जैमिनीयं ब्राह्मणम्/काण्डम् ३/३११-३२०

विकिस्रोतः तः
Jump to navigation Jump to search

प्रजापतिं प्रजास् ससृजानं मुखतः पाप्मासिनोत्। सो ऽकामयताप पाप्मानं हनीयेति। स एतं गायत्रमुखं प्रथमं त्रियहम् अपश्यत्। तेन मुखतः पाप्मानम् अपाहत। तं मध्यतो ऽसिनोत्। स एतं गायत्रमध्यं द्वितीयं त्रियहम् अपश्यत्। तेन मध्यतः पाप्मानम् अपाहत। तं पदोर् असिनोत्। स एतं गायत्रोत्तमं तृतीयं त्र्यहम् अपश्यत्। तेन पत्तः पाप्मानम् अपाहत। अप पाप्मानं हते य एवं वेद। स्वरान्तेन वै त्र्यहेण प्रजापतिर् मृत्योर् आत्मान् अत्रायत, निधनान्तेन प्रजाम्, इळान्तेन पशून्। एतावद् वावास्ति यद् आत्मा प्रजा पशवः। तद् यत् सद् अत्रायत तत् सत्रस्य सत्रत्वम् । त्रायत एनं सर्वस्मात् पाप्मनो य एवं वेद। स्वरान्तेन वै त्रियहेण प्राजपतिर् देवान् असृजत, निधनान्तेन पितॄन्, इळान्तेन मनुष्यान्। तद् यत् स्वरान्तेन देवान् असृजत तस्मात् ते ऽमृताः। अमृतेन हि तान् प्राणेनासृजत। अथ यन् निधनान्तेन पितॄन् असृजत तस्माद् उ ते निधनसंस्थाः। अथ यद् इळान्तेन मनुष्यान् असृजत - पशवो वा इळा - तस्माद् य एव पशुमान् भवति तं मनुष्या उपसमायन्ति॥3.311॥

अथ ह कबन्ध आथर्वणे केशी दार्भ्य उवास। अथ ह तर्हि समूढान्य् एव छन्दांस्य् आसुर् न व्यूढानि। तस्मै ह कबन्ध आथर्वणः केशिने दार्भ्यायैतं व्यूढछन्दसं द्वादशाहं प्रोवाच - त्रिर् एव गायत्रीं तर्पयतात् त्रिस् त्रिष्टुभं त्रिर् जगतीम्। तवैव प्रजाया अन्ये जीवितम् अभिध्यातारो, न तव प्रजा इति। तेन हेजे। ततो ह वा इदम् अर्वाचीनं व्यूढानि छन्दांसि। तस्माद् अनाढ्यानाम् अपि सतां पञ्चालानाम् अभ्य् एवान्ये जीवितं ध्यायन्ति। तस्यैतौ श्लोकौ -
कस्माद् ऊर्ध्वा भूमेर् यन्ति सर्गाः कस्मात् तिर्यञ्चो ऽन्व् अन्तरिक्षम्।
कस्माद् अर्वाञ्चो दिव उत्तरस्यै सूर्यस्य रश्मीन् अनु यन्ति सृष्टाः॥
गायत्री त्रिवृत वसाना सा त्रिष्टुभं नुनुदे ऽन्तरिक्षात्।
सा जगतीम् आयतनाद् दिवो ऽधि तस्माद् अर्वाञ्चः प्रवहन्ति सर्गाः॥3.312॥

वाग् वै यज्ञं ससृजाना साशनायत् सापिपासत्। तां देवा अर्वाग् यज्ञाहुत्यातितर्पयिषन्। तां नातर्पयन्। ताम् अर्वाक् सोमाहुतिहविर्यज्ञैर् अतितर्पयिषन्। तां नैवातर्पयन्। त एतं व्यूढच्छन्दसं द्वादशाहं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनां छन्दांसि भूतां प्रार्जन्। ता अन्यान्यस्मै भागाय धेनुपरिसारम् अतृप्यन्। तस्मात् पशवो ऽन्योन्यस्य भागाय धेनुपरिसारं तृप्यन्ति। सातृप्यत्। स य एवम् एतां वाचश् च छन्दसां च तृप्तिं वेद तृप्यत्य आत्मना तृप्यत्य् अस्य प्रजा। देवा वै देवाश्वान् देवरथेषु युक्त्वेमान् लोकान् अभ्यारोहन्। छन्दांसि वाव देवाश्वा, स्तोमा देवरथाः॥3.313॥

ते गायत्रीम् एव दक्षिणां युग्याम् अकुर्वत, त्रिष्टुभं सव्यां युग्यां, जगतीं सव्यां प्रष्टिम्। तेनेमं लोकम् अभ्यारोहन्। ते ऽब्रुवञ् ज्यायान् वा अध्वा विपर्यूहामेति। ते जगतीम् एव दक्षिणां युग्याम् अकुर्वत, गायत्रीं सव्यां युग्यां, त्रिष्टुभं सव्यां प्रष्टिम्। तेनेमम् अन्तरिक्षं लोकम् अभ्यारोहन्। ते ऽब्रुवञ् ज्यायान् वेवाध्वा व्य् एव पर्यूहामेति। ते त्रिष्टुभम् एव दक्षिणां युग्याम् अकुर्वत, जगतीं सव्यां युग्यां, गायत्रीं सव्यां प्रष्टिम्। तेनामुं लोकम् अभ्यारोहन्। एवं वै देवा देवाश्वान् देवरथेषु युक्त्वेमान् लोकान् अभ्यारोहन्। अभीमान् लोकान् आरोहति य एवं वेद॥3.314॥

