ज्ञापकसंग्रहः/प्रथमोऽध्यायः
ज्ञापकसंग्रहः प्रथमोऽध्यायः [[लेखकः :|]] |
द्वितीयोऽध्यायः → |
।। श्रीः ।।
।। ज्ञापकसंग्रहः ।।
प्रथमोऽध्यायः
अइउण् ।1। अकारो विवृत उपदिष्टः प्राक्रियादशायां चेत्यत्र "अ अ' (सू.8-4-68) इति प्रत्यापत्तिवचनं ज्ञापकम् । विवृतिः वृषशिखरिनिवासः श्रीनिवासः श्रितानामभिमतफलदाने कल्पवृक्षातिशायी । अहरहरुपयातैः सेव्यमानोऽर्थिबृन्दैः कलयतु कुशलं नः कोऽपि कारुण्यराशिः ।। 1 ।। अनेकतन्त्रनिष्णातान् नित्यं शिष्यहितोद्यतान् । महानुभावधौरेयान् नमामि शिरसा गुरून् ।। 2।। नागेशभट्टसुधिया बद्धो ज्ञापकसंग्रहः । पार्थसारथिना पूर्वमान्ध्रलिप्यां प्रकाशितः ।। 3 ।। प्राज्ञेनाज्ञापितस्तेन तस्य व्याख्यां समारभे । शब्दैः परिमितां नार्थैः विदुषां चित्तरञ्जनीम् ।। 4 ।। व्याजेनानेन भाष्यादिग्रन्थालोडड्डत्ध्;नजा मतेः । शुद्धिः संजायते या सा कृतेरस्याः परं फलम् ।। 5 ।। तत्रभवान् पदवाक्यप्रमाणपारावारीणो नागेशभट्टः परिभाषाव्यतिरिक्तानि महाभाष्ये तत्र तत्र स्थितानि ज्ञापकसिद्धवचनानि संकलय्य ज्ञापकसंग्रहनामानं ग्रन्थं कर्तुमारभमाणः प्रथमं वचनमाह---अकारो विवृत इति । "अइउण्' इति सूत्रे अकारो विवृततयोपदेष्टव्यः आकारग्रहणार्थम् इति वार्तिककारेणोक्ते किं पुनरिदं सूत्रकारेणैव कृतस्योपदेशस्य वार्तिककारेण प्रयोजनमुच्यते, उताकृत एव विवृतोपदेशो वार्तिककृता कर्तव्यत्वेनोपन्यस्त इत्याक्षेपे सति भाष्यकार आह---"विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते । कथं ज्ञायते यदयं "अ अ' इत्यकारस्य विवृतस्य संवृतताप्रत्यापत्तिं शास्ति' इति । अस्यायमाशयः--स्वभावतः संवृतस्याकारस्य प्रक्रियादशायां विवृतत्वमापन्नस्य प्रयोगकाले पुनः संवृतत्वप्राप्तिः "अ अ' इति सूत्रेण प्रतिपाद्यते । इदं च सूत्र शास्त्रान्ते विद्यते । अतस्तत्सूत्रात्प्राक्तनेषु प्रक्रयिादशापरेषु सूत्रेषूपदिश्यमानः अकारः विवृत इत्यवगम्यते । तथा च विवृततया उपदिश्यमानस्य अकारस्येव वार्तिककृता प्रयोजनमाख्यायत इति विषये "अ अ' इति सूत्रं नोक्तविषये ज्ञापकम्, तस्य प्रयोजनान्तरसद्भावात् । तथा हि---"अतिखट्वः, अतिमालः' इत्यादौ "गोस्त्रियोरुपसर्जनस्य' (सू 1-2-48) इति सूत्रेण विधीयमानः आकारस्य ढद्धठ्ठड़14;नस्वः स्थानिनः आकारस्य विवृतत्वात् तदान्तर्यात् विवृतो भवेत् इति स संवृत एव यथा स्यादित्येवमर्थं "अ अ' इति सूत्रमिति कथं तज्ज्ञापकं भवेत् इति चेत्--न । यदि हि लोके वेदे वा कुत्रापि विवृतोऽकारो भवेत् तदा आकारस्य स्थाने भवन् ढद्धठ्ठड़14;नस्वः स्थानित आन्तर्यात् विवृतो बवेत् । न हि विवृतोऽकारः कुत्राप्यस्ति । अपि तु संवृत एवास्ति । तथा च संवृत एव अकारो भविष्यति इति "अ अ' इति सूत्रं न अतिखट्व इत्यादौ ढद्धठ्ठड़14;नस्वस्य संवृतत्वफलकम् । ततश्च शास्त्रान्ते प्रक्रियासिद्ध्यनन्तरमकारस्य संवृतत्वं विदधत्सूत्रं पूर्वसूत्रेषु विवृतोऽकार एवोपदिष्टः प्रत्येतव्य इति ज्ञापयति । ततश्चोपदिष्टस्यैव विवृतस्य प्रयोजनमन्वाख्यायते वार्तिककारेणेति सिद्धम् । प्रत्यापत्तिः---स्वभावतः संवृतस्य विवृतत्वं प्राप्तस्य पुनः स्वस्वभावभूतसंवृतत्वप्राप्तिः । "प्रक्रियादशायामकारो विवृत उपदिष्ट इत्यत्र अ अ इति प्रत्यापत्तिवचनं ज्ञापकमित्यन्वयः । झ्र्ज्ञाट ऋलृक् ।। 2 ।। प्रकृतिवदनुकरणं भवति । "क्षियः'(सू.6-4-59) इत्यादावियङ्निर्देशात् । झ्र्वि.ट ऋलृक् इति सूत्रे लृकारोपदेशप्रयोजनकथनावसरे अशक्तिजानुकरणमेकं प्रयोजनमुक्तं भाष्ये । तथाहि - कयाचित् ब्राह्मण्या ऋतक इति प्रयोक्तव्ये अशक्त्या यो लृतक इति प्रयोगः तस्य यत्
ब्राह्मण्य्लृतक इत्याह इत्यनुकरणं तदशक्तिजानुकरणमित्युच्यते । तत्र ब्राह्मणीअलृतक इति स्थिते लृकारस्याच्त्वात् तस्मिन् परतः "इको यणचि' (सू.6-1-77) इति सूत्रेण ईकारस्य यणि ब्राह्मण्य्लृतक इति भवति । यदि तु ऋलृक्सूत्रे लृकारो नोपदिश्येत ऋक् इत्येवोच्येत तदा लृकारस्याच्त्वा भावात् इको यणचीति सूत्रं न प्रवर्तेत । अतो लृकारोपदेशः कर्तव्यः इत्युक्त्वा तस्य प्रत्याख्यानं कृतम् । तथाहि "प्रकृतिवदनुकरणं भवति' इति परिभाषा भवति । तस्याश्च, अनुकरणं प्रकृतिवत् अनुकार्यतुल्यं भवति, अनुकार्ये यत्कार्यं भवति अनुकरणेऽपि तद्भवति इत्यर्थः । अत्र चानुकार्य ऋतकशब्दः अनुकरणम्लृतकशब्दः । अनुकार्य ऋतशब्दे परतः ऋकारस्याच्त्वात् "इको यणचि (सू.6-1-77) इति सूत्रं यथा प्रवर्तते तथा अनुकरणे लृतकशब्देऽपि तत्सूत्रं प्रवर्तते इति यणादेशसिद्धया लृकारोपदेशो मास्तु इति भावः । "प्रकृतिवदनुकरणं भवति' इत्यत्र ज्ञापकं तु "क्षियोदीर्घात्'(सू.7-2-46) इत्यादावियङ्निर्देशः । तथा हि सूत्रस्थः "क्षि' शब्दः धातुपाठस्थस्य क्षि इत्यस्यानुकरणम् । अनुकरणशब्दस्य क्रियावाचित्वाभावेन धातुत्वाभावात् "अचिश्नुधातुभ्रुवाम्'(सू.6-4-77) इति सूत्रेणेयङ् दुर्लभः । इयङ् तु निर्दिष्टः पाणिनिना । तेनेदं ज्ञायते यत् प्रकृतिवदनुकरणंभवतीति । तथा च क्षिधातोर्भवन् इयङ् तदनुकरणात् क्षिशब्दादपि भवितुमर्हतीति स्वांशे चरितार्थताः । पचन्तु पचन्तु इति द्विवारं केनचिदुक्ते तस्यानुकरणं "द्विः पचन्तु' इति । अस्य पचन्तुशब्दस्य क्रियासाधनाद्यवाचकत्वाक्तिङन्तत्वं नास्तीति "तिङ्ङतिङः'(सू.8-1-27)इति सूत्रेण अतिङन्तात् परं तिङन्तमनुदात्तमित्यर्थकेन विधीयमानः निघातस्वरः न स्यात् । प्रकृतिवदनुकरणं भवतीति वचने स्वीकृते तु अनुकार्ये पचन्तु इति तिङन्ते निघातवत् अनुकरणे पचन्तुशब्देऽपि स स्वरः सेत्स्यतीति । झ्र्ज्ञादृट एओङ् ।। 3 ।। गोनौग्रहणात् ज्ञापकात् नाव्यपवृक्तस्यावयवस्य तद्विधिरिति । (3) झ्र्विदृट ठएओंङ्' इति सूत्रे य एते आकरादिष्कारसदृशा अवयवाः, ऋकारलृकारयो रेफलकारसदृशाववयवौ, सन्ध्यक्षरेषु ए ओ ऐ औ इत्येतेषु अकारेकारोकारसदृशा अवयवाः तत्र केवलवर्णानामकारदीनां विधीयमानं कार्यं भवति न वेति विचारे, यदि वर्णावयवान् वर्णग्रहणेन गृहीत्वा तत्रवर्णकार्यं क्रियेत तदा अग्ने इन्द्रम् वायो उदकमित्यादौ एकारोत्तरभागस्य इकारस्य इकारग्रहणेन ग्रहणात् तस्य इन्द्रमिति सवर्ण-इकारपरकत्वात् ओकारस्थस्य उकारस्य सवर्णोकारपरकत्वाच्च "अकः सवर्णे दीर्घः' (सू.6-1-101) इति दीर्घः प्राप्नोतीति दोषमाशङ्क्य तत्परिहाराय इदं वचनमुपात्तम् "नाव्यपवृक्तस्यावयस्य तद्विधिरिति ।' अव्यपवृक्तस्य योऽवयवस्तस्येति व्यधिकरणे षष्ठ्यौ । अव्यपवृक्तस्य---अभिन्नबुद्धिविषयस्य एकत्वविषयकबुद्धिग्राह्यस्य एकमित्याकारकबुद्धिविषयस्य समुदायस्य योऽवयवः तस्य तद्विधिः---पृथग्भूतवर्णविधिर्न भवतीति उक्तवचनस्यार्थः । एवं च "ए इत्यक्षरमेकं' इति बुद्धिगृहीते ए इति समुदायेऽवयवः य इकारस्तस्य, समुदायाघटकस्य इकारस्य यो विधिः सवर्णदीर्घादिः स न भवतीति अग्ने इन्द्रमित्यादौ सवर्णदीर्घापत्तिदोषो नेत्यर्थः । उक्तवचने ज्ञापकमाह गोनौग्रहणादिति । अयमाशयः--"गोध्द्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत्'(सू.5-1-39) इति सूत्रस्थं गोग्रहणम्, "नौध्द्यचष्ठन्'(सू.4-4-7) इति सूत्रस्थं नौग्रहणं चोक्तवचने ज्ञापकम् । तत्र प्रथमसूत्रस्य गोशब्दात् अच्द्वययुक्ताच्च शब्दात् तस्य निमित्तं संयोग उत्पातो वेत्यर्थे यद्भवति इत्यर्थः । गव्यं धन्य इत्युदाहरणम् । तत्र गोशब्दे य ओकारः अकारउकरसमुदायरूपः तदवयवयोः अ उ अनयोः
पृथग्भूताकारग्रहणेन उकारग्रहणेन च ग्रहणे सति गोशब्दस्य ध्द्यच्कत्वात् ध्द्यच इत्यनेनैव ग्रहणे सिद्धे गोशब्दग्रहणं व्यर्थं सत् समुदायावयवस्य वर्णग्रहणेन ग्रहणं नेति ज्ञापयति । एवं द्वितीयसूत्रस्य नौशब्दात् ध्द्यच्कशब्दाच्च तरतीत्यर्थे ठन् भवतीत्यर्थः । नाविकः घटिक इत्युदाहरणम् । तत्र नौशब्दे औकारस्य वर्णद्वयसमुदायरूपत्वेन ध्द्यच्कत्वं अस्तीति ध्द्यच इत्यनेनैव तस्य ग्रहणे सिद्धे नौग्रहणमपि व्यर्थं सत् उक्तवचनं ज्ञापयति। ज्ञापिते च तस्मिन् ओकारऔकारयोः वर्णद्वयरूपतया ग्रहणाभावात् ध्द्यच्कत्वं नास्तीति पृथक् गोनौग्रहणमिति स्वांशे चारितार्थ्यम् । ज्ञापनफलं तु अग्ने इन्द्रमित्यादौ सवर्णदीर्घाभाव इति पूर्वोक्तमेवेति । झ्र्ज्ञादृट वर्णौकदेशानां वर्णग्रहणेनाग्रहणमिति पक्षे क्षुभ्नादिषु तृप्नोतिशब्दपाठात् ऋवर्णान्नस्य णत्वं ज्ञाप्यते । झ्र्विदृट ऋलृक्सूत्रे आकारादिसन्ध्यक्षरैकदेशभूतानां पृथग्भूतवर्णग्रहणेनाग्रहणमिति पक्षे मातॄणामित्यत्र णत्वं न सिध्याति । मातृ नाम् इति स्थिते ऋकारात्परस्य नकारस्य णत्वविधायकसूत्राभावात् । ग्रहणपक्षे तु ऋकारमध्यस्थरेफात्परत्वमादाय "रषाभ्यां नो णः' (सू.8-4-1) इति सूत्रेण णत्वं भविष्यति इत्याक्षेपे अग्रहणपक्षेऽपि ऋवर्णात्परस्य नस्य णत्वं ज्ञापकात् साध्यते । तथा हि---क्षूभ्नादिगणे नृनमनशब्दः पठितः । तत्प्रयोजनं तु "क्षुभ्नादिषु च'(8-4-39) इति सूत्रेण ऋकारात्परस्य नस्य णत्वनिषेधः । यदि तु ऋवर्णात्परस्यनस्य णत्वं प्रापकसूत्राभावात् न भवेत् तर्हि णत्वप्राप्त्यभावात् तन्निषेधफलकः क्षुभ्नादिगणे पाठः व्यर्थः स्यात् । न च नार्नमनिः इत्यत्र रेफात्परस्य नस्य णत्वनिषेधार्थं तस्य तद्गणे पाठ इति वाच्यम् । एवमपि तृप्नोतिशब्दस्य तद्गणे पाठस्योक्तवचनज्ञापकत्वात् । तृप्नोतिशब्दे ऋवर्णात्परस्य नस्य णत्वाभावे प्राप्त्यभावान्निषेधो व्यर्थरसन् ज्ञापयत्येव ऋवर्णान्नस्य णत्वं भवतीति । झ्र्ज्ञा.ट अच्तध्द्याप्यप्रत्याहारेष्वितां न ग्रहणम् । "उणादयः'(सू.3-3-1) इत्यादिज्ञापकात् । (सू 5) झ्र्वि.ट अच् प्रत्याहारे तध्द्याप्येषु अक् इक् इत्यादिप्रत्याहारेषु च मध्यवर्तिनामित्संज्ञकानां वर्णानां णकारककारदीनां ग्रहणं न भवति । उणादय इति निर्देशात्। अजादिप्रत्याहारेण यदि मध्यवर्तिनां इतामपि ग्रहणम् तदा णकारस्याप्चच्त्वात् "उण्' शब्दे अचि णकारे परे इकः उकारस्य यणि व्णादयः इति निर्देष्टव्यं भवेत् । यतोऽच्कार्यं यणं विना उणादय इति निर्दिष्टम् अतः प्रत्याहारेष्वितां न ग्रहणमितिं ज्ञाप्यते इत्यर्थः । तेन श्रीकान्त इत्यादौ ईकारस्य न यण् । अत्र हलादिप्रत्याहारमध्यवर्तिनामपि इतां ग्रहणं नेष्यते । एवं स्थिते अच्तद्वयाप्यप्रत्याहारेष्विति कुतः प्रोक्तमिति न जानीमः । अत एव कौमुद्याम् "प्रत्याहारेष्वितां न ग्रहणम्' इत्येवोक्तम् । वस्तुतस्तु अच्प्रत्याहारे इतां ग्रहणं न इत्येव ज्ञापकसिद्धं वचनम्, न तत्र तध्द्याप्य इत्यस्य प्रवेशः । न च अगादिप्रत्याहारे इतः ग्रहणापत्तिरिति वाच्यम् । हल्षु उच्चारणार्थाकारोच्चारणेनोच्चारणार्थवर्णहीनहलां हल्घटितप्रत्याहारे ग्रहणाभावस्य वक्तुं शक्यत्वात् । अत एव "प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न' इति श्लोकवार्तिके "अज्ग्रहणेषु' इत्येवोक्तम् इति सुधीभिराकलनीयम् । स्पष्टं चेदं कैयटे ।। झ्र्ज्ञा.ट हयवरट् ।। 5 ।। "हलो यमां यमि'(सू.8-4-64) "झरो झरि'(सू.8-4-65) विभाषानुवृत्तौ "शरोऽचि'(सू.8-4-49) इति द्वित्वनिषेधो ज्ञापकः । व्याख्यानं वा शरणम् । झ्र्वि.ट हयवरट्सूत्रे अन्तः स्थानां यरलवानामण्सूपदेशः किमर्थ इति पृष्ट्वा "सँय्यन्ता' इत्यत्र सम् यन्ता इति स्थिते मकारस्य "मोऽनुस्वार' (सू.8-3-23) इत्यनुस्वारे तस्य परसवर्णे च कृते सँय् यन्ता इत्यत्र पूर्वयकारस्य यर्ग्रहणेन ग्रहणात् "अनचि च'
