तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०५

विकिस्रोतः तः
Jump to navigation Jump to search

1.5.1.1 नक्षत्रेष्टिका

अग्नेः कृत्तिकाः । शुक्रं परस्ताज्ज्योतिरवस्तात् । प्रजापते रोहिणी ।आपः परस्तादोषधयोऽवस्तात् । सोमस्येन्वका । विततानि परस्ताद्वयन्तोऽवस्तात् । रुद्र स्य बाहू ।मृगयवः परस्ताद्विक्षारोऽवस्तात् । अदित्यै पुनर्वसू ।वातः परस्तादार्द्रमवस्तात् १

बृहस्पतेस्तिष्यः । जुह्वतः परस्ताद्यजमाना अवस्तात् । सर्पाणामाश्रेषाः । अभ्यागच्छन्तः परस्तादभ्यानृत्यन्तोऽवस्तात् । पितृणां मघाः । रुदन्तः परस्तादपभ्रꣳ शोऽवस्तात् । अर्यम्णः पूर्वे फल्गुनी ।जाया परस्तादृषभोऽवस्तात् । भगस्योत्तरे । वहतवः परस्ताद्वहमाना अवस्तात् २

देवस्य सवितुर्हस्तः । प्रसवः परस्तात्सनिरवस्तात् । इन्द्रस्य चित्रा । ऋतं परस्तात्सत्यमवस्तात् । वायोर्निष्ट्या । व्रततिः परस्तादसिद्धिरवस्तात् । इन्द्रा ग्नियोर्विशाखे । युगानि परस्तात्कृषमाणा अवस्तात् । मित्रस्यानूराधाः । अभ्यारोहत्परस्तादभ्यारूढमवस्तात् ३

इन्द्रस्य रोहिणी ।शृणत्परस्तात्प्रतिशृणदवस्तात् । निरृत्यै मूलवर्हणी । प्रतिभञ्जन्तः परस्तात्प्रतिशृणन्तोऽवस्तात् । अपां पूर्वा अषाढाः । वर्चः परस्तात्समितिरवस्तात् । विश्वेषां देवानामुत्तराः । अभिजयत्परस्तादभिजितमवस्तात् । विष्णोः श्रोणा । पृच्छमानाः परस्तात्पन्था अवस्तात् ४

वसूनाꣳ श्रविष्ठाः । भूतं परस्ताद्भूतिरवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाः परस्ताद्विश्वक्षितिरवस्तात् । अजस्यैकपदः पूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद्वैश्वावसवमवस्तात् । अहेर्बुध्नियस्योत्तरे । अभिषिञ्चन्तः परस्तादभि-षुण्वन्तोऽवस्तात् । पूष्णो रेवती ।गावः परस्ताद्वत्सा अवस्तात् । अश्विनोरश्वयुजौ । ग्रामः परस्तात्सेनावस्तात् । यमस्यापभरणीः । अपकर्षन्तः
परस्तादपवहन्तोऽवस्तात् । पूर्णा पश्चाद्यत्ते देवा अदधुः ५


1.5.2.1 नक्षत्रेष्टका

यत्पुण्यं नक्षत्रम् । तद्बट्कुर्वीतोपव्युषम् । यदा वै सूर्य उदेति । अथ नक्षत्रं नैति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । एवꣳ ह वै यज्ञेषुं च शतद्युम्नं च मात्स्यो निरवसाययाञ्चकार १

यो वै नक्षत्रियं प्रजापतिं वेद । उभयोरेनं लोकयोर्विदुः । हस्त एवास्य हस्तः । चित्रा शिरः । निष्ट्या हृदयम् । ऊरू विशाखे । प्रतिष्ठानूराधाः । एष वै नक्षत्रियः प्रजापतिः । य एवं वेद । उभयोरेनं लोकयोर्विदुः २

अस्मिꣳ श्चामुष्मिꣳ श्च । यां कामयेत दुहितरं प्रैया स्यादिति । तां निष्ट्यायां दद्यात् । प्रियैव भवति । नैव तु पुनरागच्छति । अभिजिन्नाम नक्षत्रम् । उपरिष्टादषाढानाम् । अवस्ताच्छ्रोणायै । देवासुराः संयत्ता आसन् । ते देवास्तस्मिन्नक्षत्रेऽभ्यजयन् ३

