सामग्री पर जाएँ

ज्ञापकसंग्रहः/तृतीयोऽध्यायः

विकिस्रोतः तः
← द्वितीयोऽध्यायः ज्ञापकसंग्रहः
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →

।। अथ तृतीयोध्यायः ।।
    झ्र्ज्ञा.ट आद्युदात्तश्च (सू.3-1-3)।। "यासुट् परस्मैपदेष्वपिच्च लिङ्' इति न्यासेन सिद्धे "यासुट् परस्मैपदेषूदात्तो ङिच्च' (3-4-103) इति आगमा अनुदात्ता इति ज्ञापयति । इतमेव आगमा अविद्यमानवदित्यर्थस्यापि ज्ञापकमित्युक्तम् । इदं द्वयमप्येकदेश्युक्तिः । झ्र्वि.ट ननु "यासुट् परस्मैपदेषूदात्तो ङिच्च' इति सूत्रे उदात्तग्रहणं किमर्थम्? प्रत्ययस्वरेणैव प्रत्ययभक्तस्य यासुटोऽप्युदात्तत्वसिद्धेः । न च लिङादेशाानां पितां तिप्सिप्मिपां "अनुदात्तौ सुप्पितौ'(सू.3-1-4) इति सूत्रेणानुदात्तत्वात् तद्भक्तस्य यासूटोऽपि अनुदात्तत्वे प्राप्ते तद्बाधनार्थमुदात्तवचनमिति वाच्यम् । तथा सति "यासुट् परस्मैपदेष्वपिच्च लिङ्' इत्येव सूत्रयेत् तत्र अपिच्च लिङ् इत्यनेन लिङादेशानां सर्वेषामपित्त्वातिदेशेन पित्त्वप्रयुक्तानुदात्तत्वासिद्धेः प्रत्ययस्वरेणोदात्तत्वस्यैव प्राप्तेः उदात्तग्रहणवैर्यथ्यात् इत्याशङ्क्य, "आगमा अनुदात्ताः' इति वचनज्ञापकतया सार्थक्यमाह--यासुडिड्डत्ध्;ति । तथा चागमानामनुदात्तत्वात् यासुटोऽप्यनुदात्तत्वं मा प्रसाङ्क्षीदिति उदात्तवचनं कृतमिति भावः । इदमेवेत्यादि । ज्ञापकमुक्तमिति । "आद्युदात्तश्च' (सू.3-2-3) इति सूत्रे इति शेषः । यासुड्ड्डत्ध्;विशिष्टस्यैव प्रत्ययत्वेन प्रत्ययाद्युदात्तस्वरेणैव यासुट उदात्तत्वे सिद्धे यासुट उदात्तवचनं आगमा अविद्यमानवदित्यर्थज्ञापकम् । सति चाविद्यमानत्वे तद्रहितप्रत्ययस्यैवाद्युदात्तत्वे शेषनिघातेनागमानामनुदात्तत्वं सिद्धमिति तत्र प्रतिपादितम् । तथा च शेषनिघातप्राप्तानुदात्तत्वव्यावृत्तये उदात्तग्रहणं चरितार्थमिति तदाशयः । ननु यासुटः परस्मैपदनिमित्तकत्वात् लादेशोत्तरं प्रवृत्त्या पूर्वमेवान्तरङ्गत्वात्परत्वाद्वा प्रत्ययाद्युदात्तत्वे ततः यासुडड्डत्ध्;स्वरको वा स्यात् शेषनिघातेनानुदात्तो वेति उदात्तसिद्ध्यर्थं क्रियमाणमुदात्तवचनं चरितार्थं कथं ज्ञापकमिति आशङ्क्य अत एवेयमेकदेश्युक्तिरित्याह--इदं द्वयमपीति । झ्र्ज्ञा.ट सुप आत्मनः क्यच् (सू.3-1-8)।। "अश्वाघस्यात्' (सू.7-4-37) इति क्यचि ईत्वबाधनार्थाकारविधानात् ज्ञापकात् अघशब्दाच्छन्दसि परेच्छायां क्यजिति । झ्र्वि.ट ननु "सुप आत्मनः क्यत्' इति सुत्रे आत्मनः इत्येतत् सुप इत्यत्रान्वेति । ततश्च आत्मसंबन्ध्यर्थबोधकं यत् सुबन्तं ततः इच्छायामर्थे क्यच्प्रत्ययो भवतीति सुत्रार्थो लभ्यते । एवं सति छन्दसि "मा त्वा वृका अगायवः' इत्यत्र अघमिच्छन्त इत्यर्थे अघशब्दात्क्यच् न स्यात् वृका हि न आत्मसंबन्धि अघमिच्छन्ति किन्तु परस्याघम् । तथा च अघशब्दस्य एषितृवृकसंबन्ध्यघबोघकत्वाभावात् कथं ततः क्यजित्याशङ्क्याह--अश्वाघस्यादितीति । छन्दसि परं परसंबन्धिविषयकेच्छायामपि क्यच् भवति । तत्र ज्ञापकं तु "अश्वाघस्यात् ' इति सुत्रम् । तस्य च सूत्रस्य अश्व अघ इत्येतयोः क्यचि परतः आकारदेशे भवतीत्यर्थः । तत्राघशब्दात् परेच्छायामेव क्यच् संभवति । यते लोके न कोऽप्यात्मनः अघमिच्छेत् । किं तु परस्यैवाघमिच्छति । एवं च क्यचि परतः अघशब्दस्य आकारं विदधत् पाणिनिः अघशब्दात् क्यचमनुमन्यते । अतो ज्ञापकात् अघशब्दात् छन्दसि परस्याघमिच्छतीत्यर्थेऽपि क्यच् भवतीति सिध्यतीति भावः । झ्र्ज्ञा.ट ठनमोवरिवः' (सू.3-1-19)।। क्यजाद्यन्ताः क्रियावचनाः । "सनाद्यन्ताः' (सू.3-1-32) इति धातुसंज्ञाविधानात् ज्ञापकात् । तत्प्रयोजनं च तत्कार्यतव्यदादयः । साधने च तव्यदादयः । क्रियाया एव च साधनम् । भावोऽपि क्रियैवेति । परसाधने तु नैषामुत्पत्तिः ।साधन इति ससंबन्धिकत्वात् । यस्य धातोर्यत् साधनं तत्र तद्धातोरेव प्रत्ययोत्पत्तेः । झ्र्वि.टठनमोवरिवश्वित्रङः क्यच्' इति सुत्रे "क्यजादिषु प्रत्ययार्थनिर्देश'
