सामग्री पर जाएँ

ज्ञापकसंग्रहः/चतुर्थोऽध्यायः

विकिस्रोतः तः
← तृतीयोऽध्यायः ज्ञापकसंग्रहः
चतुर्थोऽध्यायः
[[लेखकः :|]]
पञ्चमोऽध्यायः →

।। अथ चतुर्थोऽध्यायः ।।
    झ्र्ज्ञा.ट अजाद्य (सू.4-1-4)।। "शूद्रा चामहत्पूर्वा' (वा) इति ज्ञापयति इह तदन्तविधिरिति । झ्र्वि.ट ठअजाद्यतष्टाप्' इति सूत्रे "सूद्रा चामहत्पूर्वा जातिः' इति वार्तिकम् । तस्य च शूद्रजातिः वाच्या चेत् अमहत्पूर्वः शूद्रशब्दः स्त्रियां टापं लभते इत्यर्थः । अजादिगणे पठितस्य शूद्रशब्दस्य टाप् सामान्यतः प्राप्तः । तत्र जातिवाचकत्वं महच्छब्दपूर्वकत्वाभावश्चेति विशेषणद्वलयं यद्यस्ति शूद्रशब्दस्य तदैव टाप् इति व्यवक्था वार्तिककृता कृता भवति । तत्र अमहत्पूर्वा इति विशेषणं व्यर्थम् । महाशूद्रशब्दस्य अजादिगणे पाठाभावादेव टापोऽप्रसक्तेः । न च शूद्रशब्दोऽजादिषु पठ्यते । तेन च तदन्तविधिना महासूद्रशब्दोऽपि गृह्येतेति वाच्यम् । ग्रहणवता प्रातिपदिकेन तदन्तविधः महाशूद्रशब्दोऽपि गृह्येतेति वाच्यम् । ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात् इत्याशङ्क्य स्त्रीप्रत्ययेषु तदन्तविधिरस्तीति ज्ञापनार्थं तदित्याह--शूद्रा चेति । तथा च तदन्तविधिना शूद्रशब्देनमहाशूद्रब्दोऽपि गृह्येतेति तध्द्यावृत्त्यर्थममहत्पूर्वग्रहणम् । ज्ञापनप्रयोजनं तु "भवती' इत्यत्र उगिदन्तात् भवच्छब्दात् यथा "उगितश्च' (सू.4-1-6) इति ङीप् तथा तदन्तविधिना उगिदन्तात् अतिभवच्छब्दादपि ङीप् भवतीति अतिभवतीति रूपसिद्धिः इति भावः । इहेति । स्त्रीप्रत्ययप्रकरण इत्यर्थः । झ्र्ज्ञा.ट टिड्ड्डत्ध्;ढाणञ् (सू.4-1-15) वामदेवाड्ड्डत्ध्;डड्डत्ध्;्यड्ड्डत्ध्;डड्डत्ध्;्यौ (सू.4-2-9) इति डिड्डत्ध्;त्त्वम् "अननुबन्धकग्रहणे न सानुबन्धकग्रहणम्' "तदनुबन्धकग्रहणे अतदनुबन्धकग्रहणं न' इति परिभाषयोः ज्ञापकम् । झ्र्ज्ञा.ट प्राग्दीव्यतोऽण् (सू.4-1-83)। अयमेव विकृतनिर्देशो ज्ञापयति--"एकदेशविकृतमनन्यव" दिति । झ्र्ज्ञा.ट ठपीलाया वा' (सू.4-1-118) इति वाग्रहणं ज्ञापकं "नापवादविष्येऽण् भवति' इति । झ्र्वि.ट ठप्राग्दीव्यतोऽण' (सू.4-1-83) इति सूत्रे किं प्राग्दीव्यतो याः प्रकृतयः ताभ्यः अण् इति विवक्षितम्, आहोस्वित् प्राग्दीव्यतो येऽर्थास्तेष्वण् इति विवक्षितम् । आद्यपक्षे अपवादभूत - इञादिविषयेप्यण्प्रसङ्गः । द्वयोरेकविषयत्वेन विकल्प एव स्यान्नबाध्यबाधकभाव इति । द्वितीयपक्षे अर्थेष्विदमण्विधानमिति प्रकृत्यन्तरे सावकाशोऽण्प्रत्ययः एकस्मिन्नर्थे प्रकृतिविशेषादुत्पद्यमानेनेञादिना बाध्येतेति न दोषो भवति । तत्र प्रथमपक्षेऽपि दोषो नास्तीति साधयितुमाह--पीलाया वेति वाग्रहणमिति । यद्यपवादविषयेऽप्यण् भवेत्, तर्हि "पीलया वा' इति सूत्रे वाग्रहणमनर्थकम् । पीलाशब्दात् अपत्यार्थे "द्व्यचः' (सू.4-1-121) इति अणपवादे ढकि प्राप्ते तदपवादतया पुनरण् विकल्पेन विधीयते "पीलाया वा' इति सूत्रेण । यद्यपवादविषयेष्वप्यण् स्यात् वाग्रहणं अथवा एतत्सूत्रमप्यन्तरेण अण्ढकोः विकल्पेन समावेशसिद्ध्या सूत्रं व्यर्थं भवेदिति अपवादविषये अण् न भवतीति ज्ञाप्यते । अतः इञादिविषये अणो न प्रसक्तिरिति भावः । झ्र्ज्ञा.