यदभ्यजयन् । तदभिजितोऽभिजित्त्वम् । यं कामयेतानपजय्यं जयेदिति । तमेतस्मिन्नक्षत्रे यातयेत् । अनपजय्यमेव जयति । पापपराजितमिव तु । प्रजापतिः पशूनसृजत । ते नक्षत्रंनक्षत्रमुपातिष्ठन्त । ते समावन्त एवाभवन् । ते रेवतीमुपातिष्ठन्त ४

ते रेवत्यां प्राभवन् । तस्माद्रे वत्यां पशूनां कुर्वीत । यत्किं चार्वाचीनꣳ सोमात् । प्रैव भवन्ति । सलिलं वा इदमन्तरासीत् । यदतरन् । तत्तारकाणां तारकत्वम् । यो वा इह यजते । अमुꣳ स लोकं नक्षते । तन्नक्षत्राणां नक्षत्रत्वम् ५

देवगृहा वै नक्षत्राणि । य एवं वेद । गृह्येव भवति । यानि वा इमानि पृथिव्याश्चित्राणि । तानि नक्षत्राणि । तस्मादश्लीलनामꣳ श्चित्रे । नावस्येन्न यजेत । यथा पापाहे कुरुते । तादृगेव तत् । देवनक्षत्राणि वा अन्यानि ६

यमनक्षत्त्राण्यन्यानि । कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि । अनूराधाः प्रथमम् । अपभरणीरुत्तमम् । तानि यमनक्षत्राणि । यानि देवनक्षत्राणि । तानि दक्षिणेन परियन्ति । यानि यमनक्षत्राणि ७

तान्युत्तरेण । अन्वेषामरात्स्मेति । तदनूराधाः । ज्येष्ठमेषामवधिष्मेति । तज्ज्येष्ठघ्नी ।मूलमेषामवृक्षामेति । तन्मूलबर्हणी ।यन्नासहन्त । तदषाढाः । यदश्लोणत् ८

तच्छ्रोणा । यदशृणोत् । तच्छ्रविष्ठाः । यच्छतमभिषज्यन् । तच्छतभिषक् । प्रोष्ठपदेषूदयच्छन्त । रेवत्यामरवन्त । अश्वयुजोरयुञ्जत । अपभरणीष्वपावहन् । तानि वा एतानि यमनक्षत्राणि । यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते ९


1.5.3.1

देवस्य सवितुः प्रातः प्रस्वः प्राणः । वरुणस्य सायमासवोऽपानः । यत्प्रती-चीनं प्रातस्तनात् । प्राचीनꣳ संगवात् । ततो देवा अग्निष्टोमं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । मित्रस्य संगवः । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि पशवः समायन्ति । यत्प्रतीचीनꣳ संगवात् १

प्राचीनं मध्यंदिनात् । ततो देवा उक्थ्यं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । बृहस्पतेर्मध्यंदिनः । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि तेक्ष्णिष्ठं तपति । यत्प्रतीचीनं मध्यंदिनात् । प्राचीनमपराह्णात् । ततो देवाः षोडशिनं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः २

भगस्यापराह्णः । तत्पुण्यं तेजस्व्यहः । तस्मादपराह्णे कुमार्यो भगमिच्छमानाश्चरन्ति । यत्प्रतीचीनमपराह्णात् । प्राचीनꣳ सायात् । ततो देवा अतिरात्रं निरमिमत । तत्तदात्तवीर्यं निर्मार्गः । वरुणस्य सायम् । तत्पुण्यं तेजस्व्यहः । तस्मात्तर्हि नानृतं वदेत् ३

ब्राह्मणो वा अष्टाविꣳशो नक्षत्राणाम् । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । यच्च परस्तान्नक्षत्राणां यच्चावस्तात् । तान्येकादश । ब्राह्मणो द्वादशः । य एवं विद्वान्संवत्सरं व्रतं चरति । संवत्सरेणैवास्य व्रतं गुप्तं भवति । समानस्याह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्यश्लीलानि । तानि नव । आग्नेयी रात्रिः । ऐन्द्र महः । तान्येकादश । आदित्यो द्वादशः । य एवं विद्वान्संवत्सरं व्रतं चरति । संवत्सरेणैवास्य व्रतं गुप्तं भवति ४