इति वार्तिककारेणोक्तम् । तस्य चायमर्थः--नमस्शब्दात् पूजायामर्थे क्यच्, वरिवस्शब्दात् सपर्यायामर्थे क्यच्, चित्रङः आश्चर्येऽर्थे क्यच् भवतीत्येवं क्यच्प्रत्ययस्यार्थेऽपि निर्देष्टव्यः । अन्यथा क्यजन्तस्य क्रियावाचकत्वं न भवेत् इति । इदं च वार्तिकं प्रत्याचिश्यासुना भाष्यकृता ज्ञापकेन क्यजाद्यन्तस्य क्रियावाचकत्वं समर्थितम् । तदाह--क्यजाद्यन्ताः इति । आदिशब्देन णिङ्परिग्रहः । "सनाद्यन्ता धातवः' (सू.3-1-32) इति सूत्रेण क्यजाद्यन्तस्य धातुसंज्ञा विधीयते । तत्प्रयोजनं च धातोरित्यघिकृत्य विहितानां तव्यदादीनां सिद्धिः । कर्मादिरूपे साधने च तव्यदादयो विधीयन्ते । साधनं च क्रियायाः । तद्यदि क्यजाद्यन्तस्य क्रियावाचकत्वं न स्यात् तद्वाच्यक्रियाया अभावात् क्रियासाधने विधीयमानाः तव्यदादयः क्यजाद्यन्तेभ्यो न भवेयुः । ततश्च तव्यदादिफलकधातुसंज्ञाविधानमनर्थकं स्यात् । यतो धातुसंज्ञा उक्ता अतः क्रियावाचकत्वं क्यजाद्यन्तस्य ज्ञायत इति भावः । ननु साधने तव्यदादय इति कथम् । "तयोरेव कृत्यक्तखलर्थाः' (सू.3-4-70) इति सुत्रेण भावेऽपि तव्यदादीनां विधानात् इत्याशङ्क्य, अस्त्वेवम् । तथापि भावशब्दस्य यदुत्तरं तव्यादयो भवन्ति तद्वाच्यक्रियापरत्वात् क्यजाद्यन्तस्य क्रियावाचकत्वाभावे तदुत्तरं भावेऽपि तव्यदादिर्दुर्लभ इति भावे तव्यदादिविधानं तत्फलकधातुसंज्ञाविधानं च गमयत्येव क्यजाद्यन्तस्य क्रियावाचकतामिति समाधानमाह--भावोऽपि क्रियैवेति । ननु क्यजाद्यन्तानां क्रियावाचकत्वाभावेऽपि स्वार्थिकत्वेन द्रव्यवाचित्वेऽपि च शब्दान्तरवाच्यक्रियाकारके तव्यदादीनाम् उत्पत्तिः धातुसंज्ञायाः फलम्, यथा द्रव्यवाचिवृक्षशब्दात् दृशिक्रियाकर्मत्वविवक्षया वृक्षं पश्येत्यादौ द्वितीया इत्याशङ्क्याह--परसाधने त्विति । साधनशब्दस्य ससंबन्धिकत्वात् कस्य साधने तव्यदादय इत्याकाङ्क्षायां यस्य धातोरर्थस्य यत् साधनं तस्माद्धातोः प्रत्यय इत्येव लभ्यते । यथा मातरि वर्तितव्यमित्युक्ते कस्य मातरि इति शङ्कायां स्वस्यां मातरि इति लभ्यते तद्वत् । तथा च द्वितीयादीनां प्रातिपदिकाद्विधानात् प्रतिपदिकस्य च द्रव्यवाचकत्वात् वचनप्रामाण्यात् परसाधने उत्पत्तिर्भवति । तव्यदादयस्तु क्रियावाचिषु धात्वन्तरेषु स्वसाधने सावकाशाः क्यजाद्यन्तेभ्यः परसाधने नोत्पद्यन्ते । एवं च स्वसाधने तव्यदादिफलकं धातुसंज्ञाविधानमेवैषां क्यजाद्यन्तानां क्रियावाचकत्वे मानमिति भावः । झ्र्ज्ञा.ट मुण्डड्डत्ध्;मिश्र (सू.3-2-21)।। हलिकल्योरत्वविधानात् ज्ञापकात् वृद्धो कृतायां लोपः । झ्र्वि.ट ननु "मुण्डड्डत्ध्;मिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्' (सू.3-2-21) इति सूत्रेण मुण्डड्डत्ध्;ादिभ्यः करोतीत्यर्थे णिच्प्रत्ययो विधीयते । तत्र च हल, कल इति द्वौ शब्दौ पठितौ । हलि, कलि अनयोरिकारान्तयोः णिचि परतः अत्वं निपात्यत इति तेन प्रतीयते । हलिं गृढद्धठ्ठड़14;णाति हलयति कलिं गृढद्धठ्ठड़14;णाति कलयति इति चोदाहृतम् । अत्र हलि कलि इति इकारान्ताभ्यामेव णिच् इत्येवास्तु । किमर्थं कृतात्वाभ्यां हलिकलिभ्यां णिच् इति व्याख्यायते । न च सन्वद्भावनिषेदार्थं तथा व्याख्यायते, तथा हि--हलि कलि आभ्यां णिचि लुङि चङि अचकलत् अजहलत् इति रूपे इष्येते । ते च निपातितात्वात् णिचि सत्येव घटेते । अहल इ अत् इत्यत्र "णाविष्ठवत्' इत्यकारलोपे "चङि' (6-1-11) इति द्वित्वे णिलोपे च अजहलत् इति स्थिते अङ्गस्याग्लोपित्वेन "अनग्लोपे' (8-4-93) इति सन्वद्भावप्रतिषेधात् "सन्यतः' (सू.7-4-89) इति अब्यासस्य इत्वं न भवति । यदि च हलि इतीकारान्तात् णिच् स्यात् तदा "णाविष्ठवत्' इति इष्ठवद्भावातिदेशात् "टेः' (सू.6-4-155) इति इकारस्य लोपे "अचो ञ्णिति'