(सू.8-4-47) इति द्वित्वे त्रियकारं रूपं सिद्ध्यति । अन्तः स्थानामण्सूपदेशाभावे यकारस्याण्त्वाभावात् सः अणुदित्सूत्रेण सवर्णानुनासिकयकारग्राहको न भवतीति पूर्वस्यानुनासिकयकारस्य यर्ग्रहणेनाग्रहणात् द्वित्वं न भवेत् । अतो द्वित्वसिद्ध्यर्थं यकारदीनामुपदेशः । ननु माभूदत्र द्वित्वम् । न च सति द्वित्वे त्रियकारं द्वित्वाभावे द्वियकारमिति रूपभेदात् द्वित्वमावश्यकमिति वाच्यम् । द्वित्वे सत्यपि यकारत्रये मध्ययकारस्य "हलो यमां यमि लोपः' (सू.8-4-64) इति सूत्रेण लोपात् द्वियकारस्यैव रूपस्य सिद्धेः इति चेत्-स्यादेतदेवम् यदि "हलो यमां यमीं' ति लोपो नित्यः स्यात् । स तु वैकल्पिकः । तथा च द्वित्वे सति यकारलोपपक्षे द्वियकारम्, लोपाभावपक्षे त्रियकारमिति रूपभेदसिद्धये द्वित्वमावश्यकम् । तच्च पूर्वोक्तरीत्या अन्तरस्थानामण्सूपदेशे सत्येव घटत इति भाष्यकारेणोक्तम् । तदुपर "हलो यमां यमि'(सू.8-4-64) इति लोपो वैकल्पिक इति कथं ज्ञायते इति शङ्कायामाह वार्तिककारः--- "अनुवर्तते विभाषा शरेऽचि यद्वारयत्ययं द्वित्वम्' इति । अस्यार्थः--"झरो झरि सवर्णे' (सू.8-4-65) इति सूत्रे "झयो होऽन्यतरस्याम्' (सू.8-4-62) इति सूत्रात् अन्यतरस्यामित्यनुवर्तते इत्यवश्यं वाच्यम् । अन्यथा "शरोऽचि' (सू.8-4-49) इति द्वित्वनिषेधो व्यर्थः स्यात् । "शरोऽचि' इत्यनेन हि अचो रहाभ्यां द्वे' (सू.8-4-46) इति सूत्रप्राप्तं द्वित्वं निषिध्यते । अत्रेयमाशङ्का-अस्त्वत्र द्वित्वम् । द्वित्वे कृते चतूर्ष्षु इति स्थिते "झरो इरि सवर्णे' इति प्रथमषकारस्य लोपे इष्टं रूपं सिद्ध्यत्येव । अतः "शरोऽचि'(सू.8-4-49) इति सूत्रं व्यर्थमिति । तत्रेदं समाधानं वक्तव्यम् यत् "झरो झरि ' इति सूत्रे विकल्पानुवृत्तिं ज्ञापयतीदं सूत्रम् । तथा च द्वित्वे कृते लोपस्य वैकल्पिकत्वात् लोपपक्षे एकषकारं लोपाभावपक्षे द्विषकारमिति रूपद्वयं भवेत् । अस्माकं तु चतुर्षु तु चतुर्षु इति एकषकारमेव रूपमिष्यते । अतः "शरोऽचि' इति द्वित्वनिषेधकं सूत्रमिति सूत्रसार्थक्यमिति । इत्थं च "शरोऽचि' सूत्रेण "हलो यमां यमि'(8-4-64) इति सूत्रेऽपि अन्यतरस्यामित्यनुवर्तत इति सिद्ध्यति । ततश्च सँयन्ता इत्यत्र यकारस्य द्वित्वे हलो यमामिति लोपपक्षे द्वियकारं लोपाभावपक्षे त्रियकारमिति भेदसिद्धये अन्तः स्थानामण्सूपदेश इति प्रघट्टकार्थः । तदेतत् सर्वं मनसिकृत्य "हलो यमां यमि' "झरो झरि' इति सूत्रद्वयमुपादाय ततः विभाषानुवृत्तौ इति कथितवान् । नन् तत्रेवोपसंहारभाष्ये---"तदेतदत्यन्तसंदिग्धमाचार्याणां वर्तते विभाषानुवर्तते न वेति' इति कथितम् । तथा च कथमेतदित्याशङ्क्याह--व्याख्यानं वा शरणमिति । सर्वत्र च सन्दिग्धस्थले इयं परिभाषोपतिष्ठते "व्याख्यानतो विशेषप्रतिपत्तिर्न हि संदेहादलक्षण'मिति ।तथा च पूर्वौक्तसूत्रयोः विभाषानुवर्तते इति व्याख्यास्यामः । अतो न कोऽपि दोष इति भावः । झ्र्ज्ञादृट लण् ।। 6 ।। "ढ्रलोप' इत्यत्र पूर्वेणाण्ग्रहणं न परेण । "अचश्च (सू.1-2-28) इत्युपस्थित्यैव सिद्धे अण्ग्रहणात् । झ्र्विदृट ठलण्' सूत्रे एवं विचारः प्रवृत्तः । णकाररूपः इत् द्विरनुबध्यते "अइउण्' इत्यत्र "लण्' इत्यत्र च । तत्र अण् इण् प्रत्याहारयोः सन्देहो भवतिं किं पूर्वेण णकारेणायं प्रत्याहार उत परेणेति । अस्मिन् सन्देहे वार्तिककारः यत्र यत्राण्ग्रहणमिण्ग्रहणं च वर्तते तत्र सर्वत्र ज्ञापकमहिम्ना निर्णयः कर्तुं शक्य इत्युक्तवान् । तानिंस्थलानि सङ्कलय्योपन्यस्यति--"ढ्रलोप' इत्यादिना । "ढ्रलोपे पूर्वस्य दीर्घेऽणः'(सू.6-3-211) इति सूत्रे अण् किं पूर्वणकारेण प्रत्याहारः उत परेण लण्सूत्रस्थणकारेणेति संदेहः । पूर्वेणाण्ग्रहणं न परेणेति निर्णयः । किं तत्र प्रमाणमित्यत्राह--अचश्चेति । अयमाशयः । यदि ढ्रलोपसूत्रे अण्परेण प्रत्याहारः स्यात् तदा अण्
इत्यनेन अ इ उ ऋ लृ ए ओ ऐ औ ह् य् व् र् ल् इत्येतान्यक्षराणि विवक्षितानि स्युः । तत्रच दीर्घयोग्यता औकारपर्यन्तानामेव । ततश्च अणो दीर्घ इत्युक्ते अचो दीर्घ इत्येव फलितम् । एवं सति ढ्रलोपसूत्रेऽण्ग्रहणं व्यर्थम् । "अचश्च (सू.1-2-28) इति परिभाषासूत्रेण ह्रस्वदीर्धप्लुतशब्दैर्यत्राज्विधीयते तत्र अच इति षष्ठ्यन्तं पदमुपतिष्ठत इत्यर्थकेन अच इति पदोपस्थित्यैव अचो दीर्घलाभात् । अतो अण्ग्रहणं व्यर्थं सत् ज्ञापयति अत्र सूत्रे पूर्वेणैव प्रत्याहार इति । तथा चात्र सूत्रे अइउ इत्येतेषां त्रयाणामेव दीर्घोऽभिप्रेतः । स च अच इति पदोपस्थितौ न लभ्येत । अतः अण्ग्रहणमिति स्वांशे चारितार्थ्यम् । आतृढ इत्यादौ दीर्घाभावः प्रयोजनं इति । नन्वेवमपि "केऽणः'(सू.7-4-13) इति सूत्रे अण् पूर्वेण परेण वा इति संदेह इत्यत्राह--- झ्र्ज्ञादृट अत एव "केऽण' (सू. 7-4-13) इत्यत्राण् पूर्वेणैव । झ्र्विदृट अत एवेति । अच इत्युपस्थित्या सिद्धत्वादेवेत्यर्थः । अयं भावः--"केऽणः' इति सूत्रण कप्रत्यये परतः अणो ह्रस्वो विधीयते । ज्ञका कुमारिका इत्युदाहरणम् । तत्राण् यदि परेण प्रत्याहारः तदा लण् पर्यन्तवर्णेषु अचामेव ढद्धठ्ठड़14;नस्वयोग्यता वर्तत इति अचामेव ह्रस्वो विधित्सितो भवेत् । तथा सति अच इति षष्ठ्यन्तपदोपस्थित्यैव अचो लाभे अण्ग्रहणं व्यर्थं भवेत् । अतो ज्ञापयति अण् अत्र सूत्रे पूर्वेणैवेति । प्रयोजनं तु गोका नौकेत्यादौ ह्रस्वाभावः । अन्यत्सर्वं पूर्ववत् । नन्वेवमपि "अणोऽप्रगृह्यस्यानुनासिकः' (सू.8-4-57) इति सूत्रे अण् पूर्वेण परेण वेति संदेह इत्यत्राह-- झ्र्ज्ञा.ट अणोऽप्रगृह्यस्येत्यत्रापि अच इति वक्तव्ये अण्ग्रहणात्पूर्वेणैव । झ्र्वि.ट अणोऽप्रगृह्यस्य इति । "अणोऽप्रगृह्यस्य' इति सूत्रेणावसाने अप्रगृह्यस्याणोऽनुनासिको विधीयते । तत्राण् यदि परेण प्रत्याहारः तदा अच इत्येव ब्रूयात् । न च हयवरलानामपि अनुनासिकविधानार्थं अण इत्युक्तमिति वाच्यम् । अप्रगृह्यपदेन नञिवयुक्तन्यायेन प्रगृह्यभिन्नस्य प्रगृह्यसदृशस्य च ग्रहणात् अच एव प्रगृह्यसंज्ञासद्भावात् प्रगृह्यभिन्नः अच्त्वेन तत्सदृशः अजेव अप्रगृह्याण्पदेन ग्रहीतुं शक्येतेति अच इति वक्तव्ये अण इत्युक्तेर्व्यर्थत्वात् । तथाचात्र अण् पूर्वेणैवेति अण्ग्रहणं ज्ञापयति । तथा सति अ इ उएतेषामेव ग्रहणम्त्र विवक्षितम् । तच्च अच इत्युक्ते न सिध्येदिति अण इत्युक्तमिति स्वांशेचारितार्थ्यम् । अन्यत्र प्रयोजनं तु कर्तृ इत्यादौ ऋकारस्यानुनासिकत्वं न भवतीति । नन्वेवमपि "उरण् रपरः'(सू.1-1-51) इति सूत्रे अण् पूर्वेण परेण वेति सन्देह इत्यत्राह--- झ्र्ज्ञा.ट उरज्रपर इति । ऋकारस्थाने हयवरलानामसम्भवात् अच एव ऋस्थानिकत्वसम्भवात् उरज् इति वक्तव्ये उरण् इत्युक्तिर्व्यर्था । न च अच् अण् इत्यनयोः समानमात्रावत्त्वात् लाघवगौरवचर्चा नास्तीति वाच्यम् । अण् पदेन अजुपस्थापिताक्षरधिकाक्षरणामप्युपस्थितिरिति उपस्थितिकृतगौरवस्य अण् पदोच्चारणे सद्भावात् । ततश्च उरज् इति वक्तव्ये उरण् इत्युक्तिः अण्पदं पूर्वेण णकारेण प्रत्याहार इति ज्ञापयति । तथा च अजित्युक्ते ऋकारादीनामपि ग्रहणं भवेत् । तध्द्यावृत्त्यर्थं अण् इत्युक्तमिति स्वाशे चारितार्थ्यम् । अन्यत्र प्रयोजनंतु मातॄणामित्यादौ ऋकारस्थाने भवन् दीर्घः रपरो न भवतीति । नन्वेवमपि "अणुदित्सवर्णस्य चाप्रत्ययः' (सू.1-1-69) इति सूत्रे अण् पूर्वेण परेण सन्देह इत्यत आह--- झ्र्ज्ञा.ट अणुदिदित्यत्र परेण "उर्ऋत्' इति तपरकरणात् ज्ञापकात् । झ्र्वि.ट अणुदिदिति । सवर्णग्राहके "अणुदित्सवर्णस्य चाप्रत्ययः' (सू.1-1-69) इति सूत्रे अण् परेणैव णकारेण, न पूर्वेण। अत्र च "उर्ऋत्' (7-4-7) इति सूत्रे तपरकरणं ज्ञापकम् । तथा हि अचीकृतदित्यादौ कॄतधातोश्चुरादेः लुङि चङि द्वित्वादौ
अचीकॄत् अ अत् इत्यत्रउपधाया ऋवर्णस्य स्थाने ऋत्स्याद्वा चङूपरे णौ इत्यर्थकेन "उर्ऋत्' (सू.7-4-7) इति सुत्रेण ॠकारस्य ऋकारे अचीकृतत् इति रूपम् । अत्र ॠकारस्य स्थानेऋकार एव यथा स्यात् ॠकारे मा भूदित्येवमर्थं तपरत्वं क्रियते । यदि चाणुदित्सूत्रे पूर्वेण णकारेणाण्ग्रहणं स्यात् तदा ऋकारोऽनण्त्वात् भिन्नकालस्य ॠकारस्य ग्राहक एव न भवतीति ऋकार एव आदेशो भविष्यति न ॠकार इति किं तपरत्वेन । कृतं च तत् ज्ञापकं परेणाण्ग्रहणस्य । ततश्च ऋकारस्याप्यण्त्वात् स सवर्मस्य ॠकारस्यापिं ग्राहक इति कदाचित् ॠकारोऽपि भवेत् स मा भूत् ऋकार एव भवतु इत्येतदर्थं तपरकारणमिति स्वांशे चारितार्थ्यत् । अन्यत्र प्रयोजनं तु ऋकार अष्टादशानां संज्ञेति । ननु उर्ऋत् इति सूत्रे तपरकरणाभावेऽपि ऋकारो विधीयमानः अप्रत्यय इत्युक्तेः सवर्णं न ग्रहीष्यतीति तपरकरणं व्यर्थमिति चेत् अत्राह-उद्योतकारः---"तपरत्वाभावे आदेशान्तरनिवृत्त्यर्थत्वेन स्वरूपाभ्यनुज्ञानार्थत्वेनापूर्वबोध्यत्वाभावेन चाविधेयत्वात्' इति । नन्वेवमपि "इणः षः'(सू.8-3-39) इत्यादाविण्ग्रहणेषु पूर्वेण परेण वा णकारेण प्रत्याहार इति सन्देह इत्यत् आह--- झ्र्ज्ञा.ट इण् परेणैव । "अचिश्नुधात्' (सू 6-4-77) इति सूत्रे इण इत्येव सिद्धे य्वोरित्युक्तेर्ज्ञापकत् । झ्र्वि.ट इण् परेणैव इति । "अचि श्नुधातुभ्रुवाम्' इति सुत्रे य्वोः इत्यनेन इवर्णोवर्णयोः ग्रहणम् । यदि च इण् प्रत्याहारः पूर्वेण णकारेण तदा इण् इत्यनेनापि इउवर्णयोरेव ग्रहणम् । ततश्च य्वोः इति पदे यकारवकारयोरेका मात्रा ओकारस्य द्वे मात्रे विसर्गस्यार्घमात्रा इति आहत्य सार्धस्तिस्त्रो मात्रा भवन्ति । इणः इत्यत्र तु इकारस्यैका ण्कारस्यार्धं अकारस्यैका विसर्गस्यार्धमिति तिस्त्रो मात्रा इति अर्धमात्रालघवं वर्तते । अतो लाघवात् इणः इति वक्तव्ये य्वोः इत्युक्तिः इण्परेण णकारेणेति ज्ञापयति । तथा च इणः इत्युक्ते ऋकारादीनामपि ग्रहणं भवेदिति तद्वारणाय य्वोरित्युक्तमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु "इणः षः' (सु 8-3-39) इत्यादौ ओकारस्यापि ग्रहात् गोषूक्तमित्यादौ षत्वसिद्धिरिति । झ्र्ज्ञा.ट ठवृद्धिरादैच्' ।। 1-1-1 ।। "अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः'(सु.7-1-75) इत्युदात्तग्रहणं ज्ञापकं "अभेदका गुणाः' इति । झ्र्वि.ट ठविद्धिरादैच्' इति सूत्रे आकारस्य तपरकरणं कर्तव्यम्, सवर्णार्थमिति वार्तिककारेणोक्तम् । तस्य गुणानां भेदकत्वात् यद्रगुणस्योच्चारणं तद्रगुणस्यैव संज्ञाप्रसङ्गे गुणान्तरयुक्तानामपि संज्ञाप्रप्त्यर्थं तपरकारणमित्यर्थः । तदुपरि गुणाः आनुनासिक्योदात्तादयः भेदका अभेदाकाश्चेति पक्षद्वयमुपन्यस्य, उभयमिदं गुणेषूक्तं भेदका इति किं पुनरत्र न्यय्यम् इत्याशङ्क्य अभेदका गुणा इत्येव न्याय्यम् । कुत एतत् । यदयं "अस्थिदधिसक्त्थ्यक्ष्णामनङुदात्तः' इत्युदात्तग्रहणं करोति । यदि भेदका गुणाः स्युः उदात्तमेवोच्चारयेत् इत्युक्तं भाष्यकृता । अयमभिप्रायः । उदात्तानङुच्चारणेनैव गुणस्योदात्तत्वस्य अनुदात्तादिभ्यो भेदकत्वात् अनुदात्ताद्यनङ्व्यावृत्तिर्भविष्यतीति तथा अनुच्चार्य यत उदात्त इति पृथक्पदमुपात्तम् तेन ज्ञायते यत् गुणा अभेदका इति । ततश्चोदात्ततयोच्चारणेकृतेऽपि उदात्तत्वस्य इतरभेदकत्वाभावात् अनुदात्तस्याप्यनङो ग्रहणं स्यादिति तद्व्यावृत्त्यर्थमुदात्तमिति स्वांशे चरितार्थत्वम् । ततश्च आकारस्य नान्तरीयकयत्किञ्चिद्गुणवत्तया उच्चारणे कृतेऽपि गुणस्याभेदकतया गुणान्तरयुक्तस्याप्याकारस्य ग्रहणसिद्धौ तत्फलकं वृद्धिरादैच् इति सूत्रे तपरकारणमिति न युज्यत इति प्रकरणार्थः । झ्र्ज्ञा.ट इको गुण ।। 1-1-2 ।। "अतो हलादेः' (सू.7-2-7) इत्यत्राकारग्रहणं