1.5.4.1

ब्रह्मवादिनो वदन्ति । कति पात्राणि यज्ञं वहन्तीति । त्रयोदशेति । ब्रूयात् । स यद्ब्रूयात् । कस्तानि निरमिमीतेति । प्रजापतिरिति ब्रूयात् । स यद्ब्रूयात् । कुतस्तानि निरमिमीतेति । आत्मन इति । प्राणापानाभ्यामेवोपाꣳ श्वन्तर्यामौ निरमिमीत १

व्यानादुपाꣳ शुसवनम् । वाच ऐन्द्र वायवम् । दक्षक्रतुभ्यां मैत्रावरुणम् । श्रोत्रादाश्विनम् । चक्षुषः शुक्रामन्थिनौ । आत्मन आग्रयणम् । अङ्गेभ्य उक्थ्यम् । आयुषो ध्रुवम् । प्रतिष्ठाया ऋतुपात्रे । यज्ञं वाव तं प्रजापतिर्निरमिमीत । स निर्मितो नाध्रियत समव्लीयत । स एतान्प्रजा-पतिरपिवापानपश्यत् । तान्निरवपत् । तैर्वै स यज्ञमप्यवपत् । यदपिवापा भवन्ति । यज्ञस्य धृत्या असंव्लयाय २


1.5.5.1

ऋतमेव परमेष्ठि । ऋतं नात्येति किं चन । ऋते समुद्र आहितः । ऋते भूमिरियꣳ श्रिता । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये १

तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् । यद्घर्मः पर्यवर्तयत् । अन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा । वरुणो धीतिभिः सह २

इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये ३

तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् । यो अस्याः पृथिव्यास्त्वचि । निवर्तयत्योषधीः । अग्निरीशान ओजसा । वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा ४

शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् ५

एकं मासमुदसृजत् । परमेष्ठी प्रजाभ्यः । तेनाभ्यो मह आवहत् । अमृतं मर्त्याभ्यः । प्रजामनु प्रजायसे । तदु ते मर्त्यामृतम् । येन मासा अर्धमासाः
। ऋतवः परिवत्सराः । येन ते ते प्रजापते । ईजानस्य न्यवर्तयन् ६

तेनाहमस्य ब्रह्मणा । निवर्तयामि जीवसे । अग्निस्तिग्मेन शोचिषा । तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितम् । वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये । सत्येन परिवर्तये । तपसास्यानुवर्तये । शिवेनास्योपवर्तये । शग्मेनास्याभिवर्तये । तदृतं तत्सत्यम् । तद्व्रतं तच्छकेयम् । तेन शकेयं तेन राध्यासम् ७


1.5.6.1

देवा वै यद्यज्ञेऽकुर्वत । तदसुरा अकुर्वत । तेऽसुरा ऊर्ध्वं पृष्ठेभ्यो नापश्यन् । ते केशानग्रेऽवपन्त । अथ श्मश्रूणि । अथोपपक्षौ । ततस्तेऽवाञ्च आयन्
। पराभवन् । यस्यैवं वपन्ति । अवाङेति १

अथो परेव भवति । अथ देवा ऊर्ध्वं पृष्ठेभ्योऽपश्यन् । त उपपक्षावग्रेऽवपन्त । अथ श्मश्रूणि । अथ केशान् । ततस्तेऽभवन् । सुवर्गं लोकमायन् ।
यस्यैवं वपन्ति । भवत्यात्मना । अथो सुवर्गं लोकमेति २

अथैतन्मनुर्वप्त्रे मिथुनमपश्यत् । स श्मश्रूण्यग्रेऽवपत । अथोपपक्षौ । अथ केशान् । ततो वै स प्राजायत प्रजया पशुभिः । यस्यैवं वपन्ति । प्र प्रजया पशुभिर्मिथुनैर्जायते । देवासुराः संयत्त आसन् । ते संवत्सरे व्यायच्छन्त । तान्देवाश्चातुर्मास्यैरेवाभि प्रायुञ्जत ३

वैश्वदेवेन चतुरो मासोऽवृञ्जतेन्द्र राजानः । ताञ्शीर्षन्नि चावर्तयन्त परि च । वरुणप्रघासैश्चतुरो मासोऽवृञ्जत वरुणराजानः । ताञ्शीर्षन्नि चावर्तयन्त परि च । साकमेधैश्चतुरो मासोऽवृञ्जत सोमराजानः । ताञ्शीर्षन्नि चावर्तयन्त परि च । या संवत्सर उपजीवासीत् । तामेषामवृञ्जत । ततो देवा अभवन् । परासुराः ४