(सू.7-2-115) इति वृद्धौ च प्राप्तयोः परत्वात् वृद्धौ ऐकारे तस्य "टेः' इति लोपे ऐकारस्याक्त्वाबावात् तल्लोपः अग्लोपो न भवतीति "अनग्लोपे' इति प्रतिषेधाप्रवृत्तेः "सन्वल्लधुनि' (सू.7-4-93) इति सन्वद्भावे "सन्यतः' इत्यब्यासस्य इत्वे अजीहत् अचीकलत् इति भवेत् । अतः कृतात्वाभ्यां हलिकलिभ्यां णिजिति "व्याख्यायत इति वाच्यम् । "नाग्लोपिशास्वृदिताम्'(सू.7-4-2) इति सूत्रेभाष्ये अग्ग्रहणाद्वृद्धेर्लोपो बलीयान् इति ज्ञापितत्वेन अ हलि इ अत् अत्यत्रापि वृद्धिं बाधित्वा हलि इतीकारस्य टेः लोपे अग्लोपित्वं अङ्गस्यास्तीति "अनग्लोपे' इति निषेधात् सन्वद्भावाप्राप्तेः । तथा चादन्तत्वनिपातनं व्यर्थमित्याशङ्क्याह--हलिकल्योरिति । पूर्वेक्तरीत्या व्यर्थं सददन्तत्वनिपातनं हलिकलिशब्दविषये वृद्धौं कृतायां लोप तिि ज्ञापयति । तथा च इकारान्ताण्णिचि आदौ वृद्धौ ततो लोपे अग्लोपित्वाभावेन सन्वद्भावे "सन्यतः' इति इत्वं भवेदिति कृतात्वाभ्यां णिच् उक्तः । इत्थं च हल कल इत्यदन्ताभ्यां णिचि वृद्धौकृतायामाकारे तस्य लोपेऽपि अग्लोपो भवतीति "अनग्लोपे' इति निषेधान्न सन्वद्भाव इति नाभ्यासस्यात इत्वमिति भावः । भाष्ये तु--"हलिकल्योरत्वनिपातनं सन्वद्भावप्रतिषेधार्थम्' इति दृश्यते । तस्यापि कथंचिदुक्तार्थे तात्पर्यमवसेयम् । झ्र्ज्ञा.ट च्लेः सिच् (सू.3-1-44)।। सिचः कित्करणात् ज्ञापकात् सिजन्तस्य नलोपो नेति । एवं च सिच इदित्त्वं प्रत्याख्येयम् । स्थानिवद्भावेनेदित्त्वसिद्धेश्च । झ्र्वि.ट ननु च्लेः स्थाने यः सिजादेशः तस्मिन्नादेशे चकारः इकारश्चोभावित्संज्ञकाविष्येते । तत्रेकाराख्यानुबन्धसंयोजनम् व्यर्थम् । न च सिजन्तस्य इदित्त्वप्रयुक्तकार्यार्थं तत्संयोजनम् । तथा हि अमन् स् त इत्यत्र सिचः इदित्त्वाभावे सिजन्तस्याङ्गस्यानिदित्त्वेन तदुपधाया नकारस्य "अनिदिताम्' (सू.6-4-24) इति लोपः स्यात् इति वाच्यम् । "हनः सिच्,(सू.1-2-14) इति सूत्रेण हन्तेः परस्य सिचः किद्विधानात् ज्ञापकात् सिजन्तस्य नलोपो नेति ज्ञापनात् अमंस्तेत्यत्र नलोपाभावसिद्धेः । तथा हि--आङ्पूर्वकहनधातोर्लुङि च्लिः च्लेः सिच् त, "आ हन् स् त' इति स्थिते "हनः सिच्' इत्यनेन सिचः कित्त्वात् । तस्मिन् परतः "अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति' (सू.6-4-37) इति सूत्रेण नकारस्यानुनासिकस्य लोपे "ढद्धठ्ठड़14;नस्वादङ्गात्' (सू.8-2-27) इति सूत्रेण सकारस्य लोपे आहत इति रूपम् । अत्र सिचः कित्त्वाविधानं व्यर्थं यदि सच् इति अनिदित्त्वं तस्य स्यात् । तदा हि आहन् स् इति सजन्ताङ्गस्यानिदित्त्वेन "अनिदितां हल उपधायाः क्ङिति' (सू.6-4-24) इति सूत्रेण नलोपे इष्टसिद्धेः किं सिचः कित्त्वाविधानेन । कृतं च तत् सिजन्तस्य उपधाया नकारस्य "अनिदितां हल उपधायाः' इति लोपो न भवतीति ज्ञापयति । तथा च हन्तेर्नकारस्य लोपसिद्धये सिचः कित्त्वविधानं सार्थकम् । अमंस्तेत्यत्र च सिजन्तस्य नलोपो न भवतीत्युक्त्या नलोपाभावः सिध्यतीति तदर्थं सिच इदित्त्वं नावश्यकम् । तथा च सिच इदित्त्वं मास्तु । सच् इत्येवास्तु तिि निर्णयः । तदेतदाह--सिचः कित्करणात् इत्यादिना । च्लि इत्यस्येदित्त्वात् तत्स्थाने जातस्य सिचः स्थानिवद्भावेनैवेदित्त्वं लभ्यते । तथा च सर्वथा सिच इदित्त्वं व्यर्थमेवेत्याह--स्थानिवद्भावेनेति । वस्तुतस्तु इदित्त्वं विनापि सकलेष्टसिद्धेः प्रदर्शितत्वात् स्थानिवद्भावेनेदित्त्वासाधनं मुधा । अत एव "इदिद्वास्थानिवत्त्वात्' इति वार्तिकं एकदेश्युक्तिः' इति भाष्यप्रदीपोद्योते ग्रन्थकारेणैवोक्तमिति अवधेयम् । झ्र्ज्ञा.ट वासरूपोऽस्त्रियाम् (सू.3-1-94)।। "ददातिददात्योर्विभाषा' (सू.3-1-139) इति ज्ञापकात् नानुबन्धकृतमसारूप्यम् । "हशश्वतोर्लङ्
