सामग्री पर जाएँ

ज्ञापकसंग्रहः/द्वितीयोऽध्यायः

विकिस्रोतः तः
← प्रथमोऽध्यायः ज्ञापकसंग्रहः
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

।। अथ द्वितीयोऽध्यायः ।।
    झ्र्ज्ञा.ट पारेमध्ये षष्ठ्या वा (2-1-18)।। वेत्येतत् ज्ञापयति समासतद्धितानां वृत्तिर्विभाषा (वृद्धि) झ्र्वृत्तिट विषये नित्योऽपवाद इति । कृते त्वस्मिन्नेकया वृत्तिर्विभाषा अपरया वृत्तिविषयेऽनित्योऽपवाद इति । झ्र्वि.ट ननु "पारेमध्ये षष्ठ्या वा' इति सूत्रे वाग्रहणमनर्थकम् । न च विकल्पेन समासविधानार्थं तत्, तेन समासाभावपक्षे पारं गङ्गाया इति वाक्यस्यापि साधुत्वं लभ्यत इति वाच्यम् । महाविभाषाधिकारदेव विकल्पसिद्धेः । न च महाविभाषया एतत्समासाभावपक्षे वाक्यास्य साधुत्वलोभेऽपि "षष्ठी' इति सूत्रविङितषष्ठीतत्पुरुषस्य साधुत्वं न लभ्यत इति गङ्गपारमिति समाससाधुता न स्यादिति षष्ठीसमाससाधुत्वबोधनार्थ वाग्रहणमिति वाच्यम् । षष्ठीसमाससूत्रे "पारेमध्ये' इति सूत्रे चोभयत्र महाविभाषानुवृत्त्या षष्ठीसमासापवादस्यापि "पारेमध्ये' इत्यव्ययीभावसमासस्य महाविभाषाधिकारात् विकल्पेन बाधकत्वमिति एतदभावपक्षे षष्ठीसमासः, तस्यापि वैकल्पिकत्वात् तदभावपक्षे वाक्यस्यापि साधुत्वमितीष्टसिद्धः । अतो वाग्रहणं व्यर्थमित्याशङ्क्य वचनविशेषज्ञापकतया सार्थक्यमाह--वेत्येतदिति । पूर्वोक्तरीत्या व्यर्थं सत् वाग्रहणं एवं ज्ञापयति यत् समासवृत्तिर्महाविभाषया विकल्पेन भवति । तत्र यदि कश्चिदपवादो भवति स उत्सर्गसमासस्य नित्यमेवापनादः भवतीति । तेनापवादसूत्रे महाविभाषानुवृत्तावपि पक्षे वाक्यस्य साधुत्वमेवानुमन्यते, न तु उत्सर्गसमासस्य । तथा च प्रकृतेऽपि वाग्रहणाभावे महाविभाषानुवृतावपि षष्ठी समासापवादभूतस्य एतस्याभावपक्षे वाक्यसाधुत्वमेव लभ्येत, न तु षष्ठीसमासस्य । तदर्थं वाग्रहणम् । सति च तस्मिन् महाविभाषया वाक्यासाधुत्वं, वाग्रहणेन उत्सर्गोऽपि पक्षेऽभ्यनुज्ञायते इति वाक्यस्य षष्ठीसमासस्य अव्ययीभावस्येति त्रयाणामपि साधुत्वं सिध्यति । इत्थं च महाविभाषाधिकारमध्यपतितेऽपवादसूत्रे वाग्रहणं नास्ति चेत् तत् उत्सर्गस्य नित्यं बाधकत्वात् उत्सर्गशास्त्रं नानुमन्यत इति निंर्णयो लभ्यत इत्यवधेयम् । अत्र षष्ठीसमासापवादभूतः वैकल्पिकोऽपि पक्षेवाक्यसाधुत्वमनुमन्यमानः नषष्ठीसमासमनुमन्यत इति च ज्ञापनफलमवसेयम् । कृते त्वस्मिन्निति । वाग्रहणे कृत इत्यर्थः । तथा च विभाषा वा इति विकल्पवाचकपदद्वयसद्भावात् तत्रैकेन समासः विकल्पेन विधीयते । तेन वाक्यमपि पक्षे साधु इति लभ्यते । अपरेण च अपवादः विकल्पेनोच्यते । तेनोत्सर्गोऽपि भवतीति लभ्यत इत्यर्थः । झ्र्ज्ञा.