य एवं विद्वाꣳ श्चातुर्मास्यैर्यजते । भ्रातृव्यस्यैव मासो वृक्त्वा । शीर्षन्नि च वर्तयते परि च । यैषा संवत्सर उपजीवा । वृङ्क्ते तां भ्रातृव्यस्य । क्षुधास्य भ्रातृव्यः पराभवति । लोहितायसेन निवर्तयते । यद्वा इमामग्निरृतावागते निवर्तयति । एतदेवैनाꣳ रूपं कृत्वा निवर्तयति । सा ततः श्वःश्वो भूयसी भवन्त्येति ५

प्रजायते । य एवं विद्वान्लोहितायसेन निवर्तयते । एतदेव रूपं कृत्वा निवर्तयते । स ततः श्वःश्वो भूयान्भवन्नेति । प्रैव जायते । त्रेण्या शलल्या निवर्तयेत । त्रीणित्रीणि वै देवानामृद्धानि । त्रीणि च्छन्दाꣳ सि । त्रीणि सवनानि । त्रय इमे लोकाः ६

ऋद्ध्यामेव तद्वीर्य एषु लोकेषु प्रतितिष्ठति । यच्चातुर्मास्ययाज्यात्मनो नावद्येत् । देवेभ्य आवृश्च्येत । चतृषुचतृषु मासेषु निवर्तयेत । परोक्षमेव तद्देवेभ्य आत्मनोऽवद्यत्यनाव्रस्काय । देवानां वा एष आनीतः । यश्चातुर्मास्ययाजी य एवं विद्वान्नि च वर्तयते परि च । देवता एवाप्येति । नास्य रुद्रः प्रजां पशूनभिमन्यते ७


1.5.7.1

आयुषः प्राणꣳ संतनु । प्राणादपानꣳ संतनु । अपानाद्व्यानꣳ संतनु । व्यानाच्चक्षुः संतनु । चक्षुषः श्रोत्रꣳ संतनु । श्रोत्रान्मनः संतनु । मनसो वाचꣳ संतनु । वाच आत्मानꣳ संतनु । आत्मनः पृथिवीꣳ संतनु । पृथिव्या अन्तरिक्षꣳ संतनु । अन्तरिक्षाद्दिवꣳ संतनु । दिवः सुवः संतनु १


1.5.8.1

इन्द्रो दधीचो अस्थभिः । वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव । इच्छन्नश्वस्य यच्छिरः । पर्वतेष्वपश्रितम् । तद्विदच्छर्यणावति । अत्राह गोरमन्वत । नाम त्वष्टुरपीच्यम् । इत्था चन्द्र मसो गृहे । इन्द्र मिद्गाथिनो बृहत् १

इन्द्र मर्केभिरर्किणः । इन्द्रं वाणीरनूषत । इन्द्र इद्धर्योः सचा । संमिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः । इन्द्रो दीर्घाय चक्षसे । आ सूर्यꣳ रोहयद्दिवि । वि गोभिरद्रि मैरयत् । इन्द्र वाजेषु नो अव । सहस्रप्रधनेषु च २

उग्र उग्राभिरूतिभिः । तमिन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् । इन्द्रः स दामने कृतः । ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सौम्यः । गिरा वज्रो न संभृतः । सबलो अनपच्युतः । ववक्षुरुग्रो अस्तृतः ३


1.5.9.1

देवासुराः संयत्त आसन् । स प्रजापतिरिन्द्रं ज्येष्ठं पुत्रमप न्यधत्त । नेदेनमसुरा बलीयाꣳ सोऽहनन्निति । प्रह्रादो ह वै कायाधवः । विरोचनꣳ स्वं पुत्रमप न्यधत्त । नेदेनं देवा अहनन्निति । ते देवाः प्रजापतिमुपसमेत्योचुः । नाराजकस्य युद्धमस्ति । इन्द्र मन्विच्छामेति । तं यज्ञक्रतुभिरन्वैच्छन् १

तं यज्ञक्रतुभिर्नान्वविन्दन् । तमिष्टिभिरन्वैच्छन् । तमिष्टिभिरन्वविन्दन् । तदिष्टीनामिष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । तस्मा एतमाग्नावैष्णवमेकादशकपालं दीक्षनीयं निरवपन् । तदपद्रुत्यातन्वत । तन्पत्नीसंयाजान्त उपानयन् २