च' (सू.3-2-116) इति ज्ञापकात् लोदेशेषु वासरूपविधिर्नास्ति इति । झ्र्वि.ट अनयोर्वचनयोः परिभाषारूपत्वादिह न व्याख्यायेते । इति तृतीयाध्यायस्य प्रथमः पादः । झ्र्ज्ञा.ट ठचरेष्टः' (सू.3-2-16)।। "भिक्षासेनादायेषु च' (सू.3-2-17) इत्यत्र भिक्षाग्रहणात् ज्ञापकात् अधिकरण एव न कर्मणि । झ्र्वि.ट ननु सुबन्ते उपपदे चरधातोः "चरेष्टः' (सू.3-2-16) इति सूत्रेण विधीयमानः टप्रत्ययः कुरूंश्चरति इत्यत्र कुतो न भवति । न च "चरेष्टः' इत्यत्र "अधिकरणे शेतेः'(3-2-15) इत्यतः अधिकारणे इत्यस्यानुवृत्तेः कर्मण्युपपदे न भवतीति वाच्यम् । कर्मणीत्यस्याप्यनुवृत्तेः । अन्यथा उत्तरसूत्रैर्विधीयमानानां प्रत्ययानां कर्मण्युपपदे प्राप्त्यसंभवात् इत्याश्ङ्क्य "चरेष्टः' इति सूत्रं परम् अधिकरणे उपपद एव भवति न कर्मणि इति ज्ञापकात् साधयति--भिक्षासेनादायेषु चेत्यत्रेति । यदि "चरेष्टः' इति सूत्रं कर्मण्युपपदेऽपि प्रवर्त्तेत तर्हि भिक्षां चरतीत्यत्र अनेनैव टप्रत्ययेन भिक्षाचर इति रूपसिद्धेः "भिक्षासेनादायेषु च' (सू.3-2-16) इति सूत्रे भिक्षाग्रहणं व्यर्थम् । कृतं च तत् "चरेष्टः' इति सूत्रम् अधिकारणे उपपद एव भवतीति ज्ञापयति । तथा च कर्मण्युपपदे टप्रत्ययार्थं भिक्षाग्रहणमिति स्वांशे चारितार्थ्यम् । प्रयोजनं तु कुरूंश्चरति इत्यादौ कर्मण्युपपदे चरेष्टो न भवतीति भाबः । झ्र्ज्ञा.ट सत्सूद्विष (सू.3-2-61)।। अत्रोपसर्गेऽपीति ज्ञापयति अन्यत्र सूब्ग्रहणे उपसर्गग्रहणं नेति । तेन वदः सुप्यनुपसर्गग्रहणं चोदितम् । तन्न वक्तव्यं भवति । झ्र्वि.ट ठसत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्किप्' (सू.3-2-61) इति सूत्रे वर्तिककारेण "सदादिषु सुब्ग्रहणम्' इति प्रोक्तम् । सुबन्ते उपपदे सदादिभ्यः क्किपू भवतीति तदर्थः । वेद्यां सीदतीत्यत्र सूबन्ते वेदिशब्दे उपपदे सदधातोः क्किपि वेदिषत् इति उदाहरणम् । भाष्यकारस्तावत् यदि सुबन्ते उपपदे क्किबित्युच्यते तर्हि उपसर्गस्यापि सुबन्तत्वात् सुपीत्यनेनैव तदुपसंग्रहात् सूत्रे उपसर्गेऽपीति न वक्तव्यमित्याशङ्क्य ज्ञापकार्थ तद्वक्तव्यमित्युक्तवान् । सुपीत्यनेनैव उपसर्गस्यापि ग्रहणे सिद्धे उपसर्गग्रहणं क्रियमाणमेवं ज्ञापयति यत् यत्र सुपि उपपदे प्रत्ययश्चोद्यते तत्र उपसर्गे उपपदे न भवतीति तदाशयः । तथा च उपसर्गे उपपदेऽपि क्किप्प्रत्ययार्थं "सत्सूद्विष' इति सूत्रे उपसर्गग्रहणं कृतमिति चारितार्थ्यत् । प्रयोजनं तु--"वदः सुपि क्यप् च' (सू.3-2-106) इति सूत्रेण विधीयमानः क्यप् प्रत्ययः उपसर्गे उपपदे न भवतीति । एवं च तत्सूत्रे "अनुपसर्गग्रहणं कर्तव्यम्' इति वार्तिकं न कर्तव्य भवतीति सिद्धम् । अत एव प्रवाद्यमित्यादौ उपसर्गे उपपदे वदेः क्यप् न भवति । सर्वमिदमभिप्रेत्याह--अत्रोपसर्गेऽपीति । झ्र्ज्ञा.ट आत्ममाने (सू.3-2-83)।। तासेः परस्य लसार्वधातुकस्यानुदात्तत्वविधानं ज्ञापयति सति शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधत इति । झ्र्वि.ट ठआतममाने खश् च' इति सूत्रे "कर्मकर्तरि च' इति वार्तिकेन आत्मकर्मकमनने वर्तमानात् मन्यतेः सुप्युपपदे कर्मकर्तर्यर्थे खश् भवतीति कथितम् । एवं वक्तुश्चायमबिप्रायः यत् अस्मिन् खशि परे "कर्मवत् कर्मणा तुल्यक्रियः' (सू.3-1-87) इति सूत्रेण कर्मवद्धावात् "सार्वधातुके यक्' (सू.3-2-67) इति यक् भवति । तथा च दर्शनीयंमन्य इत्यत्र यकारश्रवणं फलमिति । तदुपरि एवमाशङ्का भवति---अत्र कर्मकर्तृग्रहणं मास्तु । कर्तर्येवायं खश् विधीयताम् । दिवादित्वात् अस्य मनधातोः कर्त्रर्थके सार्वधातुके खशि परे श्यनि दर्शनीयंमन्य इति यकारघटितं रूपं सिध्यत्येव । न च रूपं यद्यपि सिध्यति, तथापि स्वरे भेदो भवति यकि सति अन्तोदात्तस्वरः प्रत्ययस्वरेण, श्यनि सति "ञ्नित्यादिर्नित्यम्' (सू.6-1-197) इत्याद्युदात्तस्वरः इति