ट चतुर्था तदर्थार्थ (सू.2-1-36)। "चतुर्थी तदर्थे' (सू.6-2-43) इति पूर्वपदप्रकृतिस्वरः प्रकृतिविकृतिभाव एव, "अर्थे'(सू.6-2-44) "क्ते च' (सू.6-2-45) इत्यर्थग्रहणाच्च ज्ञापकात् । तथा हितसुखग्रहणात् तादार्थ्यचतुर्थ्या एव तदर्थेति समास इति । झ्र्वि.ट ननु "ततुर्थी तदर्थ' (सू.2-1-36) इति सूत्रेण तार्दथ्ये विकृतिवाचकचतुर्थ्यन्तस्य प्रकृतिवाचकेन सुबन्तेन समासो विधीयत इति वक्तव्यम् । अन्यथा रन्धनाय स्थाली इत्यादावपि तार्दथ्यसमासापत्तेः । एवं च अश्वघासादयः न सिध्यन्ति अश्वघासयोः प्रकृतिविकृतिभावाभावात् । न चाश्वस्य घासः अश्वघास इत्येवं तार्दथ्यात्मकसंबन्धवाचिषष्ठ्यन्तघटितसमासरूपता अश्वघासादीनां भविष्यतीति तत्र चतुर्थीसमासाभावेऽपि न क्षतिरिति वाच्यम् । चतुर्थीसमासपक्षे "चतुर्थी तदर्थे' (सू.6-2-43) इति सुत्रेण पूर्वपदप्रकृतिस्वरः, षष्ठीसमासपक्षे "समासस्य' (सू.6-1-223) इति सूत्रेण समासान्तोदात्तस्वर इति स्वरे भेदात् चतुर्थीसमासकार्यं षष्ठीसमासेन सिध्यति इति वक्तुं
अशक्यत्वात् इत्याशङ्क्य, पूर्वपदप्रकृतिस्वरोऽपि प्रकृतिविकृतिभावस्थल एव प्रवर्त्तते । तथा चाश्वय घास इति समासपक्षेऽपि समासान्तोदात्त एव भवतीति स्वरे भेदाभावात् अश्वघासादीनां षष्ठीसमासत्वेनैव साधुत्वमिति समाधानं मनसिकृत्य "चतुर्थी तदर्थे' (सू.6-2-43) इति सुत्रेण विधीयमानः पूर्वपदप्रकृतिस्वरोऽपि प्रकृतिविकृतिभावस्थल एवेत्यत्र ज्ञापकमाह--"चतुर्थी तदर्थे' इत्यादिना । अयमाशयः- यदि "चतुर्थी तदर्थे' इति सुत्रेण विधीयमानः पुर्वपदप्रकृतिस्वरः प्रकृतिविकृतिभावविरहस्थलेऽपि स्यात् तदा "अर्थे' (सू.6-2-44) "क्ते च' (सू.6-2-45) इति सूत्रद्वयं व्यर्थम् । देवतार्थम् इत्यादौ चतुर्थ्यन्तस्य देवकतादिपदस्य अर्थशब्दे परे पूर्वपदप्रकृतिस्वरः "अर्थे' इत सुत्रेण विधीयते । गोहितम् इत्यादौ क्तान्ते परे पूर्वपदस्य चतुर्थ्यन्तस्य प्रकृतिस्वरः "क्ते च' इति सूत्रेण विधीयते । तत्रोभयत्रापि "चतुर्थी तदर्थे' इति सूत्रेणैव पूर्वपदप्रकृतिस्वरे सिद्धे पुनर्विधानं न कर्तव्यम् । कृतं च तत् "चतुर्थी तदर्थे' इति सूत्रविहितः स्वरः प्रकृतिविकृतिभावे एवेति ज्ञापयति । ततश्च देवतार्थम् गोहितम् कित्यादौ प्रकृतिविकारभावाभावात् स्वराप्राप्तौ तत्प्राप्तये "अर्थे' "क्ते च' इति सूत्रद्वयम् । तथा च अश्वघासादीनां षष्ठीसमासत्वेनापि स्वरादिकं सिध्यतीति प्रघट्टकार्थः । "अर्थेन नित्यसमासे वक्तव्य' इति वार्तिकप्रत्याख्यानार्थं महाभाष्ये योगविभागः कृतः । "चतुर्थी' इत्येकं सूत्रम् । "तदर्थार्थ' इत्यपरं सूत्रम् । तत्र "चतुर्थी' इति सूत्रस्य चतुर्थ्यन्तं सुबन्तेन सह समस्यत इत्यर्थः । "तदर्थार्थ' इत्यस्य च तदर्थस्योत्तरपदस्य "अर्थ' शब्द आदेशो भवति इत्यर्थः । ततश्च ब्राह्मणाय पयः इति समासे कृते पय इति पुनः पयः शब्दप्रयोगस्तु अर्थशब्दः पयः शब्दस्यादेश इति