या ह खलु वै सपदा छन्दस् सा प्रथमम् अहर् उद्यच्छति, विपदा द्वितीयं, नाना पदा तृतीयम्, अनुपदा चतुर्थम्, अतिपदा पञ्चमम्, अभिपदा षष्ठम्। गायत्री वै सपदा। त्रिपदा वै गायत्री। त्रये इमे लोकाः। त्रिष्टुब् विपदा, एकादशाक्षराणि हि तस्यै पदानि। जगती नानापदा, द्वादशाक्षराणि हि तस्यै पदानि। अनुष्टुब् अनुपदा। अनुपदा हि सा गायत्र्या अक्षरैः। अष्टाक्षराणि वै गायत्र्यै पदान्य् अष्टाक्षराण्य् अनुष्टुभः। पंक्तिर् अतिपदा, पञ्चपदा हि सा। अतिछन्दा अभिपदाः। न हि एतावन्ति कस्यै चनाक्षराणि॥3.315॥

प्रजापतिर् यद् बृहद्रथन्तरे ऽसृजत, स मन एवाग्रे बृहद् अअपश्यद्, वाचं रथन्तरम् अभि व्याहरत्। तद् यद् वाचं रथन्तरम् अभि व्याहरत् तस्माद् रथन्तरं पूर्वं योगम् आनशे। अथ यन् मनो ऽग्रे बृहद् अपश्यत् तस्माद् उ बृहद्रथन्तरे इत्य् आख्यायते। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद्, वाग् रथन्तरम्। ब्रह्म वै रथन्तरं, क्षत्रं बृहत्। तद् इदं मनो वाचम् अत्यमन्यत, क्षत्रं ब्रह्म। तद् इदं रथन्तरम् अवेद् अति वै मा मन्यतेति। तद् वैरूपम् असृजत। तेन पुरस्तात् पर्यवैत्। ते द्वे भूत्वात्यमन्येताम्। तद् इदं बृहद् अवेद् अति वै मा मन्यतेति। तद् वैराजम् असृजत। तेन पुरस्तात् पर्यवैत्। ते द्वे भूत्वात्यमन्येतां तद् इदं रथन्तरम् अवेद् अति वै मा मन्यतेति। तच् छाक्वरम् असृजत। तेन पुरस्तात् पर्यवैत्। तानि त्रीणि भूत्वात्यमन्यन्त। तद् इदं बृहद् अवेद् अति वै मा मन्यतेति। तद् रैवतम् असृजत। तेन पुरस्तात् पर्यवैत्। तानि त्रीणि भूत्वात्यमन्यन्त। ते ऽन्तम् अगच्छताम्। ते ऽवित्तां समे वै स्वो नान्यद् अन्यद् अतीति। तानि षट् पृष्ठान्य् आसंस्, त्रीणि छन्दांसि। तानीमानि त्रीणि छन्दांसि षट् पृष्ठानि नानुव्यभवन्॥3.316॥

सा गायत्र्य् अनुष्टुभम् असृजत सा चतुर्थम् अहर् उदयच्छत्। तया चतुर्थम् अहर् अकल्पत। त्रिष्टुप् पंक्तिम् असृजत। सा पञ्चमम् अहर् उदयच्छत्। तया पञ्चमम् अहर् अल्पत। तानि षट् पृष्ठान्य् आसन्, षट् छन्दांसि। तानि द्वन्द्वम् अकल्पन्त। द्वन्द्वम् अस्मै प्रजाः पशवः कल्पन्ते य एवं वेद। गायत्र्या वै प्रथमम् अहस् तायते, त्रिष्टुभा द्वितीयं, जगत्या तृतीयम्, अनुष्टुभा चतुर्थं, पंक्त्या पञ्चमम्, अतिछन्दसा षष्ठम्। तस्माद् अतिछन्दसष् षष्ठे ऽहनि शस्यन्ते। तद् यथा वर्षिष्ठेन गम्भिष्ठे गाधम् इच्छेतैवम् एव तद् देवा अतिछन्दोभिष् षष्ठे ऽहनि गाधम् ऐच्छन्त्। अथो वै तर्हीच्छन्ते ऽथो षष्ठस्यैवाह्नो व्याप्त्या, उत्तरस्यो एव त्र्यहस्य सन्तत्या अव्यवच्छेदाय॥3.317॥