णिश्विप्रतिषेधवचनं च ज्ञापकं न सिच्यन्तरङ्गं भवतीति । अपवादत्वात्सिद्धे इयमेकदेश्युक्तिः । झ्र्विट इको गुणवृद्धी इति सूत्रे वृद्धिग्रहणं विङति च इति सुत्रेऽनुवृत्त्यर्थम् । अन्यथा तेन सूत्रेण गुणमात्रं निषिध्येत । ततश्च न्यनुवीत् न्यधुवित् इत्यादौ "सिचि वृद्धिः परस्मैपदेषु' (सू.7-2-1) इति सूत्रेण वृद्धिः स्यात् । वृद्धिग्रहणे कृते च विङति चेत्यनेन वृद्धेरपि निषेधान्न दोषः इत्युक्त्वा, तदुपरि नैतदस्ति प्रयोजनम् अन्तरङ्गत्वादत्रोवङादेशे कृते उकारस्यान्तेऽविद्यमानत्वाद्वृद्धिर्न भविष्यति । अतस्तत्र वृद्ध्यभावफलकं इको गुम इति सूत्रे वृद्धिग्रहणं मारतु इति पूर्वपक्षं प्रापय्य, "न सिच्यन्तरङ्गं भवति । यदयं अतो इलादेर्लघोः इत्यकारग्रहणं करोति' इति भाष्यकृता उक्तम् । अयं बावः ।"अतो हलादेर्लघोः (सू.7-2-7) इति सूत्रेण हलादेर्लघोरकारस्य इडड्डत्ध्;ादौ परस्मैपदपरे सिचि वृद्धिर्विकल्पेन विधीयते । अखादीत् अखदीत् इत्युदाहरणम् । अत्र अकारस्येत्यनुक्तौ अकोषीत् अमोषीत् इत्यादौ अ-कुष्-ईत् इत्यवक्थायां हलादैर्लघोरुकारस्यापि वृद्धिर्भवेत् । सा मा भूदित्येवमर्थं अकारस्येत्युक्तमिति वक्तव्यम् । यदि तु सिति परतः अन्तरङ्गं कार्यं भवेत् तदा सिच्परस्मैपदोभयसापेक्षवृद्ध्यपेक्षया अन्तरङ्गत्वात् लघूपधगुणे कृते ओकारस्य लघुत्वाभावादेव वृद्धिः न भविष्यति इति अकारग्रहणं व्यर्थं स्यात् । व्यर्थं च तत् "न सिच्यन्तरङ्ग भवति' इति ज्ञापयति । ततश्चान्तरङ्गगुणाप्रवृत्त्या परत्वादुकारस्य वृद्धिर्भवेदिति तद्वारणाय अकारग्रहणमिति स्वांशेचरितार्थता । एवं "ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् (सू.7-2-5) इति सूत्रस्थं णिश्विग्रहणमप्युक्तंवचने ज्ञापकम् । तथा हि हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिः न स्यादिडड्डत्ध्;ादौ सिचि इति तस्य सूत्रस्यार्थः । औनयीत् अश्वयीत् इत्युदाहरणम् । यदि सिच्यन्तरङ्गं भवेत् तर्हि अन्तरङ्गत्वात् गुणे कृते इष्टरूपसिद्ध्या णिश्विग्रहणमकर्तव्यं स्यात् । कृतं च तत् न सिच्यन्तरङ्गं भवतीति ज्ञापयति ततश्वान्तरङ्गगुणाप्रवृत्त्या वृद्धिप्राप्तौ तत्प्रतिषेधार्थं णिश्विग्रहणम् । इत्थं च न्यनुवीत् इत्यादौ सिचि अन्तरङ्गस्योवङः अप्रवृत्त्या वृद्धिप्राप्तौ सत्यां विङति चेति सूत्रेण इग्लक्षणवृद्धेर्निषेधसिद्धये सिचि वृद्धिरिग्लक्षणा आस्थेयेति तदर्थं "इको गुणवृद्धी' इति सुत्रे वृद्धिग्रहणमिति स्थितम् । वस्तुतस्तु अन्तरङ्गगुणस्यापवादभूतया वृद्ध्या बाधनात वृद्धिप्राप्तौ तन्निषेधार्थ णिश्विग्रहणमिति तस्य उक्तवचनज्ञापकत्वं न सम्भवतीत्याह-अपवादत्वात्सिद्धि इति । झ्र्ज्ञादृट ठक्ङिति च' (सू.1-1-5) "त्रसिगृधिधृषिक्षिपेः क्नुः' (सू.3-2-140) "इको झल्' (सू.1-2-9) इति क्नुसनोः कित्त्वात् ज्ञापकात् उपधालक्षणस्यापि गुणस्य प्रतिषेधोऽयमिति तन्निमित्तग्रहणं न कार्यम् । झ्र्विदृट ठक्ङिति च' इति सुत्रे "क्ङिति प्रतिषेधे तन्निमित्तग्रहणं उपधारोरवीर्त्य्थम्' इति वार्तिककारेणोक्तम् । क्ङिति च इति सूत्रे "इको गुणवृद्धी' इति सूत्रमनुवर्तते । तत्र यदि क्ङितीत्येतत् इको विशेषणम् तदा किति ङिति च परतः यः इक् तस्य गुणवृद्धी न स्तः इति सूत्रार्थः स्यात् । तथा सति चिंत स्तुतम् इत्यादावेव इकः कित्परकत्वमस्तीति गुणनिषेधो लभ्येत । भिन्न भिन्नवान् इत्यादौ तु भिद् त इत्यत्र उपधायाः इकारस्य कित्परकत्वं नास्ति दकारेण व्यवधानादिति गुणनिषेधो न लभ्येत । अतः तन्निमित्त इति पदमध्याहृत्य सूत्रार्थो वर्णनीयः । तदा क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः ते न भवत इति सूत्रार्थः । ततश्च उपधागुणस्यापि क्ङिन्निमित्तकत्वात् तस्य प्रतिषेधलाभादिष्टसिद्धिः । अतः उपधायाः अपीकः गुणवृद्धिप्रतिषेधार्थं तन्निमित्तग्रहणम् । एवं रुधातोर्यङ्लुगन्तस्य लटि प्रथमपुरुषैकवचने "रोरु ईति' इत्यवस्थायां "सार्वधातुकार्धधातुकायोः' इति तिब्निमित्तके उकारस्य गुणोऽवादेशे च
रोरवीति इति रूपम् । तन्निमित्तग्रहणाभावे यङि अव्यवहितपूर्वः यः तन्निमित्तकत्वं गुणस्य नास्तीति तस्य न प्रतिषेध इतीष्टरूपसिद्धिः । तस्मात् भिन्न इत्यादौ गुणप्रतिषेधार्थं रोरवीति इत्यादौ गुणप्रतिषेधाभावार्थं च किङति चेति सूत्रे तन्निमित्तग्रहणं कर्तव्यमिति वार्तिकाभिप्रायः । भाष्यकारस्तु उपधाया इकः ज्ञापकेन गुणप्रतिषेधं सिषाधयिषुः तन्निमित्तग्रहणं प्रत्याचख्यौ । तदाह-त्रसिगृधीत्यादि । "त्रसिगृधिधृषिक्षिपेः क्नुः' (सू.3-2-140) इति सुत्रेण त्रस्यादिभ्यः क्नु प्रत्ययो विधीयते । तत्र ककारइत्संज्ञकः । तत्प्रयोजनं तु गृध्नुःइत्यादौ क्ङिति चेति गुणनिषेधः । यदि च क्ङित्परकस्यैवेको गुणोऽनेन निषिध्येत तदा धकारेण व्यवधानात् ऋकारस्य क्नुपरकत्वं नास्तीति गुणनिषेधो न प्रर्वत्स्यति । तदर्थं क्रियमाणस्तु ककारानुबन्धोव्यर्थः सनू भवत्युपधालक्षणस्य गुणस्य व्यवहितविषयस्यापि क्ङितीत्यनेन प्रतिषेधः इति ज्ञापयति । तथा "हलन्ताच्च (सू.1-2-10) इति सूत्रेण इक्समीपद्धलः परो झलादिः सन् कित् स्यादित्युच्यते । जुघुक्षति इत्यादौ उकारस्य उपधायाः गुणाभावः प्रयोजनम् । उपधायाः कित्परकत्वाभावात् गुणनिषेधो न भविष्यतीति प्रयोजनाभावात् किद्ग्रहणमनर्थकं सत् उपधालक्षणस्य गुणस्य प्रतिषेध इति ज्ञापयतीत्यर्थः । तथा च भिन्न इत्यादावनेन ज्ञापकेनैव गुणप्रतिषेधे लब्धे तन्निमित्तग्रहणमनावस्यकमिति भावः । झ्र्ज्ञा.ट यासुटो ङिद्वचनात् ज्ञापकात् ङिदादेशानां ङिति यत् कार्यं तन्न । तेन अचिनवमित्यादौ न निषेध इति वार्तिकमतम् (1-1-5) झ्र्वि.ट ननु चिधातोर्लङि मिपि अमादेशे अ-चि-नु-अम् इति स्थिते लङादेशस्य अमः स्थानिवद्भवेन ङित्त्वात् क्ङिति चेति गुणनिषेधः स्याद्त्याशङ्क्याह--यासुट इति । "यासुट् परस्मैपदेषूदात्तो ङिच्च' (सू.3-4-103) इति सूत्रण यासुटो ङित्वविधानं व्यर्थम् । भूयास्-ति इत्यत्र लिङादेशस्य तिपः स्थानिवद्भावेन ङित्त्वात् यासुटश्च यदागमन्यायेन ङित्त्वसिद्धेः । तथा च ङिद्विधानं "ङिदादेशा ङितो न भवन्ती' ति ज्ञापयति । ततश्च ङितो लिङ आदेशो।पि तिप् ङित् न भवतीति यासुटो ङित्त्वं दुर्लभमिति तस्य ङिद्विधानम् सार्थकम् । ज्ञापनप्रयोडड्डत्ध्;जनं तु अचिनवमित्यादौ आदेशस्य ङित्त्वाभावात् गुणनिषेधो न भवतीति । भाष्यकारेण "सार्वधातुकमपित्' (सू.1-1-4) इति सुत्रे अपिदिति योगं विभज्य ङिदिति चानुर्वत्य चाश्रित्य ङिच्च पिन्न, पिञ्च ङिन्न भवतीति वाक्यार्थद्वयं वर्णितम् । अस्मिन् पक्षे यासुटो ङिद्वचनं न ज्ञापकम्, अपि तु मृज्यादित्यादावप्राप्तङित्तवविधायकम् । तदेतत् मनसिकृत्याह--- इति वार्तिकमतमिति । झ्र्ज्ञादृट ठईदूदेद्द्विवचनम्' (सू.1-1-11) "प्लुतप्रगृह्या' (सू.3-1-125) इति ज्ञापकात् सिद्धः प्लुतः स्वरसन्धिषु । यद्वा प्लुत इति कृतमेव आश्रयात्सिद्धत्वं यथा रोरुत्वे । झ्र्विदृट ईदूदेदिति तपरकरणेन अतत्कालव्यावर्तनात् अतत्कालानां प्रगृह्यसंज्ञा न प्राप्नोतीत्याशङ्क्य प्रगृह्यसंज्ञायां कर्तव्यायां प्लुतस्यासिद्धत्वात् तत्कालाः द्विमात्रा ईकारादयो भवन्तीति प्रगृह्यसंज्ञा भविष्यतीति समाधाय पश्चादाक्षेपरूपेण भाष्यकारैरुक्तम् -"सिद्धः प्लुतः स्वरसन्धिषु । यदयं "प्लुतः प्रकृत्या' इति प्लुतस्य प्रकृतिभावं शास्ति । कथं कृत्वा ज्ञापकम् । सतो हि कार्यिणः कार्येण भवितव्यम्' इति । "प्लुतप्रगृह्या' इति सुत्रेण प्लुतस्य प्रकृतिभावो विधीयते । यदि स्वरसन्धौ प्लुतः असिद्धः स्यात् तदाप्लुतस्यैवाभावात् प्लुतं कार्यित्वेन आश्रित्य तस्य प्रकृतिभावविधानं न युज्यते । तेनानुमीयते यत्स्वरसन्धौ प्लुतस्यासिद्धत्वं न भवतीति तदाशयः । तदाह--प्लुतेति । सामान्येन स्वरसन्धिप्रकारणविषयं सिद्धत्वं न ज्ञाप्यते, किंतु प्रकृते प्रकृतिभाव एवेत्याशयेनाह--यद्वेति । प्रकृत
एवेति पाठः साधुः । प्लुत इत्याश्रयात् सिद्धत्वं प्रकृत एवेत्यन्वयः । झ्र्ज्ञा.ट निात एकाच् (सू.1-1-14) इदमेवैकग्रहणं ज्ञापयति वर्णग्रहणे जातिग्रहणमिति । अल्त्वाद्याश्रयानेकग्रहणमिति तदर्थः । झ्र्वि.ट ठनिपात एकाजनाङ्' इति सूत्रे एकग्रहणं मास्तु । न च तदभावे अचो निपातविशेषणत्वात् तदन्तविधौ अजन्तस्य निपातस्य प्रगृह्यसंज्ञा इति सूत्रर्थे प्रेदं ब्रह्म इत्यादौ प्रअइदम् इत्यवस्थायां प्र इत्यजन्तस्य निपातस्य प्रगृह्यत्वे सन्धिकार्यं न स्यादिति वाच्यम् । निपातस्य अज्विशेषणत्वमाश्रित्य निपातरूपो योऽच् तस्य प्रगृह्यसंज्ञा इति सूत्रार्थङ्गीकारे प्र इति निपातस्य अज्रूपत्वाभावेन प्रगृह्यत्वाप्रसक्तेः । ततश्च एकग्रहणं व्यर्थमित्याशङ्क्य भाष्यकार आह--- "एवं तर्हि सिद्धे सति यदज्ग्रहणे क्रियमाणे एकग्रहणं करोति तज्ज्ञापयत्याचार्यः "अन्यत्र वर्णग्रहणे जातिग्रहणं भवतीति' इति । वर्णग्रहणे सति जात्याश्रयानेकवर्णग्रहणमिति अच् इत्यनेन अच्त्वाश्रयानेकवर्णसमुदायग्हहणं स्यात् । ततश्व तितउशब्दैकदेश अ उ शब्दान्करणे निपातसंज्ञके अउ अकरोदित्यादौ अउ इति समुदाये प्रगृह्यसंज्ञायां प्रकृतिभावाद्यणादेशो न स्यात् । अतः तद्वारणाय एकग्रहणम् । कृते च तस्मिन् तत्सार्मथ्यात् एको योऽच् तद्ररूपस्य निपातस्यैव प्रगृह्यत्वमिति न दोष इति । अन्यत्र प्रयोजनं तु भाष्ये उक्तम्--- "दम्भेईल्ग्रहणस्य जातिवाचकत्वात्सिद्धम् इति यदुक्तं तदुपपन्नं भवति' इति । तस्यायमर्थः--दम्भेः सनि "दम्भ इच्च' (सू.7-4-56) इति सूत्रेण धातोरचः इत्वे दिम्भ् स इति स्थिते "हलन्ताच्च' (सू.1-2-10) इति सूत्रेण सनः कित्त्वात् तस्मिन् परे धातूपधाया नकारस्य "अनिदिताम्' (सू.6-4-24) इति लोपे भष्भावादौ धिप्सति इति रूपम् । तत्र "हलन्ताच्च' (सू.1-2-10) इति सूत्रस्य इक्समीपाद्धलः परः झलादिः सन् कित् स्यादित्यर्थः । दिन्भ् स इति दशायां इक्समीपो यो हल् नकारः ततः परः सन् न भवति, यतश्च भकारत्परः सन् स च भकारो नेक्समीपः नकारेण व्यवधानादिति कित्त्वाभावे नलोपो दुर्लभः स्यात् । वर्णग्रहणे जातिग्रहणमित्यङ्गीकारे तु हल्त्वजात्याश्रयानेकस्येक्समीपत्वं ततः परत्वं सनः इति तस्य कित्त्वे तसिमन् परे धातुनकारलोपे च धिप्सतीति सिद्धिः प्रयोजनमिति ।। झ्र्ज्ञा.ट बहुगण (सू.1-1-23) ।। "नदीपौर्णमास्याग्र' (सू.5-4-110) इत्यत्र न नदीसंज्ञकग्रहणम्, पौर्णमास्याग्रहायणीग्रहणसार्मथ्यात् । झ्र्वि.ट ठबहुगणवतुडड्डत्ध्;ति सङ्ख्या' (सू.1-1-23) इति सूत्रे सङ्ख्याग्रहणं कर्तव्यम् । बहुगणवतुडड्डत्ध्;तयः सङ्ख्यासंज्ञाः भवन्ति संख्या च संख्यासंज्ञा भवतीति वक्तव्यम् । अन्यथा कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति परिभाषया संख्याशब्दघटितेषु विधिसूत्रेषु संख्येत्यनेन कृत्रिमायाः संख्यायाः बहुगणादेरेव ग्रहणं स्यात् न त्वेकादिकायाः संख्याया इति वार्तिककारेणोक्ते तदुपरि--- "यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति "नदीपौर्णमास्याग्रहायणीभ्यः' अत्रापि प्रसज्येत ' इति भाष्ये आक्षेपः कृतः । कृत्रिमाकृत्रिमन्यायाङ्गीकारे "नदीपौर्णमासी' इति सूत्रे नदी इत्यनेन "यू स्त्र्याख्यौ नदी' (सू.1-4-3) इति सूत्रबोधितनदीसंज्ञकानां ई ऊ वर्णान्तानामेव ग्रहणं स्यात् न तु नदी इति शब्दस्येति तदर्थः । अस्मिन्नाक्षेपे समाधानभाष्यम् ---- "पौर्णमास्याग्रहायणीग्रहणसार्मथ्यान्न भविष्यति' इति । यदि शास्त्रबोधितनदीसंज्ञकशब्दस्य नदी इत्यनेन ग्रहणं स्यात् तदा पौर्णमासी आग्रहायणी इत्यनयोरपि नित्यस्त्रीलिङ्गईकारान्तत्वेन नदीसंज्ञकत्वात् नदी इत्यनेनैव ग्रहणे सिद्वे पृथक् तयोः सुत्रे निर्देशोऽनर्थकः स्यात् । कृतश्च स निर्देशः "नदीपौर्णमासी' इति सुत्रे नदीशब्दः न कृत्रिमनदीसंज्ञकवाची । अपि तु नदीशब्दपरः । इति ज्ञापयति, अतो न दोष इति तदाशयः ।