ट प्राक् ठकः इति वक्तव्ये "प्राग्दीव्यतः' (सू.4-1-83) इत्युक्तिर्ज्ञापयति अर्थेष्वयमिति । झ्र्वि.ट ननु "प्राग्दीव्यतः' इत्यस्य स्थाने "प्राक्ठकः' इत्येव लाघवात् कुतो नोक्तम् । ठक्शब्देन च "प्राग्वहतेष्ठक्' (सू.4-4-1) इति सूत्रं परामृश्यते इत्याशङ्क्य--प्राग्दीव्यतो येऽर्थाः तेष्वण् भवतीति ज्ञापनार्थं प्राग्दीव्यत इत्युक्तम् । तेन "प्राग्दीव्यतः' (सू.4-4-2) इति सूत्रपूर्वभाविठगर्थेऽप्यण् भवतीति लभ्यते । तत्र च प्राक् ठक इत्युक्ते ठग्विषये अण् न प्राप्नुयादिति प्राग्दीव्यत इत्युक्तिश्चरितार्था । एवं ज्ञापनस्य प्रयोजनं तु समानेऽर्थे एकस्याः प्रकृतेर्द्वयोः अणञ्प्रत्ययोः प्रसक्तौ प्रकृत्यन्तरे सावकाशस्याणः इञ् बाधक इति
बाध्यबाधकभावो निर्णीतो भवतीति इत्याशयवानाह--प्राक् ठक इति वक्तव्य इति । अयमिति । अणित्यर्थः । झ्र्ज्ञा.ट यूनि लुक् (सू.4-1-90)।। "गोत्रोक्षोष्ट्र' (सू.4-2-39) इति वुञूविधौ राजन्यमनुष्यग्रहणं ज्ञापकं लौकिकं परं गोत्रमिति । युवा च लोके गोत्रमित्युपचर्यते । किं गोत्रोऽसि माणवक ! गार्ग्यायणः । झ्र्वि.ट ठयूनि लुक्' इति सूत्रस्य प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षिते युवप्रत्ययस्य लुग्भवति, तस्मिन्निवृत्ते सति यो यतः प्राप्नोति स ततो भवतीत्यर्थः । तस्य प्रयोजनपरिगणनवेलायां "इञ्ण्यौ सर्वत्र' इति वार्तिंकं प्रवृत्तम् । इञः उदाहरणम् औपगवीयाः इत । अत्र उपगोरपत्यमित्यण् औपगवः, ततः युवापत्ये इञि औपगविः, ततः छप्रत्यये विवक्षिते आदौ इञः युवप्रत्ययस्य लुक्, तस्मिन् लुप्ते छप्रत्ययः औपगवीयाः इति सिध्यति । अत्र लुकः किं प्रयोजनम् ? इञ्यलुप्तेऽपि वृद्धलक्षणे छे औपगवीया इति रूपसिद्धेरित्याशङ्कायां भाष्यकारेण--"वृद्धवदतिदेशे सति इञो गोत्र इत्यण् प्राप्नोति' इति प्रोक्तम् । तस्यायमर्थः---"प्राग्दीव्यतोऽधिकारे यूनो वृद्धवदतिदेशः' इति वार्तिकेन युवप्रत्ययस्य गोत्रवत्कार्यातिदेशात् इञो लुगभावे "इञो गोत्रे'(सू.4-2-112) इत्यण् प्रप्नुयात् । अस्माभिस्तु छप्रत्यय इष्यते । अतः इञो लुग्वक्तव्यः इति । तदुपरि "नैष दोषः, प्रत्याख्यायतेऽसावतिदेशः ' इति भाष्यम् । तथा च यूनो गोत्रवदतिदेशाबावात् इञः लुगभावेऽपि "इञो गोत्रे' इत्यण् न भविष्यति, अपि तु वृद्धलक्षणश्छ एव भविष्यतीतीष्टसिद्धेः "यूनि लुक्' इति लुकः औपगवीया इत्येतदुदाहरणं न भवितुमर्हतीति भाष्याशयः । ततः यदि यूनो वृद्धवदतिदेशः (गोत्रवदतिदेशः) प्रत्याख्यायते तदा गोत्रवदतिदेशस्य यानि प्रयोजनान्युक्तानि तेषां कंथ सिद्धिः इति शङ्कायां--"तानि ज्ञापकेन सिद्धानि' इति भाष्यकृता अभिहितम् । अयमत्राशयः--गार्ग्याणानां समूहः गार्ग्यायणकम्, गार्ग्यायणकानां किंचिद्गार्ग्यायणकम्, गार्ग्यायणो भक्तिरस्य गार्ग्यायणकः, गोत्रश्रयो वुञ् यथा स्यादिति यूनो वृद्धवदतिदेशस्य प्रयोजनान्युक्तानि । तत्र प्रथमे उदाहरणे गर्गस्यापत्यं गोत्रं गार्ग्यः गर्गादिभ्यो यञ् । गार्ग्यास्यापत्यं