्रुवं वासांसि कारयेत् ॥१३२॥
३४६.०२१. ऋणं न दद्यात्तत्रैव वैरमत्र तु वर्धत्
३४६.०२२. संग्रामं च सुरायोगं द्वयमेव विवर्जयेत् ॥१३३॥
३४६.०२३. प्रवर्षणं च देवस्य जन्म चात्र प्रशस्यत्
३४६.०२४. सानुक्रोशः क्षमायुक्तः स्त्रीकामो भक्षलोलुपः।
३४६.०२५. आयुष्मान् पशुमान् धन्यो महाभोगोऽत्र जायत् ।१३४॥ रोहिण्याम्॥
३४६.०२६. सौम्यं मृगशिरो विद्यादृजु तिस्रश्च तारकाः।
३४६.०२७. मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत् ।
३४६.०२८. यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत् ॥१३५॥
३४६.०२९. सक्षीरान् वापयेद्वृक्षान् बीजानि क्षीरवन्ति च्
३४६.०३०. राजप्रासादवलभीछत्राण्यपि च कारयेत् ॥१३६॥
३४६.०३१. सर्वकर्मकथाः कुर्यात्चर्यावासान्न कारयेत् ।
३४६.०३२. अष्ट्रांश्च बलीवर्दांश्च दमयेदपि कृष्टय् ।१३७॥

३४७.००१. <३४७>आच्छादयेन्नवं वासश्चालंकारं च कारयेत् ।
३४७.००२. द्विजातीनां तु कर्माणि सर्वाण्येवात्र कारयेत् ॥१३८॥
३४७.००३. प्रवर्षणं च देवस्य सुवृष्टिं चात्र निर्दिशेत् ।
३४७.००४. स्वप्नशीलस्तथा त्रासी मेधावी स च जायत् ।१३९॥ मृगशिरसि॥
३४७.००५. आर्द्रायां मृगयेदर्थान् भद्रं कर्म च कारयेत् ।
३४७.००६. क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत् ॥१४०॥
३४७.००७. उदपानपरीखांश्च तडागान्यत्र कारयेत् ।
३४७.००८. ऊहेत (उहयेत्) प्रथमां वृष्टिं विक्रीणीयाच्च नात्र गाम्।
३४७.००९. तिलपीडानि कर्माणि शौण्डिकानां तथापणम्॥१४१॥
३४७.०१०. पीडयेदिक्षुदण्डानि इक्षुबीजानि वापयेत् ।
३४७.०११. प्रवर्षणं च देवस्य विद्याद्बहुपरिस्रवम्।
३४७.०१२. क्रोधनो मृगयाशीलो मांसकामोऽत्र जायत् ।१४२॥ आर्द्रायाम्॥
३४७.०१३. पुनर्वसौ तु युक्तेऽत्र कुर्याद्वै व्रतधारणम्।
३४७.०१४. गोदानं चोपनायनं सर्वमत्र प्रसिध्यति॥१४३॥
३४७.०१५. प्रजायमानां प्रमदां गृहीत्वा गृहमानयेत् ।
३४७.०१६. पुनः पुनर्यदीच्छेत तत्र कर्माणि कारयेत् ॥१४४॥
३४७.०१७. चिकित्सनं न कुर्वीत यदीच्छेन्न पराभवम्।
३४७.०१८. प्रवर्षणं च देवस्य जन्म चात्र प्रशस्यत् ।१४५॥
३४७.०१९. अलोलश्चात्र जायेत स्त्रीलोलश्चापि मानवः।
३४७.०२०. चित्रशीलश्च नैकत्रार्पितचित्तः स उच्यत् ।१४६॥ पुनर्वसौ॥
३४७.०२१. धन्यं यशस्यमायुष्यं पुष्ये नित्यं प्रयोजयेत् ।
३४७.०२२. सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत् ॥१४७॥
३४७.०२३. राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत् ।
३४७.०२४. राजानमभिषिञ्चेच्च अलंकुर्यात्स्वकां तनुम्॥१४८॥
३४७.०२५. श्मश्रुकर्माणि कुर्याच्च वपनं नखलोमतः।
३४७.०२६. पुरोहितं च कुर्वीत ध्वजाग्रं च प्रकारयेत् ॥१४९॥
३४७.०२७. प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत् ।
३४७.०२८. न च रोगो न चौरश्च क्षेमं चात्र सदा भवेत् ॥१५०॥
३४७.०२९. पुष्येण नित्ययुक्तः सन् सर्वकर्माणि साधयेत् ।
३४७.०३०. वैरेणात्रोपनाहैश्च ये जनास्तान् विवर्जयेत् ।
३४७.०३१. आयुष्मांश्च यशस्वी च महाभोगः प्रजायत् ।१५१॥ पुष्य् ।

३४८.००१. <३४८>सिध्यते दारुणं कर्म आश्लेषायां च कारयेत् ।
३४८.००२. दुर्यादाभरणान्यत्र प्राकारमुपकल्पयेत् ॥१५२॥