वाच्यम् । खश्स्वरेण श्यन्स्वरस्य बाधात् अन्तोदात्तत्वसिद्धेः । एवमपि आदौ खश् तस्य स्वरश्च, तदनन्तरं श्यन् तत्प्रयुक्त स्वरश्चेति श्यन्स्वरस्य खश्स्वरे सति विहितत्वात् बलीयस्त्वमित्याद्युदात्तत्वमेव भवेदिति । अस्याः शङ्कायाः ज्ञापकसिद्धं वचनमालम्ब्य समाधानं ब्रूते---तासेः परस्येति । अत्रायमाशयः--"तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तम्' (सू.6-1-186) इति सूत्रेण तास् इत्यतः परस्य लसार्वधातुकस्यानुदात्तत्वं विधीयते । यथा कर्ता इत्यादौ "आ' इत्यस्य तासः परस्य लुडड्डत्ध्;ादेशस्य अनुदात्तत्वं भवति । प्रत्ययस्वरस्यापवादोऽयम् । यदि सति शिष्टः स्वरः बलीयान् स्यात् तर्हि प्रत्ययस्वरे सति शिष्टः तास्स्वरः प्रत्ययस्वरं बाधत इति तेनैव प्रत्ययस्यानुदात्तत्वे सिद्धे तासेः परस्य लसार्वधातुकस्य अनुदात्तविधानं नावश्यकम् । यतोऽनुदात्तत्वं विहितं तेनैवं ज्ञाप्यते यत् सति शिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति । तथा च कर्ता इत्यादौ प्रत्ययस्वरो भवेदिति तद्बाधनार्थं तासेः परस्यानुदात्तविधानम् । एवं च दर्शनीयंमन्य इत्यादौ यदि श्यन् तदा स खख्स्वरं न बाधत इतिअन्तोदात्ततैव, यक्यपि अन्तोदात्ततैवेति स्वरेऽपि भेदाभावात् श्यनैवेष्टसिद्धेः कर्तर्येवायं खश् उचित इति कर्मकर्तृग्रहणं न कर्तव्यमिति श्थितम् । झ्र्ज्ञा.ट लट् स्मे (सू.3-2-118)।। इदं ज्ञापयति--स्मलक्षणः पुरालक्षणश्चद्यतने न भवत इति । झ्र्वि.ट ठलट् स्मे' इति सूत्रस्य स्माब्दे उपपदे भूतानद्यतनपरोक्षे लट्प्रत्ययो भवतीत्यर्थः । लिटोऽयमपवादः । नलेन स्म पुराधीयत इत्यादिकमुदाहरणम् । तत्र च सूत्रे वार्तिकद्वयम्--"स्म पुरा भूतमात्रे, न स्म पुराद्यतने' इति । तस्य चायमर्थः--प्रथमे वार्तिके स्मपुराशब्दाभ्यामाद्यन्ताभ्यां "लट् स्मे' "अपरोक्षेच' "ननौ पृष्टप्रतिवचने' "नन्वोर्विभाषा' "पुरि लुङ् चास्मे' (सू.3-2-118-3-2-122) इति पञ्चसूत्री लक्ष्यते । तत्र भूतमात्रे प्रत्ययो भवति । स्मपुरालक्षणस्तु प्रत्ययः अद्यतने न भवति । अर्थात् "लट् स्मे' "अपरोक्षे च' "पुरि लुङ्चास्मे' इति सूत्रत्रयेण अनद्यतने भूतविशेषे प्रत्ययो विधीयते । "ननौ पृष्टप्रतिवचने' "नन्वोर्विभाषा' इत्येताभ्यां तु भूतमात्रे प्रत्ययो विधीयत इति व्यवस्था आश्रयणीया इति । इयं च व्यवस्था सूत्रतो न लभ्यत इति वर्तिककारस्याशयः । वस्तुतस्तु सूत्रादेवेयं व्यवस्था लभ्यत इत्याह--इदं ज्ञापयतीति । "अपरेक्षे च' (सू.3-2-119) इति उत्तरसूत्रारम्भात् "लट् स्मे' (सू.3-2-118) इति सूत्रे परोक्षग्रहणमनुवर्तते इकति ज्ञायते । ततश्च परोक्षग्रहणसंबद्धमनद्यतनग्रहणमपि तत्र अनुवर्तत इति "लट् स्मे' इति सुत्रंपरोक्षानद्यतनविषयमिति सिध्यति । "अपरोक्षे च' (सू.3-2-119) इत्ययमपरोक्षानद्यतनविषयः । "पुरि लुङ् चास्मे' (सू.3-2-122) इत्यत्र तु लुङ्ग्रहणमहिम्ना अनद्यतनविषयकत्वं लभ्यते । यदि ह्ययं भूतमात्रे विधिः स्यात् तदा "नन्वोर्विभाषा' (सू.3-2-121) इत्यतो विभाषाग्रहणानुवृत्त्या विकल्पेन लटो विधानात् तदभाचवपक्षे भूतसामान्ये विहितो लुङ् भविष्यतीति लुङ्ग्रहणमनर्थकम् । कृतं च तत् "पुरि' इति सूत्रस्यानद्यतने लुङः अविधानात् इति पक्षे लुङ्लाभार्थं लुङ्ग्रहणम् । इत्थं चेयं त्रिसूत्री अनद्यतनभूतविषयिणीति सिद्धम् । मध्यमयोः "ननौ पृष्टप्रतिवचने' (सू.3-2-120) "नन्वोर्विभाषा' (3-2-121) इति सूत्रयोस्तु परोक्षग्रहणस्यापरोक्षग्रहणस्य च निवृत्त्या तत्सहचरितानद्यतनग्रहणस्यापि निवृत्तेर्भूतमात्रविषयकत्वमिति विषयविभागस्य सूत्रेणैव लाभाद्वार्तिकमनवकरमिति भावः । झ्र्ज्ञा.