तदेतदाह---नदीत्यादिना । तदनन्तरं "नदीपौर्णमासी' इति सुत्रे नदीशब्दस्य लोकप्रसिद्धनदीपरत्वे नदीविशेषवाचिनां गङ्गा यमुना इत्यादीनामपि तत्सूत्रे नदीपदेन ग्रहणं स्यादित्याशङ्क्य--- "आचार्यप्रवृत्तिर्ज्ञापयति तद्विशेषेभ्यो न भवतीति । यदयं विपाट्शब्दं शरत्प्रभृतिषु पठति' इति भाष्ये उक्तम् । "नदीपौर्णमासी' इति सूत्रेण विधीयमानः टच् नदीविशेषवाचिगङ्गादिशब्देभ्यो न भवति । यदि भवेत् तदा शरत्प्रभृतिषु विपाट्शब्दपाठो व्यर्थो भवेत् । प्रतिविपाशमित्यादौ "अव्ययीभावे शरत्प्रभृतिभ्यः' (सू.5-4-107) इति सूत्रेण टच्सिद्धिर्हि तत्प्रयोजनम् । तत्र "नदीपौर्णमासी' इति सूत्रे नदीशब्देन नदीविशेषवाचिविपाट्शब्दस्यापि ग्रहणात् तेनैव टच्सिद्धेः शरत्प्रभृतिगणे विपाट्शब्दपाठो व्यर्थः सन् तत्सुत्रे नदीशब्दः न नदीविशेषपर इति ज्ञापयतीति भावः । तदेतदाह--- झ्र्ज्ञा.ट शरदादिषु विषाट्शब्दपाठात् ज्ञापकान्न विशेषग्रहणम् । इति । झ्र्ज्ञा.ट संख्यादेशेषु एकादिसंख्याग्रहणम् । कन्विधौ "अतिशदन्तायाः' (सू.5-1-22) इति प्रतिषेधात् ज्ञापकात् । झ्र्वि.ट ठबहुगुणवतुडड्डत्ध्;ति' (सू.1-2-31) इति सूत्रे एकादिकायाः संख्यायाः अपि संख्यासंज्ञासिद्ध्यर्थं संख्याग्रहणं कर्तव्यमिति वार्तिकं प्रत्याख्यातुं ज्ञापकेन संख्याप्रदेशेषु एकादिसङूख्यायाः ग्रहणं समर्थितम् । तदाह-संख्यादेशेषु इति । संख्यादेशेषु संख्या इति शब्दघटितेषु विधिसूत्रेषु एकादिकायाः सङ्ख्याया अपि ग्रहणं भवति । तत्र प्रमाणमाह-कन्विधाविति । अयमर्थः- "संख्यायाः अतिशदन्तायाः कन्' (सू.5-1-22) इति सूत्रं संख्यायाः आर्हीयेऽर्थे कनं विदधत् त्यन्तायाः शदन्तायाश्च न कन् यथा साप्ततिकः, शदन्तायाः चात्वारिंशत्क इति । उभयत्र "तेन क्रीतम्' (सू.5-1-37) इति ठञ् । यदि विधिसूत्रेषु संख्या इत्यनेन अकृत्रिमाया एकादिसंख्याया ग्रहणं न स्यात् तदा विंशति-चत्वारिंशदादेः संख्याग्रहणेनाग्रहणात्ततः कनोऽप्रसक्त्या अतिशदन्ताया इति निषेधोऽनवसरः स्यात् । अतः स निषेधः एकादिकाया अपि संख्याप्रदेशेषु ग्रहणं ज्ञापयतीति । झ्र्ज्ञा.ट ठष्णान्ता षट्' (सू.1-1-24) ।। अष्टनो दीर्घग्रहणं षट्त्वज्ञापकम् । आकारान्तस्य मडड्डत्ध्;र्थम् (नुडड्डत्ध्;र्थम्) । झ्र्वि.ट ठष्णान्ता षट्' इति सूत्रे उपदेशग्रहणं कर्तव्यम् । उपदेशेषकारान्ता नकारान्ता च संख्या षट्संज्ञा भवतीति वक्तव्यम् । अन्यथा शतानि सहस्त्राणीत्यादौ नुमिं कृते नकारान्तत्वात् षट्संज्ञायां "षड्ड्डत्ध्;भ्यो लुक्' (सू.7-1-22) इति जस्शसोर्लुगापत्तेः । अष्टानामित्यत्र अष्टन् आम् इति स्थिते परत्वान्नित्यत्वाच्च "अष्टन आ विभक्तौ' (सू.7-2-84) इति नकारस्य आत्वे कृते नकारान्तत्वाभावेन षट्संज्ञाया अप्राप्तौ "षट्चर्तुर्भ्यश्च' (सू.7-2-55) इति नुढोऽनुपपत्तेश्च इत्याक्षिप्य, शतानि सहस्त्राणीत्यादौ सन्निपातपरिभाषया षट्संज्ञां वारयित्वा अष्टानामित्यत्र आत्वे कृतेऽपि षट्संज्ञा ज्ञापकमहिम्ना साधिता भाष्यवार्तिकयोः । तदाह-अष्टनो दीर्घग्रहणमिति । "अष्टनो दीर्घत्' (सू.6-1-182) इति सूत्रेण दीर्घान्तादष्टन्शब्दात् परस्याः शसादिविभक्तेरुदात्तत्वं विधीयते । तत्र च दीर्घग्रहणम् अष्टसु इत्यत्र सुप उदात्तत्वनिवृत्त्यर्थं क्रियते । यदि च कृतात्वस्य षट्संज्ञा न स्यात् तदा अष्टसु इत्यत्र "अष्टन' (सू.6-1-182) इति सूत्रापेक्षया परत्वात् "झल्युपोत्तमम्' (सू.6-1-180) इति सुतेरेण षट्त्रिचतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यादित्यर्थकेन उपोत्तमस्वरेण टकारोत्तराकार उदात्त इति इष्टस्वरसिद्ध्या किं दीर्घग्रहणेन । चापवादत्वात् अष्टसु इत्यत्र "झल्युपोत्तमम्' इति स्वरं बाधित्वा "अष्टनः' इति सूत्रविहितो विभक्तिस्वर एव स्यादिति वाच्यम् । आत्वपक्षे अष्टासु इत्यत्र भवद्रीत्या कृतात्वस्य
षट्संज्ञाऽभावेन उपोत्तमस्वराप्रवृत्त्या तत्र "अष्टन' इति सूत्रस्य चारितार्थ्योन तस्यापवादत्वासम्भवात् । ततश्च परत्वात् अष्टसु इत्यत्र उपोत्तमस्वर एव भविष्यतीति विभक्तिस्वराप्रसक्त्या तद्वारणार्थं क्रियमाणं दीर्धग्रहणं व्यर्थमेव। कृतं च तत् कृतात्वस्याप्यष्टन्शब्दस्य षट्संज्ञां ज्ञापयति । ततश्च कृतात्वस्थलेऽपि "झल्युपोत्तमम्' इति षट्स्वरे प्राप्त एव "अष्टनो दीर्घात्' इति सूत्रारम्भात् येन नाप्राप्तिन्यायेन अष्टन इति सूत्रमेवापवादत्वात्प्रवर्तते तथा अष्टसु इत्यत्रादीर्घपक्षेऽपि अपवादत्वात् विभक्तेः स्वरः स्यादिति तद्वारणार्थं दीर्घग्रहणं कर्तव्यमिति स्वांशे चरितार्थता । अन्यत्र प्रयोजनं तु अष्टानामित्यत्र कृतात्वस्यापि षट्संज्ञास्तीति "षट्चतुर्भ्यश्च' (सू 8-1-55) इति नुट्सिद्धिरिति तात्पर्यार्थः । झ्र्ज्ञा.ट सर्वादीनि (सू. 1-1-28) ।। सर्वनामसंज्ञायाम् अत एव निपातन्न्न णत्वम्। पुराणपुरातनौ सततसंततौ च पृषोदरादित्वात्सिद्धौ । झ्र्वि.ट ठसर्वादीनि सर्वनामानि' इति सूत्रे सर्वनामशब्दे "पूर्वपदात्संज्ञायामगः' (सू.8-403) इति णत्वं प्राप्नोतीत्याशङ्क्य, निपातनाण्णत्वाभाव इति समाधाय, तदुपरि निपातनादणत्वं भवतु यथाप्रप्तं च णत्वमप्यस्तु, निपातनस्य हि तद्रूपसाधुत्वप्रतिपादने तात्पर्यम्, न तु रूपान्तरनिवृत्तावित्याक्षिप्य, नाप्राप्ते णत्वे निपातनमारब्यते तद्बाधकं भविष्यति इति समाहिंत भाष्ये । तदाह-सर्वनामसंज्ञायामिति । तनु सम्-तत इति स्थिते मकारस्य लोपेन सततशब्दः "अपरस्पराः क्रियासातत्ये' (सू.6-1-144) इति निपातनात् साधुरितीष्यते । नाप्राप्ते अलोपे आरभ्यमाणमिदं लोपनिपातनं अलोपस्य बाधकं भवेत् । ततश्च संततमिति रूपं न सिध्येत् । तथा "पुराणप्रोक्तेषु' (सू.4-3-104) इत्यत्र निपातितेन पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्नोति । ततश्च पुरातनशब्दस्य साधुत्वं न सिध्येदिति आशङ्क्याह-पुराणपुरातनाविति । एवं च संततसततयोः पुराणपुरातनयोश्च पृषोदरादिगणे पाठादेव साधुत्वम्, न तु निपातनात् । अतो नोक्तदोषावसर इति भावः । परिभाषेन्दुशेखरे "बाधकान्येव निपातनानि' इति परिभाषा पठ्यते । झ्र्ज्ञा.ट पूर्वपरा (सू.1-1-34) ।। पूर्वं गणपाठः पश्चात्सूत्रपाठः । "पूर्वादिभ्यो वा' (सू.8-1-16) इति नवग्रहणात् ज्ञापकात् । सूत्रपाठे नवैव हि पूर्वादीनि । झ्र्वि.ट ठपूर्वपरावरदक्षिणोत्तरापरधराणि व्यवस्थायामसंज्ञायाम् ' इति सूत्रे किमर्थं प्रतिपदं पूर्वादीनि जसि विभाषार्थं पठितानि, यावता गण एवर्थविशेषेण विशिष्टानि नित्यं सर्वनाम - संज्ञार्थं पठ्यन्ते । तत्र पूर्वादीनि नवेत्येवं सूत्रं पठितव्यम् । प्राप्तवभिाषा चेयं भविष्यति इत्याशङ्क्य, भवेदेवं यदि गणपाठः पूर्वः स्यात् पश्चाच्च पाणिनिसूत्रपाठः स्यात् । न त्वेतदस्ति, प्रमाणाभावादिति समाधाय, पाणिनिसूत्रापेक्षया गणपाठस्य प्राक्कालिकत्वं ज्ञापकेन समर्थितं भाष्ये--- "एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति स पूर्वः पाठः अयं पुनः पाठ इति । यदयं पूर्वादिभ्यो नवभ्यो वेति नवग्रहणं करोति । नवैव हि पूर्वादीनि ' इति। तदाह-पूर्वं गणपाठ इति । पूर्वादिभ्यो नवभ्यो वेति सूत्रे नवग्रहणं नवाधिकत्यदादिनिरासार्थं क्रियते । यदि च नियतसंनिवेशो गणपाठः पूर्वः तदा पूर्वादिभ्य इत्यनेन त्यदादीनामपि ग्रहणं स्यादिति तद्व्यवच्छेदाय नवग्रहणं कर्तव्यं भवति । यदा तु पाणिनिसूत्रं गणपाठात्पूर्वं तदा पाणिनिसूत्रे पूर्वादीनां नवानामेव पूर्वपरेत्यादिभिः त्रिभिः सूत्रैर्विशिष्य निर्देशात् नवाधिकानां त्यदादीनां पूर्वादिभ्य इत्यनेन ग्रहणप्रसक्त्यभावात् नबग्रहमं व्यर्थं स्यादिति गणपाठस्य प्राचीनत्वमनुमीयत इति भावः। सूत्रपाठ इति । पाणिनिसूत्रपाठ इत्यर्थः । झ्र्ज्ञा.ट ठपूर्वत्रासिद्धम्' (सू.8-2-1) इत्यादेर्ज्ञापकात् पूर्वादीनां द्व्यादिपर्युदासेन पर्युदासो न । झ्र्वि.ट
तत्रैव सूत्रे पूर्वादीनि नवेत्येवं लाघवेन पठितव्ये किमिति पूर्वपरावरेत्यादिना विशिष्य त्रिसूत्रीपाठः क्रियत इत्याशङ्कायाः समाधानमुक्तम्--- "इदं तर्हि प्रयोजनम्--द्व्यादिपर्युदासेन पर्युदासो मा भूदिति' इति भाष्ये । तस्याशयमेवं कैयट आह--त्यदादीनि पठित्वा गणे कैश्चित् पूर्वादीनि पठितानि । तत्र "किंसर्वनामबकहुभ्योऽद्व्यादिभ्यः' (सू.5-3-2) इति पूर्वांदिभ्यस्तसिलादीनां प्रतिषेधः प्राप्नोति । तत्र पूनः सर्वनामसंज्ञया तसिलादिर्विधीयते । तेन ध्द्यादिपर्युदासो बाध्यत इति । तदनन्तरं समाधानमिदं दूषयन्नाह भाष्यकारः--- "एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृतिर्ज्ञापयति नैषां द्व्यादिपर्यु- दासेन पर्युदासो भवतीति । यदयं पूर्वत्रासिद्धमिति निपातनं करोति' इति । यदि च द्व्यादिपर्युंदासेन पर्युदासात् पूर्वादिभ्यस्तसिलादीनां प्रतिषेधः स्यात् तदा "पूर्वत्र' इति त्रलन्ततया पूर्वशब्दनिर्देशोऽप्रमाणं स्यात् । निर्देशमहिम्ना पूर्वादीनां द्व्यादिपर्युदासेन पर्युदासो नेति ज्ञाप्यत इत्यर्थः । तदेतत्सर्वं मनसि निधायाह--पूर्वत्रासिद्धमित्यादेर्ज्ञापकादिति । आदिपदेन च--"जश्भावादिति चेदुत्तरत्र ढस्याभावादपवादप्रसङ्गः' इति वार्तिकस्थं उत्तरत्र इति निपातनं परामृश्यते । झ्र्ज्ञा.ट "कृन्मेजन्तः " (सू.1-1-39) कृदन्तं यन्मान्तमिति पक्षे प्रशान्शब्दस्य स्वरादिषु पाठात् ज्ञापकान्न प्रत्ययलक्षणेनाव्ययसंज्ञा । झ्र्वि.ट ठकृन्मेजन्त' इति सूत्रस्य द्वेधा व्याख्यानं कृतम्-कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यादित्येकं व्याख्यानम् । कृदन्तं यन्मान्तं तदव्ययसंज्ञकं स्यादिति द्वितीयं व्याख्यानम् । तत्र द्वितीयव्याख्याने प्रपूर्वकतमुधातोः क्विपि, तस्मिन् लुप्तेऽपिप्रत्ययलक्षणेन प्रताम् इत्यस्य कृदन्तत्वं श्रुत्या मकारान्तत्वं च वर्तत इत्यव्ययसंज्ञा स्यादित्याशङ्क्य भाष्यकृता उक्तम्---- "आचार्यप्रवृत्तिर्ज्ञापयति न प्रत्ययलक्षणेनाव्ययसंज्ञ भवतीति । यदयं प्रशान्शब्दं स्वरादिषु पठति' इति । यदि प्रत्ययलक्षणेन कृदन्तत्वमाश्रित्याव्ययसंज्ञा भवेत् तर्हि प्रशान् शब्देऽपि नत्वस्यासिद्धत्वात् मान्तत्वं, प्रत्ययलक्षणेन कृदन्तत्वं चास्तीति "कृन्मेजन्त' इति सूत्रेणैवाव्ययत्वे सिद्धे अव्ययसंज्ञार्थं स्वरादिगणे प्रशान्शब्दपाठो न कर्तव्यः स्यात् । कृतश्च स न प्रत्ययलक्षणेनाव्ययसंज्ञा भवतीति ज्ञापयतीत्यर्थः । तदेतदाह--कृदन्तमित्यादिना । झ्र्ज्ञा.ट तिसृचतस्त्रोर्ङींबभावे "न तिसृ' (सू.6-4-4) इति नामि दीर्घप्रतिषेधो ज्ञापकः । झ्र्वि.ट ठकृन्मेजन्तः' (सू.1-1-39) इति सूत्रे भाष्ये संनिपातपरिभाषां पठित्वा तस्या बहूनि प्रयोंजनानि परिगणितानि । तन्मध्ये "तिसृचतसृ ङीब्विधे.' इत्यपि एकं प्रयोजनम् । त्रिचतुर्शब्दयोः जश्शसोः परतः स्त्रियां तिसृचतस्त्रादेशयोः कृतयोः ऋकारान्तत्वात् "ऋन्नेभ्यो ङीप्' (सू.4-1-5) इति ङीप् प्राप्नोति । स च संनिपातपरिभाषया न भवति । विभक्तिसंनिपातं निमित्तीकृत्य जातौ "तिसृचतसृ' आदेशौ तद्विघातकस्य ङीपो निमित्ते न भवतः । ङीपि सति तेन व्यवधानात् विभक्तिसंनिपातस्य हानेः इति तदाशयः । एतच्च प्रयोजनं ज्ञापकमहिम्ना ङीवभावसाधनपूर्वकं खण्डड्डत्ध्;यामास भाष्यकारः--- "एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञापयति न तिसृचतसृभावे कृते हीप् भवतीति । यदयं "न तिसृचतसृ' इति नामि दीर्घत्वस्य प्रतिषेधं शास्ति ।' इति। "तिसृ चतसृ' अनयोर्ङीपि तेन व्यवधानात् नाम्परकत्वाभावात् "नामि' (सू.6-4-3) इति दीर्घप्रसक्तेः किं दीर्घनिषेधेन । कृतश्च दीर्घनिषेधः तयोर्ङीप् न भवतीति ज्ञापयति । ततश्च जश्शसोरपि ज्ञापकेनैव ङीप्निषेधे सिद्धे तिस्त्रः चतस्त्रः इत्यत्र ङीबभावः न संनिपातपरिभाषाप्रयोजनमिति भावः । तदेतदाह--तिसृचतस्त्रोर्ङीबभाव इत्यादिना । ननु संनिपातपरिभाषास्वीकारे या सा इत्यादौ टाप् न स्यात् । यत्तच्छब्दाभ्यां सौ परतः "त्यदादीनामः' इति दकारस्यात्वे पररूपे च अदन्तत्वात्