युवा गार्ग्यायणः "यञिञोश्च' (सू.4-1-101)इति फक् । ततः समूहार्थे "गोत्रोक्षोष्ट्रोरभ्र' (सू.4-1-39) इति वुञ्, गार्ग्याणकम् इति रूपं भवति । अत्र फकः युवप्रत्ययस्य गोत्रवद्भावे सत्येव ततः "गोत्रोक्षोष्ट्रोरभ्र' इति सूत्रेण समूहोर्थे वृञ् भवेत् इति । एतच्च अतिदेशस्य प्रयोजनं ज्ञापकेन साधयित्वा अतिदेशः प्रत्याख्यातः । तथा हि--"गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्' (4-2-39) इति सूत्रे राजन्यमनुष्यशब्दौ शास्त्रीयगोत्राभिधायिनौ । "राजश्वशुराद्यत्' (सू.4-1-161) इति सूत्रेण यत्प्रत्यये मनुष्यशब्दः सिध्यति । तत्र "गोत्रोक्षोष्ट्रो' इति सूत्रे गोत्रग्रहणेनैव राजन्यमनुष्याभ्यां वुञः सिद्धेः किं पृथक् राजन्यमनुष्यग्रहणेन । गृहीतौ तु ज्ञापयतः अपत्यधिकारादुत्तरं गोत्रग्रहणं लौकिकगोत्रपरमिति । लौकिकं च गोत्रमपत्यमात्रम् । किंगोत्रोऽसि माणवक! गार्ग्यायण इत्यादौ युवापत्येऽपि गोत्रशब्दस्य लोके प्रयोगात् । राजन्यमनुष्यशब्दौ च लौकिके प्रयोगे जातिविशेषवाचिनौ लौकिकगोत्राभिधायिनौ न भवत इति गोत्रग्रहणेन ग्रहीतुमशक्यत्वात् तयोः पृथग्ग्रहणम् । इत्थं च गार्ग्यायणशब्दस्य युवापत्यार्थकफक्प्रत्ययान्तस्यापि लौकिकगोत्रार्थकत्वात् गोत्रवद्भावातिदेशंविनापि गोत्रग्रहणेन ग्रहणात् ततः समूहार्थे "गोत्रोक्षो' इति सूत्रेण वुञः सिद्धत्वात् अतिदेशः प्रत्याख्यायत इति । तदेतत् सर्वं मनसिकृत्याह--इति वुञ्विधावित्यादिना । परमिति । अपत्याधिकारादुत्तरमित्यर्थः । झ्र्ज्ञा.ट अनृष्यानन्तर्ये (सू.4-1-104)।। ऋषावनन्तरे
नेत्यर्थः । गोत्र इत्यधिकारात् सिद्धे यदिमं प्रतिषेधं शास्ति तज्ज्ञापयति बिदादिषु येऽनृषयः (कथ्यन्ते)झ्र्पठ्यन्तेट तेषामनन्तरेऽपि वृत्तिर्भवतीति । झ्र्वि.ट ननु "अनृष्यानन्तर्ये बिदादिभ्योऽञ्' (सू.4-1-104) इति यथाश्रुतसूत्रात् बिदादिभ्योऽपत्यार्थेऽञ्प्रत्ययो भवति । ऋषीणामानन्तर्य अव्यवधाने तु न भवतीति अर्थः प्रतीयते । तथा सति कुशिकस्य गोत्रापत्यमित्यर्थ कुशिकशब्दादञि कौशिक इति रूपमिष्यते, तन्नसिध्यति । कुशिकोऽपि ऋषिः तस्य पुत्रः गाधिरपि ऋषिः तस्य पुत्रः विश्वामित्रोंऽपि ऋषिः इति ऋषीणामव्यवधानस्य सद्भावेन अनृष्यानन्तर्थ इति निषेधादित्याशङ्क्याह--ऋषावनन्तरे नेति । अनन्तरमेवानन्तर्यम् । ऋषावित्यवधेरधिकरणत्वविवक्षया सप्तमी । तथा च ऋषिभ्योऽनन्तरापत्ये अञ्प्रत्ययो न भवतीति अनृष्यानन्तर्ये इत्यस्यार्थः । कुशिकशब्दाद्गोत्रापत्ये अञो न कोऽप्युपरोध इति भावः । ननु "गोत्रे कुञ्जादिभ्यः श्चफञ्' ( सू.4-1-98) इति सूत्रात् गोत्रे इत्यस्यास्मिन् सूत्रेऽनुवृत्त्या गोत्रापत्य एवेदं सूत्रं प्रवर्तते । तत्रानन्तरापत्ये प्रसक्त्यभावात् अनृष्यानन्तर्य इति वचनमनर्थकमित्याशङ्क्याह-- गोत्र इत्यधिकारादिति । बिदादिगणे ऋषयः अनृषयश्च पठ्यन्ते । तत्रानृषिभ्यः अनन्तरापत्येऽप्यञ् भवतीति ज्ञापनार्थमनृष्यानन्तर्य इत्युक्तम् । तेन ननान्दुरनन्तरापत्यमित्यर्थे नानान्द्र इति अञ् सिध्यति । एवं पौत्रः दौहत्र इत्यपि सिध्यति । बिदादिगणपठितेभ्यः ऋषिवाचकशब्देभ्यस्तु गोत्रापत्य एवाञ् इत विषयव्यवस्था लभ्यत इति भावः । झ्र्ज्ञा.