आपो वा इदम् अग्रे महत् सलिलम् आसीत्। तस्मिन् प्रजापतिः प्रतिष्ठाम् ऐच्छत्। स एत वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तम् उपादधात्। इमम् एव लोकम् अस्मिन् सलिले ऽधि तम् अप्रथयत्। यद् अप्रथयत् तस्मात् पृथिवी। तस्मिन्न् अधि प्रत्यतिष्ठत्। तद् वै तम इवासीत्। रात्री ह्य् अह्न् उत्तरा। स एतत् त्रिवृतम् अग्निष्टोमम् अपश्यत्। तम् उपादधाद् इमम् एवाग्निम् अस्यां पृथिव्याम् अधि। तेन ज्योतिषेमान् लोकान् प्रापश्यत्। स एतान् अष्टाव् उक्थ्यान् अष्टातयान् पशून् दिशो ऽनुव्यतनोद् वामदेव्यम् अन्तरिक्षम्, आदित्यम् एव दशमम् अहर्, अमुम् एव लोकम् उत्तरम् अतिरात्रम्। स एतां व्याप्तिं व्याप्नोत्। इदं सर्वम् अभवत्। एताम् एव व्याप्तिं व्याप्नोतीदं सर्वं भवति य एवं वेद। ऋतवो वै पृष्ठ्यष् षडहो, अर्धमासा मासा अहोरात्राणि छन्दोमा, इमाव् एव लोकाव् अतिरात्रौ। अथ याव् एताव् अन्तराव् अग्निष्टोमाव् इन्द्राग्नी एव तौ। तद् यन् नेदीयस् सत् कनीयस्तोमं पूर्वम् अहस् तस्माद् अयम् अग्निर् नेदीयस् सन् म्रदीयस्(?) तपति। अथ यस्माद् दवीयस् सन् ज्यायस्तोमम् उत्तमम् अहस् तस्माद् असाव् आदित्यो दवीयस् सन्न् ओजीयस् तपति। यो वै सर्वं द्वादशाहम् आत्मानम् अभि संपद्यमानं वेद सर्व एनं कामा अभि संपद्यन्ते॥3.318॥

पदोर् एव प्रतिमा पूर्वो ऽतिरात्रः नव पुरुषे प्राणाः। स त्रिवृत्। त्रिवृत् प्रायणीयम् अहः। तेन तत् संपन्नम्। दश हस्त्या अंगुलयश् चत्वार्य् उरोर् बाह्वाणि। यद् ऊर्ध्वं नाभेस् तत् पञ्चदश। पञ्चदशं द्वितीयम् अहः । तेन तत् संपन्नम्। दश हस्त्या अङ्गुलयस्, सप्त शीर्षन् प्राणाः। तत् सप्तदश। सप्तदशं तृतीयम् अहस् तेन संपन्नम्। दश हस्त्या अंगुलयो दश पद्या आत्मैकविंशः। एकविंशं चतुर्थम् अहः। तेन तत् संपन्नम्। दश हस्त्या अङ्गुलयो, दश पद्या, सप्त शीर्षन् प्राणाः। तत् सप्तविंशतिः। सप्तविंशं पञ्चमम् अहः। तेन तत् संपन्नम्। दश हस्त्या अङ्गुलयो, दश पद्या, दश प्राणा, मनो वाग् घृदयं, तत् त्रयस्त्रिंशत्। त्रयस्त्रिंशं षष्ठम् अहः । तेन तत् संपन्नम्। प्राणा एव सप्तमम् अहर् गायत्रम्। चक्षुर् एवाष्टमम् अहस् त्रैष्टुभम्। श्रोत्रम् एव नवमम् अहर् जागतम्। वाग् एव दशमम् अहर् आनुष्टुभम्। अथ यद् ऊर्ध्वं श्रोत्राभ्यां तद् उत्तरो ऽतिरात्रः। प्राण एव पूर्वो ऽतिरात्र, उदान उत्तरः। तौ प्रायणीयोदयनीयाव् इति परोक्षम् आचक्षते। प्रति प्राणापानयोस् तिष्ठति, न प्राणापानाभ्यां व्यथते, सर्वम् आयुर् एत्य् , एवं वै सर्वो द्वादशाह आत्मानम् अभिसंपद्यते, सर्व एनं कामा अभिसंपद्यन्ते, य एवं वेद॥3.319॥

विषुवत्कं वा एतत् सत्रं यद् द्वादशाहः। स य एतस्य सत्रस्य विषुवन्तं वेद - श्रीर् वै विषुवान् - विषुवान् श्रेष्ठ स्वानां भवति। पुरुषो ह वा एतस्य सत्रस्य विषुवान्। पुरुषो ह्य् एषां लोकानां विषुवान्। इमे वै लोका एष द्वादशाहो, ऽहम् अस्य सत्रस्य विषुवान् अस्मीत्य् एव मन्यमान एतेन द्वादशाहेन यजेत। तस्य हैतस्मिन्न् एव सत्रे विषुवान् उपेतो भवति। स वा एषो ऽहन्न् एव प्रतिष्ठितः। प्रायणीयम् अहर् द्वितीयम् अहस् तृतीयम् अहर् इत्य् अहर् अहर् इति भवति। असौ वा आदित्यो ऽहः। एतम् एवैतेनर्ध्नुवन्त्य् एतस्य सलोकतां गच्छन्ति॥3.320॥