ते तदन्तमेव कृत्वोदद्र वन् । ते प्रायणीयमभि समारोहन् । तदपद्रुत्यातन्वत । ताञ्शंय्वन्त उपानयन् । ते तदन्तमेव कृत्वोदद्र वन् । त आतिथ्यमभि समारोहन् । तदपद्रुत्यातन्वत । तानिडान्त उपानयन् । ते तदन्तमेव कृत्वोदद्र वन् । तस्मादेता एतदन्ता इष्टयः संतिष्ठन्ते ३

एवꣳ हि देवा अकुर्वत । इति देवा अकुर्वत । इत्यु वै मनुष्याः कुर्वते । ते देवा ऊचुः । यद्वा इदमुच्चैर्यज्ञेन चराम । तन्नोऽसुराः पाप्मानुविन्दन्ति । उपाꣳ शूपसदा चराम । तथा नोऽसुराः पाप्मा नानुवेत्स्यन्तीति । त उपाꣳ शूपसदमतन्वत । तिस्र एव सामिधेनीरनूच्य ४

स्रुवेणाघारमाघार्य । तिस्रः पराचीराहुतीर्हुत्वा । स्रुवेणोपसदं जुहवाञ्चक्रुः । उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहेति । अशनयापिपासे ह वा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः । एतꣳ ह वाव तच्चतुर्धाविहितं पाप्मानं देवा अपजघ्निरे । तथो एवैतदेवंविद्यजमानः । तिस्र एव सामिधेनीरनूच्य । स्रुवेणाघारमाघार्य ५

तिस्रः पराचीराहुतीर्हुत्वा । स्रुवेणोपसदं जुहोति । उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहेति । अशनयापिपासे ह वा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः । एतमेव तच्चतुर्धाविहितं पाप्मानं यजमानोऽपहते । तेऽभिनीयैवाहः पशुमालभन्त । अह्न एव तद्देवा अवर्तिं पाप्मानं मृत्युमपजघ्निरे । तेनाभिनीयेव रात्रेः प्राचरन् । रात्रिया एव तद्देवा अवर्तिं पाप्मानं मृत्युमपजघ्निरे ६

तस्मादभिनीयैवाहः पशुमालभेत । अह्न एव तद्यजमानोऽवर्तिं पाप्मानं भ्रातृव्यानपनुदते । तेनाभिनीयेव रात्रेः प्रचरेत् । रात्रिया एव तद्यजमानोऽवर्तिं पाप्मानं भ्रातृव्यानपनुदते । स एष उपवसथीयेऽहन्द्विदेवत्यः पशुरालभ्यते । द्वयं वा अस्मिꣳ ल्लोके यजमानः । अस्थि च माꣳ सं च । अस्थि चैव तेन माꣳ सं च यजमानः सꣳ स्कुरुते । ता वा एताः पञ्च देवताः ।
अग्नीषोमावग्निर्मित्रावरुणौ। पञ्चपञ्ची वै यजमानः । त्वङ्माꣳ सꣳ स्नावास्थि मज्जा । एतमेव तत्पञ्चधा विहितमात्मानं वरुणपाशान्मुञ्चति । भेषजतायै निर्वरुणत्वाय । तꣳ सप्तभिश्छ-न्दोभिः प्रातरह्वयन् । तस्मात्सप्त चतुरुत्तराणि छन्दाꣳ सि प्रातरनुवाकेऽनूच्यन्ते । तमेतयोपसमेत्योपासीदन् । उपास्मै गायता नर इति । तस्मादेतया वहिष्पवमान उपसद्यः ७


1.5.10.1

स समुद्र उत्तरतः प्राज्वलद्भूम्यन्तेन । एष वाव स समुद्रः । यच्चात्वालः । एष उ वेव स भूम्यन्तः । यद्वेद्यन्तः । तदेतत्त्रिशलं त्रिपूरुषम् । तस्मात्तं त्रिवितस्तं खनन्ति । स सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । तं यदस्या अध्यजनयन् । तस्मादादित्यः १

अथ यत्सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । सास्य कौशिकता । तं त्रिवृताभि प्रास्तुवत । तं त्रिवृताददत । तं त्रिवृताहरन् । यावती त्रिवृतो मात्रा । तं पञ्चदशेनाभि प्रास्तुवत । तं पञ्चदशेनाददत । तं पञ्चदशेनाहरन् । यावती पञ्चदशस्य मात्रा २