ट आरगुदीचाम् (सू.4-1-230)। रका सिद्धे आरग्वचनम् अन्यतोऽप्ययमिति ज्ञापयति । झ्र्वि.ट ननु गोधाशब्दात् "गोधाया ढ्रक्' (सू.4-1-129) इति सूत्रेण अपत्यर्थे ढ्रकं विधाय "आरगुदीचाम्' (सू.4-1-130) इति सूत्रेण उदीचां मते आरग्विहितः । गौधार इति रूपम् । अत्र गोधाशब्दस्याकारान्तत्वात् ततः रक्प्रत्ययेनापि गौधार इति रूपसिद्धः आरक्प्रत्ययविधानमनर्थकमित्याशङ्क्याह--रका सिद्ध इति । अनाकारान्तेभ्योऽपि शब्देभ्यः आरगिष्यते यथा मौण्डड्डत्ध्;ारः जाण्डड्डत्ध्;ार इति । रक्प्रत्ययान्ततया तु ते न सिध्यन्तीत्यारग्वचनमिति भावः । झ्र्ज्ञ.ट अतश्च (सू.4-1-177)।। अत इति तदन्ताग्रहणम्, अवन्त्यादिभ्यो लुग्वचनात् । झ्र्वि.ट ननु "अतश्च' इति सूत्रे इत्यस्य तद्राजविशेषणत्वात्तदन्तविधौ सत्यां अकारान्तस्य तद्राजसंज्ञकप्रत्ययस्य स्त्रियां लुग्भवतीत्यर्थो लभ्यते । ततश्च आम्बष्ठस्यापत्यं सौवीरस्यापत्यमित्यर्थे जनपदक्षत्रियोभयवाचिनः आम्बष्ठशब्दात् सौवीरशब्दाच्च "वृद्धेत्कोसलाजादाञ्ञ्यङ्' (सू.4-1-169) इति सूत्रेण ञ्यङि अकारान्तत्वेन आम्बष्ठ्या सौवीर्या इत्युभयत्रापि "अतश्च' (सू.4-1-177) इति लुक् प्राप्नोतीत्याशङ्क्याह--अत इति तदन्ताग्रहणमिति । तथा च "अतश्च' इति सुत्रे तदन्तविधिर्न भवति । अकाररूपस्य तद्राजस्य स्त्रियां लुक् इत्येव सूत्रार्थः । शूरसेनी इत्यादिकमुदाहरणम् । शूरसेनशब्दादञि तस्य लुग्भवति । ञ्यङ्स्तु अकारन्तत्वेऽपि अकाररूपत्वाभावान्न लुगिति भावः । तदन्तग्रहणं न भवतीत्यत्र ज्ञापकमाह--अवन्त्यादिभ्यो लुग्वचनादिति । "स्त्रियामवन्तिकुन्तिकुरुभ्यश्च' (सू.4-1-174) इति सूत्रेण अवन्त्यादिभ्यः परस्य तद्राजस्य ञ्यङः लुग्विधीयते । यदि "अतश्च' इति सूत्रे तदन्तविधिना अकारान्तस्य तद्राजस्यापि लुग्विधीयेत तदा अवन्त्यादिभ्यः परस्य ञ्यङोऽपि "अतश्च' इत्येनेनैव लुकि सिद्धे "स्त्रियामवन्ति' इति सूत्रं किमर्थम् । कृतं च तत्सूत्रं "अतश्च' इति सूत्रे तदन्तविधिर्नास्तीति ज्ञापयतीति भावः । झ्र्ज्ञा.ट ठन प्राच्यभर्गादियौधेयादिभ्यः'
(सू.4-1-178) इति प्रतिषेधो ज्ञापको भवति पर्श्वादिभ्यो लुगिति । झ्र्वि.ट ठअतश्च' (सू.4-1-177) इति सूत्रे "पर्श्वादिभ्यो लुग्वक्तव्यः'। "पर्शूः' इति भाष्यम् । तस्यायमर्थः पर्शोरपत्यं स्त्रीत्यर्थे पर्शुशब्दात् "ध्द्यञ्मगध' (सू.4-1-170) इति सूत्रेणाण् । तस्य "अतश्च' (सू.4-1-177) इति लुक् । ततः "पर्श्वादियौधेयादिभ्योऽणञौ' (सू.5-3-117) इति स्वार्थेऽण् । तस्य च भिन्नप्रकरणस्थत्वात् अप्राप्तो लुगनेन भाष्येण विधीयते । ततः "ऊङुतः' इत्यूङ् पर्शूरिति रूपसिद्धिरिति । इदं वचनं ज्ञापकेनैव लुक्सिद्धेः अनावश्यकमित्याशयेन्ह--न प्राच्येत्यादिना । यौधेयादिगणपठितेभ्यः शब्देभ्यः परस्य अकारस्य तद्राजस्य लुक् प्रतिषिध्यते । "न प्राच्यभर्गादियौधेयादिभ्यः' (4-1-178) इति सूत्रेण । यौधेयीत्युदाहरणम् । युधाया अपत्यं स्त्रीत्यर्थे "द्व्यचः' (सू.4-1-121) इति