स्फोरणार्थम् इति फलति । यद्योवं योगविभागः क्रियते तर्हि छात्राय रुचितमित्यत्रापि रुचितशब्दस्य अर्थशब्दादेशः स्यात् इत्याशङ्कायां भाष्यकोरैरुक्तम्-- "आचार्यप्रवृत्तिर्ज्ञापयति--"तार्दथ्ये या चतुर्थी सा समस्यते, न चतुर्थीमात्रम्' इति । यदयं हितसुखग्रहणं करोति' इति । योगविभागपक्षेऽपि "चतुर्थी' इति सूत्रेण तार्दथ्ये या चतुर्थी तस्या एव समासः । न चतुर्थीसामान्यस्य । अन्यथा गोभ्यो हितं गोहितमित्यत्रापि चतुर्थीत्यनेनैव समासे सिद्धे तत्र समाससिद्धिफलकस्य हितसुखग्रहणस्य वैर्यथ्यापत्तेः । तथा च छात्राय रुचितमित्यत्र या चतुर्थी न सा तार्दथ्ये । अतस्तत्र समासस्यैवाभावात् "तदर्थार्थ' इत्यनेन समासावयवोत्तरपदस्य विधीयमानः अर्थ इत्यादेशोऽपि न भवतीति भाष्यभिप्रायः । तमिमं संदर्भं मनसिकृत्याह---तथा हितेति । झ्र्ज्ञा.ट तद्वितार्थो (सू.2-1-51)।। समासेनोक्तेऽपि तद्वितार्थे तद्वितोभवति । "द्विगोर्लुगनपत्ये' (सू.4-1-88) इति द्विगोरुत्तरतद्धितस्य लुग्विधाननत् ज्ञापकात् । झ्र्वि.ट ननु "तद्धितार्थोत्तरपदसमाहारे च' इति सुत्रेण तद्धितार्थे दिक्संख्ययोः सुबन्तेन सह समासः उच्यते । तस्य चायमर्थः पर्यवस्यति-- तद्धितस्य योऽर्थस्तस्मित् प्रकृत्यर्थव्यतिरिक्तप्रत्ययार्थाभावात् पाञ्चनापितिरित्यादौ तद्धितो न प्राप्नोतीत्याशङ्क्याह--समासेनोक्तेऽपीति । "द्विगोर्लुगनपत्ये' इति सूत्रेण द्विगुसमासादुत्तरस्य अनपत्यार्थकस्य तद्धितस्य लुग्विधीयते । यथा पञ्चसु कपालेषु संस्कृतः पुरोडड्डत्ध्;ाश इत्यत्र "संस्कृतः पुरोडड्डत्ध्;ाशः' इत्यर्थे "संस्कृतं भक्षाः' (सू.4-2-16) इति सूत्रेण अणो विधानात् अणः अर्थे पञ्चन् सुकपाल सु अनयोः समासे "तद्धितार्थ' इति सुत्रेण कृते ततः अणि तस्य "द्विगोर्लुगनपत्ये' (सू.4-1-88) इत्यनेन लुकि पञ्चकपालः इति भवति । अत्र तद्धितार्थे
द्विगुसमासविधानात् समासेनोक्तेऽर्थे तद्धितस्याणः अनुत्पत्त्या लुग्विधानमनर्थकम् । अणः उत्पत्तौ हि तस्य लुग्विधानम् अर्थवत् । ततश्च लुग्विधानं ज्ञापयति समासेनोक्तेऽपि तद्दितार्थे तद्धितो भवति इति । ततश्च जातस्य तद्धितस्य लुग्विधायकतया सुत्रं सार्थकम् । तेन पाञ्चनापितिरित्यादौ समासेनोक्तेऽप्यपत्यार्थे तद्धितसिद्धिर्निष्प्रत्यूहेत्याशयः । वस्तुतस्तद्धितार्थे वाच्ये इत्यस्य स्थाने तद्धितार्थे विषये इति व्याख्याने नायं दोषः प्राप्नोति । तथापि लुग्विधानमेव तद्धितार्थे विषये इति विवक्षितमिति ज्ञापयतीति भावः । तदुक्तमुद्योते--- "एवं तद्धितार्थे विषयभूत इत्यर्थेन च सिध्यति । वस्तुतो ज्ञापकेनायमेवार्थो बोध्यत इति बोध्यम् ।।' इति (उद्योतः ; 2-1-51) झ्र्ज्ञा.ट उपमितं व्याघ्रा (सू.2-1-46)।। सामान्यप्रयोगे सापेक्षत्वादसार्मथ्येन वृत्तेरप्राप्तेः स निषेधो ज्ञापयतिभवति प्रधानस्य सापेक्षस्यापि वृत्तिरिति । झ्र्वि.