"अजाद्यतष्टाप्' इति टाप् वक्तव्यः । स च न संभवति । विभक्तिसंनिपातनिमित्तकस्य अत्वस्य तद्विघातकटापं प्रति निमित्तत्वासंभवादित्याशङ्क्याह-- झ्र्ज्ञा.ट ठन यासयोः' (सू.7-3-45) इत्यादिनिर्देशैर्ज्ञापकैः संनिपातपरिभाषा अनित्या । इति । पूर्वोक्तरीत्या स्त्रियां यत्तच्छब्दाभ्यां संनिपातपरिभाषया यदि टाप् न स्यात् तदा या सा इति सूत्रकारकृतः टाबन्तनिर्देशोऽसंगतः स्यात् । अतो निर्देशप्रामाण्येन संनिपातपरिभाषाया अनित्यत्वमाश्रीयत इत्यर्थः तेन रामाय इत्यादौ "सुपि च' (सू. 7-3-102)इति दीर्घः सिध्यति । अन्यथा अदन्तसंनिपातनिमित्तकस्य यादेशस्य तद्विघातकदीर्घं प्रत्यनिमित्तत्वेन दीर्घासंभवात् इति ध्येयम् । झ्र्ज्ञा.ट सुडड्डत्ध्;न (सू.1-1-43) ।। अनपुंसकस्येत्यसमर्थसमासं वदता अ इति प्रतिषेधार्थकमव्ययमप्राणाणिकमिति सूचितम् । झ्र्वि.ट सुडड्डत्ध्;नपुंसकस्येति सुत्रे भाष्ये--- "असमर्थसमासश्चायं द्रष्टव्यः अनपुंसकस्येति । न हि नत्रो नंपुसकेन सार्मथ्यम् । केन तर्हि । भवतिना । न भवति नपुंसकस्येति' इत्युक्तम् । अनेनासमर्थसमासं स्वीकृत्य प्रसज्यप्रतिषेघपरतया सूत्रं व्याख्यातम् । तत्र यदि अ इत्यव्ययं किंचित् प्रतिषेधार्थकं भवेत् तदा अ नपुंसकस्येति पृथक्पदत्वं स्वीकृत्य नपुंसकस्य न भवतीति प्रसज्यप्रतिषेधस्य असमर्थसमास्त्वं विनापि लाभात् असमर्थसमासत्वकल्पना क्लिष्टा नाश्रयणीया स्यात् । आश्रिता च सा प्रतिषेधार्थकम् अ इत्यव्ययं नास्तीति सूचयति । ततश्च अनपुंसकस्येति समस्तं पदं, तस्यासमर्थसमासत्वं विना प्रतिषेधार्थकत्वं न लभ्येतेति मन्यमानैर्भाष्यकारैस्तथोक्तमिति भाव। एतेन "असद्ब्रह्मेति वेद चेत्' इत श्रुतेः अ इति पृथक्पदं कृत्वा ब्रह्म सदिति न वेद चेदिति व्याख्यानं कुर्वन्तः परास्ता वेदितव्याः । झ्र्ज्ञा.ट उरण् रपरः (सू.1-1-71) ।। भ्रातुष्पुत्रग्रहणं ज्ञापकम् एकादेशनिमित्तात्परस्य "इदुदुपधस्य' (सू.8-3-41) इति षत्वं नेति । झ्र्विट ननु "उरण् रपरः' इति सूत्रेण ऋकारस्थानिकस्याणो रपरत्वं विदधता ऋकारस्यान्यस्य चोभयोः स्थाने भवतोऽप्यणः रपरत्वमनुमन्यते । तस्यैकादेशस्यापि ऋकारस्थानिकत्वानपायात् । ततश्च मातृ-ङसू इत्यत्र "ऋत उत्'(सू.3-1-111) इति सूत्रेण ऋकाराकारयोरुकारे रपरे सतिमातुर् स् इति स्थिते "रात् सस्य' (सू.8-2-24) इति सकारलोपे रेफस्य विसर्गे च मातुः इति सिध्यति । तदनन्तरं च करोति इति पदसंयोगे विसर्गस्य प्रत्ययभिन्नत्वात् "इदुदुपधस्य चाप्रत्ययस्य' (सू. 8-3-41) इति षत्वं प्राप्नोति । न च अप्रत्ययस्येत्यस्य प्रत्ययावयवभिन्नस्येत्यर्थः । अकारस्य प्रत्ययावयवत्वात् तदादेशस्य विशर्गस्यापि प्रत्ययावयवत्वमस्तीति कथं षत्वप्राप्तिरिति वाच्यम् । अकारोदेशस्य उर् इत्यस्य प्रत्ययावयवत्वस्य कथंचिदुपणदनेऽपि तदवयवरेफस्थानिकविसर्गे तत्त्वस्य दुर्लभत्वात् । ततश्च षत्वं दुर्वारमित्याशङ्क्याह--भ्रातुष्पुग्रहणमिति । पूर्वाक्तरीत्या भ्रातुष्पुत्रशब्देऽपि "इदुदुपधस्ये' ति सूत्रेणैव षत्वसिद्धौ षत्वर्थः कस्कादिगणे तत्पाठो व्यर्थः सन् एकादेशनिमित्तात्परस्य न षत्वमिति ज्ञापयति । एकादेशशास्त्रं निमित्तं यस्य तस्मात्परस्य विसर्गस्य न षत्वम् इत्यर्थः । "ऋत उत्' इति शास्त्रं निमित्तं यस्य उकारस्य तस्मात्परस्य विसर्गस्य न षत्वं भवतीति मातुः करोतीत्यत्र न षत्वापत्तिः । भ्रातुष्पुत्रशब्दे तु कस्कादिगणे पाठात् षत्वसिद्धिरिति भावः । सिद्धान्तकौमुद्यां तु एकादेशशास्त्रनिमित्तकस्य न षत्वमिति पठितम् । तत्र च एकादेशशास्त्रसंपन्नो य उर् तदवयवरेफस्थानिकत्वेन विसर्गस्य एकादेशशास्त्रनिमित्तकत्वमिति बोध्यम् । भाष्यानारूढमेतत्कथं कौमुद्यां पठितमिति शङ्कायां मनोरमायामेवमुक्तम्--- "आकरे तु एकादेशशास्त्रनिमित्तात् इति प्रचुरः पाठः । तत्र एकादेशशास्त्रं निमित्तं यस्योकारस्य
तस्मादित्यर्थः' इति । शब्दरत्ने तु--- " ओषधीस्कृधीत्यादौ षत्वनिवृत्तिस्तत्फलमुक्तम् । तस्य च छान्दसत्वात् षष्ठ्यन्तमेव पठितम् ' इत्युक्तम् । भैरबमिश्रादिभिः पञ्चम्यन्तपाठ एव समर्थित इत्यलमत्र विस्तरेण । झ्र्ज्ञा.ट ङिच्च (सू. 1-1-73) ।। लोट एरुप्रकारणे तुह्योस्ता दाशिषीत्येव सिद्धे ङित्करणात् ज्ञापकात् तातङ् सर्वादेश इति । झ्र्वि.ट ननु "ङिच्च' इति सूत्रेण इत्संज्ञकङकारवानादेशः अन्त्यस्य स्थाने भवतीत्युच्यते । तथा च तातङादेशस्यापि ङित्त्वात् "तु हि' इत्यनयोर्भवन् तातङ् अन्त्यस्य उकारस्य इकारस्य च स्यादित्याशङ्क्याह--लोट एरुप्रकरण इति । अन्तरेणापि ङित्त्वम् "एरु:'(सू. 3-4-86) इत्यन्त्यादेशप्रकारणे ताति विधीयमानेऽन्त्यादेशत्वं सिद्धमिति तातङ् इति ङकारानुबन्धः व्यर्थः सन् अयं नान्त्यादेश इति ज्ञापनद्वारा ङित्त्वस्य गुणवृद्धिप्रतिषेधफलकत्वं सूचयति । ततश्च अनन्यार्थङित्त्वेष्वनङादिषु चरितार्थं "ङिच्च' इति सूत्रं गुणवृद्धिप्रतिषेधार्थकतया संभवत्प्रयोजनङकारे तातङि न प्रवर्तते । तथा च तातङ् अनेकाल्त्वात्सर्वादेश इति भावः । झ्र्ज्ञा.ट अनेकाल् (सू.1-1-55)।। अत्र शित्सर्वस्येत्युक्तिर्नानुबन्धकृतमनेकाल्त्वमिति ज्ञापयति । झ्र्वि.ट ननु औश् इश् शी इत्यादीनामनेकाल्त्वादेव सर्वादेशत्वे सिद्धे "अनेकाल् शित्सर्वस्य' इति सूत्रे शिद्ग्रहणं व्यर्थमित्यत् आह-अत्रेति । ततश्चानुबन्धरूपमलं संयोज्य अनेकाल्त्वं नाश्रीयते अनुबन्धं परित्यज्य अनेकाल् यदि भवेत् तदैव सर्वादेशः । औश् इत्यादीनां तु अनुभन्धं विना अनेकाल्त्वाभावात् सर्वादेशत्वं न लभ्येतेति तेषां सर्वादेशत्वार्थं शिद्ग्रहणमिति भावः । तेन "अर्वणस्तृ' इत्यादेर्न सर्वादेशत्वमिति ज्ञापनफलमवसेयम् । अस्मिन् ग्रन्थे काश्चित् एवंजातीयकाः परिभाषा अपि संयोजिताः । तदुद्देस्यं न जानीमः । झ्र्ज्ञा.ट स्थानिवदादेशो (सू.1-1-56) ।। नापवादे उत्सर्गकृतं श्यन्नादीनां शित्करणात् ज्ञाकात् । षष्ठीत्यनुर्वत्य षष्ठीनिर्दिष्टस्यादेशः स्थानिवदिति वा सिद्धः । झ्र्वि.ट ठस्थानिवदादेश' इति सूत्रे आदेशबुद्धेः प्रसङ्गे स्थानिबुद्धिः कर्तव्येति बुद्धिविपरिणाममात्रं यदि स्थानिवद्भावः तर्हि "आतोऽनुपसर्गे कः' (सू.3-2-3) इति सूत्रविहितापवादरूपकप्रत्ययेऽपि स्थानिवद्भावेन अणि सति यत्कार्यं तत्प्राप्नोतीत्याशङ्क्य, अपवादे उत्सर्गप्रयुक्तं कार्यं न भवति । तथा च कप्रत्ययेऽपवादे उत्सर्गभूताण्प्रत्ययप्रयुक्तकार्यं न भवतीति न दोषः । तत्र ज्ञापकं शपः अपवादभूतेषु श्यन्नादिषु शित्करणम् । यद्यपवादे स्थानिवद्भवेन उत्सर्गकृतकार्यं स्यात् तदा यन् इत्यस्यापि स्थानिवद्भावेन शपि वद्यिमानशित्त्वप्रयुक्तकार्यं भविष्यतीति श्यन्नादौ शित्कारणमनर्थकंस्यात् । कृतं च तत् नापवादे उत्सर्गकृतं कार्यं भवतीति ज्ञापयति । यद्वा "स्थानिवदादेशः' इति सूत्रे "षष्ठी स्थानेयोग' (सू.1-1-49) इति सूत्रात् षष्ठी इत्यनुर्वत्य तच्च तृतीयया विपरिणमय्य निर्दष्टिस्येत्यध्याहृत्य षष्ठ्या निर्दिष्टस्य स्थाने य आदेशः स स्थानिवत् इति व्याखयेयम् । कप्रत्ययश्च न षष्ठीनिर्दिष्टस्याणः स्थाने विधीयते । अतो न स स्थानिवदिति न दोष इति द्वेधा समाधानमाकरग्रन्थेषु कृतम् । तदाह--नापवाद इत्यादिना । सिद्ध इति । नापवादे उत्सर्गकृतमिति न्याय इति शेषः । झ्र्ज्ञा.ट आथादेशे कर्तव्ये "आहस्थः' (सू.8-3-35) इति वचनात् ज्ञापकात् नाहेरीट् । झ्र्वि.ट स्थानिवत्सूत्र एव यद्यादेशः स्थानिवत् तदा लटि मध्यमपुरुषैकवचने ब्रूञादेशस्य आह ब्रूत्वात् ततः परस्य थलः "ब्रुव ईट्' (सू.7-3-93) इति सूत्रेण ईट् प्राप्नोति, तस्य च प्रतिषेधो वक्तव्य इति वार्तिककृतोक्तम् । तद्दूषयन् भाष्यकारः आहेः ईट्प्रतिषेधोन वक्तव्यः ज्ञापकेनैव आहेः परस्य न ईट् इति सिद्धेः इत्युक्तवान् । किं ज्ञापकम् इति चेत् "आहस्थः' इति थत्वविधानं
ज्ञापकम् । तथा हि- "आहस्थः' इति सूत्रं हि झलादौ परे आहः थकारदेशं विधत्ते । आत्थ इत्युदाहरणम् । यदि चात्र स्थानिवद्भावेन ब्रूत्वम्हः आश्रित्य ततः परस्य थलः ईट् स्यात् तदा थलः ईकारादेः झलादित्वं नास्तीति तस्मिन् परे थत्वं कथं भवेत् । अतः झलि परे विधीयमानं थत्वं नाहेरीट् भवतीति ज्ञापयति । ननु "आहस्थः' इति सूत्रेण भूतपूर्वो यो झलादिस्तस्मिन् परे थकारो विधीयते । थल ईडड्डत्ध्;ागमे सति अधुना झलादित्वाभावेऽप पूर्वं झलादित्वमस्तीति तदादाय थत्वं भविष्यतीति वैर्यथ्याभावात्कथमस्य ज्ञापकत्वमिति चेत्--यदि भूतपूर्वगतिराश्रीयेत तदा णलदीनामपि स्थान्यवस्थामादाय भूतपूर्वझलादित्वमस्तीति पञ्चस्वपि परतः आहस्थकारो भवतीति लभ्येत । एवं चेत् आहादेश इत्यनुक्त्वा "ब्रूवः पञ्चानामादित आथो ब्रुवः' (सू.3-4-84) इति आथादेशमेव विदध्यात् आहस्थ इति पृथक् सूत्रं च न कुर्यात् । यतः पृथक्सूत्रं कृतं तेन ज्ञायते भूतपूर्वगतिरत्र नाश्रीयत इति । ततश्च पञ्चानां मध्ये थल् एक एव झलादिः । तस्य चेदीट् भवेत् झलादित्वं तस्य भग्नमिति झलादौ परतो विधीयमानं थत्वमनवकाशं स्यात् । अतो ज्ञापयति नाहेरीड्ड्डत्ध्; । तदेतत्सर्वं मनसिकृत्याह--आथादेशे कर्तव्य इति । झ्र्ज्ञा.ट ठगोतः' (सू.8-1-90) "ओतः' (6-1-93) इति च तपरकरणसार्मथ्यात् चित्रगुश्चत्रगुमित्यादौ न णिच्वात्वे । झ्र्वि.ट स्थानिवत्सूत्रोपरि दोषपरिगणनसन्दर्भे गोशब्दे णित्त्वमात्वं च प्राप्नोतीत्याशङ्क्य तपरकरणसार्मथ्यान्न णित्त्वात्वे इत्याकरे उक्तम् । तदाह--गोत इति । अयमाशयः--यद्यादेशः स्थानिवत्स्यात् तदा चित्रगुरित्यत्र चित्रा गावो यस्येति बहुव्रीहौ "गोस्त्रियोरुपसर्जनस्य' (सू.1-2-48) इति ओकारस्य ह्रस्वे उकारे सति तस्य स्थानिद्भावेन ओकारत्वात् गोशब्दात्परत्वं सु इति सर्वनामस्थानस्य वर्तत इति तस्य "गोतो णिंत्' (सू.7-1-90) इति णित्त्वे तस्मिन् परतः "अचो ञ्णिति' (सू.7-1-15) इति उकारस्य वृद्धिः प्राप्नोति । एवं चत्रिगुमित्यत्र उकारस्य स्थानिवद्भावेन ओकारत्वात् ततः अमः अचि परे पूर्वपरयोः आकारदेशः "औतोऽम्शसोः' (सू 6-1-93) इति सूत्रेण प्राप्नोति इत्याशङ्का । समाधानं तु - सूत्रद्वयेऽपि ओत इति तपरकरणात् अल्विधित्वात् अनल्विधाविति निषेघाच्च स्थानिंवद्भावो नेति । तपरकरणस्य फलं हि गु इत्यत्रोकारव्यावृत्तिः । यदि तत्रापि स्थानिवद्भावेन सूत्रं प्रवर्तेत तर्हि तपरकरणमनर्थकं स्यादिति । झ्र्झा.ट ठद्विर्वचनेऽचि' (सू.1-1-59) ।। अज्ग्रहणं तु ज्ञापकं रूपस्थानिवद्भावस्य । जेघ्रीयत इति हि तत्प्रत्युदाहरणम् । झ्र्वि.ट ननु "द्विर्वचनेऽचि' (सू.1-1-59) इति सूत्रस्य द्वित्वनिमित्तेऽचि परेऽजादेशः स्थानिवदित्यर्थः । तत्र च कार्यातिदेश इति पक्षे चक्रतुः चक्रुः इत्यादौ आब्यासरूपं न सिध्यति । कृ अतुः इत्यत्र ऋकारस्य यणि रेफे क् र् अतुः इति स्थिते एकाचो विधीयमानंद्वित्वमनच्कस्य अप्राप्तं स्थानिवद्भावेन प्रप्यमाणमपि कार्यातिदेशात् यण्युक्तस्यैव प्राप्नोति । ततश्च क् र् क् र् अतुः इति स्थिते हलादिशेषादौ च्क्रतुः इत्येव रूपं सिध्येत् । अकारयुक्ताभ्यासविशिष्टं चक्रतुरिति रूपं न सिध्येत् इत्याशङ्क्याह-अज्ग्रहणं तु इति । अयं भावः--"द्विर्वचनेऽचि' इति सूत्रेण अजादेशः स्थानिवदित्यतिदेशः स्थानिनि सति यत्कार्यं भवति तदादेशेऽपि भवतीत्येवंरूपंः कार्यातिदेश इति न मन्तव्यम् । अपि तु स्थानिनि सति यद्रूपं तदादेशेऽपि भवतीत्येवंरूपः रूपातिदेश इति । तथा च कृ अतुः इत्यत्र यणादेशे कृते तस्य स्थानिरूपातिदेशात् कृ इति ऋकारविशिष्टस्य द्वित्वे चक्रतुरिति रूपं सिध्यतीति न दोषः । रूपातिदेशे ज्ञापकं तु अचि इति अज्ग्रहणम् । तस्य हि प्रयोजनं जेघ्रीयत इत्यादौ स्थानिवत्त्वाभावः