३४८.००३. देहबन्धं नदीबन्धं संधिकर्म च कारयेत् ।
३४८.००४. प्रभूतदंशमशकं वर्षं मन्दं च वर्षति।
३४८.००५. क्रोधनः स्वप्नशीलश्च कुहकश्चात्र जायत् ।१५३॥ आश्लेषायाम्॥
३४८.००६. मघासु सर्वधान्यानि वापयेत्संहरेदपि।
३४८.००७. संघातकर्म कुर्वीत सुमुखं चात्र कारयेत् ॥१५४॥
३४८.००८. कोष्ठागाराणि कुर्वीत फलं चात्र निवेशयेत् ।
३४८.००९. सर्वदा पितृदेवेभ्यः श्राद्धं चैवात्र कारयेत् ॥१५५॥
३४८.०१०. सस्यानां बहुलीभावो यदि देवोऽत्र वर्षति।
३४८.०११. सुहृच्च द्वारिकश्चैव रसकामश्च जायत्
३४८.०१२. आयुष्मान् बहुपुत्रश्च स्त्रीकामो भक्तलोलुपः॥१५६॥
३४८.०१३. संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तत्
३४८.०१४. दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत् ॥१५७॥ मघासु॥
३४८.०१५. फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत् ।
३४८.०१६. विशेषादामलक्यादिफलानामुपकारयेत् ॥१५८॥
३४८.०१७. कुमारीमङ्गलार्थानि स्नापनानि च कारयेत् ।
३४८.०१८. कन्याप्रवहनार्थाय विहारं चैव कारयेत् ॥१५९॥
३४८.०१९. वेश्मानि कारयेत्तत्र वैश्यमत्र प्रयोजयेत् ।
३४८.०२०. भागं ये चोपजीवन्ति तेषां कर्म प्रयोजयेत् ॥१६०॥
३४८.०२१. अव्यक्तकेशोऽकेशः सुभगश्चात्र जायत्
३४८.०२२. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ।
३४८.०२३. नष्टं विद्धं कृतं चापि न तदस्तीति निर्दिशेत् ॥१६१॥ पूर्वफल्गुन्याम्॥
३४८.०२४. उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत् ।
३४८.०२५. मेधावी दर्शनीयश्च यशस्वी चात्र जायत् ।१६२॥
३४८.०२६. अथात्र नष्टं दग्धं वा सर्वमस्तीति निर्दिशेत् ।
३४८.०२७. प्रवर्षणं च देवस्य विद्यात्सम्पदनुत्तमाम्॥१६३॥ उत्तरफल्गुन्याम्॥
३४८.०२८. हस्तेन लघुकर्माणि सर्वाण्येव प्रयोजयेत् ।
३४८.०२९. सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत् ॥१६४॥
३४८.०३०. हस्त्यारोहं महामात्रं पुष्करिणीं च कारयेत् ।
३४८.०३१. चौर्यं च सिध्यते तत्र तच्च विद्वान् विवर्जयेत् ॥१६५॥

३४९.००१. <३४९>प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत् ।
३४९.००२. अथात्र जातं जानीयाच्छूरं चौरं विचक्षणम्।
३४९.००३. कुशलं सर्वविद्यासु अरोगं चिरजीविनम्॥१६६॥ हस्त् ।
३४९.००४. चित्रायामहतं वस्त्रं भूषणानि च कारयेत् ।
३४९.००५. राजानं भूषितं पश्येत्सेनाव्यूहं च दर्शयेत् ॥१६७॥
३४९.००६. हिरण्यं रजतं द्रव्यं नगराणि च मापयेत् ।
३४९.००७. अलंकुर्यात्तथात्मानं गन्धमाल्यविलेपनैः॥१६८॥
३४९.००८. गणकानां च विद्यां च वाद्यं नर्तनगायनम्।
३४९.००९. पूर्विकां रूपकारांश्च रथकारांश्च शिक्षयेत् ।
३४९.०१०. चित्रकारांश्च लेखकान् पुस्तकर्म च कारयेत् ॥१६९॥
३४९.०११. प्रवर्षणं च देवस्य चित्रवर्षं विनिर्दिशेत् ।
३४९.०१२. मेधावी दर्शनीयश्च चित्राक्षो भक्तलोलुपः॥१७०॥
३४९.०१३. मृदुशीलश्च भीरुश्च चलचित्तः कुतूहली।
३४९.०१४. आयुष्मान् सुभगश्चैव स्त्रीलोलश्चात्र जायत् ।१७१॥ चित्रायाम्॥
३४९.०१५. स्वात्यां प्रयोजयेद्योधानश्वानश्वतरीं खरान्।
३४९.०१६. क्षिप्रं गमनीयं भक्ष्यं लङ्घकानध्वमानिकान्॥१७२॥
३४९.०१७. भेरीमृदङ्गपणवान्मुरजांश्चोपनाहयेत् ।