ट निन्दहिंस (सू.3-2-146)।। निन्दादिभ्यो वुञ्वचनात् ज्ञापकात् ताच्छीलिकेषु सर्वल एव तृजादयो वासरूपेण न भवन्ति । झ्र्वि.ट ननु
"निन्दहिंस'(सू.3-2-146) इत्यादिसूत्रेण निन्दादिभ्यो वुञ्विधानमनर्थकम् । "ण्वुल्तृचौ' (सू.3-2-133) इति सूत्र विहितण्वुलैवैष्टसिद्धेः । रूपस्वरयोर्विशेषाभावात् । निन्दक इत्यत्र ण्वुल्पक्षे "लिति' (सू.6-2-193) इति सूत्रेण प्रत्ययात्पूर्वमुदात्तं भवतीति धातोरिकारः उदात्तः । वुञ्पक्षेऽपि "ञ्नित्यादिर्नित्यम्'(सू.6-1-197) इति सूत्रेण समुदायादिः स एवोदात्त इति स्वरेऽपि भेदाभावात् । न च एकाच्धातुविषये स्वरे भेदो यद्यपि नासिति, तथाप्यनेकाच्धातुविषये स्वरभेदो भवत्येव । अत्र सूत्रे असूयधातुरप निर्दिष्टः । ततो वुञि असूयकशब्दे समुदायादिरुदात्तः । ण्वुलि तु प्रत्ययात्पूर्वः सकारोत्तर ऊकार उदात्त इति स्वरे भेदोऽस्तीति तदर्थं सूत्रमिति वाच्यम् । तर्हि "असूयो वुञ्' इत्येव सूत्रमस्तु निन्दादिग्रहणस्य व्यर्थत्वादित्या शङ्क्य वचनविशेषज्ञापकतया सार्थक्यमाह--निन्दादिभ्य इति । अयमर्थः--निन्दादिग्हहणाभावे निन्दक इत्यादिरूपं न सिध्यति । न च वासरूपन्योयेन तृनः विकल्पेन ण्वुल्बाधकत्वात् पक्षे ण्वुल् सिध्यतीति वाच्यम् । तर्हि तत एवेष्टसिद्धेः निन्दादिग्रहणं व्यर्थं सत् तच्छीलादिष्वर्थेषु वासरूपन्यायो न प्रवर्तत इति ज्ञापयतीति तृना नित्यं ण्वुलो बाधा स्यात् । तथा च निन्दक इत्यस्य रूपस्य सिद्ध्यर्थं वुञसूत्रे निन्दादिग्रहणमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं ताच्छीलिकप्रकारणविहितप्रत्ययविषये सामान्यसूत्रं न प्रवर्तत इति । वासरूपन्यायेन प्राप्तास्तृजादयः ताच्छीलिकेषु न भवन्तीत्यन्वयः । झ्र्ज्ञा.ट जुचङ्क्रम्य (सू.3-2-250)।। अत्र पदग्रहणात् ज्ञापकात् ताच्छीलिकास्ताच्छीलिकेषु वासरुपेण न भवन्ति । "सूददीपे' त्यत्र दीपग्रहणात् ज्ञापकात् भवति युचो रेण समावेशः । झ्र्वि.ट ननु "जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः' इति सूत्रेण जुप्रभृतिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु "युच्' प्रत्ययो विधीयते । तत्र पदधातोर्ग्रहणमनर्थकम् । तस्य अनुदात्तेत्त्वेन हलादित्वेन च "अनुदात्तेतश्च हलोदेः'(सू.3-2-149) इति सामान्यसूत्रेणैव युच्प्रत्ययसिद्धेः । न च "लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्'(सू.3-2-154) इति विशेषविहितेन उकञा सामान्यविहितस्य युचो बाधे प्राप्ते उकञा सह समावेशसिद्ध्यर्थं पदेः अत्र युच्सूत्रे ग्रहणमिति वाच्यम् । वासरूपन्ययोन असरूपस्य उकञः विकल्पेन युच्बाधकत्वात्पक्षे युचोऽपि सिद्धेः इत्याशङ्क्य ज्ञापनार्थ पदग्रहणमित्याह--अत्र पदग्रहणादिति । पूर्वोक्तरीत्या व्यर्थं सत् पदग्रहणमेवं ज्ञापयति यत् ताच्छीलिकेष्वपवादविधिषु ताच्छीलिका उत्सर्गविधयः वासरूपन्यायेन प्रसक्ताः प्रतिषिद्धा भवन्तीति । इत्थं च उकञा युचः बाधात् युचोऽपि सिद्ध्यर्थं पदग्रहणं सार्थकमिति भावः । ननु यद्येवं ज्ञाप्यते तर्हि "सूददीपदीक्षश्व'(सू.3-2-153) इति सूत्रे दीपिग्रहणं व्यर्थम् । तेन हि सूत्रेण दीपेर्थुच् निषिध्यते । युच्च "अनुदात्तेतश्च हलादेः' (सू 3-2-149) इति सूत्रेण प्राप्तः । तस्य "नमिकम्पिरम्यजसकमहिंसदीपो