ढक् । ततः स्वार्थेऽञ् (5-3-117) तस्य लुकि प्रतिषिद्धे अञन्तलक्षणे ङीनि "शार्ङ्गरवाद्यञो ङीन् ' (सू.4-1-73) इत्यनेन कृते यौधेयीति भवति । यदि पाञ्चमिकस्यापि तद्राजस्य "अतश्च' इति लुङ् न स्यात् तदा प्रसक्त्यभावात् यौधेयादिभ्यो विहितस्याञो लुक्प्रतिषेघविधानमनर्थकं स्यादिति स प्रतिषेधः पर्श्वादिभ्यः परस्य अकारस्य लुग्भवतीति ज्ञापयतीत्यर्थः । ननु यौधेयशब्दात् ढक्प्रत्ययान्तात् अञं विनापि "टिड्ड्डत्ध्;ढाणञ्' (सू.4-1-15) इति ङीपि यौधेयीति रूपसिद्धेः अत्र अञः का आवश्यकता इति चेन्न । ङीपि सति उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम्, ङीनि त्वाद्युदात्तमिति स्वरे भेदसद्भावादित्याशयात् । ।। इति चतुर्थाध्यायस्य प्रथमः पादः ।। झ्र्ज्ञा.ट तदस्मिन्नस्तीति देशे (सू.4-2-67)।। "तदस्यास्त्यस्मिन्' (सू.5-2-94) इति द्विस्तद्ग्रहणाकारणात् क्कचिदेकयोगोऽप्यनुवृत्तिर्भवतीति ज्ञाप्यते । "तदधीते तद्वेद' (सू.4-2-59) इति तु प्रमादकृतमाचार्यस्य शक्यमकर्तुम् । झ्र्वि.ट ननु चातुरर्थिकप्रकरणस्यादौ "तदस्मिन्नस्तीति देशे तन्नाम्नि' (सू.4-2-67) "तेन निर्वृत्तम्' (सू.4-2-68) "तस्य निवासः' (सू.4-2-69) "अदूरभवश्च' (सू 4-2-70) इति चत्वारि सूत्राणि अर्थचतुष्टयप्रतिपादकानि पठ्यन्ते । तत्र किमिमानि चत्वार्थपि मिलित्वाएकं सूत्रम् उत पृथक् पृथक् इमानि चत्वारि सूत्राणि इति कंचिद्विचारं प्रस्तुतवान् भाष्यकारः । "देशे तन्नाम्नी' त्यस्य "तदस्मिन्नस्तीति' "तेन निंर्वृत्तं' "तस्य निवासः' "अदूरभवश्च' इति चतुर्ष्वापि संबन्धो भवति । तदस्मिन्नस्तीत्यर्थे अणादयो भवन्ति प्रत्ययान्तेन प्रकृतिनामके देशे गम्ये, तेन निर्वृत्तमित्यर्थे तृतीयान्तादणादयो भवन्ति तन्नाम्नि देशे गम्ये, तस्य निवास इत्यर्थ षष्ठयन्तादणादयो भवन्ति तन्नाम्नि देशे गम्ये, तस्य अदूरभव इत्यर्थे षष्ठ्यन्तादणादयो भवन्ति तन्नाम्नि देशे गम्ये इति क्रमेण चतुर्णामर्थः । उदुम्बराः सन्त्यस्मिन् देशे औदुम्बरः, कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी, शिबीनां निवासो देशः शैबः, विदिशायाः अदूरभवं नगरं वैदिशम् इत्युदाहरणानि । तत्र चतुर्णां मिलात्वा एकसूत्रत्वमिति पक्षे "देशे तन्नाम्नि' इत्यस्य चतुर्ष्ववयवेषु संबन्धो न स्यात् । न ह्येकयोगघटकस्यावयवस्य तद्धटकावयवान्तरेऽनुवृत्तिः संभवति । तथा सति "तदधीते तद्वेद' (सू.4-2-59) इति सुत्रे द्वितीयतच्छब्दस्य व्यर्थत्वात् । प्रथमतत्पदस्यैव वेद इत्यत्राप्यनुवृत्त्या इष्टलाभात् इत्याशङ्क्याह--तदस्यास्त्यस्मिन्नितीति । अयमाशयः । "तदस्यास्त्य स्मिन्नति मतुप्' (5-2-94) इति सूत्रे "तत्' इत्यस्य अस्मिन्नित्यत्राप्यनुवृत्तिं स्वीकृत्य तदस्मिन्नित्यर्थे मतुप् इति व्याख्यानमिष्यते । अत्र एकस्मिन्नेव सूत्रे तद्धटकभागान्तरे अस्मिन्नित्यत्र तद् इत्यस्यानुवृत्तिरिष्यते । एकयोगेऽनुवृत्त्यभावे हि तदस्यास्ति तदस्मिन्निमि मतुप् इति द्विस्तद्ग्रहणं कुर्यात् । यतस्यथा