३४९.०१८. आवांहाश्च विवाहांश्च सौहृद्यं चात्र कारयेत् ॥१७३॥
३४९.०१९. निर्वासनममित्राणां स्वयं न प्रवसेद्गृहात् ।
३४९.०२०. प्रवर्षणं च देवस्य वातवृष्टिरभीक्ष्णशः।
३४९.०२१. मेधावी रोगबहुलश्चलचित्तश्च जायत् ।१७४॥ स्वातौ॥
३४९.०२२. लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत् ।
३४९.०२३. यवगोधूमकर्मान्ताञ्शमीधान्यं च वर्जयेत् ॥१७५॥
३४९.०२४. शालयस्तिलमाषाश्च ये च वृक्षाः सुशाखिनः।
३४९.०२५. रोपयेत्तान् विशाखासु गृहकर्म च कारयेत् ।
३४९.०२६. शिरःस्नानानि कुर्वीत मेध्यं प्रायश्च कारयेत् ॥१७६॥
३४९.०२७. प्रवर्षणं च देवस्य विद्यात्कल्पपरिस्रवम्।
३४९.०२८. मनस्वी दर्शनीयश्च मेधावी चात्र जायत्
३४९.०२९. क्रोधनोऽल्पसुतश्चैव दुर्भगो भक्तलोलुपः॥१७७॥ विशाखासु॥
३४९.०३०. अनुराधासु कुर्वीत मित्रैः सद्भिश्च संगतिम्।
३४९.०३१. सर्वाणि मृदुकर्माणि माधुर्यं चात्र कारयेत् ॥१७८॥

३५०.००१. <३५०>क्षौरं च कारयेदत्र शस्त्रकर्माणि कारयेत् ।
३५०.००२. सम्युक्तान्तप्रयोगांश्च संधिं कुर्याच्च नित्यशः।
३५०.००३. नष्टं पर्युपतप्तं वा स्वल्पायासेन निर्दिशेत् ॥१७९॥
३५०.००४. सुहृन्मित्रकृतश्चात्र धर्मशीलश्च जायत्
३५०.००५. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१८०॥ अनुराधायाम्॥
३५०.००६. ज्येष्ठायां पूर्वकारी स्याद्राजानं चाभिषिञ्चयेत् ।
३५०.००७. नगरं निगमं ग्रामं मापयेदारभेत च्
३५०.००८. क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत् ॥१८१॥
३५०.००९. भ्रातृर्णां भवति ज्येष्ठो ज्येष्ठायां योऽभिजायत्
३५०.०१०. आयुष्मांश्च यशस्वी च विद्वत्सु च कुतूहली॥१८२॥
३५०.०११. प्रासादमारोहेच्चात्र गजमश्वं रथं तथा।
३५०.०१२. ग्रामनिगमराष्ट्रेषु स्थापयेच्छ्रेष्ठिना बलम्॥१८३॥
३५०.०१३. नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत् ।
३५०.०१४. दारुणान्यत्र सिध्यन्ति तानि विद्वान् विवर्जयेत् ।
३५०.०१५. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१८४॥ ज्येष्ठायाम्॥
३५०.०१६. मूले तु मूलजातानि मूलकन्दालुकान्यपि।
३५०.०१७. मूलाद्यानि च सर्वाणि बीजान्यत्र प्रयोजयेत् ॥१८५॥
३५०.०१८. ऋणं वै यत्पुराणं स्यादर्थो वास्याग्रतः स्थितः।
३५०.०१९. मूले सिद्ध्यर्थमारभ्यं तथा सर्वं बराङ्गकम्॥१८६॥
३५०.०२०. चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।
३५०.०२१. नदीषु स्नपनं चैव मूले सर्वान् प्रयोजयेत् ॥१८७॥
३५०.०२२. दारुणान्यत्र सिध्यन्ति मङ्गलानि च कारयेत् ।
३५०.०२३. किण्वयोगान् सुरायोगान्न कुर्याच्छत्रुभिः सह् ।१८८॥
३५०.०२४. धनवान् बहुपुत्रश्च मूलवानत्र जायत्
३५०.०२५. अथात्र नष्टं दग्धं वा नैतदस्तीति निर्दिशेत् ।
३५०.०२६. प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत् ॥१८९॥ मूल् ।
३५०.०२७. आषाढायां च पूर्वस्यां सरितश्च सरांसि च्
३५०.०२८. वापीकूपप्रपाश्चैव तडागानि च कारयेत् ॥१९०॥
३५०.०२९. उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च्
३५०.०३०. आरामांश्च प्रकुर्वीत भैक्षकांश्च प्रयोजयेत् ।
३५०.०३१. यानि चोग्राणि कर्माणि सिध्यन्त्यत्र तु तानि च् ।१९१॥