रः '(3-2-167) इति सूत्रविहितो रप्रत्ययः अपवादः । उभयोरपि ताच्छीलिकत्वात् ताच्छीलिकापवादरप्रत्ययविषये ताच्छीलिकस्योत्सर्गस्य युचः उक्तज्ञापकमहिम्ना अप्राप्तेः तन्निषेधसिद्ध्यर्थं "सूददीपदीक्षश्च' इति सूत्रे तीपिग्हहणमनर्थकमित्याशङ्क्य, अत एव "युचो रेण समावेशः' इति वचनज्ञापनद्वारा तत् सार्थकम् इत्याह--सूददीपेत्यत्रेति । रप्रत्ययेन युच्प्रत्ययसमावेशात् कदाचित् दीपेः युजपि स्यादिति तन्निषेधलाभार्थं दीपिग्रहणमिति भावः । एवं ज्ञापनस्य प्रयोजनं तु कम्रा कन्या इत्यादौ पक्षे युजपि भवति तेन कमना कन्या इत्यादिसिद्धिरिति । ।। इति तृतीयाध्यायस्य द्वितीयः पादः ।। झ्र्ज्ञा.ट तुमुन्ण्वुलौ (सू.3-3-10)। पुर्नण्वल्विधानं ज्ञापयति क्रियार्थायां क्रियायामुपपदे
वासरूपेण तृजादयो नेति । एवं च बाधक (लडि्ड्डत्ध्;वषये)झ्र्लृडि्ड्डत्ध्;वषयेट ण्वुलर्थं तत् । झ्र्वि.ट ठननु तुमुन्ण्वुलौ क्रियार्थायां क्रियायाम्' इति सूत्रेण ण्वुल्विधानमनर्थकम् । "ण्वुल्तृचौ' इति सामान्यसूत्रेणैव क्रियार्थायां क्रियायामुपपदे भविष्यति काले ण्वुल्सिद्ध्या भोक्तुं व्रजतीत्यर्थे भोजको व्रजतीत्यादिसिद्धेः । न च "लृट् शेषे च' (सू.3-3-23) इति सूत्रेण क्रियार्थायां क्रियायामुपपदे भविष्यति लृट्प्रत्ययविधानात् विशेषविहितेन तेन ण्वुलो बाधा मा भूदित्येतदर्थं ण्वुल्ग्रहणमिति वाच्यम् । वासरूपपन्यायेन विकल्पेन लृटः ण्वुल्बाधकत्वात् पक्षे ण्वुलोऽपि सिद्धेः इत्याशङ्क्याह--पुर्नण्वुल्विधानमिति । तथा च क्रियार्थायां क्रियायामुपपदे वासरूपन्यायो न प्रवर्तत इति ज्ञापनात् लृटा ण्वुलो बाधो मा भूदित्येतदर्थ पुर्नण्वुल्विधानम् । ततश्च वाधकलृडि्ड्डत्ध्;वषयेऽपि ण्वुल् सिद्ध्यति । तेन च ण्वुल्भिन्नाः तृजादयः प्रत्ययाः लृटा नित्यं बाध्यन्ते । अतः करिष्यामीति व्रचतीत्यर्थे कारको व्रजतीतिवत् कर्ता व्रजतीत्यादयो न प्रयोगाः इति भावः । झ्र्ज्ञा.ट ग्रहवृदृनिश्चि (सू.3-3-58)।। स्तेयस्य (सुज्विधौ) झ्र्घञ्विधौट प्रतिषेधात् अस्तेये चानिष्टत्वात् । एवं च निश्चिग्रहणं ज्ञापयति--"थाथघञ्क्तावित्रकाणाम्'(सू.6-2-144) इत्यन्तोदात्तत्वं निष्पूर्वाच्चिनोतेर्नेति । झ्र्वि.ट ननु अब्विधायके "ग्रहवृदृनिश्चिगमश्च' इति सुत्रे निष्पूर्वस्य चिधातोर्ग्रहणमनर्थकम् । "एरच्' (सू.3-3-56) इत्यच्प्रत्ययेनैव निश्चय इति रूपसिद्धेः । अच्पक्षे चित्त्वात् अन्तोदात्तता, अप्पक्षेऽपि "थाथधञ्क्ताबित्रकाणाम्' इत्यनेन अन्तोदात्ततेति स्वरेऽपि विशेषाभावात् । न च "हस्तादाने चेरस्तेये'(सू.3-3-40) इति सूत्रेणास्तेये घञ्प्राप्तौ तद्बाधनार्थंमब्विधानमिति वाच्यम् । "अस्तेये' इति प्रतिषेधेन स्तेये घञोऽप्राप्तेः । अस्तेये च हस्तादानविषये निश्चाय इत्येवं घञेवेष्यते नाप् । नथा च निष्पूर्वाच्चिनोतेरब्विधानमनर्थकमित्याशङ्क्य, अत एव "थाथ' इत्यादिसूत्रेण विहितः अन्तोदात्तस्वरः निष्पूर्वाच्चिनोतेर्नेति ज्ञापयति । तथा च अप्प्रत्ययपक्षे थाथादिस्वराप्रवृत्त्या धातुस्वरेण चयशब्दे चकारोत्तराकारः उदात्तः । स एव निश्चयशब्देऽपि "गतिकारकोपपदात् कृत्'(सू.6-2-139) इति सूत्रेण भवतीति मध्योदत्तो निश्चयशब्दः । अच्पक्षे चान्तोदात्त इति स्वरभेदात् हस्तादानविषये स्तेये अचा स्वरपर्यन्तेष्टसिद्धेरसंभवात् निष्पूर्वाच्चेरप्प्रत्ययविधानमिति समाधानमाह---स्तेयस्येत्यादिना । घञ्विधौ इति । "हस्तादाने चेरस्तेये' (सू.3-3-40) इति विधावित्यर्थः । अनिष्टत्वादिति । अप्प्रत्ययस्येति शेषः । झ्र्ज्ञा.ट प्रैषातिसर्ग (सू.3-3-163)।। इदं कृत्यवचनं लोटा बाधाभावार्थं सत् स्त्रयधिकारादूर्ध्वं वासरूपविधिर्नेति ज्ञापयति । झ्र्वि.