तꣳ सप्तदशेनाभि प्रास्तुवत । तꣳ सप्तदशेनाददत । तꣳ सप्तदशेनाहरन् । यावती सप्तदशस्य मात्रा । तस्य सप्तदशेन ह्रियमाणस्य तेजो हरोऽपतत् । तमेकविꣳ शेनाभि प्रास्तुवत । तमेकविꣳ शेनाददत । तमेकविꣳ शेनाहरन् । यावत्येकविꣳ शस्य मात्रा । ते यत्त्रिवृता स्तुवते ३

त्रिवृतैव तद्यजमानमाददते । तं त्रिवृतैव हरन्ति । यावती त्रिवृतो मात्रा । अग्निर्वै त्रिवृत् । यावद्वा अग्नेर्दहतो धूम उदेत्यानु व्येति । तावती त्रिवृतो मात्रा । अग्नेरेवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथो यत्पञ्चदशेन स्तुवते । पञ्चदशेनैव तद्यजमानमाददते ४

तं पञ्चदशेनैव हरन्ति । यावती पञ्चदशस्य मात्रा । चन्द्र मा वै पञ्चदशः । एष हि पञ्चदश्यामपक्षीयते । पञ्चदश्यामापूर्यते । चन्द्र मस एवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यत्सप्तदशेन स्तुवते । सप्तदशेन वै तद्यजमानमाददते । तꣳ सप्तदशेनैव हरन्ति ५

यावती सप्तदशस्य मात्रा । प्रजापतिर्वै सप्तदशः । प्रजापतेरेवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यदेकविꣳ शेन स्तुवते । एकविꣳ शेनैव तद्यजमानमाददते । तमेकविꣳ शेनैव हरन्ति । यावत्येकविꣳ शस्य मात्रा । असौ वा आदित्य एकविꣳ शः । आदित्यस्यैवैनं तत् ६

मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । ते कुश्यौ । व्यघ्नन् । ते अहोरात्रे अभवताम् । अहरेव सुवर्णाभवत् । रजता रात्रिः । स यदादित्य उदेति । एतामेव तत्सुवर्णां कुशीमनु समेति । अथ यदस्तमेति । एतामेव तद्र जतां कुशीमनु संविशति । प्रह्रादो ह वै कायाधवः । विरोचनꣳ स्वं पुत्रमुदास्यत् । स प्रदरोऽभवत् । तस्मात्प्रदरादुदकं नाचामेत् ७


1.5.11.1

ये वै चत्वारः स्तोमाः । कृतं तत् । अथ ये पञ्च । कलिः सः । तस्माच्चतुष्टोमः । तच्चतुष्टोमस्य चतुष्टोमत्वम् । तदाहुः । कतमानि तानि ज्योतीꣳ षि । य एतस्य स्तोमा इति । त्रिवृत्पञ्चदशः सप्तदश एकविꣳ शः १

एतानि वाव तानि ज्योतीꣳ षि । य एतस्य स्तोमाः । सोऽब्रवीत् । सप्तदशेन ह्रियमाणो व्यलेशिषि । भिषज्यत मेति । तमश्विनौ धानाभिरभिषज्यताम् । पूषा करम्भेण । भारती परिवापेण । मित्रावरुणौ पयस्यया । तदाहुः २

यदश्विभ्यां धानाः । पूष्णः करम्भः । भारत्यै परिवापः । मित्रावरुणयोः पयस्याथ । कस्मादेतेषाꣳ हविषामिन्द्र मेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात् । एतैर्हविर्भिरभिषज्यꣳ स्तस्मादिति । तं वसवोऽष्टाकपालेन प्रातःसवनेऽभिषज्यन् । रुद्रा एकादशकपालेन माध्यन्दिने सवने । विश्वे देवा द्वादशकपालेन तृतीयसवने ३

स यदष्टाकपालान्प्रातःसवने कुर्यात् । एकादश कपालान्माध्यन्दिने सवने । द्वादशकपालाꣳ स्तृतीयसवने । विलोम तद्यज्ञस्य क्रियेत । एकादशकपालानेव प्रातःसवने कुर्यात् । एकादशकपालान्माध्यन्दिने सवने । एकादशकपालाꣳ स्तृतीयसवने । यज्ञस्य सलोमत्वाय । तदाहुः । यद्वसूनां प्रातःसवनम् । रुद्रा णां माध्यन्दिनꣳ सवनम् । विश्वेषां देवानां तृतीयसवनम् । अथ कस्मादेतेषाꣳ हविषामिन्द्र मेव यजन्तीति । एता ह्येनं देवता इति ब्रूयात्
। एतैर्हविर्भिरभिषज्यꣳ स्तस्मादिति ४