। घ्रधातोर्यङि "ई घ्राध्मोः' (सू.7-4-31) इति सूत्रेण धातोराकारस्य ईकारे घ्री इत्यस्य द्वित्वे हलादिशेषे चुत्वे जश्त्वे "गुणो यङ्लुकोः' (सू.8-4-72) इति अभ्यासस्य गुणे च जेघ्रीयत इति रूपम् । तत्र यङः द्वित्वनिमित्तत्वात् तस्मिन् परे आकारादेशस्य ईकारस्य स्थानिवद्भावेन रूपातिदेशे घ्रा इत्यस्य द्वित्वे जघ्रायत इत्येव रूपं स्यात् इति अज्ग्रहणं कृतम् । कृते च तस्मिन् द्वित्वनिमित्तेऽचि परत एव अजादेशस्य स्थानिवद्भावः । यङस्तु द्वित्वनिमित्तस्याप्यच्त्वं नास्तीति तस्मिन् परत ईकारस्य स्थानिवत्त्वेन आकाररूपातिदेशो नास्तीति घ्री इत्यस्य द्वित्वे जेघ्रीयत इतीष्टरूपसिद्धिः। तत्र यदि कार्यातिदेशपक्षः तदा घ्री इत्यस्य द्वित्वरूपं कार्यमेवातिदिश्यते इति आकाररूपातिदेशाभावात् स्थानिवत्त्वेऽपि न दोष इति किमज्ग्रहणेन । कृतं चाज्ग्रहणं द्विर्वचनेऽचीति सूत्रै क्रियमाणः स्थानिवत्त्वातिदेशः रूपातिदेश इति ज्ञापयतीति । झ्र्ज्ञा.ट ठओः पूयण्जि' वचनं ज्ञापकं णौ स्थानिवद्भावस्य । झ्र्वि.ट ननु अवन्नावयिषति अवचुक्षावयिषतीत्यादौ नुक्षुधात्वोर्णिजन्तयोः सुन् भवति । तत्र च णिचि परतो न इत्यत्रोकारस्य "अचो ञ्णिति' (सू 7-2-115) इति वृद्धौ आवादेशे च नाव् इ स इति स्थिते आवादेशस्य स्थानिवद्भावेन औकाररूपातिंदेशे नौशब्दस्य द्वित्वे नौ नौ इस इत्यत्र आभ्यसह्रस्वे आवादेशे च नुनावयिषति इति रूपम् । तत्र स्थानिवद्भावो दुर्लभः । "द्विर्वचनेऽचि' इत्यनेन द्वित्वनिमित्तेऽचि परत एव अजादेशस्य स्थानिवद्भाव उच्यते । अत्र च णिचः द्वित्वनिमित्तत्वाभावात् तत्र परतः कृतस्य अजादेशस्य कथं स्थानिकत्त्वं लभ्येतेत्यत आह--ओः पुयण्जि इति । तथा च णौ परतः कृतस्य अजादेशस्य स्थानिवत्त्वमस्त्येवः तत्र "ओः पुयण्ज्यपरे' (सू 7-4-80) इति सूत्रं ज्ञापकम् । तस्य सूत्रस्य हि सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात् अवर्णपरकेष पवर्गयण्जकारेषु परत इत्यर्थः । यियविषति इत्युदाहरणम् । तत्र पुयण्जि इत्यनुक्तौ अवनुनावयिषतीत्यादावपि अभ्यासोकारस्य इत्वं भवेत् । तद्वारणाय पुयण्जीत्युक्तम् । यदि च णौ कृतस्य क्थानिवद्भावो नास्ति तदा उकारयुक्तमभ्यासस्वरूपमत्र दुर्लभमिति अब्यासे उकारभावादेव इकारादेशाप्रवृत्तेः किं पुयण्जिग्रहणेन । कृतं च तत् णौ स्थानिवद्भावो भवतीति ज्ञापयतीति भावः । झ्र्ज्ञा.ट ठप्रत्ययस्य लुक्' (सू.1-1-61)।। प्रत्ययस्येत्येतत्सार्मथ्यात् लोपे प्रकृते "लुग्वा दुह' (सू.7-3-73) इति ज्ञापकाच्च लुगादयः सर्वादेशाः । झ्र्वि.ट ठप्रत्ययस्य लुक्श्लुलुपः' इति सूत्रे प्रत्ययग्रहणं लुक्श्लुलुपां सर्वादेशत्वसिद्ध्यर्थमिति वार्तिककारेणोक्तम् । तच्च खण्डड्डत्ध्;यन् आह भाष्यकारः--- "एतदपि नास्ति प्रयोजनम् । आचार्यप्रवृत्तिर्ज्ञपयतिं लुक्श्लुलुपः सर्वादेशा भवन्तीति । यदयं "लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये' इति लोपे प्रकृते लुकं शास्ति' इति । "लुग्वा दुह' (सू.7-3-73) इति सूत्रेण दुहादीनां क्सस्य दन्त्ये तङि परे लुग्वा विधीयते । अदुग्घ अधुक्षतेत्यादिकमुदाहरणम् । तत्र सूत्रे "घोर्लोपो लेटि वा' (सू.7-3-70) इति सूत्रल्लोप इत्यनुवृत्त्यैव सिद्धे लुग्ग्रहणम् लुग्ग्रहणेन विधीयमानमदर्शनं सर्वादेश इति ज्ञापयति । लोपस्य तु अन्त्यादेशत्वम् । लुगपि यदान्त्यादेशः स्यात् तदा लोपपदानुवृत्त्यैवेष्टसिद्धेः किं लुग्ग्रहणेन। कृतं तु लुग्ग्रहणं सर्वादेशत्वस्य ज्ञापकमिति भावः । तदेतदाह--प्रत्ययस्येत्येतत्सार्मथ्यादित्यादिना । इदं वार्तिकमतेन । भाष्यमतेन त्वाह--"लुग्वा दुह' इति ज्ञापकाच्चेति । झ्र्ज्ञा.ट ठप्रत्ययलोपे' (सू.1-1-62)।। "न लुमताङ्गस्य' (सू.1-1-63) इति निषेधात् ज्ञापकात् लुगादीनामपि लोपत्वम् । झ्र्वि.ट नन् "प्रत्ययलोपे प्रत्ययलक्षणम्' इति सूत्रेण प्रत्ययस्य लोपे सत्यपि प्रत्ययनिमित्तकं कार्यं
भवतीत्युच्यते । तत्र प्रत्ययस्य लुकि सति प्रत्ययनिमित्तकं कार्यं न प्राप्नोति, लुको लोपत्वाबावात् । तथा च पञ्च सप्त इत्यादौ "षड्ड्डत्ध्;भ्यो लुक्' (सू.7-1-22) इति सूत्रेण जश्शसोर्लुकि पञ्चन् सप्तन् इत्यादेः पदत्वं न स्यात् , पदत्वाभावाच्च नलोपो न स्यात् । प्रत्ययलक्षणेन हि सुबन्तत्वमाश्रित्य पदत्वं वक्तव्यम् । प्रत्ययलोप एव च प्रत्ययलक्षणं न तु प्रत्ययलुकीत्याशङ्क्याह--न लुमताङ्गस्येति निषेधादिति । लुमता लुक् इत्यादिशब्देन लुप्ते प्रत्ययलक्षणं अङ्गकार्यं नेति निषेधः प्रत्ययलक्षणप्राप्तावेव युज्यते । अप्राप्तनिषेधायोगात् । लुक्शब्देन लुप्ते प्रत्ययलक्षणं च लुको लोपसंज्ञायामेव घटते । प्रत्ययलोप इत्युक्तेः । अतश्च निषेदान्यथानुपपत्त्या लुगादीनामपि लोपत्वमस्तीति ज्ञाप्यत इति भावः । झ्र्ज्ञा.ट तस्मिन्निति (सू.1-1-66)।। अनयोः सूत्रयोः षष्ठीप्रकल्पकत्वपक्षे सप्तमीपञ्चम्योर्न युगपत् प्रकल्पकता । "एकः पूर्वपरयो:' (सू 6-1-75) इति ज्ञापकात् । झ्र्वि.ट ठननु तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परिभाषा पूर्वंस्य षष्ठीं प्रकल्पयति, "तस्मादित्युत्तरस्य' (सू.1-1-67) इति परिभाषा परस्य षष्ठीं प्रकल्पयतीति स्वीकारे यत्र विधिसूस्त्रे सप्तमी पञ्चमी चेत्युभयोः श्रवणं तत्र पूर्वस्य परस्य च षष्ठीप्रकल्पनं स्यात् । ततश्च तत्रोभयोः कार्यं प्राप्नोति । यथा "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकेऽनुदात्तम्' (सू.6-1-186) इति सूत्रे तास्यादिभ्य इति पञ्चमी लसार्वदातुके इति सप्तम्याः षष्ठीं प्रकल्पयेत् । तथा लसर्वधातुक इत्येषा सप्तमी तास्यादिब्य इति पञ्चम्याः षष्ठीं प्ररकल्पयेत् । तथा लसर्वदातुक इत्येषा सप्तमी तास्यादिभ्य इति पञ्चम्याः षष्ठीं प्रकल्पयेत् । तत्रोभयोः कार्यमनुदात्तत्वं प्राप्नोति इत्याशङ्क्याह--अनयोः सूत्रयोरिति । यद्युभयनिर्देशात् परस्परप्रकल्पने सति तास्यादिभ्यो लसार्वधातुकास्य लसार्वधातुके तास्यादीनामनुदात्तत्वं भवतीति वाक्यार्थः स्यात् तदा "आद्रगुणः' इत्यादावप्यचीत्यनुवृत्तेः उभयप्रक्लृप्तिमाश्रित्य अचि अवर्णस्य, अवर्णात्परस्याचश्च गुण इति व्याख्यानेन पूर्वपरयोर्गुणसिद्ध्या "एकः पूर्वपरयोः' (सू.6-1-75) इति व्यर्थं स्यात् । यतश्च तत्सूत्रमारब्धम् अतः पञ्चमीसप्तम्योरुभयोः प्रकल्पनं नाश्रीयते । उभयत आश्रयणे पञ्चमीनिर्दैशस्य बलीयस्त्वात् पञ्चम्या एव षष्ठीप्रकल्पकत्वात् परस्य गुणः स्यादिति पूर्वपरयोर्गुणसिद्ध्यर्थं "एकः पूर्वपरयो' रिति सूत्रम् । ततश्च तास्यनुदात्तेत् इत्यादावपि पञ्चमी सप्तम्याः षष्ठीं प्रकल्पयतीति तास्यादिभ्यः परस्य लसार्वधातुकस्यैवानुदात्तत्वं न पूर्वपरयोर्द्वयोरिति न दोष इत्याशयः । झ्र्ज्ञा.ट येन विधिः (सू.1-1-72)।। "नेदमदसोरकोः' (सू.7-1-11) इत्यत्राकोरित्युक्त्या तदेकदेशभूतं तद्रग्रहणेन गृह्यत इति ज्ञाप्यते । झ्र्विदृट ननु येन विधिरिति सुत्रे विशेषणं तस्य तदन्तस्य च संज्ञा स्यादिति व्याख्यानेऽपि अकज्वतः सर्वक इत्यस्मात् परस्य जसः शी न प्राप्नोति । तथा हि सर्व जस् इति स्थिते अकचि सर्वक जस् इत्यत्र सर्वक इत्यस्य सर्वशब्दत्वाभावात् सर्वशब्दान्तत्वाभावाच्च सर्वनाम्नः प्रातिपदिकात् इत्यनेन वा सर्वनामान्तात् प्रातिपदिकात् इत्यनेन वा उभयथापि ग्रहणाभावात् "जसः शी' (सू.7-1-17) इति सूत्राप्रवृत्तेः । एवं भिनत्ति इत्यत्र भिद् इत्यस्यैव धातुत्वेन श्नम्वतः भिनद् इत्यस्य शब्दानतरस्य धातुत्वाभावात् "धातोः' (सू.6-1-162) इति विधीयमानोऽन्तोदान्तस्वरो न स्यात् इत्याशङ्क्याह--नेदमदसोरकोरित्यादिना । "नेदमदसोरकोः' (सू.7-1-11) इति सूत्रं ककाररहितयोरिदमदसोः परस्य भिसः एस् न स्यादितिं प्रतिपादयति । तत्र ककाररहितयोरित्यनेन इमक अमुक इति अकज्विशिष्टयोः
इदमदसोर्व्यावृत्तिरिष्यते । तत्र इदमदसोर्विषये उच्यमानः प्रतिषेधः तदि्भन्नयोः अकज्विशिष्टयोः कथं प्राप्नुयात् । अतः अकोः इत्यनुक्तावपि शब्दभेदादेव व्यावृत्तिसिद्धेः अकोरिति व्यर्थं सत् तदेकदेशभूतं तद्ग्रहणेन गृह्यत इति ज्ञापयति । तथा च इदमदस् शब्दमध्यपाती अकच् तदवयवत्वात् इदमद्सग्रहणेन गृह्येतेति तद्व्यावृत्त्यर्थं अकोरिति सार्थंकम् । एवं सर्वकशब्दस्यापि सर्वशब्देन ग्रहणात् सर्वनामत्वमस्तीति ततः परस्य जसः शीभावे सर्वके इति रूपं सिध्यति । एवं भिनद् इत्यत्र भिद् इत्यस्य अवयवत्वेनागतः श्नम् भिद्रग्रहणेन गृह्यत इति भिनद् इत्यस्यापि धातुत्वात् "धातोः' इति विहितोऽन्तोदात्तोऽपि सिध्यतीति भावः । इदमेव "तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इत्यपि पठन्ति । अक्तपरिमाणानामिति । परिच्छिन्नपरिमाणानामित्यर्थः । तत्त्वमिति । धात्वादित्वमित्यर्थः । झ्र्ज्ञ.ट ठपूर्वादिनिः' (सू.5-2-86) "सपूर्वाच्च' (5-2-87) इति योगविभागो व्यपदेशिवद्भावोऽप्रातिपदिकेनेत्यस्याः ज्ञापकः । झ्र्वि.ट ननु "येन विधिस्तदन्तस्य' (सू. 1-1-72) इति सूत्रे विशेषणं तदन्तस्य संज्ञा स्यादित्येतावन्मान्नोक्तौ "रोणी' (सू.4-2-78) इति सूत्रेण विधीयमानोऽण् रोणीशब्दान्तात् अजकरोणी इत्यत एव भवेत् न तु केवलरोणीशब्दात् । ततश्च रौम इति न सिध्येत् इत्यालोच्य वशिेषणं तदन्तस्य तस्य च संज्ञा स्यादिति आकरे व्याख्यातम् । तत्र तस्य चेत्यंशोऽनुपादेयः । तदभावेऽपि व्यपदेशिवद्भावेन रोणीशब्दस्य रोणीशब्दान्तत्वमादायाण्सिद्धेरित्याशङ्कां मनसिकृत्याह--पूर्वादिनिरित्यादिना । तथा च प्रातिपदिकविषये व्यपदेशिवद्भावविरहात् रोणीशब्दस्य रोणीशब्दान्तत्वाभावात् तस्य च संज्ञा स्यादित्यवश्यं वक्तव्यमिति भावः । व्यपदेशिवद्भावोऽप्रातिपदिकेन इत्यस्यां परिभाषायां ज्ञपकं तु पूर्वादिनिः इति योगविभागः । "पूर्वात्सपूर्वादिनिः' इत्येकसूत्रं कृत्वा कृतपूर्व इत्यादेः कृतादिशब्दपूर्वकत्वात् केवलपूर्वशब्दस्य व्यपदेशिवद्भावेन सपूर्वकत्वाच्च पूर्वी कृतपूर्वी इत्युभयत्रापि इनिप्रत्ययस्य साधयितुं शक्यत्वात् तथा अकृत्वा पूर्वादिनिः सपूर्वाच्चेति योगविभागकरणमहिम्ना प्रातिपदिकविषये व्यपदेशिवद्भावो नास्तीति ज्ञाप्यत इति भावः । इति प्रथमाध्यायस्य प्रथमः पादः । झ्र्ज्ञा.ट ठतस्यादितः' (सू.1-2-32)।। स्वरितस्येत्यादि देवब्रह्मणोरनुदात्तवचनं ज्ञापकम्, इदं काण्डड्डत्ध्;म्, इदं काण्डड्डत्ध्;म् "उदात्तादनुदात्तस्य स्वरित' (सू 8-4-66) इत्यतः परमिति । झ्र्वि.ट ठतस्यादित उदात्तमर्धह्रस्वम्' (सू.1-2-32) इति सूत्रे भाष्ये स्वरितस्य अर्धमात्रात्मकः आद्यवयवः उदात्तसंज्ञक इति सूत्रार्थं प्रतिपाद्य, "तस्यादित उदात्तम्' (सू.1-2-32) इति सूत्रमारब्य "उदात्तस्वरितपरस्य सन्नतरः' (सू.1-2-40) इति सूत्रपर्यन्ता नवसूत्री "उदात्तादनुदात्तस्य स्वरितः' (सू.8-4-66) इति सूत्रादूर्ध्वं पठनीया हत्युक्त्वा प्रयोजनमुक्तम् "स्वरितात् सिद्धिर्यथा स्यात् "स्वरितात्संहितायामनुदात्तानाम्' (सू. 1-2-39) इति। तस्यायमर्थः- इमं में गङ्गे यमुने सरस्वति सुतुद्रि' इत्यत्र स्वरितात् मेशब्दात्परेषां गङ्गेप्रभृतीनामामन्त्रितत्वादनुदात्तानां "स्वरितात्संहितायामनुदात्तानाम्' इति सूत्रेण एकश्रुतिर्भवति । मेशब्दस्य स्वरितस्तु "उदात्तादनुदात्तस्य स्वरितः' (सू.1-2-39) इति सूत्रेण एकश्रुतौ कर्तव्यायां "उदात्तादनुदात्तस्य स्वरितः' (सू.8-4-66) इत सूत्रेण विहितः मेशब्दस्य स्वरितः असिद्ध इति स्वरितात्परत्वं गङ्गेप्रभृतीनां नास्तीति एकश्रुतिर्न सिध्येत् यथाश्रुताष्टाध्यायीपाठे । पूर्वोक्तनवसूञ्याः "उदात्तादनुदात्तस्य' (8-4-66) इत्यनन्तरं पाठ े तु एकश्रुतिविधायकस्य "स्वरितात्संहितायाम्' (सू.1-2-39) इति सूत्रस्यापि नवसूञ्यन्तर्भूतस्य अनन्तरत्वात् ततः पूर्वभस्य