ट ननु "प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' इति सूत्रे कृत्यग्रहणं मास्तु । सामान्येन भावकर्मणोर्विहिताः कृत्याः प्रैषादिष्वन्यत्र च भविष्यन्ति । न च प्रैषादिषु विशेषविहितेनानेन लोटा कृत्यानां बाधा मा भूदित्येतदर्थं कृत्यग्रहणमिति वाच्यम् । वासरूपन्यायेन लोटो विकल्पेन बाधकत्वात् पक्षे कृत्यानामपि सिद्धेः इत्याशङ्क्य, एवं तर्हि स्त्र्यधिकारादूर्ध्वं वासरूपविधिर्नेति ज्ञापनार्थं तत् । तथा च अस्य "प्रैषातिसर्ग' इति सूत्रस्य "स्त्रियां क्तित्' (सू.3-3-94) इत्यधिकारात्परं विद्यमानत्वेन अत्र वासरूपन्यायानवतारात् लोटा कृत्यानां नित्यं बाधे प्राप्ते समावेशसिद्ध्यर्थं कृत्यग्रहणमित्याह--इदं कृत्यवचनमिति । न च "वासरूपोऽस्त्रियाम्' इत्यत्र अस्त्रियामित्यनेनैवास्यार्थस्य सिद्धेः ज्ञापनपनवकरमिति वाच्यम् । तेन हि स्त्रियामित्यधिकारे वासरूपो नेति ज्ञायते ।स्त्रियामित्यधिकारादूर्ध्वं नेति न लभ्.यते इत्याशयात् । स्त्रियां
इत्यधिकारश्च "नपुंसके भावे क्तः'(सू.3-3-114) इत्यत्रैव विच्छिन्न इति ध्येयम् । इति तृतीयाध्यायस्य तृतीयः पादः झ्र्ज्ञा.ट उदीचां माङो (सू.3-4-19)।। अत्र सानुबन्धकस्यात्वभूतस्य ग्रहणं ज्ञापयति नानुबन्धकृतमनेजन्तत्वमिति । झ्र्वि.ट परिभाषेयम् । अतो न व्याख्यायते । झ्र्ज्ञा.ट लस्य (सू.3-4-77)।। णलो लित्करणात् लकाराणां लस्य नेत्त्वम् । झ्र्वि.ट ननु पचतीत्यादौ लटः स्थाने तिबादेशः । लकारश्च "लशक्कतद्धिते' (सू.1-3-8) इति सूत्रेणेत्संज्ञकः । ततश्च लटः लित्त्वात् तदादेशस्य तिबादेरपि स्थानिवद्भावेन लित्त्वात् पचतीत्यादौ लित्स्वरः प्राप्नोतीत्याशङ्क्याह--णलो लित्करणादिति । लिटः स्थाने तिप्तस्य स्थाने णल् तत्र स्थानिवद्भावेनैव णलो लित्त्वे सिद्वे णलो लित्करणं लडड्डत्ध्;ादिलकाराणां लस्येत्संज्ञा नेति ज्ञापयति । तथा च स्थानिन एव लित्त्वाभावात् आदेशे तद्दुर्लभमिति णलि लित्करणं सार्थकम् । एवं च पचतीत्यादावपि तिबादेर्लित्त्वं नेति न लित्स्वरप्रसङ्ग इत भावः । भाष्ये तु-- "न लादेशेषु लित्कृतं भवति' इति वचनशरीरं दृश्यते । उभयत्र फलमेकमेवेत्यवधेयम् । झ्र्ज्ञा.ट टित आत्मनेपदानां टेरे (सू.3-4-79)।। टित आत्मनेपदानामिति सूत्रे आनस्य प्रतिषेधो वक्तव्यः । उक्तं वा । ज्ञापकं वा सानुबन्धकस्यादेशवचनमित्कार्याभावस्येति । झ्र्वि.ट ननु "टित आत्मनेपदानां टेरे' इति सूत्रेण टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेः एत्वं विधीयमानं, पचमान इत्यादौ आनस्य टेरपि प्राप्नोति । आनस्यापि टित्स्थानिकात्मनेपदत्वादित्याशङ्कय,"टित एत्वे आत्मनेपदेष्वानप्रतिषेधः' इति वार्तिकात् आनस्य न एत्वमित्याह--इति सूत्र इत्यादिना। वस्तुतो "गाङ् लिटि' (सू.2-4-49) इति सूत्रे इङः धातोः गाङ् आदेशो विधीयते । तत्र धातोः ङित्त्वात् आदेशस्य गा इत्यस्यापि स्थानिवद्भावेन ङित्त्वं भविष्यतीति आदेशे ङकारानुबन्धो व्यर्थः सन् यत्र सानुबन्धकस्य आदेशः उच्यते तत्र आदेशे इत्संज्ञाप्रयुक्तानि कार्याणि न प्रवर्तन्त इति ज्ञापयतीत्युक्तम् । तथा च "लटः शतृशानचौ' इति सानुबन्धकस्य स्थाने शानचः विधानात् शानचि टित्त्वप्रयुक्तमेत्त्वं न प्रवर्तिष्यते । पचते इत्यादौ "लस्य' इति सूत्रेण अनुबन्धरहितस्य स्थाने विधानात् तादीनां एत्वं प्रर्वत्स्यति, अतो न दोषइत्याशयवानाह--अक्तं वेति । "गाङ् लिटि' इति सूत्रे वार्तिके इति शेषः । अत्र च-- "सानुबन्धाद्यत्र षष्ठी उच्यार्यते तत्राकृतायामेवेत्संज्ञायामादेशः प्रवर्तते। कृतायां वा इत्संज्ञायां तन्निबन्धनानि कार्याणि न प्रवर्त्तन्ते' इति "गाङ् लिटि' इति सूत्रस्थः प्रदीपग्रन्थोऽनुसन्धेयः । इति तृतीयोऽध्यायः ।।