1.5.12.1

तस्यावाचोऽवपादादबिभयुः । तमेतेषु सप्तसु छन्दःस्वश्रयन् । यदश्रयन् । तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् । यदवारयन् । तद्वारवन्तीयस्य वारवन्तीयत्वम् । तस्यवाच एवावपादादबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दाꣳ स्युपादधुः । तेषामति त्रीण्यरिच्यन्त । न त्रीण्युदभवन् १

स बृहतीमेवास्पृशत् । द्वाभ्यामक्षराभ्याम् । अहोरात्राभ्यामेव । तदाहुः । कतमा सा देवाक्षरा बृहती । यस्यां तत्प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः । द्वादशाष्टकाः । द्वादशामावास्याः । एषा वाव सा देवाक्षरा बृहती २

यस्यां तत्प्रत्यतिष्ठदिति । यानि च छन्दाꣳ स्यत्यरिच्यन्त । यानि च नोदभवन् । तानि निर्वीर्याणि हीनान्यमन्यन्त । साब्रवीद्बृहती ।मामेव भूत्वा । मामुप सꣳ श्रयतेति । चतुर्भिरक्षरैरनुष्टुग्बृहतीं नोदभवत् । चतुर्भिरक्षरैः पङ्क्तिर्बृहतीमत्यरिच्यत । तस्यामेतानि चत्वार्यक्षराण्यपच्छिद्यादधात् ३

ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । अष्टाभिरक्षरैरुष्णिग्बृहतीं नोदभवत् । अष्टाभिरक्षरैस्त्रिष्टुग्बृहतीमत्यरिच्यत । तस्यामेतान्यष्टावक्षरा-ण्यपच्छिद्यादधात् । ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । द्वाद-शभिरक्षरैर्गायत्री बृहतीं नोदभवत् । द्वादशभिरक्षरैर्जगती बृहतीमत्यरिच्यत । तस्यामेतानि द्वादशाक्षराण्यपच्छिद्यादधात् ४

ते बृहती एव भूत्वा । बृहतीमुप समश्रयताम् । सोऽब्रवीत्प्रजापतिः । छन्दाꣳ सि रथो मे भवत । युष्माभिरहमेतमध्वानमनु संचराणीति । तस्य गायत्री च जगती च पक्षावभवताम् । उष्णिक्च त्रिष्टुप्च प्रष्ट्यौ । अनुष्टुप्च पङ्क्तिश्च धुर्यौ । बृहत्येवोद्धिरभवत् । स एतं छन्दोरथमास्थाय । एतमध्वा-नमनु समचरत् । एतꣳ ह वै छन्दोरथमास्थाय । एतमध्वानमनु संचरति । येनैष एतत्संचरति । य एवं विद्वान्सोमेन यजते । य उ चैनमेवं वेद ५

[सम्पाद्यताम्]

नक्षत्र देवता वृक्ष नक्षत्र देवता वृक्ष नक्षत्र देवता वृक्ष
कृत्तिका अग्नि उदुम्बर उत्तरफाल्गुनी अर्यमा अक्ष उत्तराषाढा विश्वेदेवा पनस
रोहिणी ब्रह्मा जम्बु हस्त सूर्य अरिष्ट श्रवण विष्णु अर्क
मृगशिरा इन्दु खदिर चित्रा त्वष्टा श्रीवृक्ष धनिष्ठा वसु शमी
आर्द्रा रुद्र कृष्णप्लक्ष स्वाती वायु अर्जुन शतभिषक् वरुण कदम्ब
पुनर्वसु अदिति वंश विशाखा इन्द्राग्नि विकंकत पूर्वाभाद्रपद अजैकपाद चूत
पुष्य गुरु पिप्पल अनुराधा मित्र बकुल उत्तरभाद्रपद अहिर्बुध्न्य पिचुमन्द(निम्ब)
आश्लेषा सर्प नाग ज्येष्ठा इन्द्र विष्टि रेवती पूषा मधु
मघा पितर वट मूल निर्ऋति सर्ज्ज अश्विनी अश्विनौ वृष
पूर्वाफाल्गुनी भग पलाश पूर्वाषाढा आपः वंजुल भरणी यम यमक

- नारदपुराणम् १.५६.२०४