ट ननु "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' (सू.2-1-56) इति सूत्रे सामान्याप्रयोगे इति व्यर्थम् । न च पुरुषो व्याघ्र इव शूर इत्यत्र सामान्यधर्मवाचिशूरादिशब्दप्रयोगे समासवारणार्थं तदिति वाच्यम् । समस्यमानपुरुषशब्दस्य समासाघटकशूरपदसापेक्षत्वेन समासाघटकपदनिरपेक्षत्वरूपस्य सार्मथ्यस्याभावादेवात्र समासस्य वारयितुं शक्यत्वादित्याशङ्क्य ज्ञापकतया तत्सार्थक्यमाह--सामान्यप्रयोग इत्यादिना । समस्यमानयोः पदयोर्मध्ये विशेष्यवाचिपदस्य समासाघटकपदसापेक्षत्वेऽपि समासो भवतीति ज्ञाप्यते । तथा च पुरुषो व्याघ्र इव शूर इत्यत्र विशेष्यसमर्पकस्य पुरुषपदस्य शूरपदसापेक्षत्वेऽपि समासप्राप्तौ तन्निवृत्त्यर्थं सामान्याप्रयोग इति वचनम् । सामान्यवाचिशूरपदप्रयोगान्न तत्र समासः इति भावः । एवं ज्ञापनस्य प्रयोजनं तु राजपुरुषोऽभिरूप इत्यादौ विशेष्यवाचिपुरुषपदस्य समासाघटकाभिरूपादिपदसापेक्षत्वेऽपि समाससिद्धिरिति । वृत्तिरिति । समास इत्यर्थः । भाष्ये-- "भवति वै प्रधानस्य सापेक्षस्यापि समासः' इत्येव वचनशरीरस्यापि दर्शनात् । झ्र्ज्ञा.ट युवा खलति (सू.2-1-67)।। इदं ज्ञापयति प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति । झ्र्वि.ट परिभाषेयं व्याख्याता परिभाषेन्दुशेखर इत्युदास्महे । झ्र्ज्ञा.ट द्वितीयतृतीय (सू.2-2-3)।। महाविभाषायां प्रकृतायामन्यतरस्यांग्रहणं ज्ञापकं यत्रोत्सर्गापवादं महाविभाषया विकल्प्यते तत्रापवादेन मुक्त उत्सर्गो न भवतीति । झ्र्वि.ट वचनमेतत् पूर्वं "पारेमध्ये षष्ठ्या वा' इति सूत्रस्थवाग्रहणेन ज्ञापिततयोपात्तं व्याख्यातप्रायम् । प्रयोजनं तु पक्षे षष्ठीसमासोऽपीति भिक्षाद्वितीयमित्यादेः साधुत्वसिद्धिरिति । झ्र्ज्ञा.ट उपपदम् (सू.2-2-19)।। अतिङिति प्रतिषेधो ज्ञापयति अनयोर्योगयोर्निवृत्तं "सुप्सुपा' (सू.2-1-4) इति । तेन गतिकारकोपपदानामिति सिद्धम् । झ्र्वि.ट परिभाषेयमिति न व्याख्यायते । झ्र्ज्ञा.ट अनेकमन्यपदार्थे (सू.2-2-24)।। अर्थग्रहणसार्मथ्यात् पदार्थः कृत्स्नः सद्रव्यः सलिङ्गः ससंख्यश्च गृह्यते । झ्र्ज्ञा.ट ठअनेकमन्यपदार्थे' (सू.2-2-24) इति सूत्रे बहुव्रीहिणा यद्यन्यपदार्थोऽभिधीयते तदा चित्रगुर्देवदत्त इति बहुव्रीह्यनन्तरं देवदत्तस्यानुप्रयोगो नोपपद्यते, बहुव्रीहिणैव अन्यपदार्थस्य देवदत्तस्याप्यभिहितत्वात् इत्याशरूपेणानभिधानात् देवदत्तशब्दानुप्रयोग उपपद्यत इति समाधानमुक्तवा, अथवा विभक्त्यर्थोऽभिधीयते इति पक्षान्तरमुक्तं भाष्ये । पदेन प्रकृत्यर्थविशेषणकः प्रत्ययार्थोऽभिधीयत इति विभक्तयर्थस्यैव प्राधान्यात् अन्यपदार्थग्रहणेन ग्रहणम् । तथा च बहुव्रीहिसमासेन विभक्त्यर्थः संबन्धादिरभिधीयते