न करोतिं अतो ज्ञापयति एकसूत्रेऽप्यस्त्यनुवृत्तिरिति । नन्वेवं सति "तदधीते तद्वेद' (4-2-59) इति सूत्रे द्वितीयतत्पदं व्यर्थमित्याशऱ्क्येष्टात्तिरित्याह--तदधीते इति । प्रमादकृतमिति । शिष्याणां सुखावबोघाय लाघवं प्रत्यनवधानलक्षणेन प्रमादेन कृतमित्यर्थः इति कैयटः । झ्र्ज्ञा.ट (कर्त्रादिभ्यो) झ्र्कत्त्र्यादिभ्योट (सू.4-1-95)।। अत्र ग्रामादित्यनुर्वच्य ग्रामाच्चेति वक्तव्यमिति प्रत्याख्यातम् । झ्र्वि.ट ठकत्र्यादिभ्यो ढकञ्' इति सूत्रे "ग्रामाच्चेति वक्तव्यम् । ग्रामेयक' इति वार्तिकम् । एतत्प्रत्याख्यातं भाष्ये--"तत्तर्हि वक्तव्यम् । न वक्तव्यम् । कत्त्र्यादिभ्यो ढकञित्यत्र ग्रामादित्येतदनुवर्त्तिष्यते' इति । तदाह--अत्र ग्रामादित्यनुर्वत्येति। "ग्रामाद्यखञौ' (सू.4-2-94) इति सूत्रादिति शेषः । ।। इति चतुर्थाध्यायस्य द्वितीयः पादः ।। झ्र्ज्ञा.ट विभाषा पूर्वाढद्धठ्ठड़14;ण (सू.4-3-24)।। "घकालतनेषु' (सू.6-3-17) इत्यलुग्वचनं ज्ञापयति सुबन्तात्तद्धितोत्पत्तिः इति । यद्यपि सार्मथ्यं सुबन्तेनैव तथापि प्रातिपदिकाधिकारात् तत एव संभाव्येतेत्यतो ज्ञापकसाध्यमेतत् । झ्र्वि.ट ठविभाषा पूर्वाढद्धठ्ठड़14;णापरढद्धठ्ठड़14;णाभ्याम्' इति सूत्रेण पूर्वाढद्धठ्ठड़14;णापराढद्धठ्ठड़14;णशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ तयोस्तुडड्डत्ध्;ागमश्च विधीयन्ते । पूर्वाढद्धठ्ठड़14;णेतनम् अपराढद्धठ्ठड़14;णेतनम् इत्युदाहरणम् । अत्र पूर्वाढद्धठ्ठड़14;णापराढद्धठ्ठड़14;णाभ्यां सप्तमीश्रवणार्थं तयोः सूबन्तत्वं वक्तव्यमिति वार्तिककारः अकथयत् । तस्य च"ङ्याप्प्रातिपदिकात्' (सू.4-1-1) इत्यधिकारात् प्रातिपादिकादेव तद्धित इत्याशयः । भाष्यकारस्तु सुबन्तात् तद्धितोत्पत्तिं ज्ञापकेन प्रसाध्य वार्तिकं प्रत्याचख्यौ । तदाह--घकालतनेष्विति । "धकालतनेषु कालनाम्नः' (सू.6-3-17) इति सूत्रेषकालवाचकशब्दात् परस्याः सप्तम्याः घकालनेषु परतः अलुग्वचनात् सूबन्तात् तद्धितोत्पत्तिरिति ज्ञाप्यते । कथमन्यथा सप्तम्या एवाभावात् लुकः अलुको वा प्रसक्तिः इति भावः । ननु न ज्ञापकसाध्यमेतत् । "समर्थानां प्रथमा' दित्यधिकारे तद्धितविधानात् "किं पुनः समर्थम् अर्थाभिधाने यच्छक्तं कृतवर्णानुपूर्वीकं पदम् ' इति समर्थसूत्रे भाष्योक्त्या सूबन्तपदादेव तद्धितोत्पत्तिलाभादित्यत्राह--यद्यपीति । तथापीत्यादि । ङ्याप्प्रातिपदिकादित्यप्यनुवर्तते तद्धितप्रकरणे । अतस्तदनुगुणतया समर्थशब्दार्थो वक्तव्यः । स च यतद् सुपि सति अर्थबोधे शक्तं तत्समर्थमिति । तथा च सुपि सति अर्खबोधे शक्तात् प्रथमात् प्रातिपदिकात् तद्धित इत्यर्थः । ततश्च प्रातिपदिकाभ्यां पूर्वाढद्धठ्ठड़14;णापराढद्धठ्ठड़14;णाभ्यां ट्युट्युलोः सतोः सप्तमीश्रवणं न स्यादिति पूर्वोक्तज्ञापकमहिम्ना सुबन्तात् तद्धितोत्पत्तिं प्रसाध्य "घकालतनेषु' इत्यनेन अलुका सप्तमीश्रवणं समर्थनीयमिति भावः । झ्र्ज्ञा.ट तस्य व्याख्यान (सू.4-3-66)।। व्याख्यानं शब्दग्रन्थविषय एव प्रसिद्धमिति भाष्ये । झ्र्वि.