"उदात्तादनुदात्तस्य' इति सूत्रस्य नासिद्धत्वमिति मेशब्दस्य स्वरितत्वसिद्ध्या ततः परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्निराबाधेति। न च स्वरितादित्याश्रित्य अनुदात्तानामेकश्रुतिविधानात् स्वरितस्यासिद्धत्वे स्वरितादित्याश्रयायोगात् स्वरितस्य सिद्धत्वं ज्ञायत इति व्यर्थोऽयं परिश्रम इति वाच्यम् । यत्र स्वरितस्यासिद्धत्वप्रसक्तिर्नास्ति तत्र स्वरितादित्याश्रित्य ततः परेषामनुदात्तानामेकश्रुतिविधायकतया सूत्रसार्थक्यात् । यथा "कार्यं देवदत्तयज्ञदत्तौ' इत्यत्र कार्यशब्दः ण्यदन्तः "तित्स्वरितम्' (6-1-185) इति सूत्रेण स्वरितान्तः । ततः परयोरनुदात्तयोर्देवदत्तयज्ञदत्तयोः एकश्रुतिर्भवति । अत्र "तित्स्वरितम्' इत्यस्य त्रिपादीस्थत्वाभावेनासिद्धत्वप्रसक्तिरेव नास्तीति अत्र स्वरितमाश्रित्य ततः परस्यानुदात्तरयैकश्रुतिविधायकतया सूत्रसार्थक्यम् । ततश्च इमं मे गङ्गे इत्यत्र पूर्वेक्तानुपपत्तिपरिहारर्थं पूर्वोक्तनवसूञ्याः "उदात्तादनुदात्तस्य' (सू.8-4-66) इत्यस्मादनन्तरं पाठः कर्तव्य इति भाष्याभिप्रायः । एवं नवसूञ्याः अष्टमाध्याये पाठमुक्त्वा तत्र ज्ञापकमपि तत्रैव भाष्ये-"देवब्रह्मणोरनुदात्तवचनं ज्ञापकं परमेतत्सूत्रकाण्डड्डत्ध्;म् इति' इति ग्रन्थेन उक्तम् । "देवब्रह्मणोरनुदात्तः' (सू.1-2-38) इति सूत्रेण देवब्रह्मशब्दयोः सुब्रह्मण्यानिगदान्तर्गतयोः स्वरितस्यानुदात्तो विधीयते । "देवा ब्रह्माण आगच्छत' हत्युदाहरणम् । देवाः ब्रह्माणः इत्यनयोः "आमन्त्रितस्य च' (सू.6-1-198) इति सूत्रेम आदिरुदात्तो भवति । ततः शेषनिघाते तस्य "उदात्तादनुदात्तस्य स्वरितः' (सू.8-2-38) इति सूत्रेणानुदात्तो विधीयते । तत्र "देवब्रह्मणोः' (सू.1-2-38) इत्यनुदात्ते कर्तव्ये "उदात्तादनुदात्तस्य'(8-4-66) इति स्वरितस्यासिद्धत्वात् अनुदात्त एव वर्तत इति तस्य पुनरनुदात्तविधानमनर्थकं सत् नवसूत्रात्मकं काण्डड्डत्ध्;म् "उदात्तादनुदात्तस्य स्वरितः' इत्यतः परमिति ज्ञापयति। तद्रीत्या च नवसूत्रात्मककाण्डड्डत्ध्;ान्तर्गतेन "देवब्रह्मणोः' इति सूत्रेण परेण पूर्वस्य "उदात्तादनुदात्तस्य' (सू.8-4-66) इति स्वरितस्यासिद्धत्वं न भवतीति तस्यानुदात्तवचनं सार्थकमिति ज्ञापकपरभाष्याश्यः । तदेतत्सर्वं मनसिकृत्याह--स्वरितस्येत्यादीति । स्वरितस्येत्यनुवर्तमाने देवब्रह्मणोः अनुदात्तविधायकं "देवब्रह्मणोरनुदात्तः' इति सूत्रं पूर्वोक्तार्थे ज्ञापकमित्यर्थः । झ्र्ज्ञा.ट अपृक्त एकाल् (सू.1-2-41) ।। इदमप्येकग्रहणं वर्णग्रहणे जातिग्रहणं ज्ञापयति । झ्र्वि.ट इदमपीति । अपिना "निपात एकाच्' (सू 1-1-14) इति सूत्रस्थमेकग्रहणं समुच्चीयते । एतच्च पूर्वमेव विवृतमिति नेह विव्रियते । झ्र्ज्ञा.ट अर्थवदधातुः (सू.1-2-45)।। अप्रत्यय इत्यस्य प्रसज्यप्रतिषेधत्वे "नोङ्धात्वोः' (सू.6-1-175) इति विभक्तिस्वरप्रतिषेदात् ज्ञापकात् ऊङन्तादेः प्रातिपदिकत्वम् । झ्र्वि.ट ठअर्थवददातुरप्रत्ययः प्रातिपदिकम्' इति सूत्रे अप्रत्यय इत्यस्य प्रत्ययो न इत्येवं प्रसज्यप्रतिषेधपरत्वम् इति पक्षे प्रत्ययान्तं प्रत्ययश्च प्रातिपदिकसंज्ञके न भवतः इति सूत्रार्थः स्यात् । ततश्च ब्रह्मबन्धुशब्दात् स्त्रियां "ऊङुतः' (सू.4-1-66)इति सूत्रेण ऊङि ब्रह्मबन्धु ऊ इति स्थिते "अकः सवर्णे दीर्वः' (सू.6-1-101) इति सवर्णदीर्घे ब्रह्मबन्धू इति स्थिते एकादेशस्य ऊकारस्य परदिवद्भावेन प्रत्ययत्वात् ब्रह्मबन्धू इत्यस्य प्रत्ययान्तत्वात् प्रातिपदिकसंज्ञानिषेधे ततः स्वाद्युत्पत्तिर्न स्यादित्याशङ्क्य ऊङन्तस्य प्रातिपदिकत्वं ज्ञापकेन साधयति--अप्रत्यय इत्यस्येत्यादिना । अयमाशयः--ऊङन्तस्य परं प्रत्ययान्तत्वेऽपि प्रातिपदिकसंज्ञा भवति । तत्र ज्ञापकं "नोङ्दात्वोः' (सू.6-1-175) इति विभक्तिस्वरप्रतिषेधः । तेन हि सूत्रेण ऊङः
धातोश्च आदेशभूताद्यणः परे शसादय उदात्ताः न स्युरिति प्रतिपाद्यते । ब्रह्मबन्ध्वा इत्युदाहरणम् । ऊङन्तस्य प्रातिपदिकत्वाभावे ततः परे शसादय एव दुर्लभा इति शशादेरुदात्तत्वनिषेधः ऊङन्तस्य प्रातिपदिकत्वज्ञापनद्वारा ततः विभक्त्युत्परत्तिं ज्ञापयतीत्यर्थः । भाष्ये तु "उत्पद्यन्ते ऊङन्तात्स्वादयः' इत्येव वचनशरीरं दृश्यते । तस्याप्युक्तार्थ एव तात्पर्यम् । झ्र्ज्ञा.ट ठन ङिसंबुद्ध्योः' (सू.8-2-8) इति प्रतिषेधात् ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय इति निषेधो न । झ्र्वि.ट तत्रैव सूत्रे प्रसज्यप्रतिषेधपक्ष एव राजन् स् इति स्थिते दीर्घे हल्ङ्यादिना सुलोपे च राजान् इत्यत्र "नलोपः प्रातिपदिकान्तस्य' (सू.8-2-7) इति नलोपे राजा इति रूपमिष्यते । तन्न स्यात् । सुलोपे सत्यपि तस्य प्रत्ययलक्षणेन प्रत्ययान्तत्वात् प्रत्ययान्तं प्रातिपदिकं नेति प्रातिपदिकसंज्ञानिषेधात् तत्संज्ञानिमित्तकनलोपासंभावादित्याशङ्क्य, अप्रत्यय इति निषेधविषये प्रत्ययलक्षणं न प्रवर्तते इति ज्ञापनान्न दोष इति समाधते-- न ङिसंबुद्ध्योरिति प्रतिषेधात् ज्ञापकादिति । "न ङिसंबुद्ध्योः' इति सूत्रेण हि ङौ संबुद्धौ च नस्य लोपो न स्यादित्युच्यते । परमे व्योमन्नति ङौ छन्दस्युदाहरणम् । अत्र ङेर्लोपानन्तरं प्रत्ययलक्षणेन प्रत्ययान्तत्वमाश्रित्य अप्रत्यय इति निषेधात्प्रातिपदिकत्वं नेति प्रातिपदिकनिमित्तकनलोपाप्रवृत्त्या नलोपनिषेधकं "न ङिसंबुद्ध्योः' इति सूत्रमनर्थकम् । कृतं च तत् - प्रत्ययलक्षणमाश्रित्य अप्रत्यय इति निषेधो न प्रवर्तत इति ज्ञापयति । अतो न दोष इति भावः । झ्र्ज्ञा.ट ठतिष्यपुनर्वस्वोः' (सू.7-2-63) अत्र बहुवचनग्रहणात् ज्ञापकात् सर्वा द्वन्द्वो विभाषयैकवदिति ज्ञाप्यते । एवं च तिष्यपुनर्वस्विति तद्व्यार्वत्यम् । अथवा जातिरप्राणिनामित्येकवत्त्वम् । नात्रभवन्तः प्राणिनः प्राणा एवात्रभवन्त इति । झ्र्वि.ट ननु "तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्' (सू.1-2-63) इति सूत्रे बहुवचनस्येति किमर्थम् । न च तदभावे एकवचनस्यापि द्विवचनं स्यात्, ततश्च तिष्यपुनर्वसु इत्येकवचनान्तं रूपं न सिद्ध्येदिति वाच्यम् । तिष्यपुनर्वस्वोर्द्वन्द्वे एकवचनस्य दुर्लभत्वात् तत्स्थाने द्विवचनप्रसक्त्यभावात् । न च तिष्यश्च पुनर्वसू च एषां समाहार इति समाहारद्वन्द्वे एकवद्भावात् एकवचनसौलभ्यमिति वाच्यम् । प्राण्यङ्गदीनामेव समाहारे द्वन्द्वविधानात् । न च "जातिरप्राणिनाम्' इति सूत्रेणात्र समाहारद्वन्द्व एकवद्भाव इति वाच्यम् । अप्राणिनामिति प्रतिषेधात् । तथा चैकवचनान्तस्य तिष्यपुनर्वसुशब्दस्याभावात् एकवचनस्य द्विवचनप्रसक्त्यभावात् "तिष्यपुनर्वस्वोः' इति सूत्रे बहुवचनस्येति व्यर्थमित्याशङ्क्य, अत एव तत् सर्वो द्वन्द्वो विभाषा एकवदिति ज्ञापयति । तथा च तिष्यश्च पुनर्वसू चेतीतरेतरयोगद्वन्द्वे तस्य एकवद्भावपक्षे तिष्यपुनर्वसु इत्यत्र एकवचनस्य द्विवचनं मा भूदित्येतदर्थं बहुवचनस्येत्युक्तम् । ज्ञापनफलं तु बाभ्रवाश्च शालङ्कायनाश्चेतीतरेतरयोगद्वन्द्वे बाभ्रवशालङ्कायनम् इति एकवचनान्तस्य साधुत्वम् इत्युक्तं भाष्ये । तदेतदाह--अत्र बहुवचनग्रहणात् ज्ञापकादिति । तद्व्यार्वत्यमिति । बहुवचनस्येत्यस्य व्यवच्छेद्यमित्यर्थः । वस्तुतस्तु तिष्यपुनर्वस्वोः लोके प्राणित्वेन व्यवहाराबावात् प्रतिमन्वन्तरं नक्षत्रभेदेन तिष्यपुनर्वस्वाधारा जातिः संभवतीति च हेतोः अप्राणिजातिवाचित्वेन जातिरप्राणिनामित्यनेन एकवद्भावे सति सस्यैकवचनस्य द्विवचनं मा भूदित्येतदर्थं बहुवचनग्रहणमित्येवोचितमित्याह--यथवेति । प्रणा एवात्र भवन्त इति । तिष्यपुनर्वस्वधीनस्थितिकत्वात् प्राणिनां तिष्यपुनर्वस्वोः कथंचित्प्राणत्वं वक्तुं शक्यते न तु प्राणित्वमिति भावः । ततश्चाप्रणिनामिति निषेधो न प्रवर्तत इत्याशयः । झ्र्ज्ञा.ट भ्रातृपुत्रौ स्वसृ
(सू.1-2-68)।। "पुमान् स्त्रिया' (सू.1-2-67) इत्येव सिद्धे इदं सूत्रं "यत्रोर्ध्वं प्रकृतेस्तल्लक्षणो विशेषस्तत्र वृद्धो यूनेत्याद्येकशेष इत्यर्थस्य ज्ञापकम् । झ्र्वि.ट नन्वेकशेषप्रकरणे भ्रातुः स्वस्त्रा सह, पुत्रस्य दुहित्रा सह चोक्तौ भ्रातृपुत्रौ शिष्येते इत्यर्थकं "भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (सू.1-2-68) इति सूत्रम् अनर्थकम् । "पुमान् स्त्रिया' (सू.1-2-67) इति सुत्रेणैव गतर्थत्वादित्याशङ्क्य ज्ञापनपरतया सार्थक्यमाह - पुमान् स्त्रियेत्येवेति । यत्र प्रकृतेरूर्ध्वमेव स्त्रीपुंलक्षणः विशेषोऽस्ति न तु प्रकृतौ तत्रैव पुमांस्त्रिया इति सूत्रं प्रवर्तते । यथा हंसश्च हंसी च इत्यत्र हंस इति प्रकृतिरेकैवोभयत्र । ततः परमेव भेदो वर्तत इति तत्र पुमास्त्रिया इत्येकशेषे हंसौ इति भवति । तेन हंसश्च वरटा चेत्यत्रैकशेषो न, प्रकृतावपि भेदात् । भ्राता च स्वसा चेत्यत्रापि प्रकृतावेव भेदोऽसतीति "पुमांस्त्रिया' इत्यस्याप्रवृत्त्या तत्रैकशेषविधायकतया "भ्रातृपुत्रौ' इति सूत्रं सार्थकमिति भावः । इति प्रथमाध्यायस्य द्वितीयः पादः । झ्र्ज्ञा.ट भूवादयः (सू.1-3-1)।। आदिग्रहणं ज्ञापयति अस्ति च पाठो बाह्यश्च सूत्रादिति । झ्र्वि.ट ननु "भूवादयो धातवः' इति सूत्रे आदिग्रहणं व्यर्थम् । तथा हि सूत्रकारेण भूप्रभृतीन् धातून् पठित्वा ते यदि भूवादिशब्देन परामृश्यन्ते तर्हि "ते दातवः' इत्येव सूत्रं पठनीयम् । यदि च सूत्रकारेम बूवादयः अपठितिः तदापि भूवादयः इत्यादिग्रहेण ते परामर्ष्टुं न शक्यन्ते इत्याशङ्क्याह--आदिग्रहणमिति । सूत्राद्बहिर्भूतो धातुपाठो वर्तते यत्र स्थितानां दातूनां आदिशब्देन परामर्शः सुलभः इति ज्ञापनार्थम् आदिपदं प्रयुक्तवान् सूत्रकार इति भावः । तथा च सूत्रेषु ये पठ्यन्ते मृडड्डत्ध्;मृदादयः तान् समाप्य "ते धातवः' इति सुत्रकारणे तत्रापठितानां आणवयति इत्यादीनामपि धातुसंज्ञा स्यात् । अतः सूत्रवार्तिकभाष्यगणपाठेषु दृष्टानामेव धातुसंज्ञासिद्ध्यर्थं भूवादय इत्युक्तमित्यवधेयम् । झ्र्ज्ञा.ट ठन विभक्तौ' (सू.1-3-4)।। अतद्धित इति वक्तव्यमिति थमो मस्येत्संज्ञापरित्राणार्थनोकारेणानुबन्धेन विभक्तौ तद्विते प्रतिषेधाभावज्ञापनात् प्रत्याख्यातम् । दानीं तु यान्तः करिष्यते लुप्तनिर्दिष्टयकारेण । झ्र्वि.ट ननु "न विभक्तौ तुस्माः' इति सूत्रेण विभक्तिस्थानां तवर्गसकारमकाराणामित्संज्ञ निषिध्यते । ततश्च किम्शब्दात् "किमोऽत्' (सू.5-3-12) इति सूत्रेण अत् इति प्रत्यते तकारस्य "हलन्त्यम्' (सू.1-3-3) इति सूत्रेणेत्संज्ञायां लोपे च "क्वाति' (सू 72-105)इति सुत्रेण किमः क्वादेशे च "क्क' इति रूपमिष्यते । तत्र "अत्' प्रत्ययस्य तद्धितस्य "प्राग्दिशोविभक्तिः' (सू. 5-3-1) इति सूत्रेण विभक्तिसंज्ञकत्वात् तत्स्थस्य तकारस्य "न विभक्तौ तुस्माः' (सू.1-3-4) इति सूत्रेण इत्संज्ञानिषेधः स्यादित्याशङ्क्य वार्तिककृता"अतद्वित इति वक्तव्यम्' इत्युक्तम् । तद्धितभिन्नविभक्तिस्थानामेव तवर्गदीनामित्संज्ञा निषिध्यत इति तद्धितस्थतकारस्येत्संज्ञा भवत्येवेति तदाशयः । इदं च वार्तिकं ज्ञापकेन तद्धितस्थतवर्गादीनां इत्संज्ञानिषेधो न भवतीति प्रसाध्य प्रत्याख्यातं भाष्यकृता । तदह-अतद्धित इति वक्तव्यमितीति । अस्य च प्रत्याख्यातमित्यनेनान्वयः । "इदमस्थमुः' (सू.5-3-94) इति सूत्रेण "इदम्' शब्दात् प्रकारवचने थमुप्रत्ययो विधीयते । प्रत्यते च उकार इत्संज्ञकः । अत्र उकारासञ्चनं मास्तु "थम्' इत्येव प्रत्ययोऽस्तु इति शङ्कायां, तथा सति मकारस्य "हलन्त्यम्' इति सूत्रेणेत्संज्ञा स्यादिति तद्वारणार्थमुकारः संयोजितः । ततश्च उपदेशे मकारोऽन्त्यो न भवतीति नेत्संज्ञेति समाधानं वक्तव्यम् । परं तु थम् इति मान्ते प्रत्यये उपदिष्टेऽपि तस्य "प्राग्दिशो विभक्तिः' (सू.5-3-2) इत्यनेन विभक्तिसंज्ञकत्वात "न विभक्तौ तुस्माः' इति सूत्रेणैव मकारस्येत्संज्ञ न भविष्यतीति तस्य इत्संज्ञातः परित्राणार्थं