ट ननु "तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः' इति सूत्रेण व्याख्यातव्यवाचिनः षष्ठयन्तात् व्याख्यानेऽभिधेये यथाप्राप्तं तद्धितो भवतीति कथनात् सुपां व्याख्यानः सौपो ग्रन्थ इत्यादाविव पाटलिपुत्रस्य व्याख्यानी सुकोसला इत्यादावपि तद्धितः स्यात् ।यादृशः सुकोशलायां प्राकारदिसन्निवेशः तादृशः पाटलिपुत्रे इत्येवं पाटलिपुत्रं सुकोसलया व्याख्यायत इति सूत्रप्रवृत्तियोग्यतायाः सद्धावादित्याशङ्क्य, व्याख्यातव्यनाम्न इत्यत्र नामग्रहणात् व्याख्यातव्यत्वेन प्रसिद्धस्य शब्दात्मकस्य ग्रन्थस्य यन्नाम तत एव तद्धतिः अतो नोक्तदोष इत्याशयवानाह--व्याख्यानं शब्दग्रन्थविषय एवेति । शब्दात्मको यो ग्रन्थः तद्विषय एवेत्यर्थः । एवकारेण अशब्दात्मकपाटलिपुत्रादेः व्यवच्छेदः । झ्र्ज्ञा.ट
वासुदेवार्जुना (सू.4-3-98)।। अयमेव निर्देशो ज्ञापयति अभ्यर्हितं पूर्वमिति । वासुदेवेति च तत्र भगवतः संज्ञा । झ्र्वि.ट ननु "वासुदेवार्जुनाभ्यां वुन्' इति सूत्रे अर्जुनवासुदेवाभ्यामिति निर्देष्टव्यम् । अर्जुनशब्दस्य वासुदेवशब्दापेक्षया अल्पाच्तरत्वेन "अल्पाच्तरम्' (सू.2-2-34) इति सूत्रेण पूर्वनिपातप्राप्तेरित्याशङ्क्याह--अयमेवेति । न केवलम् अल्पाच्तरं पूर्वं प्रयुज्यते किंतु बढद्धठ्ठड़14;वचोऽपि अभ्यर्हितस्य पूर्वं प्रयोगो भवतीति ज्ञापनार्थमेवं निर्देशः । अर्जुनवासुदेवयोर्मध्ये वासुदेवोऽभ्यर्हितः, तस्य परमात्मत्वात् । अतः भगवद्रूपश्रेष्ठवाचिनो वासुदेवशब्दस्य पूर्वनिपातो युक्त इति भावः तेन तापसगिरी इत्यादि सिध्यति । झ्र्ज्ञा.ट अनुदात्तादेश्च (सू.4-3-140)।। भिक्षादिषु गर्भिणीशब्दपाठो ज्ञापयति यावत्येव द्वितीयस्वरस्य प्रादुर्भावस्तावत्येव पूर्वनिधातः (प्रतीक्षेत) झ्र्प्रवर्तेतट तर्हि गर्भशब्दादाद्युदात्तादिनि ततो ङीपि तदन्तादणेव प्राप्नोति नानुदात्तलक्षणोऽञिति तद्धैयर्थ्यं स्पष्टमेव । पदग्रहणं परिमाणार्थम् वाक्यस्य मा भूदिति । झ्र्वि.ट ठअनुदात्तादेश्च' इति सुत्रस्य अनुदात्तादेः प्रातिपदिकात् विकारावयवयोरर्थयोरञ्प्रत्ययो भवतीत्यर्थः । दाधित्थं कापित्थमित्यादिकमुदाहरणम् । तत्र च सूत्रे "अनुदात्तादेरञो विधाने आद्युदात्तान्ङीष उपसंख्यानम् ' इति वार्तिकम् । तस्य चायमर्थः--आद्युदात्तप्रकृतिकङीषन्तादप्यञ् भवति विकारावयवयोरर्थयोरिति वक्तव्यमिति । कुवल्या विकारः कौवलमित्युदाहरणम्, कुवलशब्दो "ग्रामादीनां च' (फिट्सूत्र) इत्याद्युदात्तः ततः गौरादित्वान्ङीष् । ततः विकारे अञ् । ननु आद्युदात्तात्कुवलशब्दान्ङीषि ङीषः प्रत्ययस्वरेम उदात्तत्बे शेषनिघातेन कुवलीशब्दस्यानुदात्तत्वं वर्तत इति सूत्रेणैवात्र अञः सिद्धेः वार्तिकस्य का आवस्यकतेति चेन्न । ङीषः उदात्तत्वेऽपि शेषनिधातस्यात्राप्रवृत्तेः । "अनुदात्तं पदमेकवर्जम्' (सू.3-1-158) इति हि, अत्र शेषस्यानुदात्तो वक्तव्यः । तच्च सूत्रं पदविषयम् । कुवलीशब्दश्च न पदम्, सूबन्तत्वाभावात् इत्याशयात् । तदुपरि "न वा समर्थस्यानुदात्तादित्वात् ' इति वार्तिकम् । तस्यचायमर्थः--"अनुदात्तादेः' इत्येतत् न ङ्याप्प्रातिपदिकात् इत्यस्य विशेषणम् । येन कुवलीशब्दस्य ङ्यन्तस्य पूर्वेक्तरीत्या अनुदात्तादित्वं नास्तीति कथं ततः अञ् स्यादिति शङ्काया अवसरो भवेत् । अप तु समर्थस्य विशेषणम् । समर्थ च सुबन्तमेव । ततश्च अनुदात्तादेः सुबन्तात् अञ् इति सूत्रार्थः । अतः कुवलीशब्दात् सुबुत्पत्त्यनन्तरं सुबन्तादञ् । सुबन्तस्य च पदत्वात् "अनुदात्तं पदमेकवर्जम्' इति सूत्रप्रवृत्त्या ईकार एकः उदात्तः अन्यत्सर्वमनुदात्तमिति कुवली ङस् इत्यस्य अनुदात्तादित्वासद्भावात् ततः अञि कौवल इति रूपं सिध्यति सूत्ररीत्यैवेति । भाष्यकारस्तु अनुदात्तादेरित्येतत् ङ्याप्प्रातिपदिकादित्यस्यैव विशेषणम्, न सुबन्तादित्यस्य । तथा सति वाचो विकारः इत्यत्रापि "सावेकाचः' (सू.6-1-186) इति विभक्तेरुदात्ततया सूबन्तस्यानुदात्तदित्वादञ् प्राप्नुयात् । तर्हि कुवली इति ङ्यन्तस्य पदत्वाभावेनशेपनिधाताप्राप्त्या अनुदात्तादितवा भावात् कथं ततः अञ् सिध्येदिति शङ्कायां एवं समाधीयते । कस्मिंश्चित् शब्दे यावत्येव द्वितीयस्य स्वरस्य प्रादुर्भावः तावत्येव पूर्वप्रवृत्तस्य स्वरस्य स्थाने अनुदात्तो भवतीत्याश्रीयते । कुवलशब्दः "ग्रामादीनां च' इति आद्युदात्तः । ततः ङीषि ईकारस्य उदात्तः । अस्मिन् द्वितींये स्वरे प्रादुर्भूते पूर्वस्याद्युदात्तस्य निवृत्तिः अनुदात्तश्च भवति । तथा च कुवलीशब्दस्यानुदात्तादित्वात् सूत्रेणैव अञ् सिध्यति । यावत्येव द्वितीयस्य स्वरस्येत्याद्याश्रयणे किं प्रमाणमिति चेत-- भिक्षादषिु गार्भिणीशब्दपाठ इति गृहाण । गर्भिणीनां समूह इत्यर्थे
"अनुदात्तादेरञ्' (सू.4-2-44) इत्यञि प्राप्ते तदपवादतया अण्सिद्ध्यर्थं भिक्षादिगणे (सू.4-2-38) गर्भिणीशब्दः पठ्यते । यदि पदस्य निघातः तर्हि तत्पाठो व्यर्थः । तथा हि हर्भशब्दः "अर्तिगॄभ्यां मन्' (उ.सू. ) इत्युणादिसूत्रेण मन्नन्तत्वात् आद्युदात्तः । ततः इन् । ततः नान्तलक्षणः ङीप् । गर्भिणी इति ङ्यन्तस्य सूबन्तत्वाभावेन पदत्वभावात् "अनुदात्तं पदम् ' इति सूत्रप्रवृत्तौ आद्युदात्तत्वं गर्भिणीभब्दस्य नापैतीति "अनुदात्तादेरञ्' इति सूत्राप्रवृत्त्या किंभिक्षादिषु गर्भिणीशब्दस्य अञ्बाधनार्थपाठेन । कृतश्च पाठः ज्ञापयति यावत्येव द्वितीयस्य स्वरसय प्रादुर्भावः तदैव पूर्वप्रवृत्तस्वरः निघातो भवतीति । तथा च इन्स्वरकाले पूर्वप्रवृत्तः आद्युदात्तः निघातो भवतीति अनुदात्तादित्वलक्षणाञ्प्राप्तौ तद्बाधनाय गर्भिणीशब्दस्य भिक्षादिगणे पाठः चरितार्थः । प्रयोजनं तु कौवलइत्यादावञ्सिद्धरत प्रत्यपादयत् । सर्वमेतन्मनसिकृत्याह--भिक्षादिष्विति । यावत्येवेति यदैवेत्यर्थः । तावत्येवेति । तदैवेत्यर्थः । तर्हीति । अन्यथेत्यर्थः । अनुदात्तलक्षणोऽञिति । "अनुदात्तादेरञ्' (सू.4-2-44) इति सूत्रेणेति शेषः । तर्हि "अनुदात्तं पदमेकवर्जम्' (सू.6-1-158) इति सूत्रे पदग्रहणमनर्थकम् । सुबनत्पत्तेः पूर्वमपि द्वितीयस्वरप्राप्तिकाले शेषनिधातस्योपपादितत्वादित्यत आह--पदग्रहणमिति । परिमाणार्थमिति । यस्य पदत्वं भविष्यति तस्यैव एकवर्जमनुदात्तं यथा स्यात् पदसमूहस्य मा भूदित्येतदर्थं पदग्रहणमिति भावः ।। इति चतुर्थोऽध्यायः ।