क्रियमाणमुकारोच्चारणं व्यर्थम् । कृतं च तत् तद्धितविभक्तिस्थतुसमानामित्संज्ञानिषेधो नेति ज्ञापयति । ततश्च थमो मकारस्येत्संज्ञा स्यादिति तन्निषेधार्थमुकारोच्चारणं सार्थकम् । तेनैव अत्प्रभृतितद्धितेऽपि इत्संज्ञाप्रतिषेधो न प्रर्वत्स्यतीति "अतद्धित इति वक्तव्यम् ' इति वार्तिकमनावश्यकमिति भावः । ननु तद्धितविभक्तौ तुस्मानामित्संज्ञानिषेधो न प्रवर्तत इति ज्ञापने इदानीमित्यत्र "दानीम् च' (सू.5-3-18) इति सूत्रेण विहितो यो दानीम् प्रत्ययस्तदन्त्यमकारस्येत्संज्ञा प्राप्नोतीत्याशङ्क्याह--दानीम् तु यान्तः करिष्यत इति । दानीम्य् इत यकारान्त एव प्रत्ययः । स च चकारः सूत्रे चकाररूपे वलि परे "लोपो व्योर्वलि' (सू.6-1-66) इति लुप्तत्वान्न श्रूयते । तथा चोपदेशे मकारस्यान्त्यत्वं नास्तीति नेत्संज्ञ । न च प्रत्ययस्य यथारान्तत्वे इदानीमित्यादौ यकारश्रवणापत्तिरिति वाच्यम् । "संयोगान्तस्य लोपः' (सू.8-2-23) इत यकारस्य लोपादित्याशयः लुप्तनिर्दिष्टयकारेणेति । लोपो व्योर्वलीत्यनेनेति शेषः । झ्र्ज्ञा.ट तस्य लोपः (सू.1-3-9) "ददातिदधात्योर्विभाषा' (सू.3-1-139) इति ज्ञापकात् नानुबन्धकृतमसारूप्यम् । "शित्सर्वस्य' (सू.1-1-55) इति ज्ञापकात् नानुबन्धकृतमनेकाल्त्वम् । "उदीचां माङः' (सू.3-4-19) इति सानुबन्धकस्यात्वभूतस्य निर्देशात् नानुबन्धकृतमनेजन्तत्वम् । एकान्ता अनुबन्धा इत्येव न्याय्यम् । सहेतुकत्वात् । अनुदात्तङितः (सू.1-3-12) "अनुपसर्गाद्वा' (सू.1-3-43) इति विकल्पविधानं ज्ञापकम् विकरणेभ्यो नियमो बलीयानित्यस्य । विकरणव्यवधानेऽपि नियमप्रवृत्तेर्ज्ञापकमिति "शदेः शितः' (सू.1-3-60) इति सूत्रे भाष्ये ध्वनितम् । इति प्रथमाध्यायस्य तृतीयः पादः । झ्र्ज्ञा.ट विप्रतिषेधे (सू.1-4-2) "असिद्धं बहिरङ्गम्' इत्यस्यां "वाह ऊठ्' (सू.6-4-132) इत्यूठ्ग्रहणं ज्ञापकम् । इन्द्रे द्वावचौ । तत्रैको यस्येति लोपेनापढिद्धठ्ठड़14;वयते । अपर एकादेशेन । ततोऽनच्क इन्द्रः संपन्नः । तत्र वृद्धेः प्रसङ्गाभावान्नषेधो व्यर्थः सनुज्ञापकः पूर्वोत्तरपदयोस्तावत्कार्यं भवति नैकादेशोऽन्तरङ्ग इति । यस्मात्प्रत्ययविधिः (सू.1-3-13) "गतिरनन्तरः' (सू.6-2-49) इत्यनन्तरग्रहणं कृद्ग्रहणे गतिकारकपूर्वस्यापीत्यस्याः ज्ञापकम् । सुप्तिङन्तम् (सू.1-4-14) इदमन्तग्रहणं संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं न इत्यस्या ज्ञापकम् । झ्र्वि.ट एतानि सर्वाण्यपि परिभाषारूपाणि वचनानि परिभाषेन्दुशेखरे विवृतानीति नेह विव्रियन्ते । एवंजातीयकानां कासांचित्परिभाषाणामपि ज्ञापकसंग्रहेऽस्मिन् समावेशः कथमुपजात इति न जानीमः । झ्र्ज्ञा.ट बहुषु बहुवचनम् (सू.1-4-21) बहुवचननिर्देशो ज्ञापको नानाद्रव्यवाचिबहुशब्दस्य ग्रहणं न वैपुल्यवाचिन इति । झ्र्वि.ट ननु बहुषु बहुवचनमिति सूत्रेण बहुत्वेऽर्थे बहुवचनं विधीयते । तत्र च बहुत्वं वैपुल्यं संख्याविशेषश्चेति द्विविधम् । तत्र विशेषकाभावात् द्वयोरप्यर्थयोर्बहुवचनं प्राप्नोति । ततश्च बहुरोदन इत्यत्र वैपुल्यस्य प्रकृतितो विवक्षितत्वात् बहुवचनप्रसङ्गइत्याशङ्क्याह--बहुवचननिर्देश इति । बहुत्वस्यैकत्वात् बहौ बहुवचनमिति निर्दैष्टव्ये सति यत् बहुषु इति बहुवचननिर्देशनं तज्ज्ञापयति नानाद्रव्यवाची यो बहुशब्दः स एव बहुषु इत्यत्रोपात्तो न वैपुल्यवाची बहुशब्द इति । अयमाशयः--सूत्रे बहुत्वस्यैकत्वेऽपि बहुत्वाश्रयस्य बहुत्वात् आश्रयगतं बहुत्वं बहुत्वे आरोप्य बहुषु इति बहुवचननिर्देशः कृतः । तेन च यस्य बहुत्वस्याश्रयो बहुर्भवति तस्मिन् बहुत्वे बहुवचनं भवतीति सूत्रार्थः संपद्यते । वैपुल्यरूपस्य बहुत्वस्याश्रय एक इति एकाश्रिते वैपुल्यात्मके बहुत्वे बहुवचनं न भवति । संख्यारुपस्य बहुत्वस्याश्रयो नानेति संख्यारुपे बहुत्व एव बहुवचनमिति ।
झ्र्ज्ञा.ट तत्रैतेषु प्रपत्ययनियमे अव्ययानां पदत्वाप्राप्तेरर्थनियमो वक्तव्यः । प्रकृतार्थापेक्षो वा प्रत्ययनियमः । झ्र्विट ठव्द्येकयोर्द्विवचनैकवचने' "बहुषु बहुवचनम्' (सू.1-4-21) इत्यादीनां नियमार्थत्वमाश्रीयते । नियमश्व द्विविधः प्रत्ययनियमः अर्थनियमश्वेति । एकस्मिन्नेवैकवचनम्, द्वयोरेव द्विवचनम्, बहूष्वेव बहुवचनमिति प्रत्ययनियमः एकस्मिन्नेकवचनमेव, द्वयोर्द्विवचनमेव, बहुषु बहुवचनमेवेति चार्थनियमः । तत्र प्रत्यनियमाश्रयणे उच्चैस् नीचैस् इत्यादीनामव्ययानां पदसंज्ञा न प्रप्नोति, असुबन्तत्वात् । प्रत्यया हि विशिष्टायां संख्यायां नियता इति निः संख्येभ्योऽव्ययेभ्यः सुबनुत्पत्तेः सुबन्तत्वप्रयुक्ता पदसंज्ञा न स्यात् ।पदत्वाभावे च रुत्वाद्यभावप्रसङ्ग इत्याशङ्क्य, अत एवानुपपत्तेः प्रत्ययनियमं परित्यज्य अर्थनियम आश्रयणीय इत्याह--तत्रैतेषु इति । एतेषु बहुवचनादिषु । प्रत्ययनियमपक्षेऽपि न दोषः । प्रकृतार्थानपेक्ष्य नियमः क्रियते । एकत्वादयश्च प्रकृताः । ततश्च एकस्मिन्नेवैकवचनमिति प्रत्ययनियमेन संख्यात्वेन एकत्वसजातीययोर्द्वित्वबहुत्वयोरेकवचनव्यावृत्तिर्लभ्यते । तावता निः संख्येभ्योऽव्ययेभ्यः प्रातिपदिकार्थ एकवचनं न व्यार्वत्यते । ततश्चाव्ययेभ्योऽपि स्वाद्यत्पत्तिसिद्धेः पदत्वमविरुद्धमित्याशयेनाह--प्रकृतार्थापेक्षो वेति । पूर्वोक्तनियमद्वयप्रतिपादकं वार्तिकं पठति--- झ्र्ज्ञा.ट सूपां कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ।। झ्र्वि.ट नियमस्तत्रेति । अर्थनियम इत्यर्थः । नियमः प्रकृतेषु वेति । प्रत्ययनियम इत्यर्थः । झ्र्ज्ञा.ट तत्रार्थे "अव्ययादाप्सुपः' (सू.2-4-82) इति ज्ञापकाद्वा अव्ययेभ्यः सुपः । अव्ययेभ्य औत्सर्गिकमेकवचनमिति पक्षन्तरं "तद्वितश्च'(सू.1-1-31) इति सूत्रे भाष्ये । झ्र्वि.ट भवतु सामान्यपेक्षः प्रत्यनियमः एकत्व एवैकवचनं नान्यस्मिन् कस्मिंश्चिदश्यर्थ इति । तथापि ज्ञापकादव्ययेभ्यः स्वाद्युत्पत्तिः सिध्यतीत्याह--तत्रार्थ इति । एकत्वाद्यर्थ एवैकवचनादिकमिति पक्षेऽपीत्यर्थः । प्रत्ययनियमेन निः संख्येभ्योऽव्ययेभ्यो यदिसुपो व्यार्वत्यन्ते तर्हि अव्ययेभ्यः सुपामनुत्पत्त्या तेषाम् "अव्यादाप्सुपः' (सू.2-4-82) इति लुग्विधानमनर्थकं स्यात् । कृतं च तत् अव्ययेभ्यः सुबुत्पत्तिरस्तीति ज्ञापयति । अतो न पदत्वानुपपत्तिरिति भावः । अव्ययेभ्यः सुप इति । सुप इति प्रथमाबहुवचनम् । उत्पद्यन्त इति शेषः । वस्तुतस्तु - अव्ययान्न सर्ववचनान्युत्पद्यन्ते, किं त्वेकवचनमेवेत्याह-- अव्ययेभ्य इति । "तद्धितश्चासर्वविभक्तिः' इति सूत्रभाष्ये "ध्द्येकयोर्द्विवचनैकवचने' "बहुषु बहुवचनम्' इति सुत्रन्यासं भङूक्त्वा "एकवचनम्' "द्वयोर्द्विवचनम्' "बहुषु बहुवचनम्' इति सूत्रविन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबढद्धठ्ठड़14;वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्युक्तम् । ततश्च एकवचनमिति सामान्यविधिना द्वित्बबहुत्वाभावे एकवचनमिति लभ्यते । अतोऽसंख्यानामव्ययानां द्वित्वबहुत्वाभावात् सामान्यसुत्रोक्तमेकवचनमेव भविष्यतीति भावः । किं सामान्यसूत्रेण प्रथमाया एवैकवचनं भवति, उत सर्वविभक्त्येकवचनमिति त्वन्यत् । झ्र्ज्ञा.ट अधिपरी अनर्थकौ (सू.1-4-93)।। एतज्ज्ञापयति अनर्थकानामपि निपातानामर्थवत् कृतमिति । इदं हि गत्युपसर्गसंज्ञाबाधेन कर्मप्रवचनीयसंज्ञार्थम् । यद्वा अर्थान्तराभावादनर्थकौ धातुनोक्तां क्रियामाहतुः । उक्तार्थानामपि प्रयोग इत्यर्थज्ञापकम्। झ्र्वि.ट ननु "अधिपरी अनर्थकौ' इति सुत्रेणानर्थकयोः अधिपर्योः कर्मप्रवचनीयसंज्ञालिझानमनक्छतम् । न च गत्युपसर्गसंज्ञाबाधनार्थं तद्विधानम् इति वाच्यम् । क्रियोयोगो हि गतिसंज्ञोपसर्गसंज्ञा च विधीयते । अनर्थकयोश्च
क्रियान्वितार्थकत्वरूपक्रियायोगाभावात्तयोःसंज्ञयोरप्रसक्तेः इत्याशढद्धठ्ठड़14;क्य ज्ञापनार्थतया सूत्रसार्थक्यामाह--एतज्ज्ञापयतीति । अनर्थकानामप्याधिपर्यादीनामर्थवतः शब्दस्य यत्कार्यं भवति तद्भवतीति ज्ञाप्यते । अर्थवतः क्रियोयोगनिमित्तके गत्युपसर्गसंज्ञे भवतः । ते अनर्थकयोरधिपर्योरपि भवेतामिति तद्वारणार्थं कर्मप्रवचनीयसंज्ञाविधानम् । ज्ञापनफलं तु "निपातस्यानर्थकस्यापि प्रातिपदिकसंज्ञा वक्तव्या' इति अर्थवत्सूत्रे प्रोक्तं वचनमनावश्यकमिति । वस्तुतस्तु अधिपरी अपि नानर्थकौ । "सर्वेऽप्युपसर्गा धात्वर्थद्योतकाः' इति हि मतम् । तत्र धात्वर्थक्रियागतविशेषद्योतकत्वमन्येषामुपसर्गाणाम् । अधिपरी तु धातुवाच्यां क्रियां द्योतयतः न तु तद्गतं विशेषम् । एतदभिप्रायेणौव "अनर्थका' विति सूत्रे उक्तम् ।तथा च क्रियाद्योतकत्वमेव क्रियायोगः । तस्य चाधिपर्योरपि सद्भावात् प्राप्तां गतिसंज्ञामुपसर्गसंज्ञां च बाधितुमनेन कर्मप्रवचनियसंज्ञाविदानमिति न सूत्रवैर्यथ्यम् । अत एव च नोक्तवचनज्ञापकत्वमपीत्याशयेनाह --यद्वा अर्थान्तराभावादिति । धातुवाच्यक्रियाव्यतिरिक्तस्य तद्गतविशेषरूपस्य द्योत्यार्थस्याभावादित्यर्थः । आहतुरिति । द्योतयत इत्यर्थः । ननु धातूक्तमेवार्थं यद्यधिपरी आहतुस्तर्हि तयोः प्रयोगो व्यर्थः, उक्तार्थानामप्रयोग इति न्यायादित्यत आह--उक्तार्थानामपीति । अत एवोक्तार्थानामपि प्रयोगोऽस्तीति ज्ञाप्यत इति भावः । यथा ब्राह्मणौ द्वावानयेत्यत्र द्विवचनेनैव द्वित्वेऽवगते स्फुटतरप्रतिपत्त्यर्थं पुनः प्रयोगस्तद्वत् पुनः प्रयोगो न विरुध्यत इति "अधिपरी अनर्थकौ' इति सूत्रं ज्ञापयतीति यावत् । झ्र्ज्ञा.ट ठलः परस्मैपदम्' (सू.1-4-99)।। सिचि वृद्धौ परस्मैपदग्रहणं ज्ञापकं पुरुषसंज्ञा परस्मैपदसंज्ञां न बाधत इति । झ्र्वि.ट ननु "लः परस्मैपदम्' इत्यत्र परस्मैपदग्रहणं न कर्तव्यम् । किं तु "लस्य' (सू.3-4-77) इत्यत्रैव प्रकरणे परस्मैपदग्रहणं कर्तव्यम् । इह प्रथमाध्याये परस्मैपदसंज्ञावचने एकसंज्ञाधिकारात् तिप्तस्झिप्रभृतीनां पुरुषसंज्ञाया अपि विधानात् परभूता सा परस्मैपदसंज्ञां बाधेत । परस्मैपदसंज्ञाविधानं तु शतृक्वस्वोः सावकाशमित्याशङ्क्याह--सिचि वृद्धाविति । यदि हि पुरुषसंज्ञया परस्मैपदसंज्ञायस्तिबादिषु बाधः स्यात्तदा "सिचि वृद्धिः परस्मैपदेषु' (सू.7-2-1) इति सूत्रे परस्मैपदशब्देन तिबादीनां निर्देशोऽसंगतः स्यात्। अतः पुरुषसंज्ञया परस्मैपदसंज्ञा न बाध्यत इति ज्ञाप्यत इति भावः । झ्र्ज्ञा.ट विभक्तिश्च (सू.1-4-104)।। त्रीणि त्रीणीत्यनुवृत्तौ "अष्टनआ' (सू.7-2-84) इत्यादिवचनाद् भवति । तन्निवृत्तौ "तस्माच्छसो नः पुंसि' (सू.5-2-203) इति नत्वविधानात्, औजसोरिति वक्तव्ये प्रथमयोरित्युक्त्या च पूर्वसवर्णदीर्घविधौ त्रिकग्रहणमिति ज्ञाप्यते । झ्र्वि.ट ननु "विभक्तिश्च' (सू.1-4-104) इति सूत्रे "तिङस्त्रीणित्रीणि' (सू.1-4-100) इति सूत्रात् त्रीणि त्रीणि इत्यनुवर्तते न वा ? यद्यनुवर्तते तदा त्रिकस्यैव विभक्तिसंज्ञा भवति नैकस्येति लभ्यते । तथा सति अष्टन्शब्दस्य जसादौ एकैकस्मिन् परतः आत्वं न स्यात् । "अष्टन आ विभक्तौ, (सू.7-2-84) इति सूत्रेण हि विभक्तौ परत आत्वं विधीयते । न ह्यष्टन् शब्दात्परं युगपत्त्रिकमस्तीति दोषः । यदि त्रीणि त्रीणीति नानुवर्तते तदा स्वादीनां प्रत्येकं विभक्तिसंज्ञकत्वं लभ्यत इत्येकैकस्मिन् परतोऽप्यात्वमष्टनः सिध्यति । तथापि "प्रथमयोः पूर्वसवर्णः' (सू.6-1-102) इत्यत्र प्रथमयोर्विभक्त्योरित्यनेन समुदायस्याग्रहणात् विभक्तिसंज्ञकयोः प्रथमयोः सु औ इत्यनयोरेव अचीत्यनुवृत्त्या औजसोरेव वा परतः पूर्वसवर्णदीर्घो भवेत् जसादौ परतो न भवेत् इति पक्षद्वयेऽपि दोषमाशढद्धठ्ठड़14;क्य समाघते-- त्रीण त्रीणीत्यनुवृत्ताविति । अनुवृत्तिपक्षे
त्रिकात्मकसमुदायस्यैव विभक्तिसंज्ञकत्वेऽपि त्रिकस्य युगपत्प्रयोगाबावात् आत्ववचनसार्मथ्यात् विभक्तिशब्दो विभक्त्यवयवे वर्ति इति विभत्तयवयवे परत आत्वविधानात् एकैकस्मिन् परतोऽप्यात्वं सिध्यतीति न दोषः । भवतीति । अष्टन आत्वमिति शेषः । त्रीणि त्रीणीति नानुवर्तत इति पक्षे प्रत्येकं विभक्तिसंज्ञायामपि "प्रथमयोः पूर्वसवर्णः' इति सूत्रे प्रथमयोस्त्रिकयोरेव ग्रहणं न प्रत्यययोरिति प्रतिपादयति--तन्निवृत्ताविति । त्रीणि त्रीणीत्यस्याननुवृत्तावित्यर्थः । "तस्माच्छसो नः पुंसि' इति सूत्रं हि नच्छब्देन पूर्वसवर्णदीर्घं परामृश्य ततः परस्य शसवयवस्य सकारस्य नत्वं विधत्ते । तत्र तस्मादित्यस्यानुपादाने एतान् गाः पस्येत्यत्र गो अ शस् इति स्थिते "औतोऽम्शसोः ' (सू.6-1-93) इति सूत्रेण ओकार - अकारयोः आकारे एकादेशे गास् इत्यवस्थायां सकारस्यापि नत्वंस्यादिति तद्वारणार्थं तस्मादित्युच्यते । गास् इत्यत्रत्य आकारः न पूर्वसवर्णदीर्घ इति पूर्वसवर्णदीर्घात्परत्वं सकारस्य नास्तीति न नत्वम् । यदि च "प्रथमयोः पूर्वसवर्णः' इत्यनेन प्रथमयोः प्रत्यययोः औजसोरेव पूर्वसवर्णदीर्घात्परो न भविष्यतीति किं तस्मादित्यनेन । तत्क्रियमाणं प्रथमयोरित्यनेन त्रिकद्वयमेव गृह्यत इति ज्ञापयति । अतः अम्शसोरपि पूर्वसवर्णदीर्घसिद्ध्या न कोऽपि दोषः । अथवा औजसोरेव पूर्वसवर्णदीर्घस्येष्टत्वे "औजसोः पूर्वसवर्ण' इत्येव सूत्रं कुर्यात् । तथा अकारणाच्च प्रथमयोस्त्रिकयोरेव ग्रहणमिति ज्ञापयतीति भावः । इत्युक्त्या चेत्यत्र चकारेम नत्वविधानं समुच्चीयते ।। इति प्रथमोऽध्यायः ।